प्र॒जवव्ँ॒वा ए॒तेन॑ यन्ति॒ यद्द॑श॒ममहᳶ॑ पापाव॒हीयव्ँ॒वा ए॒तेन॑ भवन्ति॒ यद्द॑श॒ममह॒र्यो वै प्र॒जवय्ँ॑य॒तामप॑थेन प्रति॒पद्य॑ते॒ यस्स्था॒णुँ हन्ति॒ यो भ्रेष॒न्न्येति॒ स ही॑यते॒ स यो वै द॑श॒मेऽह॑न्नविवा॒क्य उ॑पह॒न्यते॒ स ही॑यते॒ तस्मै॒ य उप॑हताय॒ व्याह॒ तमे॒वान्वा॒रभ्य॒ सम॑श्ञु॒तेऽथ॒ यो व्याह॒ सः [1]
ही॒य॒ते॒ तस्मा॑द्दश॒मेऽह॑न्नविवा॒क्य उप॑हताय॒ न व्युच्य॒मथो॒ खल्वा॑हुर्य॒ज्ञस्य॒ वै समृ॑द्धेन दे॒वास्सु॑व॒र्गल्ँ लो॒कमा॑यन्‌य॒ज्ञस्य॒ व्यृ॑द्धे॒नासु॑रा॒न्परा॑भावय॒न्निति॒ यत्खलु॒ वै य॒ज्ञस्य॒ समृ॑द्ध॒न्तद्यज॑मानस्य॒ यद्व्यृ॑द्ध॒न्तद्भ्रातृ॑व्यस्य॒ स यो वै द॑श॒मेऽह॑न्नविवा॒क्य उ॑पह॒न्यते॒ स ए॒वाति॑ रेचयति॒ ते ये बाह्या॑ दृशी॒कवः॑ [2]
स्युस्ते वि ब्रू॑यु॒र्यदि॒ तत्र॒ न वि॒न्देयु॑रन्तस्सद॒साद्व्युच्यय्ँ॒यदि॒ तत्र॒ न वि॒न्देयु॑र्गृ॒हप॑तिना॒ व्युच्य॒न्तद्व्युच्य॑मे॒वाथ॒ वा ए॒तत्स॑र्परा॒ज्ञिया॑ ऋ॒ग्भिस्स्तु॑वन्ती॒यव्ँ वै सर्प॑तो॒ राज्ञी॒ यद्वा अ॒स्याङ्किञ्चार्च॑न्ति॒ यदा॑नृ॒चुस्तेने॒यँ स॑र्परा॒ज्ञी ते यदे॒व किञ्च॑ वा॒चानृ॒चुर्यद॒तोऽध्य॑र्चि॒तारः॑ [3]
तदु॒भय॑मा॒प्त्वाव॒रुध्योत्ति॑ष्ठा॒मेति॒ ताभि॒र्मन॑सा स्तुवते॒ न वा इ॒माम॑श्वर॒थो नाश्व॑तरीर॒थस्स॒द्यᳶ पर्या॑प्तुमर्हति॒ मनो॒ वा इ॒माँ स॒द्यᳶ पर्या॑प्तुमर्हति॒ मन॒ᳶ परि॑भवितु॒मथ॒ ब्रह्म॑ वदन्ति॒ परि॑मिता॒ वा ऋच॒ᳶ परि॑मितानि॒ सामा॑नि॒ परि॑मितानि॒ यजूँ॒ष्यथै॒तस्यै॒वान्तो॒ नास्ति॒ यद्ब्रह्म॒ तत्प्र॑तिगृण॒त आ च॑क्षीत॒ स प्र॑तिग॒रः ॥ [4]
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ किन्द्वा॑दशा॒हस्य॑ प्रथ॒मेनाह्न॒र्त्विजाय्ँ॒यज॑मानो वृङ्क्त॒ इति॒ तेज॑ इन्द्रि॒यमिति॒ किन्द्वि॒तीये॒नेति॑ प्रा॒णान॒न्नाद्य॒मिति॒ किन्तृ॒तीये॒नेति॒ त्रीनि॒माल्ँ लो॒कानिति॒ किञ्च॑तु॒र्थेनेति॒ चतु॑ष्पदᳶ प॒शूनिति॒ किम्प॑ञ्च॒मेनेति॒ पञ्चा॑क्षराम्प॒ङ्क्तिमिति॒ किँ ष॒ष्ठेनेति॒ षडृ॒तूनिति॒ किँ स॑प्त॒मेनेति॑ स॒प्तप॑दाँ॒ शक्व॑री॒मिति॑ [5]
किम॑ष्ट॒मेनेत्य॒ष्टाक्ष॑राङ्गाय॒त्रीमिति॒ किन्न॑व॒मेनेति॑ त्रि॒वृतँ॒ स्तोम॒मिति॒ किन्द॑श॒मेनेति॒ दशा॑क्षराव्ँवि॒राज॒मिति॒ किमे॑काद॒शेनेत्येका॑दशाक्षरान्त्रि॒ष्टुभ॒मिति॒ किन्द्वा॑द॒शेनेति॒ द्वाद॑शाक्षरा॒ञ्जग॑ती॒मित्ये॒ताव॒द्वा अ॑स्ति॒ याव॑दे॒तद्याव॑दे॒वास्ति॒ तदे॑षाव्ँवृङ्क्ते ॥ [6]
ए॒ष वा आ॒प्तो द्वा॑दशा॒हो यत्त्र॑योदशरा॒त्रस्स॑मा॒नँ ह्ये॑तदह॒र्यत्प्रा॑य॒णीय॑श्चोदय॒नीय॑श्च॒ त्र्य॑तिरात्रो भवति॒ त्रय॑ इ॒मे लो॒का ए॒षाल्ँ लो॒काना॒माप्त्यै॑ प्रा॒णो वै प्र॑थ॒मो॑ऽतिरा॒त्रो व्या॒नो द्वि॒तीयो॑ऽपा॒नस्तृ॒तीयᳶ॑ प्राणापानोदा॒नेष्वे॒वान्नाद्ये॒ प्रति॑ तिष्ठन्ति॒ सर्व॒मायु॑र्यन्ति॒ य ए॒वव्ँवि॒द्वाँ॑सस्त्रयोदशरा॒त्रमास॑ते॒ तदा॑हु॒र्वाग्वा ए॒षा वित॑ता [7]
यद्द्वा॑दशा॒हस्ताव्ँविच्छि॑न्द्यु॒र्यन्मध्ये॑ऽतिरा॒त्रङ्कु॒र्युरु॑प॒दासु॑का गृ॒हप॑ते॒र्वाक्स्या॑दु॒परि॑ष्टाच्छन्दो॒माना॑म्महाव्र॒तङ्कु॑र्वन्ति॒ सन्त॑तामे॒व वाच॒मव॑ रुन्द्ध॒तेऽनु॑पदासुका गृ॒हप॑ते॒र्वाग्भ॑वति प॒शवो॒ वै छ॑न्दो॒मा अन्न॑म्महाव्र॒तय्यँदु॒परि॑ष्टाच्छन्दो॒माना॑म्महाव्र॒तङ्कु॒र्वन्ति॑ प॒शुषु॑ चै॒वान्नाद्ये॑ च॒ प्रति॑ तिष्ठन्ति ॥ [8]
आ॒दि॒त्या अ॑कामयन्तो॒भयो॑र्लो॒कयो॑र्ऋध्नुया॒मेति॒ त ए॒तञ्च॑तुर्दशरा॒त्रम॑पश्य॒न्तमाह॑र॒न्तेना॑यजन्त॒ ततो॒ वै त उ॒भयो॑र्लो॒कयो॑रार्ध्नुवन्न॒स्मिँश्चा॒मुष्मिँ॑श्च॒ य ए॒वव्ँवि॒द्वाँस॑श्चतुर्दशरा॒त्रमास॑त उ॒भयो॑रे॒व लो॒कयो॑र्ऋध्नुवन्त्य॒स्मिँश्चा॒मुष्मिँ॑श्च चतुर्दशरा॒त्रो भ॑वति स॒प्त ग्रा॒म्या ओष॑धयस्स॒प्तार॒ण्या उ॒भयी॑षा॒मव॑रुद्ध्यै॒ यत्प॑रा॒चीना॑नि पृ॒ष्ठानि॑ [9]
भव॑न्त्य॒मुमे॒व तैर्लो॒कम॒भि ज॑यन्ति॒ यत्प्र॑ती॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्ती॒ममे॒व तैर्लो॒कम॒भि ज॑यन्ति त्रयस्त्रिँ॒शौ म॑ध्य॒तस्स्तोमौ॑ भवत॒स्साम्रा॑ज्यमे॒व ग॑च्छन्त्यधिरा॒जौ भ॑वतोऽधिरा॒जा ए॒व स॑मा॒नाना॑म्भवन्त्यतिरा॒त्राव॒भितो॑ भवत॒ᳶ परि॑गृहीत्यै ॥ [10]
प्र॒जाप॑तिस्सुव॒र्गल्ँ लो॒कमै॒त्तन्दे॒वा अन्वा॑य॒न्ताना॑दि॒त्याश्च॑ प॒शव॒श्चान्वा॑य॒न्ते दे॒वा अ॑ब्रुव॒न्‌यान्प॒शूनु॒पाजी॑विष्म॒ त इ॒मे॑ऽन्वाग्म॒न्निति॒ तेभ्य॑ ए॒तञ्च॑तुर्दशरा॒त्रम्प्रत्यौ॑ह॒न्त आ॑दि॒त्याᳶ पृ॒ष्ठैस्सु॑व॒र्गल्ँ लो॒कमारो॑हन्त्र्य॒हाभ्या॑म॒स्मिल्लोँ॒के प॒शून्प्रत्यौ॑हन्पृ॒ष्ठैरा॑दि॒त्या अ॒मुष्मिल्ँ॑ लो॒क आर्ध्नु॑वन्त्र्य॒हाभ्या॑म॒स्मिन् [11]
लो॒के प॒शवो॒ य ए॒वव्ँवि॒द्वाँस॑श्चतुर्दशरा॒त्रमास॑त उ॒भयो॑रे॒व लो॒कयो॑र्ऋध्नुवन्त्य॒स्मिँश्चा॒मुष्मिँ॑श्च पृ॒ष्ठैरे॒वामुष्मिल्ँ॑ लो॒क ऋ॑ध्नु॒वन्ति॑ त्र्य॒हाभ्या॑म॒स्मिल्लोँ॒के ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हो भ॑वती॒यव्ँ वाव ज्योति॑र॒न्तरि॑क्ष॒ङ्गौर॒सावायु॑रि॒माने॒व लो॒कान॒भ्यारो॑हन्ति॒ यद॒न्यतᳶ॑ पृ॒ष्ठानि॒ स्युर्विवि॑वधँ स्या॒न्मध्ये॑ पृ॒ष्ठानि॑ भवन्ति सविवध॒त्वाय॑ [12]
ओजो॒ वै वी॒र्य॑म्पृ॒ष्ठान्योज॑ ए॒व वी॒र्य॑म्मध्य॒तो द॑धते बृहद्रथन्त॒राभ्याय्ँ॑यन्ती॒यव्ँ वाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गल्ँ लो॒कय्ँय॑न्ति॒ परा॑ञ्चो॒ वा ए॒ते सु॑व॒र्गल्ँ लो॒कम॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्यङ्त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयो॑र्लो॒कयो॑र्ऋ॒द्ध्वोत्ति॑ष्ठन्ति॒ चतु॑र्दशै॒तास्तासाय्ँ॒या दश॒ दशा॑क्षरा वि॒राडन्नव्ँ॑वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्धते॒ याश्चत॑स्र॒श्चत॑स्रो॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठन्त्यतिरा॒त्राव॒भितो॑ भवत॒ᳶ परि॑गृहीत्यै ॥ [13]
इन्द्रो॒ वै स॒दृङ्दे॒वता॑भिरासी॒त्स न व्या॒वृत॑मगच्छ॒त्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तम्प॑ञ्चदशरा॒त्रम्प्राय॑च्छ॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै सो॑ऽन्याभि॑र्दे॒वता॑भिर्व्या॒वृत॑मगच्छ॒द्य ए॒वव्ँवि॒द्वाँसᳶ॑ पञ्चदशरा॒त्रमास॑ते व्या॒वृत॑मे॒व पा॒प्मना॒ भ्रातृ॑व्येण गच्छन्ति॒ ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हो भ॑वती॒यव्ँ वाव ज्योति॑र॒न्तरि॑क्षम् [14]
गौर॒सावायु॑रे॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठ॒न्त्यस॑त्त्रव्ँ॒वा ए॒तद्यद॑छन्दो॒मय्यँच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रन्दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वा वी॒र्य॑म्पृ॒ष्ठानि॑ प॒शव॑श्छन्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति पञ्चदशरा॒त्रो भ॑वति पञ्चद॒शो वज्रो॒ वज्र॑मे॒व भ्रातृ॑व्येभ्य॒ᳶ प्र ह॑रन्त्यतिरा॒त्राव॒भितो॑ भवत इन्द्रि॒यस्य॒ परि॑गृहीत्यै ॥ [15]
इन्द्रो॒ वै शि॑थि॒ल इ॒वाप्र॑तिष्ठित आसी॒त्सोऽसु॑रेभ्योऽबिभे॒त्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तम्प॑ञ्चदशरा॒त्रव्ँवज्र॒म्प्राय॑च्छ॒त्तेनासु॑रान्परा॒भाव्य॑ वि॒जित्य॒ श्रिय॑मगच्छदग्नि॒ष्टुता॑ पा॒प्मान॒न्निर॑दहत पञ्चदशरा॒त्रेणौजो॒ बल॑मिन्द्रि॒यव्ँवी॒र्य॑मा॒त्मन्न॑धत्त॒ य ए॒वव्ँवि॒द्वाँसᳶ॑ पञ्चदशरा॒त्रमास॑ते॒ भ्रातृ॑व्याने॒व प॑रा॒भाव्य॑ वि॒जित्य॒ श्रिय॑ङ्गच्छन्त्यग्नि॒ष्टुता॑ पा॒प्मान॒न्निः [16]
द॒ह॒न्ते॒ प॒ञ्च॒द॒श॒रा॒त्रेणौजो॒ बल॑मिन्द्रि॒यव्ँवी॒र्य॑मा॒त्मन्द॑धत ए॒ता ए॒व प॑श॒व्याः॑ पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑योऽर्धमास॒शस्सव्ँ॑वत्स॒र आ॑प्यते सव्ँवत्स॒रम्प॒शवोऽनु॒ प्र जा॑यन्ते॒ तस्मा॑त्पश॒व्या॑ ए॒ता ए॒व सु॑व॒र्ग्याः॑ पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑योऽर्धमास॒शस्सव्ँ॑वत्स॒र आ॑प्यते सव्ँवत्स॒रस्सु॑व॒र्गो लो॒कस्तस्मा॑त्सुव॒र्ग्या॑ ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हो भ॑वती॒यव्ँ वाव ज्योति॑र॒न्तरि॑क्षम् [17]
गौर॒सावायु॑रि॒माने॒व लो॒कान॒भ्यारो॑हन्ति॒ यद॒न्यतᳶ॑ पृ॒ष्ठानि॒ स्युर्विवि॑वधँ स्या॒न्मध्ये॑ पृ॒ष्ठानि॑ भवन्ति सविवध॒त्वायौजो॒ वै वी॒र्य॑म्पृ॒ष्ठान्योज॑ ए॒व वी॒र्य॑म्मध्य॒तो द॑धते बृहद्रथन्त॒राभ्याय्ँ॑यन्ती॒यव्ँ वाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गल्ँ लो॒कम् [18]
य॒न्ति॒ परा॑ञ्चो॒ वा ए॒ते सु॑व॒र्गल्ँ लो॒कम॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्यङ्त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयो॑र्लो॒कयो॑र्ऋ॒द्ध्वोत्ति॑ष्ठन्ति॒ पञ्च॑दशै॒तास्तासाय्ँ॒या दश॒ दशा॑क्षरा वि॒राडन्नव्ँ॑वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्धते॒ याᳶ पञ्च॒ पञ्च॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठन्त्यतिरा॒त्राव॒भितो॑ भवत इन्द्रि॒यस्य॑ वी॒र्य॑स्य प्र॒जायै॑ पशू॒नाम्परि॑गृहीत्यै ॥ [19]
प्र॒जाप॑तिरकामयतान्ना॒दस्स्या॒मिति॒ स ए॒तँ स॑प्तदशरा॒त्रम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै सो॑ऽन्ना॒दो॑ऽभव॒द्य ए॒वव्ँवि॒द्वाँस॑स्सप्तदशरा॒त्रमास॑तेऽन्ना॒दा ए॒व भ॑वन्ति पञ्चा॒हो भ॑वति॒ पञ्च॒ वा ऋ॒तव॑स्सव्ँवत्स॒र ऋ॒तुष्वे॒व सव्ँ॑वत्स॒रे प्रति॑ तिष्ठ॒न्त्यथो॒ पञ्चा॑क्षरा प॒ङ्क्तिᳶ पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्ध॒तेऽस॑त्त्रव्ँ॒वा ए॒तत् [20]
यद॑छन्दो॒मय्यँच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रन्दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्य॑म्पृ॒ष्ठानि॑ प॒शव॑श्छन्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति सप्तदशरा॒त्रो भ॑वति सप्तद॒शᳶ प्र॒जाप॑तिᳶ प्र॒जाप॑ते॒राप्त्या॑ अतिरा॒त्राव॒भितो॑ भवतो॒ऽन्नाद्य॑स्य॒ परि॑गृहीत्यै ॥ [21]
सा वि॒राड्वि॒क्रम्या॑तिष्ठ॒द्ब्रह्म॑णा दे॒वेष्वन्ने॒नासु॑रेषु॒ ते दे॒वा अ॑कामयन्तो॒भयँ॒ सव्ँवृ॑ञ्जीमहि॒ ब्रह्म॒ चान्न॒ञ्चेति॒ त ए॒ता विँ॑श॒तिँ रात्री॑रपश्य॒न्ततो॒ वै त उ॒भयँ॒ सम॑वृञ्जत॒ ब्रह्म॒ चान्न॑ञ्च ब्रह्मवर्च॒सिनो॑ऽन्ना॒दा अ॑भव॒न्‌य ए॒वव्ँवि॒द्वाँस॑ ए॒ता आस॑त उ॒भय॑मे॒व सव्ँवृ॑ञ्जते॒ ब्रह्म॒ चान्न॑ञ्च [22]
ब्र॒ह्म॒व॒र्च॒सिनो॑ऽन्ना॒दा भ॑वन्ति॒ द्वे वा ए॒ते वि॒राजौ॒ तयो॑रे॒व नाना॒ प्रति॑ तिष्ठन्ति विँ॒शो वै पुरु॑षो॒ दश॒ हस्त्या॑ अ॒ङ्गुल॑यो॒ दश॒ पद्या॒ यावा॑ने॒व पुरु॑ष॒स्तमा॒प्त्वोत्ति॑ष्ठन्ति॒ ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हा भ॑वन्ती॒यव्ँ वाव ज्योति॑र॒न्तरि॑क्ष॒ङ्गौर॒सावायु॑रि॒माने॒व लो॒कान॒भ्यारो॑हन्त्यभिपू॒र्वन्त्र्य॒हा भ॑वन्त्यभिपू॒र्वमे॒व सु॑व॒र्गम् [23]
लो॒कम॒भ्यारो॑हन्ति॒ यद॒न्यतᳶ॑ पृ॒ष्ठानि॒ स्युर्विवि॑वधँ स्या॒न्मध्ये॑ पृ॒ष्ठानि॑ भवन्ति सविवध॒त्वायौजो॒ वै वी॒र्य॑म्पृ॒ष्ठान्योज॑ ए॒व वी॒र्य॑म्मध्य॒तो द॑धते बृहद्रथन्त॒राभ्याय्ँ॑यन्ती॒यव्ँ वाव र॑थन्त॒रम॒सौ बृ॒हदाभ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गल्ँ लो॒कय्ँय॑न्ति॒ परा॑ञ्चो॒ वा ए॒ते सु॑व॒र्गल्ँ लो॒कम॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्यङ्त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयो॑र्लो॒कयो॑र्ऋ॒द्ध्वोत्ति॑ष्ठन्त्यतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒सस्या॒न्नाद्य॑स्य॒ परि॑गृहीत्यै ॥ [24]
अ॒सावा॑दि॒त्यो॑ऽस्मिल्लोँ॒क आ॑सी॒त्तन्दे॒वाᳶ पृ॒ष्ठैᳶ प॑रि॒गृह्य॑ सुव॒र्गल्ँ लो॒कम॑गमय॒न्परै॑र॒वस्ता॒त्पर्य॑गृह्णन्दिवाकी॒र्त्ये॑न सुव॒र्गे लो॒के प्रत्य॑स्थापय॒न्परैः॑ प॒रस्ता॒त्पर्य॑गृह्णन्पृ॒ष्ठैरु॒पावा॑रोह॒न्त्स वा अ॒सावा॑दि॒त्यो॑ऽमुष्मिल्ँ॑ लो॒के परै॑रुभ॒यत॒ᳶ परि॑गृहीतो॒ यत्पृ॒ष्ठानि॒ भव॑न्ति सुव॒र्गमे॒व तैर्लो॒कय्ँयज॑माना यन्ति॒ परै॑र॒वस्ता॒त्परि॑ गृह्णन्ति दिवाकी॒र्त्ये॑न [25]
सु॒व॒र्गे लो॒के प्रति॑ तिष्ठन्ति॒ परैः॑ प॒रस्ता॒त्परि॑ गृह्णन्ति पृ॒ष्ठैरु॒पाव॑रोहन्ति॒ यत्परे॑ प॒रस्ता॒न्न स्युᳶ परा॑ञ्चस्सुव॒र्गाल्लो॒कान्निष्प॑द्येर॒न्‌यद॒वस्ता॒न्न स्युᳶ प्र॒जा निर्द॑हेयुर॒भितो॑ दिवाकी॒र्त्य॑म्पर॑स्सामानो भवन्ति सुव॒र्ग ए॒वैना॑ल्लोँ॒क उ॑भ॒यत॒ᳶ परि॑ गृह्णन्ति॒ यज॑माना॒ वै दि॑वाकी॒र्त्यँ॑ सव्ँवत्स॒रᳶ पर॑स्सामानो॒ऽभितो॑ दिवाकी॒र्त्य॑म्पर॑स्सामानो भवन्ति सव्ँवत्स॒र ए॒वोभ॒यतः॑ [26]
प्रति॑ तिष्ठन्ति पृ॒ष्ठव्ँ वै दि॑वाकी॒र्त्य॑म्पा॒र्श्वे पर॑स्सामानो॒ऽभितो॑ दिवाकी॒र्त्य॑म्पर॑स्सामानो भवन्ति॒ तस्मा॑द॒भितᳶ॑ पृ॒ष्ठम्पा॒र्श्वे भूयि॑ष्ठा॒ ग्रहा॑ गृह्यन्ते॒ भूयि॑ष्ठँ शस्यते य॒ज्ञस्यै॒व तन्म॑ध्य॒तो ग्र॒न्थङ्ग्र॑थ्न॒न्त्यवि॑स्रँसाय स॒प्त गृ॑ह्यन्ते स॒प्त वै शी॑र्ष॒ण्याः॑ प्रा॒णाᳶ प्रा॒णाने॒व यज॑मानेषु दधति॒ यत्प॑रा॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्त्य॒मुमे॒व तैर्लो॒कम॒भ्यारो॑हन्ति॒ यदि॒मल्ँ लो॒कन्न [27]
प्र॒त्य॒व॒रोहे॑यु॒रुद्वा॒ माद्ये॑यु॒र्यज॑माना॒ᳶ प्र वा॑ मीयेर॒न्‌यत्प्र॑ती॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्ती॒ममे॒व तैर्लो॒कम्प्र॒त्यव॑रोह॒न्त्यथो॑ अ॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठ॒न्त्यनु॑न्मादा॒येन्द्रो॒ वा अप्र॑तिष्ठित आसी॒त्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तमे॑कविँशतिरा॒त्रम्प्राय॑च्छ॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै स प्रत्य॑तिष्ठ॒द्ये ब॑हुया॒जिनोऽप्र॑तिष्ठिताः [28]
स्युस्त ए॑कविँशतिरा॒त्रमा॑सीर॒न्द्वाद॑श॒ मासा॒ᳶ पञ्च॒र्तव॒स्त्रय॑ इ॒मे लो॒का अ॒सावा॑दि॒त्य ए॑कविँ॒श ए॒ताव॑न्तो॒ वै दे॑वलो॒कास्तेष्वे॒व य॑थापू॒र्वम्प्रति॑ तिष्ठन्त्य॒सावा॑दि॒त्यो न व्य॑रोचत॒ स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तमे॑कविँशतिरा॒त्रम्प्राय॑च्छ॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै सो॑ऽरोचत॒ य ए॒वव्ँवि॒द्वाँ॑स एकविँशतिरा॒त्रमास॑ते॒ रोच॑न्त ए॒वैक॑विँशतिरा॒त्रो भ॑वति॒ रुग्वा ए॑कविँ॒शो रुच॑मे॒व ग॑च्छ॒न्त्यथो॑ प्रति॒ष्ठामे॒व प्र॑ति॒ष्ठा ह्ये॑कविँ॒शो॑ऽतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ॥ [29]
अ॒र्वाङ्य॒ज्ञस्सङ्क्रा॑मत्व॒मुष्मा॒दधि॒ माम॒भि । ऋषी॑णाय्ँ॒यᳶ पु॒रोहि॑तः । निर्दे॑व॒न्निर्वी॑रङ्कृ॒त्वा विष्क॑न्ध॒न्तस्मि॑न्‌हीयताय्ँ॒यो॑ऽस्मान्द्वेष्टि॑ । शरी॑रय्ँ यज्ञशम॒लङ्कुसी॑द॒न्तस्मि॑न्त्सीदतु॒ यो॑ऽस्मान्द्वेष्टि॑ । यज्ञ॑ य॒ज्ञस्य॒ यत्तेज॒स्तेन॒ सङ्क्रा॑म॒ माम॒भि । ब्रा॒ह्म॒णानृ॒त्विजो॑ दे॒वान्‌य॒ज्ञस्य॒ तप॑सा॒ ते सवा॒हमा हु॑वे । इ॒ष्टेन॑ प॒क्वमुप॑ [30]
ते॒ हु॒वे॒ स॒वा॒हम् । सन्ते॑ वृञ्जे सुकृ॒तँ सम्प्र॒जाम्प॒शून् । प्रै॒षान्त्सा॑मिधे॒नीरा॑घा॒रावाज्य॑भागा॒वाश्रु॑तम्प्र॒त्याश्रु॑त॒मा शृ॑णामि ते । प्र॒या॒जा॒नू॒या॒जान्त्स्वि॑ष्ट॒कृत॒मिडा॑मा॒शिष॒ आ वृ॑ञ्जे॒ सुवः॑ । अ॒ग्निनेन्द्रे॑ण॒ सोमे॑न॒ सर॑स्वत्या॒ विष्णु॑ना दे॒वता॑भिः । या॒ज्या॒नु॒वा॒क्या॑भ्या॒मुप॑ ते हुवे सवा॒हय्ँ य॒ज्ञमा द॑दे ते॒ वष॑ट्कृतम् । स्तु॒तँ श॒स्त्रम्प्र॑तिग॒रङ्ग्रह॒मिडा॑मा॒शिषः॑ [31]
आ वृ॑ञ्जे॒ सुवः॑ । प॒त्नी॒सय्ँ॒या॒जानुप॑ ते हुवे सवा॒हँ स॑मिष्टय॒जुरा द॑दे॒ तव॑ । प॒शून्त्सु॒तम्पु॑रो॒डाशा॒न्त्सव॑ना॒न्योत य॒ज्ञम् । दे॒वान्त्सेन्द्रा॒नुप॑ ते हुवे सवा॒हम॒ग्निमु॑खा॒न्त्सोम॑वतो॒ ये च॒ विश्वे॑ ॥ [32]
भू॒तम्भव्य॑म्भवि॒ष्यद्वष॒ट्त्स्वाहा॒ नम॒ ऋक्साम॒ यजु॒र्वष॒ट्त्स्वाहा॒ नमो॑ गाय॒त्री त्रि॒ष्टुब्जग॑ती॒ वष॒ट्त्स्वाहा॒ नमᳶ॑ पृथि॒व्य॑न्तरि॑क्ष॒न्द्यौर्वष॒ट्त्स्वाहा॒ नमो॒ऽग्निर्वा॒युस्सूर्यो॒ वष॒ट्त्स्वाहा॒ नमᳶ॑ प्रा॒णो व्या॒नो॑ऽपा॒नो वष॒ट्त्स्वाहा॒ नमोऽन्न॑ङ्कृ॒षिर्वृष्टि॒र्वष॒ट्त्स्वाहा॒ नमᳶ॑ पि॒ता पु॒त्रᳶ पौत्रो॒ वष॒ट्त्स्वाहा॒ नमो॒ भूर्भुव॒स्सुव॒र्वष॒ट्त्स्वाहा॒ नमः॑ ॥ [33]
आ मे॑ गृ॒हा भ॑व॒न्त्वा प्र॒जा म॒ आ मा॑ य॒ज्ञो वि॑शतु वी॒र्या॑वान् । आपो॑ दे॒वीर्य॒ज्ञिया॒ मा वि॑शन्तु स॒हस्र॑स्य मा भू॒मा मा प्र हा॑सीत् । आ मे॒ ग्रहो॑ भव॒त्वा पु॑रो॒रुक्स्तु॑तश॒स्त्रे मा वि॑शताँ स॒मीची॑ । आ॒दि॒त्या रु॒द्रा वस॑वो मे सद॒स्याः॑ स॒हस्र॑स्य मा भू॒मा मा प्र हा॑सीत् । आ मा॑ग्निष्टो॒मो वि॑शतू॒क्थ्य॑श्चातिरा॒त्रो मा वि॑शत्वापिशर्व॒रः । ति॒रोअ॑ह्निया मा॒ सुहु॑ता॒ आ वि॑शन्तु स॒हस्र॑स्य मा भू॒मा मा॒ प्र हा॑सीत् ॥ [34]
अ॒ग्निना॒ तपोऽन्व॑भवद्वा॒चा ब्रह्म॑ म॒णिना॑ रू॒पाणीन्द्रे॑ण दे॒वान्‌वाते॑न प्रा॒णान्त्सूर्ये॑ण॒ द्याञ्च॒न्द्रम॑सा॒ नक्ष॑त्राणि य॒मेन॑ पितॄन्राज्ञा॑ मनु॒ष्या॑न्फ॒लेन॑ नादे॒यान॑जग॒रेण॑ स॒र्पान्व्या॒घ्रेणा॑र॒ण्यान्प॒शूञ्छ्ये॒नेन॑ पत॒त्रिणो॒ वृष्णाश्वा॑नृष॒भेण॒ गा ब॒स्तेना॒जा वृ॒ष्णिनावी॑र्व्री॒हिणान्ना॑नि॒ यवे॒नौष॑धीर्न्य॒ग्रोधे॑न॒ वन॒स्पती॑नुदु॒म्बरे॒णोर्ज॑ङ्गायत्रि॒या छन्दाँ॑सि त्रि॒वृता॒ स्तोमा॑न्ब्राह्म॒णेन॒ वाच॑म् ॥ [35]
स्वाहा॒धिमाधी॑ताय॒ स्वाहा॒ स्वाहाधी॑त॒म्मन॑से॒ स्वाहा॒ स्वाहा॒ मनᳶ॑ प्र॒जाप॑तये॒ स्वाहा॒ काय॒ स्वाहा॒ कस्मै॒ स्वाहा॑ कत॒मस्मै॒ स्वाहाऽदि॑त्यै॒ स्वाहाऽदि॑त्यै म॒ह्यै॑ स्वाहाऽदि॑त्यै सुमृडी॒कायै॒ स्वाहा॒ सर॑स्वत्यै॒ स्वाहा॒ सर॑स्वत्यै बृह॒त्यै॑ स्वाहा॒ सर॑स्वत्यै पाव॒कायै॒ स्वाहा॑ पू॒ष्णे स्वाहा॑ पू॒ष्णे प्र॑प॒थ्या॑य॒ स्वाहा॑ पू॒ष्णे न॒रन्धि॑षाय॒ स्वाहा॒ त्वष्ट्रे॒ स्वाहा॒ त्वष्ट्रे॑ तु॒रीपा॑य॒ स्वाहा॒ त्वष्ट्रे॑ पुरु॒रूपा॑य॒ स्वाहा॒ विष्ण॑वे॒ स्वाहा॒ विष्ण॑वे निखुर्य॒पाय॒ स्वाहा॒ विष्ण॑वे निभूय॒पाय॒ स्वाहा॒ सर्वस्मै॒ स्वाहा॑ ॥ [36]
द॒द्भ्यस्स्वाहा॒ हनू॑भ्याँ॒ स्वाहोष्ठा॑भ्याँ॒ स्वाहा॒ मुखा॑य॒ स्वाहा॒ नासि॑काभ्याँ॒ स्वाहा॒ऽक्षीभ्याँ॒ स्वाहा॒ कर्णा॑भ्याँ॒ स्वाहा॑ पा॒र इ॒क्षवो॑ऽवा॒र्ये॑भ्य॒ᳶ पक्ष्म॑भ्य॒स्स्वाहा॑ऽवा॒र इ॒क्षवᳶ॑ पा॒र्ये॑भ्य॒ᳶ पक्ष्म॑भ्य॒स्स्वाहा॑ शी॒र्ष्णे स्वाहा॑ भ्रू॒भ्याँ स्वाहा॑ ल॒लाटा॑य॒ स्वाहा॑ मू॒र्ध्ने स्वाहा॑ म॒स्तिष्का॑य॒ स्वाहा॒ केशे॑भ्य॒स्स्वाहा॒ वहा॑य॒ स्वाहा॑ ग्री॒वाभ्य॒स्स्वाहा॑ स्क॒न्धेभ्य॒स्स्वाहा॒ कीक॑साभ्य॒स्स्वाहा॑ पृ॒ष्टीभ्य॒स्स्वाहा॑ पाज॒स्या॑य॒ स्वाहा॑ पा॒र्श्वाभ्याँ॒ स्वाहा॑ [37]
अँसा॑भ्याँ॒ स्वाहा॑ दो॒षभ्याँ॒ स्वाहा॑ बा॒हुभ्याँ॒ स्वाहा॒ जङ्घा॑भ्याँ॒ स्वाहा॒ श्रोणी॑भ्याँ॒ स्वाहो॒रुभ्याँ॒ स्वाहाऽ॑ष्ठी॒वद्भ्याँ॒ स्वाहा॒ जङ्घा॑भ्याँ॒ स्वाहा॑ भ॒सदे॒ स्वाहा॑ शिख॒ण्डेभ्य॒स्स्वाहा॑ वाल॒धाना॑य॒ स्वाहा॒ण्डाभ्याँ॒ स्वाहा॒ शेपा॑य॒ स्वाहा॒ रेत॑से॒ स्वाहा॑ प्र॒जाभ्य॒स्स्वाहा॑ प्र॒जन॑नाय॒ स्वाहा॑ प॒द्भ्यस्स्वाहा॑ श॒फेभ्य॒स्स्वाहा॒ लोम॑भ्य॒स्स्वाहा॑ त्व॒चे स्वाहा॒ लोहि॑ताय॒ स्वाहा॑ माँ॒साय॒ स्वाहा॒ स्नाव॑भ्य॒स्स्वाहा॒ऽस्थभ्य॒स्स्वाहा॑ म॒ज्जभ्य॒स्स्वाहाऽङ्गे॑भ्य॒स्स्वाहा॒त्मने॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ [38]
अ॒ञ्ज्ये॒ताय॒ स्वाहा॑ञ्जिस॒क्थाय॒ स्वाहा॑ शिति॒पदे॒ स्वाहा॒ शिति॑ककुदे॒ स्वाहा॑ शिति॒रन्ध्रा॑य॒ स्वाहा॑ शितिपृ॒ष्ठाय॒ स्वाहा॑ शि॒त्यँसा॑य॒ स्वाहा॑ पुष्प॒कर्णा॑य॒ स्वाहा॑ शि॒त्योष्ठा॑य॒ स्वाहा॑ शिति॒भ्रवे॒ स्वाहा॒ शिति॑भसदे॒ स्वाहा॑ श्वे॒तानू॑काशाय॒ स्वाहा॒ञ्जये॒ स्वाहा॑ ल॒लामा॑य॒ स्वाहाऽसि॑तज्ञवे॒ स्वाहा॑ कृष्णै॒ताय॒ स्वाहा॑ रोहितै॒ताय॒ स्वाहा॑रुणै॒ताय॒ स्वाहे॒दृशा॑य॒ स्वाहा॑ की॒दृशा॑य॒ स्वाहा॑ ता॒दृशा॑य॒ स्वाहा॑ स॒दृशा॑य॒ स्वाहा॒ विस॑दृशाय॒ स्वाहा॒ सुस॑दृ॒शाय॒ स्वाहा॑ रू॒पाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ [39]
कृ॒ष्णाय॒ स्वाहा॑ श्वे॒ताय॒ स्वाहा॑ पि॒शङ्गा॑य॒ स्वाहा॑ सा॒रङ्गा॑य॒ स्वाहा॑ऽरु॒णाय॒ स्वाहा॑ गौ॒राय॒ स्वाहा॑ ब॒भ्रवे॒ स्वाहा॑ नकु॒लाय॒ स्वाहा॒ रोहि॑ताय॒ स्वाहा॒ शोणा॑य॒ स्वाहा॑ श्या॒वाय॒ स्वाहा॑ श्या॒माय॒ स्वाहा॑ पाक॒लाय॒ स्वाहा॑ सुरू॒पाय॒ स्वाहानु॑रूपाय॒ स्वाहा॒ विरू॑पाय॒ स्वाहा॒ सरू॑पाय॒ स्वाहा॒ प्रति॑रूपाय॒ स्वाहा॑ श॒बला॑य॒ स्वाहा॑ कम॒लाय॒ स्वाहा॒ पृश्ञ॑ये॒ स्वाहा॑ पृश्ञिस॒क्थाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ [40]
ओष॑धीभ्य॒स्स्वाहा॒ मूले॑भ्य॒स्स्वाहा॒ तूले॑भ्य॒स्स्वाहा॒ काण्डे॑भ्य॒स्स्वाहा॒ वल्‌शे॑भ्य॒स्स्वाहा॒ पुष्पे॑भ्य॒स्स्वाहा॒ फले॑भ्य॒स्स्वाहा॑ गृही॒तेभ्य॒स्स्वाहाऽगृ॑हीतेभ्य॒स्स्वाहाऽव॑पन्नेभ्य॒स्स्वाहा॒ शया॑नेभ्य॒स्स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ [41]
वन॒स्पति॑भ्य॒स्स्वाहा॒ मूले॑भ्य॒स्स्वाहा॒ तूले॑भ्य॒स्स्वाहा॒ स्कन्धो॑भ्य॒स्स्वाहा॒ शाखा॑भ्य॒स्स्वाहा॑ प॒र्णेभ्य॒स्स्वाहा॒ पुष्पे॑भ्य॒स्स्वाहा॒ फले॑भ्य॒स्स्वाहा॑ गृही॒तेभ्य॒स्स्वाहाऽगृ॑हीतेभ्य॒स्स्वाहाऽव॑पन्नेभ्य॒स्स्वाहा॒ शया॑नेभ्य॒स्स्वाहा॑ शि॒ष्टाय॒ स्वाहाति॑शिष्टाय॒ स्वाहा॒ परि॑शिष्टाय॒ स्वाहा॒ सँशि॑ष्टाय॒ स्वाहोच्छि॑ष्टाय॒ स्वाहा॑ रि॒क्ताय॒ स्वाहाऽरि॑क्ताय॒ स्वाहा॒ प्ररि॑क्ताय॒ स्वाहा॒ सँरि॑क्ताय॒ स्वाहोद्रि॑क्ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ [42]