सा॒ध्या वै दे॒वास्सु॑व॒र्गका॑मा ए॒तँ ष॑ड्रा॒त्रम॑पश्य॒न्तमाह॑र॒न्तेना॑यजन्त॒ ततो॒ वै ते सु॑व॒र्गल्ँ लो॒कमा॑य॒न्‌य ए॒वव्ँवि॒द्वाँस॑ष्षड्रा॒त्रमास॑ते सुव॒र्गमे॒व लो॒कय्ँय॑न्ति देवस॒त्त्रव्ँ वै ष॑ड्रा॒त्रᳶ प्र॒त्यक्षँ॒ ह्ये॑तानि॑ पृ॒ष्ठानि॒ य ए॒वव्ँवि॒द्वाँस॑ष्षड्रा॒त्रमास॑ते सा॒क्षादे॒व दे॒वता॑ अ॒भ्यारो॑हन्ति षड्रा॒त्रो भ॑वति॒ षड्वा ऋ॒तव॒ष्षट्पृ॒ष्ठानि॑ [1]
पृ॒ष्ठैरे॒वर्तून॒न्वारो॑हन्त्यृ॒तुभि॑स्सव्ँवत्स॒रन्ते सव्ँ॑वत्स॒र ए॒व प्रति॑ तिष्ठन्ति बृहद्रथन्त॒राभ्याय्ँ॑यन्ती॒यव्ँ वाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गल्ँ लो॒कय्ँय॑न्ति त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒ तेज॑ ए॒वाव॑ रुन्धते पञ्चद॒शो भ॑वतीन्द्रि॒यमे॒वाव॑ रुन्धते सप्तद॒शः [2]
भ॒व॒त्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायन्त एकविँ॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्द॑धते त्रिण॒वो भ॑वति॒ विजि॑त्यै त्रयस्त्रिँ॒शो भ॑वति॒ प्रति॑ष्ठित्यै सदोहविर्धा॒निन॑ ए॒तेन॑ षड्रा॒त्रेण॑ यजेर॒न्नाश्व॑त्थी हवि॒र्धान॒ञ्चाग्नी॑ध्रञ्च भवत॒स्तद्धि सु॑व॒र्ग्य॑ञ्च॒क्रीव॑ती भवतस्सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्या उ॒लूख॑लबुध्नो॒ यूपो॑ भवति॒ प्रति॑ष्ठित्यै॒ प्राञ्चो॑ यान्ति॒ प्राङि॑व॒ हि सु॑व॒र्गः [3]
लो॒कस्सर॑स्वत्या यान्त्ये॒ष वै दे॑व॒यान॒ᳶ पन्था॒स्तमे॒वान्वारो॑हन्त्या॒क्रोश॑न्तो या॒न्त्यव॑र्तिमे॒वान्यस्मि॑न्प्रति॒षज्य॑ प्रति॒ष्ठाङ्ग॑च्छन्ति य॒दा दश॑ श॒तङ्कु॒र्वन्त्यथैक॑मु॒त्थानँ॑ श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठन्ति य॒दा श॒तँ स॒हस्र॑ङ्कु॒र्वन्त्यथैक॑मु॒त्थानँ॑ स॒हस्र॑सम्मितो॒ वा अ॒सौ लो॒को॑ऽमुमे॒व लो॒कम॒भि ज॑यन्ति य॒दैषा॑म्प्र॒मीये॑त य॒दा वा॒ जीये॑र॒न्नथैक॑मु॒त्थान॒न्तद्धि ती॒र्थम् ॥ [4]
कु॒सु॒रु॒बिन्द॒ औद्दा॑लकिरकामयत पशु॒मान्त्स्या॒मिति॒ स ए॒तँ स॑प्तरा॒त्रमाह॑र॒त्तेना॑यजत॒ तेन॒ वै स याव॑न्तो ग्रा॒म्याᳶ प॒शव॒स्तानवा॑रुन्द्ध॒ य ए॒वव्ँवि॒द्वान्त्स॑प्तरा॒त्रेण॒ यज॑ते॒ याव॑न्त ए॒व ग्रा॒म्याᳶ प॒शव॒स्ताने॒वाव॑ रुन्द्धे सप्तरा॒त्रो भ॑वति स॒प्त ग्रा॒म्याᳶ प॒शव॑स्स॒प्तार॒ण्यास्स॒प्त छन्दाँ॑स्यु॒भय॒स्याव॑रुद्ध्यै त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒ तेजः॑ [5]
ए॒वाव॑ रुन्द्धे पञ्चद॒शो भ॑वतीन्द्रि॒यमे॒वाव॑ रुन्द्धे सप्तद॒शो भ॑वत्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायत एकविँ॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्ध॑त्ते त्रिण॒वो भ॑वति॒ विजि॑त्यै पञ्चविँ॒शो॑ऽग्निष्टो॒मो भ॑वति प्र॒जाप॑ते॒राप्त्यै॑ महाव्र॒तवा॑न॒न्नाद्य॒स्याव॑रुद्ध्यै विश्व॒जित्सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति॒ सर्व॑स्या॒भिजि॑त्यै॒ यत्प्र॒त्यक्ष॒म्पूर्वे॒ष्वह॑स्सु पृ॒ष्ठान्यु॑पे॒युᳶ प्र॒त्यक्ष॑म् [6]
वि॒श्व॒जिति॒ यथा॑ दु॒ग्धामु॑प॒सीद॑त्ये॒वमु॑त्त॒ममह॑स्स्या॒न्नैक॑रा॒त्रश्च॒न स्या॑द्बृहद्रथन्त॒रे पूर्वे॒ष्वह॒स्सूप॑ यन्ती॒यव्ँ वाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व न य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्ति॒ यत्प्र॒त्यक्षव्ँ॑विश्व॒जिति॑ पृ॒ष्ठान्यु॑प॒यन्ति॒ यथा॒ प्रत्ता॑न्दु॒हे ता॒दृगे॒व तत् ॥ [7]
बृह॒स्पति॑रकामयत ब्रह्मवर्च॒सी स्या॒मिति॒ स ए॒तम॑ष्टरा॒त्रम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै स ब्र॑ह्मवर्च॒स्य॑भव॒द्य ए॒वव्ँवि॒द्वान॑ष्टरा॒त्रेण॒ यज॑ते ब्रह्मवर्च॒स्ये॑व भ॑वत्यष्टरा॒त्रो भ॑वत्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सङ्गा॑यत्रि॒यैव ब्र॑ह्मवर्च॒समव॑ रुन्द्धेऽष्टरा॒त्रो भ॑वति॒ चत॑स्रो॒ वै दिश॒श्चत॑स्रोऽवान्तरदि॒शा दि॒ग्भ्य ए॒व ब्र॑ह्मवर्च॒समव॑ रुन्द्धे [8]
त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒ तेज॑ ए॒वाव॑ रुन्द्धे पञ्चद॒शो भ॑वतीन्द्रि॒यमे॒वाव॑ रुन्द्धे सप्तद॒शो भ॑वत्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायत एकविँ॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्ध॑त्ते त्रिण॒वो भ॑वति॒ विजि॑त्यै त्रयस्त्रिँ॒शो भ॑वति॒ प्रति॑ष्ठित्यै पञ्चविँ॒शो॑ऽग्निष्टो॒मो भ॑वति प्र॒जाप॑ते॒राप्त्यै॑ महाव्र॒तवा॑न॒न्नाद्य॒स्याव॑रुद्ध्यै विश्व॒जित्सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति॒ सर्व॑स्या॒भिजि॑त्यै ॥ [9]
प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत॒ तास्सृ॒ष्टाः क्षुध॒न्न्या॑य॒न्त्स ए॒तन्न॑वरा॒त्रम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै प्र॒जाभ्यो॑ऽकल्पत॒ यर्हि॑ प्र॒जाः क्षुध॑न्नि॒गच्छे॑यु॒स्तर्हि॑ नवरा॒त्रेण॑ यजेते॒मे हि वा ए॒तासाल्ँ॑ लो॒का अकॢ॑प्ता॒ अथै॒ताः क्षुध॒न्नि ग॑च्छन्ती॒माने॒वाभ्यो॑ लो॒कान्क॑ल्पयति॒ तान्कल्प॑मानान्प्र॒जाभ्योऽनु॑ कल्पते॒ कल्प॑न्ते [10]
अ॒स्मा॒ इ॒मे लो॒का ऊर्ज॑म्प्र॒जासु॑ दधाति त्रिरा॒त्रेणै॒वेमल्ँ लो॒कङ्क॑ल्पयति त्रिरा॒त्रेणा॒न्तरि॑क्षन्त्रिरा॒त्रेणा॒मुल्ँ लो॒कय्ँयथा॑ गु॒णे गु॒णम॒न्वस्य॑त्ये॒वमे॒व तल्लो॒के लो॒कमन्व॑स्यति॒ धृत्या॒ अशि॑थिलम्भावाय॒ ज्योति॒र्गौरायु॒रिति॑ ज्ञा॒तास्स्तोमा॑ भवन्ती॒यव्ँ वाव ज्योति॑र॒न्तरि॑क्ष॒ङ्गौर॒सावायु॑रे॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठन्ति॒ ज्ञात्र॑म्प्र॒जाना॑म् [11]
ग॒च्छ॒ति॒ न॒व॒रा॒त्रो भ॑वत्यभिपू॒र्वमे॒वास्मि॒न्तेजो॑ दधाति॒ यो ज्योगा॑मयावी॒ स्यात्स न॑वरा॒त्रेण॑ यजेत प्रा॒णा हि वा ए॒तस्याधृ॑ता॒ अथै॒तस्य॒ ज्योगा॑मयति प्रा॒णाने॒वास्मि॑न्दाधारो॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व ॥ [12]
प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॒ स ए॒तन्दश॑होतारमपश्य॒त्तम॑जुहो॒त्तेन॑ दशरा॒त्रम॑सृजत॒ तेन॑ दशरा॒त्रेण॒ प्राजा॑यत दशरा॒त्राय॑ दीक्षि॒ष्यमा॑णो॒ दश॑होतारञ्जुहुया॒द्दश॑होत्रै॒व द॑शरा॒त्रँ सृ॑जते॒ तेन॑ दशरा॒त्रेण॒ प्र जा॑यते वैरा॒जो वा ए॒ष य॒ज्ञो यद्द॑शरा॒त्रो य ए॒वव्ँवि॒द्वान्द॑शरा॒त्रेण॒ यज॑ते वि॒राज॑मे॒व ग॑च्छति प्राजाप॒त्यो वा ए॒ष य॒ज्ञो यद्द॑शरा॒त्रः [13]
य ए॒वव्ँवि॒द्वान्द॑शरा॒त्रेण॒ यज॑ते॒ प्रैव जा॑यत॒ इन्द्रो॒ वै स॒दृङ्दे॒वता॑भिरासी॒त्स न व्या॒वृत॑मगच्छ॒त्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तन्द॑शरा॒त्रम्प्राय॑च्छ॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै सो॑ऽन्याभि॑र्दे॒वता॑भिर्व्या॒वृत॑मगच्छ॒द्य ए॒वव्ँवि॒द्वान्द॑शरा॒त्रेण॒ यज॑ते व्या॒वृत॑मे॒व पा॒प्मना॒ भ्रातृ॑व्येण गच्छति त्रिक॒कुद्वै [14]
ए॒ष य॒ज्ञो यद्द॑शरा॒त्रᳵ क॒कुत्प॑ञ्चद॒शᳵ क॒कुदे॑कविँ॒शᳵ क॒कुत्त्र॑यस्त्रिँ॒शो य ए॒वव्ँवि॒द्वान्द॑शरा॒त्रेण॒ यज॑ते त्रिक॒कुदे॒व स॑मा॒नाना॑म्भवति॒ यज॑मानᳶ पञ्चद॒शो यज॑मान एकविँ॒शो यज॑मानस्त्रयस्त्रिँ॒शᳶ पुर॒ इत॑रा अभिच॒र्यमा॑णो दशरा॒त्रेण॑ यजेत देवपु॒रा ए॒व पर्यू॑हते॒ तस्य॒ न कुत॑श्च॒नोपा॑व्या॒धो भ॑वति॒ नैन॑मभि॒चर॑न्त्स्तृणुते देवासु॒रास्सय्ँय॑त्ता आस॒न्ते दे॒वा ए॒ताः [15]
दे॒व॒पु॒रा अ॑पश्य॒न्‌यद्द॑शरा॒त्रस्ताᳶ पर्यौ॑हन्त॒ तेषा॒न्न कुत॑श्च॒नोपा॑व्या॒धो॑ऽभव॒त्ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यो भ्रातृ॑व्यवा॒न्त्स्यात्स द॑शरा॒त्रेण॑ यजेत देवपु॒रा ए॒व पर्यू॑हते॒ तस्य॒ न कुत॑श्च॒नोपा॑व्या॒धो भ॑वति॒ भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति॒ स्तोम॒स्स्तोम॒स्योप॑स्तिर्भवति॒ भ्रातृ॑व्यमे॒वोप॑स्तिङ्कुरुते जा॒मि वै [16]
ए॒तत्कु॑र्वन्ति॒ यज्ज्यायाँ॑सँ॒ स्तोम॑मु॒पेत्य॒ कनी॑याँसमुप॒यन्ति॒ यद॑ग्निष्टोमसा॒मान्य॒वस्ता॑च्च प॒रस्ता॑च्च॒ भव॒न्त्यजा॑मित्वाय त्रि॒वृद॑ग्निष्टो॒मो॑ऽग्नि॒ष्टुदा॑ग्ने॒यीषु॑ भवति॒ तेज॑ ए॒वाव॑ रुन्द्धे पञ्चद॒श उ॒क्थ्य॑ ऐ॒न्द्रीष्वि॑न्द्रि॒यमे॒वाव॑ रुन्द्धे त्रि॒वृद॑ग्निष्टो॒मो वै॑श्वदे॒वीषु॒ पुष्टि॑मे॒वाव॑ रुन्द्धे सप्तद॒शो॑ऽग्निष्टो॒मᳶ प्रा॑जाप॒त्यासु॑ तीव्रसो॒मो॑ऽन्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायते [17]
ए॒क॒विँ॒श उ॒क्थ्य॑स्सौ॒रीषु॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्ध॑त्ते सप्तद॒शो॑ऽग्निष्टो॒मᳶ प्रा॑जाप॒त्यासू॑पह॒व्य॑ उपह॒वमे॒व ग॑च्छति त्रिण॒वाव॑ग्निष्टो॒माव॒भित॑ ऐ॒न्द्रीषु॒ विजि॑त्यै त्रयस्त्रिँ॒श उ॒क्थ्यो॑ वैश्वदे॒वीषु॒ प्रति॑ष्ठित्यै विश्व॒जित्सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति॒ सर्व॑स्या॒भिजि॑त्यै ॥ [18]
ऋ॒तवो॒ वै प्र॒जाका॑माᳶ प्र॒जान्नावि॑न्दन्त॒ ते॑ऽकामयन्त प्र॒जाँ सृ॑जेमहि प्र॒जामव॑ रुन्धीमहि प्र॒जाव्ँवि॑न्देमहि प्र॒जाव॑न्तस्स्या॒मेति॒ त ए॒तमे॑कादशरा॒त्रम॑पश्य॒न्तमाह॑र॒न्तेना॑यजन्त॒ ततो॒ वै ते प्र॒जाम॑सृजन्त प्र॒जामवा॑रुन्धत प्र॒जाम॑विन्दन्त प्र॒जाव॑न्तोऽभव॒न्त ऋ॒तवो॑ऽभव॒न्तदा॑र्त॒वाना॑मार्तव॒त्वमृ॑तू॒नाव्ँवा ए॒ते पु॒त्रास्तस्मा॑त् [19]
आ॒र्त॒वा उ॑च्यन्ते॒ य ए॒वव्ँवि॒द्वाँस॑ एकादशरा॒त्रमास॑ते प्र॒जामे॒व सृ॑जन्ते प्र॒जामव॑ रुन्धते प्र॒जाव्ँवि॑न्दन्ते प्र॒जाव॑न्तो भवन्ति॒ ज्योति॑रतिरा॒त्रो भ॑वति॒ ज्योति॑रे॒व पु॒रस्ता॑द्दधते सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै॒ पृष्ठ्य॑ष्षड॒हो भ॑वति॒ षड्वा ऋ॒तव॒ष्षट्पृ॒ष्ठानि॑ पृ॒ष्ठैरे॒वर्तून॒न्वारो॑हन्त्यृ॒तुभि॑स्सव्ँवत्स॒रन्ते सव्ँ॑वत्स॒र ए॒व प्रति॑ तिष्ठन्ति चतुर्विँ॒शो भ॑वति॒ चतु॑र्विँशत्यक्षरा गाय॒त्री [20]
गा॒य॒त्रम्ब्र॑ह्मवर्च॒सङ्गा॑यत्रि॒यामे॒व ब्र॑ह्मवर्च॒से प्रति॑ तिष्ठन्ति चतुश्चत्वारिँ॒शो भ॑वति॒ चतु॑श्चत्वारिँशदक्षरा त्रि॒ष्टुगि॑न्द्रि॒यन्त्रि॒ष्टुप्त्रि॒ष्टुभ्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठन्त्यष्टाचत्वारिँ॒शो भ॑वत्य॒ष्टाच॑त्वारिँशदक्षरा॒ जग॑ती॒ जाग॑ताᳶ प॒शवो॒ जग॑त्यामे॒व प॒शुषु॒ प्रति॑ तिष्ठन्त्येकादशरा॒त्रो भ॑वति॒ पञ्च॒ वा ऋ॒तव॑ आर्त॒वाᳶ पञ्च॒र्तुष्वे॒वार्त॒वेषु॑ सव्ँवत्स॒रे प्र॑ति॒ष्ठाय॑ प्र॒जामव॑ रुन्धतेऽतिरा॒त्राव॒भितो॑ भवतᳶ प्र॒जायै॒ परि॑गृहीत्यै ॥ [21]
ऐ॒न्द्र॒वा॒य॒वाग्रा॑न्गृह्णीया॒द्यᳵ का॒मये॑त यथापू॒र्वम्प्र॒जाᳵ क॑ल्पेर॒न्निति॑ य॒ज्ञस्य॒ वै कॢप्ति॒मनु॑ प्र॒जाᳵ क॑ल्पन्ते य॒ज्ञस्याकॢ॑प्ति॒मनु॒ न क॑ल्पन्ते यथापू॒र्वमे॒व प्र॒जाᳵ क॑ल्पयति॒ न ज्यायाँ॑स॒ङ्कनी॑या॒नति॑ क्रामत्यैन्द्रवाय॒वाग्रा॑न्गृह्णीयादामया॒विनᳶ॑ प्रा॒णेन॒ वा ए॒ष व्यृ॑ध्यते॒ यस्या॒मय॑ति प्रा॒ण ऐ॑न्द्रवाय॒वᳶ प्रा॒णेनै॒वैनँ॒ सम॑र्धयति मैत्रावरु॒णाग्रा॑न्गृह्णीर॒न्‌येषा॑न्दीक्षि॒ताना॑म्प्र॒मीये॑त [22]
प्रा॒णा॒पा॒नाभ्याव्ँ॒वा ए॒ते व्यृ॑ध्यन्ते॒ येषा॑न्दीक्षि॒ताना॑म्प्र॒मीय॑ते प्राणापा॒नौ मि॒त्रावरु॑णौ प्राणापा॒नावे॒व मु॑ख॒तᳶ परि॑ हरन्त आश्वि॒नाग्रा॑न्गृह्णीतानुजाव॒रो॑ऽश्विनौ॒ वै दे॒वाना॑मानुजाव॒रौ प॒श्चेवाग्र॒म्पर्यैताम॒श्विना॑वे॒तस्य॑ दे॒वता॒ य आ॑नुजाव॒रस्तावे॒वैन॒मग्र॒म्परि॑ णयतश्शु॒क्राग्रा॑न्गृह्णीत ग॒तश्रीः॑ प्रति॒ष्ठाका॑मो॒ऽसौ वा आ॑दि॒त्यश्शु॒क्र ए॒षोऽन्तोऽन्त॑म्मनु॒ष्यः॑ [23]
श्रि॒यै ग॒त्वा नि व॑र्त॒तेऽन्ता॑दे॒वान्त॒मा र॑भते॒ न तत॒ᳶ पापी॑यान्भवति म॒न्थ्य॑ग्रान्गृह्णीताभि॒चर॑न्नार्तपा॒त्रव्ँवा ए॒तद्यन्म॑न्थिपा॒त्रम्मृ॒त्युनै॒वैन॑ङ्ग्राहयति ता॒जगार्ति॒मार्च्छ॑त्याग्रय॒णाग्रा॑न्गृह्णीत॒ यस्य॑ पि॒ता पि॑ताम॒हᳶ पुण्य॒स्स्यादथ॒ तन्न प्रा॑प्नु॒याद्वा॒चा वा ए॒ष इ॑न्द्रि॒येण॒ व्यृ॑ध्यते॒ यस्य॑ पि॒ता पि॑ताम॒हᳶ पुण्यः॑ [24]
भव॒त्यथ॒ तन्न प्रा॒प्नोत्युर॑ इवै॒तद्य॒ज्ञस्य॒ वागि॑व॒ यदा॑ग्रय॒णो वा॒चैवैन॑मिन्द्रि॒येण॒ सम॑र्धयति॒ न तत॒ᳶ पापी॑यान्भवत्यु॒क्थ्या॑ग्रान्गृह्णीताभिच॒र्यमा॑ण॒स्सर्वे॑षाव्ँ॒वा ए॒तत्पात्रा॑णामिन्द्रि॒यय्ँयदु॑क्थ्यपा॒त्रँ सर्वे॑णै॒वैन॑मिन्द्रि॒येणाति॒ प्र यु॑ङ्क्ते॒ सर॑स्वत्य॒भि नो॑ नेषि॒ वस्य॒ इति॑ पुरो॒रुच॑ङ्कुर्या॒द्वाग्वै [25]
सर॑स्वती वा॒चैवैन॒मति॒ प्र यु॑ङ्क्ते॒ मा त्वत्क्षेत्रा॒ण्यर॑णानि ग॒न्मेत्या॑ह मृ॒त्योर्वै क्षेत्रा॒ण्यर॑णानि॒ तेनै॒व मृ॒त्योः क्षेत्रा॑णि॒ न ग॑च्छति पू॒र्णान्ग्रहा॑न्गृह्णीयादामया॒विनᳶ॑ प्रा॒णान्‌वा ए॒तस्य॒ शुगृ॑च्छति॒ यस्या॒मय॑ति प्रा॒णा ग्रहाः॑ प्रा॒णाने॒वास्य॑ शु॒चो मु॑ञ्चत्यु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व पू॒र्णान्ग्रहा॑न्गृह्णीया॒द्यर्हि॑ प॒र्जन्यो॒ न वर्षे॑त्प्रा॒णान्‌वा ए॒तर्हि॑ प्र॒जानाँ॒ शुगृ॑च्छति॒ यर्हि॑ प॒र्जन्यो॒ न॒ वर्ष॑ति प्रा॒णा ग्रहाः॑ प्रा॒णाने॒व प्र॒जानाँ॑ शु॒चो मु॑ञ्चति ता॒जक्प्र व॑र्षति ॥ [26]
गा॒य॒त्रो वा ऐ॑न्द्रवाय॒वो गा॑य॒त्रम्प्रा॑य॒णीय॒मह॒स्तस्मा॑त्प्राय॒णीयेऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णाति॒ त्रैष्टु॑भो॒ वै शु॒क्रस्त्रैष्टु॑भन्द्वि॒तीय॒मह॒स्तस्मा॑द्द्वि॒तीयेऽह॑ञ्छु॒क्रो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णाति॒ जाग॑तो॒ वा आ॑ग्रय॒णो जाग॑तन्तृ॒तीय॒मह॒स्तस्मा॑त्तृ॒तीयेऽह॑न्नाग्रय॒णो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णात्ये॒तद्वै [27]
य॒ज्ञमा॑प॒द्यच्छन्दाँ॑स्या॒प्नोति॒ यदा॑ग्रय॒णश्श्वो गृ॒ह्यते॒ यत्रै॒व य॒ज्ञमदृ॑श॒न्तत॑ ए॒वैन॒म्पुन॒ᳶ प्र यु॑ङ्क्ते॒ जग॑न्मुखो॒ वै द्वि॒तीय॑स्त्रिरा॒त्रो जाग॑त आग्रय॒णो यच्च॑तु॒र्थेऽह॑न्नाग्रय॒णो गृ॒ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णा॒त्यथो॒ स्वमे॒व छन्दोऽनु॑ प॒र्याव॑र्तन्ते॒ राथ॑न्तरो॒ वा ऐ॑न्द्रवाय॒वो राथ॑न्तरम्पञ्च॒ममह॒स्तस्मा॑त्पञ्च॒मेऽह॑न् [28]
ऐ॒न्द्र॒वा॒य॒वो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णाति॒ बार्ह॑तो॒ वै शु॒क्रो बार्ह॑तँ ष॒ष्ठमह॒स्तस्मा॑त्ष॒ष्ठेऽह॑ञ्छु॒क्रो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णात्ये॒तद्वै द्वि॒तीयय्ँ॑ य॒ज्ञमा॑प॒द्यच्छन्दाँ॑स्या॒प्नोति॒ यच्छु॒क्रश्श्वो गृ॒ह्यते॒ यत्रै॒व य॒ज्ञमदृ॑श॒न्तत॑ ए॒वैन॒म्पुन॒ᳶ प्र यु॑ङ्क्ते त्रि॒ष्टुङ्मु॑खो॒ वै तृ॒तीय॑स्त्रिरा॒त्रस्त्रैष्टु॑भः [29]
शु॒क्रो यत्स॑प्त॒मेऽह॑ञ्छु॒क्रो गृ॒ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णा॒त्यथो॒ स्वमे॒व छन्दोऽनु॑ प॒र्याव॑र्तन्ते॒ वाग्वा आ॑ग्रय॒णो वाग॑ष्ट॒ममह॒स्तस्मा॑दष्ट॒मेऽह॑न्नाग्रय॒णो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णाति प्रा॒णो वा ऐ॑न्द्रवाय॒वᳶ प्रा॒णो न॑व॒ममह॒स्तस्मा॑न्नव॒मेऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णात्ये॒तत् [30]
वै तृ॒तीयय्ँ॑ य॒ज्ञमा॑प॒द्यच्छन्दाँ॑स्या॒प्नोति॒ यदै॑न्द्रवाय॒वश्श्वो गृ॒ह्यते॒ यत्रै॒व य॒ज्ञमदृ॑श॒न्तत॑ ए॒वैन॒म्पुन॒ᳶ प्र यु॒ङ्क्तेऽथो॒ स्वमे॒व छन्दोऽनु॑ प॒र्याव॑र्तन्ते प॒थो वा ए॒तेऽध्यप॑थेन यन्ति॒ ये॑ऽन्येनै॑न्द्रवाय॒वात्प्र॑ति॒पद्य॒न्तेऽन्त॒ᳵ खलु॒ वा ए॒ष य॒ज्ञस्य॒ यद्द॑श॒ममह॑र्दश॒मेऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते य॒ज्ञस्य॑ [31]
ए॒वान्त॑ङ्ग॒त्वाप॑था॒त्पन्था॒मपि॑ य॒न्त्यथो॒ यथा॒ वही॑यसा प्रति॒सारव्ँ॒वह॑न्ति ता॒दृगे॒व तच्छन्दाँ॑स्य॒न्यो॑न्यस्य॑ लो॒कम॒भ्य॑ध्याय॒न्तान्ये॒तेनै॒व दे॒वा व्य॑वाहयन्नैन्द्रवाय॒वस्य॒ वा ए॒तदा॒यत॑नय्ँ॒यच्च॑तु॒र्थमह॒स्तस्मि॑न्नाग्रय॒णो गृ॑ह्यते॒ तस्मा॑दाग्रय॒णस्या॒यत॑ने नव॒मेऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते शु॒क्रस्य॒ वा ए॒तदा॒यत॑नय्ँ॒यत्प॑ञ्च॒मम् [32]
अह॒स्तस्मि॑न्नैन्द्रवाय॒वो गृ॑ह्यते॒ तस्मा॑दैन्द्रवाय॒वस्या॒यत॑ने सप्त॒मेऽह॑ञ्छु॒क्रो गृ॑ह्यत आग्रय॒णस्य॒ वा ए॒तदा॒यत॑नय्ँ॒यत्ष॒ष्ठमह॒स्तस्मि॑ञ्छु॒क्रो गृ॑ह्यते॒ तस्मा॑च्छु॒क्रस्या॒यत॑नेऽष्ट॒मेऽह॑न्नाग्रय॒णो गृ॑ह्यते॒ छन्दाँ॑स्ये॒व तद्वि वा॑हयति॒ प्र वस्य॑सो विवा॒हमा॑प्नोति॒ य ए॒वव्ँ वेदाथो॑ दे॒वता॑भ्य ए॒व य॒ज्ञे सव्ँ॒विद॑न्दधाति॒ तस्मा॑दि॒दमन्यो॑न्यस्मै॑ ददाति ॥ [33]
प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॒ स ए॒तन्द्वा॑दशरा॒त्रम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै स प्राजा॑यत॒ यᳵ का॒मये॑त॒ प्र जा॑ये॒येति॒ स द्वा॑दशरा॒त्रेण॑ यजेत॒ प्रैव जा॑यते ब्रह्मवा॒दिनो॑ वदन्त्यग्निष्टो॒मप्रा॑यणा य॒ज्ञा अथ॒ कस्मा॑दतिरा॒त्रᳶ पूर्व॒ᳶ प्र यु॑ज्यत॒ इति॒ चक्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ यद॑तिरा॒त्रौ क॒नीनि॑के अग्निष्टो॒मौ यत् [34]
अ॒ग्नि॒ष्टो॒मम्पूर्व॑म्प्रयुञ्जी॒रन्ब॑हि॒र्धा क॒नीनि॑के दध्यु॒स्तस्मा॑दतिरा॒त्रᳶ पूर्व॒ᳶ प्र यु॑ज्यते॒ चक्षु॑षी ए॒व य॒ज्ञे धि॒त्वा म॑ध्य॒तᳵ क॒नीनि॑के॒ प्रति॑ दधति॒ यो वै गा॑य॒त्रीञ्ज्योतिᳶ॑पक्षाव्ँ॒वेद॒ ज्योति॑षा भा॒सा सु॑व॒र्गल्ँ लो॒कमे॑ति॒ याव॑ग्निष्टो॒मौ तौ प॒क्षौ येऽन्त॑रे॒ऽष्टावु॒क्थ्याः॑ स आ॒त्मैषा वै गा॑य॒त्री ज्योतिᳶ॑पक्षा॒ य ए॒वव्ँ वेद॒ ज्योति॑षा भा॒सा सु॑व॒र्गल्ँ लो॒कम् [35]
ए॒ति॒ प्र॒जाप॑तिर्वा ए॒ष द्वा॑दश॒धा विहि॑तो॒ यद्द्वा॑दशरा॒त्रो याव॑तिरा॒त्रौ तौ प॒क्षौ येऽन्त॑रे॒ऽष्टावु॒क्थ्याः॑ स आ॒त्मा प्र॒जाप॑तिर्वावैष सन्त्सद्ध॒ वै स॒त्त्रेण॑ स्पृणोति प्रा॒णा वै सत्प्रा॒णाने॒व स्पृ॑णोति॒ सर्वा॑साव्ँ॒वा ए॒ते प्र॒जाना॑म्प्रा॒णैरा॑सते॒ ये स॒त्त्रमास॑ते॒ तस्मा॑त्पृच्छन्ति॒ किमे॒ते स॒त्त्रिण॒ इति॑ प्रि॒यᳶ प्र॒जाना॒मुत्थि॑तो भवति॒ य ए॒वव्ँ वेद॑ ॥ [36]
न वा ए॒षो॑ऽन्यतो॑वैश्वानरस्सुव॒र्गाय॑ लो॒काय॒ प्राभ॑वदू॒र्ध्वो ह॒ वा ए॒ष आत॑त आसी॒त्ते दे॒वा ए॒तव्ँ वै॑श्वान॒रम्पर्यौ॑हन्त्सुव॒र्गस्य॑ लो॒कस्य॒ प्रभू॑त्या ऋ॒तवो॒ वा ए॒तेन॑ प्र॒जाप॑तिमयाजय॒न्तेष्वा॑र्ध्नो॒दधि॒ तदृ॒ध्नोति॑ ह॒ वा ऋ॒त्विक्षु॒ य ए॒वव्ँवि॒द्वान्द्वा॑दशा॒हेन॒ यज॑ते॒ ते॑ऽस्मिन्नैच्छन्त॒ स रस॒मह॑ वस॒न्ताय॒ प्राय॑च्छत् [37]
यव॑ङ्ग्री॒ष्मायौष॑धीर्व॒र्षाभ्यो॑ व्री॒हीञ्छ॒रदे॑ माषति॒लौ हे॑मन्तशिशि॒राभ्या॒न्तेनेन्द्र॑म्प्र॒जाप॑तिरयाजय॒त्ततो॒ वा इन्द्र॒ इन्द्रो॑ऽभव॒त्तस्मा॑दाहुरानुजाव॒रस्य॑ य॒ज्ञ इति॒ स ह्ये॑तेनाग्रेऽय॑जतै॒ष ह॒ वै कु॒णप॑मत्ति॒ यस्स॒त्त्रे प्र॑तिगृ॒ह्णाति॑ पुरुषकुण॒पम॑श्वकुण॒पङ्गौर्वा अन्नय्ँ॒येन॒ पात्रे॒णान्न॒म्बिभ्र॑ति॒ यत्तन्न नि॒र्णेनि॑जति॒ ततोऽधि॑ [38]
मल॑ञ्जायत॒ एक॑ ए॒व य॑जे॒तैको॒ हि प्र॒जाप॑ति॒रार्ध्नो॒द्द्वाद॑श॒ रात्री॑र्दीक्षि॒तस्स्या॒द्द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रस्सव्ँ॑वत्स॒रᳶ प्र॒जाप॑तिᳶ प्र॒जाप॑ति॒र्वावैष ए॒ष ह॒ त्वै जा॑यते॒ यस्तप॒सोऽधि॒ जाय॑ते चतु॒र्धा वा ए॒तास्ति॒स्रस्ति॑स्रो॒ रात्र॑यो॒ यद्द्वाद॑शोप॒सदो॒ याᳶ प्र॑थ॒मा य॒ज्ञन्ताभि॒स्सम्भ॑रति॒ या द्वि॒तीया॑ य॒ज्ञन्ताभि॒रा र॑भते [39]
यास्तृ॒तीया॒ᳶ पात्रा॑णि॒ ताभि॒र्निर्णे॑निक्ते॒ याश्च॑तु॒र्थीरपि॒ ताभि॑रा॒त्मान॑मन्तर॒तश्शु॑न्धते॒ यो वा अ॑स्य प॒शुमत्ति॑ माँ॒सँ सो॑ऽत्ति॒ यᳶ पु॑रो॒डाश॑म्म॒स्तिष्कँ॒ स यᳶ प॑रिवा॒पम्पुरी॑षँ॒ स य आज्य॑म्म॒ज्जानँ॒ स यस्सोमँ॒ स्वेदँ॒ सोऽपि॑ ह॒ वा अ॑स्य शीर्ष॒ण्या॑ नि॒ष्पद॒ᳶ प्रति॑ गृह्णाति॒ यो द्वा॑दशा॒हे प्र॑तिगृ॒ह्णाति॒ तस्मा॑द्द्वादशा॒हेन॒ न याज्य॑म्पा॒प्मनो॒ व्यावृ॑त्त्यै ॥ [40]
एक॑स्मै॒ स्वाहा॒ द्वाभ्याँ॒ स्वाहा॑ त्रि॒भ्यस्स्वाहा॑ च॒तुर्भ्य॒स्स्वाहा॑ प॒ञ्चभ्य॒स्स्वाहा॑ ष॒ड्भ्यस्स्वाहा॑ स॒प्तभ्य॒स्स्वाहा॑ऽष्टा॒भ्यस्स्वाहा॑ न॒वभ्य॒स्स्वाहा॑ द॒शभ्य॒स्स्वाहै॑काद॒शभ्य॒स्स्वाहा॑ द्वाद॒शभ्य॒स्स्वाहा॑ त्रयोद॒शभ्य॒स्स्वाहा॑ चतुर्द॒शभ्य॒स्स्वाहा॑ पञ्चद॒शभ्य॒स्स्वाहा॑ षोड॒शभ्य॒स्स्वाहा॑ सप्तद॒शभ्य॒स्स्वाहा॑ऽष्टाद॒शभ्य॒स्स्वाहैका॒न्न विँ॑श॒त्यै स्वाहा॒ नव॑विँशत्यै॒ स्वाहैका॒न्न च॑त्वारिँ॒शते॒ स्वाहा॒ नव॑चत्वारिँशते॒ स्वाहैका॒न्न ष॒ष्ट्यै स्वाहा॒ नव॑षष्ट्यै॒ स्वाहैका॒न्नाशी॒त्यै स्वाहा॒ नवा॑शीत्यै॒ स्वाहैका॒न्न श॒ताय॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ द्वाभ्याँ॑ श॒ताभ्याँ॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ [41]
एक॑स्मै॒ स्वाहा॑ त्रि॒भ्यस्स्वाहा॑ प॒ञ्चभ्य॒स्स्वाहा॑ स॒प्तभ्य॒स्स्वाहा॑ न॒वभ्य॒स्स्वाहै॑काद॒शभ्य॒स्स्वाहा॑ त्रयोद॒शभ्य॒स्स्वाहा॑ पञ्चद॒शभ्य॒स्स्वाहा॑ सप्तद॒शभ्य॒स्स्वाहैका॒न्न विँ॑श॒त्यै स्वाहा॒ नव॑विँशत्यै॒ स्वाहैका॒न्न च॑त्वारिँ॒शते॒ स्वाहा॒ नव॑चत्वारिँशते॒ स्वाहैका॒न्न ष॒ष्ट्यै स्वाहा॒ नव॑षष्ट्यै॒ स्वाहैका॒न्नाशी॒त्यै स्वाहा॒ नवा॑शीत्यै॒ स्वाहैका॒न्न श॒ताय॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ [42]
द्वाभ्याँ॒ स्वाहा॑ च॒तुर्भ्य॒स्स्वाहा॑ ष॒ड्भ्यस्स्वाहा॑ऽष्टा॒भ्यस्स्वाहा॑ द॒शभ्य॒स्स्वाहा॑ द्वाद॒शभ्य॒स्स्वाहा॑ चतुर्द॒शभ्य॒स्स्वाहा॑ षोड॒शभ्य॒स्स्वाहा॑ऽष्टाद॒शभ्य॒स्स्वाहा॑ विँश॒त्यै स्वाहा॒ऽष्टान॑वत्यै॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ [43]
त्रि॒भ्यस्स्वाहा॑ प॒ञ्चभ्य॒स्स्वाहा॑ स॒प्तभ्य॒स्स्वाहा॑ न॒वभ्य॒स्स्वाहै॑काद॒शभ्य॒स्स्वाहा॑ त्रयोद॒शभ्य॒स्स्वाहा॑ पञ्चद॒शभ्य॒स्स्वाहा॑ सप्तद॒शभ्य॒स्स्वाहैका॒न्न विँ॑श॒त्यै स्वाहा॒ नव॑विँशत्यै॒ स्वाहैका॒न्न च॑त्वारिँ॒शते॒ स्वाहा॒ नव॑चत्वारिँशते॒ स्वाहैका॒न्न ष॒ष्ट्यै स्वाहा॒ नव॑षष्ट्यै॒ स्वाहैका॒न्नाशी॒त्यै स्वाहा॒ नवा॑शीत्यै॒ स्वाहैका॒न्न श॒ताय॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ [44]
च॒तुर्भ्य॒स्स्वाहा॑ऽष्टा॒भ्यस्स्वाहा॑ द्वाद॒शभ्य॒स्स्वाहा॑ षोड॒शभ्य॒स्स्वाहा॑ विँश॒त्यै स्वाहा॒ षण्ण॑वत्यै॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ [45]
प॒ञ्चभ्य॒स्स्वाहा॑ द॒शभ्य॒स्स्वाहा॑ पञ्चद॒शभ्य॒स्स्वाहा॑ विँश॒त्यै स्वाहा॒ पञ्च॑नवत्यै॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ [46]
द॒शभ्य॒स्स्वाहा॑ विँश॒त्यै स्वाहा॑ त्रिँ॒शते॒ स्वाहा॑ चत्वारिँ॒शते॒ स्वाहा॑ पञ्चा॒शते॒ स्वाहा॑ ष॒ष्ट्यै स्वाहा॑ सप्त॒त्यै स्वाहा॑ऽशी॒त्यै स्वाहा॑ नव॒त्यै स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ [47]
विँ॒श॒त्यै स्वाहा॑ चत्वारिँ॒शते॒ स्वाहा॑ ष॒ष्ट्यै स्वाहा॑ऽशी॒त्यै स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ [48]
प॒ञ्चा॒शते॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ द्वाभ्याँ॑ श॒ताभ्याँ॒ स्वाहा॑ त्रि॒भ्यश्श॒तेभ्य॒स्स्वाहा॑ च॒तुर्भ्य॑श्श॒तेभ्य॒स्स्वाहा॑ प॒ञ्चभ्य॑श्श॒तेभ्य॒स्स्वाहा॑ ष॒ड्भ्यश्श॒तेभ्य॒स्स्वाहा॑ स॒प्तभ्य॑श्श॒तेभ्य॒स्स्वाहा॑ऽष्टा॒भ्यश्श॒तेभ्य॒स्स्वाहा॑ न॒वभ्य॑श्श॒तेभ्य॒स्स्वाहा॑ स॒हस्रा॑य॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ [49]
श॒ताय॒ स्वाहा॑ स॒हस्रा॑य॒ स्वाहा॒ऽयुता॑य॒ स्वाहा॑ नि॒युता॑य॒ स्वाहा॑ प्र॒युता॑य॒ स्वाहाऽर्बु॑दाय॒ स्वाहा॒ न्य॑र्बुदाय॒ स्वाहा॑ समु॒द्राय॒ स्वाहा॒ मध्या॑य॒ स्वाहाऽन्ता॑य॒ स्वाहा॑ परा॒र्धाय॒ स्वाहो॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहो॑देष्य॒ते स्वाहो॑द्य॒ते स्वाहोदि॑ताय॒ स्वाहा॑ सुव॒र्गाय॒ स्वाहा॑ लो॒काय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ [50]