प्र॒जन॑न॒ञ्ज्योति॑र॒ग्निर्दे॒वता॑ना॒ञ्ज्योति॑र्वि॒राट्छन्द॑सा॒ञ्ज्योति॑र्वि॒राड्वा॒चो॑ऽग्नौ सन्ति॑ष्ठते वि॒राज॑म॒भि सम्प॑द्यते॒ तस्मा॒त्तज्ज्योति॑रुच्यते॒ द्वौ स्तोमौ॑ प्रातस्सव॒नव्ँव॑हतो॒ यथा॑ प्रा॒णश्चा॑पा॒नश्च॒ द्वौ माध्य॑न्दिनँ॒ सव॑नय्ँ॒यथा॒ चक्षु॑श्च॒ श्रोत्र॑ञ्च॒ द्वौ तृ॑तीयसव॒नय्ँयथा॒ वाक्च॑ प्रति॒ष्ठा च॒ पुरु॑षसम्मितो॒ वा ए॒ष य॒ज्ञोऽस्थू॑रिः [1]
यङ्काम॑ङ्का॒मय॑ते॒ तमे॒तेना॒भ्य॑श्ञुते॒ सर्वँ॒ ह्यस्थू॑रिणाभ्यश्ञु॒ते॑ऽग्निष्टो॒मेन॒ वै प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत॒ ता अ॑ग्निष्टो॒मेनै॒व पर्य॑गृह्णा॒त्तासा॒म्परि॑गृहीतानामश्वत॒रोऽत्य॑प्रवत॒ तस्या॑नु॒हाय॒ रेत॒ आद॑त्त॒ तद्ग॑र्द॒भे न्य॑मा॒र्ट्तस्मा॑द्गर्द॒भो द्वि॒रेता॒ अथो॑ आहु॒र्वड॑बाया॒न्न्य॑मा॒र्डिति॒ तस्मा॒द्वड॑बा द्वि॒रेता॒ अथो॑ आहु॒रोष॑धीषु [2]
न्य॑मा॒र्डिति॒ तस्मा॒दोष॑ध॒योऽन॑भ्यक्ता रेभ॒न्त्यथो॑ आहुᳶ प्र॒जासु॒ न्य॑मा॒र्डिति॒ तस्मा॑द्य॒मौ जा॑येते॒ तस्मा॑दश्वत॒रो न प्र जा॑यत॒ आत्त॑रेता॒ हि तस्मा॑द्ब॒र्हिष्यन॑वकॢप्तस्सर्ववेद॒से वा॑ स॒हस्रे॒ वाव॑कॢ॒प्तोऽति॒ ह्यप्र॑वत॒ य ए॒वव्ँवि॒द्वान॑ग्निष्टो॒मेन॒ यज॑ते॒ प्राजा॑ताᳶ प्र॒जा ज॒नय॑ति॒ परि॒ प्रजा॑ता गृह्णाति॒ तस्मा॑दाहुर्ज्येष्ठय॒ज्ञ इति॑ [3]
प्र॒जाप॑ति॒र्वाव ज्येष्ठ॒स्स ह्ये॑तेनाग्रेऽय॑जत प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॒ स मु॑ख॒तस्त्रि॒वृत॒न्निर॑मिमीत॒ तम॒ग्निर्दे॒वतान्व॑सृज्यत गाय॒त्री छन्दो॑ रथन्त॒रँ साम॑ ब्राह्म॒णो म॑नु॒ष्या॑णाम॒जᳶ प॑शू॒नान्तस्मा॒त्ते मुख्या॑ मुख॒तो ह्यसृ॑ज्य॒न्तोर॑सो बा॒हुभ्या॑म्पञ्चद॒शन्निर॑मिमीत॒ तमिन्द्रो॑ दे॒वतान्व॑सृज्यत त्रि॒ष्टुप्छन्दो॑ बृ॒हत् [4]
साम॑ राज॒न्यो॑ मनु॒ष्या॑णा॒मविᳶ॑ पशू॒नान्तस्मा॒त्ते वी॒र्या॑वन्तो वी॒र्या॑द्ध्यसृ॑ज्यन्त मध्य॒तस्स॑प्तद॒शन्निर॑मिमीत॒ तव्ँविश्वे॑ दे॒वा दे॒वता॒ अन्व॑सृज्यन्त॒ जग॑ती॒ छन्दो॑ वैरू॒पँ साम॒ वैश्यो॑ मनु॒ष्या॑णा॒ङ्गावᳶ॑ पशू॒नान्तस्मा॒त्त आ॒द्या॑ अन्न॒धाना॒द्ध्यसृ॑ज्यन्त॒ तस्मा॒द्भूयाँ॑सो॒ऽन्येभ्यो॒ भूयि॑ष्ठा॒ हि दे॒वता॒ अन्वसृ॑ज्यन्त प॒त्त ए॑कविँ॒शन्निर॑मिमीत॒ तम॑नु॒ष्टुप्छन्दः॑ [5]
अन्व॑सृज्यत वैरा॒जँ साम॑ शू॒द्रो म॑नु॒ष्या॑णा॒मश्वᳶ॑ पशू॒नान्तस्मा॒त्तौ भू॑तसङ्क्रा॒मिणा॒वश्व॑श्च शू॒द्रश्च॒ तस्मा॑च्छू॒द्रो य॒ज्ञेऽन॑वकॢप्तो॒ न हि दे॒वता॒ अन्वसृ॑ज्यत॒ तस्मा॒त्पादा॒वुप॑ जीवतᳶ प॒त्तो ह्यसृ॑ज्येताम्प्रा॒णा वै त्रि॒वृद॑र्धमा॒साᳶ प॑ञ्चद॒शᳶ प्र॒जाप॑तिस्सप्तद॒शस्त्रय॑ इ॒मे लो॒का अ॒सावा॑दि॒त्य ए॑कविँ॒श ए॒तस्मि॒न्वा ए॒ते श्रि॒ता ए॒तस्मि॒न्प्रति॑ष्ठिता॒ य ए॒वव्ँ वेदै॒तस्मि॑न्ने॒व श्र॑यत ए॒तस्मि॒न्प्रति॑ तिष्ठति ॥ [6]
प्रा॒त॒स्स॒व॒ने वै गा॑य॒त्रेण॒ छन्द॑सा त्रि॒वृते॒ स्तोमा॑य॒ ज्योति॒र्दध॑देति त्रि॒वृता॑ ब्रह्मवर्च॒सेन॑ पञ्चद॒शाय॒ ज्योति॒र्दध॑देति पञ्चद॒शेनौज॑सा वी॒र्ये॑ण सप्तद॒शाय॒ ज्योति॒र्दध॑देति सप्तद॒शेन॑ प्राजाप॒त्येन॑ प्र॒जन॑नेनैकविँ॒शाय॒ ज्योति॒र्दध॑देति॒ स्तोम॑ ए॒व तत्स्तोमा॑य॒ ज्योति॒र्दध॑दे॒त्यथो॒ स्तोम॑ ए॒व स्तोम॑म॒भि प्र ण॑यति॒ याव॑न्तो॒ वै स्तोमा॒स्ताव॑न्त॒ᳵ कामा॒स्ताव॑न्तो लो॒कास्ताव॑न्ति॒ ज्योतीँ॑ष्ये॒ताव॑त ए॒व स्तोमा॑ने॒ताव॑त॒ᳵ कामा॑ने॒ताव॑तो लो॒काने॒ताव॑न्ति॒ ज्योतीँ॒ष्यव॑ रुन्द्धे ॥ [7]
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ स त्वै य॑जेत॒ यो॑ऽग्निष्टो॒मेन॒ यज॑मा॒नोऽथ॒ सर्व॑स्तोमेन॒ यजे॒तेति॒ यस्य॑ त्रि॒वृत॑मन्त॒र्यन्ति॑ प्रा॒णाँस्तस्या॒न्तर्य॑न्ति प्रा॒णेषु॒ मेऽप्य॑स॒दिति॒ खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒ यस्य॑ पञ्चद॒शम॑न्त॒र्यन्ति॑ वी॒र्य॑न्तस्या॒न्तर्य॑न्ति वी॒र्ये॑ मेऽप्य॑स॒दिति॒ खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒ यस्य॑ सप्तद॒शम॑न्त॒र्यन्ति॑ [8]
प्र॒जान्तस्या॒न्तर्य॑न्ति प्र॒जाया॒म्मेऽप्य॑स॒दिति॒ खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒ यस्यै॑कविँ॒शम॑न्त॒र्यन्ति॑ प्रति॒ष्ठान्तस्या॒न्तर्य॑न्ति प्रति॒ष्ठाया॒म्मेऽप्य॑स॒दिति॒ खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒ यस्य॑ त्रिण॒वम॑न्त॒र्यन्त्यृ॒तूँश्च॒ तस्य॑ नक्ष॒त्रिया॑ञ्च वि॒राज॑म॒न्तर्य॑न्त्यृ॒तुषु॒ मेऽप्य॑सन्नक्ष॒त्रिया॑याञ्च वि॒राजीति॑ [9]
खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒ यस्य॑ त्रयस्त्रिँ॒शम॑न्त॒र्यन्ति॑ दे॒वता॒स्तस्या॒न्तर्य॑न्ति दे॒वता॑सु॒ मेऽप्य॑स॒दिति॒ खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒ यो वै स्तोमा॑नामव॒मम्प॑र॒मता॒ङ्गच्छ॑न्तव्ँ॒वेद॑ पर॒मता॑मे॒व ग॑च्छति त्रि॒वृद्वै स्तोमा॑नामव॒मस्त्रि॒वृत्प॑र॒मो य ए॒वव्ँ वेद॑ पर॒मता॑मे॒व ग॑च्छति ॥ [10]
अङ्गि॑रसो॒ वै स॒त्त्रमा॑सत॒ ते सु॑व॒र्गल्ँ लो॒कमा॑य॒न्तेषाँ॑ ह॒विष्माँ॑श्च हवि॒ष्कृच्चा॑हीयेता॒न्ताव॑कामयेताँ सुव॒र्गल्ँ लो॒कमि॑या॒वेति॒ तावे॒तन्द्वि॑रा॒त्रम॑पश्यता॒न्तमाह॑रता॒न्तेना॑यजेता॒न्ततो॒ वै तौ सु॑व॒र्गल्ँ लो॒कमै॑ताय्ँ॒य ए॒वव्ँवि॒द्वान्द्वि॑रा॒त्रेण॒ यज॑ते सुव॒र्गमे॒व लो॒कमे॑ति॒ तावैता॒म्पूर्वे॒णाऽह्नाऽग॑च्छता॒मुत्त॑रेण [11]
अ॒भि॒प्ल॒वᳶ पूर्व॒मह॑र्भवति॒ गति॒रुत्त॑र॒ञ्ज्योति॑ष्टोमोऽग्निष्टो॒मᳶ पूर्व॒मह॑र्भवति॒ तेज॒स्तेनाव॑ रुन्द्धे॒ सर्व॑स्तोमोऽतिरा॒त्र उत्त॑रँ॒ सर्व॒स्याप्त्यै॒ सर्व॒स्याव॑रुद्ध्यै गाय॒त्रम्पूर्वेह॒न्त्साम॑ भवति॒ तेजो॒ वै गा॑य॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सन्तेज॑ ए॒व ब्र॑ह्मवर्च॒समा॒त्मन्ध॑त्ते॒ त्रैष्टु॑भ॒मुत्त॑र॒ ओजो॒ वै वी॒र्य॑न्त्रि॒ष्टुगोज॑ ए॒व वी॒र्य॑मा॒त्मन्ध॑त्ते रथन्त॒रम्पूर्वे॑ [12]
अह॒न्त्साम॑ भवती॒यव्ँ वै र॑थन्त॒रम॒स्यामे॒व प्रति॑ तिष्ठति बृ॒हदुत्त॑रे॒ऽसौ वै बृ॒हद॒मुष्या॑मे॒व प्रति॑ तिष्ठति॒ तदा॑हु॒ᳵ क्व॑ जग॑ती चानु॒ष्टुप्चेति॑ वैखान॒सम्पूर्वेऽह॒न्त्साम॑ भवति॒ तेन॒ जग॑त्यै॒ नैति॑ षोड॒श्युत्त॑रे॒ तेना॑नु॒ष्टुभोऽथा॑हु॒र्यत्स॑मा॒ने॑ऽर्धमा॒से स्याता॑मन्यत॒रस्याह्नो॑ वी॒र्य॑मनु॑ पद्ये॒तेत्य॑मावा॒स्या॑या॒म्पूर्व॒मह॑र्भव॒त्युत्त॑रस्मि॒न्नुत्त॑र॒न्नानै॒वार्ध॑मा॒सयो॑र्भवतो॒ नाना॑वीर्ये भवतो ह॒विष्म॑न्निधन॒म्पूर्व॒मह॑र्भवति हवि॒ष्कृन्नि॑धन॒मुत्त॑र॒म्प्रति॑ष्ठित्यै ॥ [13]
आपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सी॒त्तस्मि॑न्प्र॒जाप॑तिर्वा॒युर्भू॒त्वाच॑र॒त्स इ॒माम॑पश्य॒त्ताव्ँव॑रा॒हो भू॒त्वाह॑र॒त्ताव्ँवि॒श्वक॑र्मा भू॒त्वा व्य॑मा॒र्ट्त्साप्र॑थत॒ सा पृ॑थि॒व्य॑भव॒त्तत्पृ॑थि॒व्यै पृ॑थिवि॒त्वन्तस्या॑मश्राम्यत्प्र॒जाप॑ति॒स्स दे॒वान॑सृजत॒ वसू॑न्रु॒द्राना॑दि॒त्यान्ते दे॒वाᳶ प्र॒जाप॑तिमब्रुव॒न्प्र जा॑यामहा॒ इति॒ सो॑ऽब्रवीत् [14]
यथा॒हय्ँयु॒ष्माँस्तप॒सासृ॑क्ष्ये॒वन्तप॑सि प्र॒जन॑नमिच्छध्व॒मिति॒ तेभ्यो॒ऽग्निमा॒यत॑न॒म्प्राय॑च्छदे॒तेना॒यत॑नेन श्राम्य॒तेति॒ ते॑ऽग्निना॒यत॑नेनाश्राम्य॒न्ते सव्ँ॑वत्स॒र एका॒ङ्गाम॑सृजन्त॒ ताव्ँवसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्य॒ᳶ प्राय॑च्छन्ने॒ताँ र॑क्षध्व॒मिति॒ ताव्ँवस॑वो रु॒द्रा आ॑दि॒त्या अ॑रक्षन्त॒ सा वसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्य॒ᳶ प्राजा॑यत॒ त्रीणि॑ च [15]
श॒तानि॒ त्रय॑स्त्रिँशत॒ञ्चाथ॒ सैव स॑हस्रत॒म्य॑भव॒त्ते दे॒वाᳶ प्र॒जाप॑तिमब्रुवन्त्स॒हस्रे॑ण नो याज॒येति॒ सो॑ऽग्निष्टो॒मेन॒ वसू॑नयाजय॒त्त इ॒मल्ँ लो॒कम॑जय॒न्तच्चा॑ददु॒स्स उ॒क्थ्ये॑न रु॒द्रान॑याजय॒त्ते॑ऽन्तरि॑क्षमजय॒न्तच्चा॑ददु॒स्सो॑ऽतिरा॒त्रेणा॑दि॒त्यान॑याजय॒त्ते॑ऽमुल्ँ लो॒कम॑जय॒न्तच्चा॑ददु॒स्तद॒न्तरि॑क्षम् [16]
व्यवै॑र्यत॒ तस्मा॑द्रु॒द्रा घातु॑का अनायत॒ना हि तस्मा॑दाहुश्शिथि॒लव्ँ वै म॑ध्य॒ममह॑स्त्रिरा॒त्रस्य॒ वि हि तद॒वैर्य॒तेति॒ त्रैष्टु॑भम्मध्य॒मस्याह्न॒ आज्य॑म्भवति सय्ँ॒याना॑नि सू॒क्तानि॑ शँसति षोड॒शिनँ॑ शँस॒त्यह्नो॒ धृत्या॒ अशि॑थिलम्भावाय॒ तस्मा॑त्त्रिरा॒त्रस्या॑ग्निष्टो॒म ए॒व प्र॑थ॒ममह॑स्स्या॒दथो॒क्थ्योऽथा॑तिरा॒त्र ए॒षाल्ँ लो॒कानाव्ँ॒विधृ॑त्यै॒ त्रीणि॑त्रीणि श॒तान्य॑नूचीना॒हमव्य॑वच्छिन्नानि ददाति [17]
ए॒षाल्ँ लो॒काना॒मनु॒ सन्त॑त्यै द॒शत॒न्न विच्छि॑न्द्याद्वि॒राज॒न्नेद्वि॑च्छि॒नदा॒नीत्यथ॒ या स॑हस्रत॒म्यासी॒त्तस्या॒मिन्द्र॑श्च॒ विष्णु॑श्च॒ व्याय॑च्छेताँ॒ स इन्द्रो॑ऽमन्यता॒नया॒ वा इ॒दव्ँविष्णु॑स्स॒हस्रव्ँ॑वर्क्ष्यत॒ इति॒ तस्या॑मकल्पेता॒न्द्विभा॑ग॒ इन्द्र॒स्तृती॑ये॒ विष्णु॒स्तद्वा ए॒षाभ्यनू॑च्यत उ॒भा जि॑ग्यथु॒रिति॒ ताव्ँवा ए॒ताम॑च्छावा॒कः [18]
ए॒व शँ॑स॒त्यथ॒ या स॑हस्रत॒मी सा होत्रे॒ देयेति॒ होता॑रव्ँ॒ वा अ॒भ्यति॑रिच्यते॒ यद॑ति॒रिच्य॑ते॒ होताना॑प्तस्यापयि॒ताथा॑हुरुन्ने॒त्रे देयेत्यति॑रिक्ता॒ वा ए॒षा स॒हस्र॒स्याति॑रिक्त उन्ने॒तर्त्विजा॒मथा॑हु॒स्सर्वे॑भ्यस्सद॒स्ये॑भ्यो॒ देयेत्यथा॑हुरुदा॒कृत्या॒ सा वश॑ञ्चरे॒दित्यथा॑हुर्ब्र॒ह्मणे॑ चा॒ग्नीधे॑ च॒ देयेति॑ [19]
द्विभा॑गम्ब्र॒ह्मणे॒ तृती॑यम॒ग्नीध॑ ऐ॒न्द्रो वै ब्र॒ह्मा वै॑ष्ण॒वो॑ऽग्नीद्यथै॒व तावक॑ल्पेता॒मित्यथा॑हु॒र्या क॑ल्या॒णी ब॑हुरू॒पा सा देयेत्यथा॑हु॒र्या द्वि॑रू॒पोभ॒यत॑एनी॒ सा देयेति॑ स॒हस्र॑स्य॒ परि॑गृहीत्यै॒ तद्वा ए॒तत्स॒हस्र॒स्याय॑नँ स॒हस्रँ॑ स्तो॒त्रीयाः॑ स॒हस्र॒न्दक्षि॑णास्स॒हस्र॑सम्मितस्सुव॒र्गो लो॒कस्सु॑व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ॥ [20]
सोमो॒ वै स॒हस्र॑मविन्द॒त्तमिन्द्रोऽन्व॑विन्द॒त्तौ य॒मो न्याग॑च्छ॒त्ताव॑ब्रवी॒दस्तु॒ मेऽत्रापीत्यस्तु॒ ही ३ इत्य॑ब्रूताँ॒ स य॒म एक॑स्याव्ँवी॒र्य॑म्पर्य॑पश्यदि॒यव्ँ वा अ॒स्य स॒हस्र॑स्य वी॒र्य॑म्बिभ॒र्तीति॒ ताव॑ब्रवीदि॒यम्ममास्त्वे॒तद्यु॒वयो॒रिति॒ ताव॑ब्रूताँ॒ सर्वे॒ वा ए॒तदे॒तस्याव्ँ॑वी॒र्य॑म् [21]
परि॑ पश्या॒मोऽँश॒मा ह॑रामहा॒ इति॒ तस्या॒मँश॒माह॑रन्त॒ ताम॒प्सु प्रावे॑शय॒न्त्सोमा॑यो॒देहीति॒ सा रोहि॑णी पिङ्ग॒लैक॑हायनी रू॒पङ्कृ॒त्वा त्रय॑स्त्रिँशता च त्रि॒भिश्च॑ श॒तैस्स॒होदैत्तस्मा॒द्रोहि॑ण्या पिङ्ग॒लयैक॑हायन्या॒ सोम॑ङ्क्रीणीया॒द्य ए॒वव्ँवि॒द्वान्रोहि॑ण्या पिङ्ग॒लयैक॑हायन्या॒ सोम॑ङ्क्री॒णाति॒ त्रय॑स्त्रिँशता चै॒वास्य॑ त्रि॒भिश्च॑ [22]
श॒तैस्सोम॑ᳵ क्री॒तो भ॑वति॒ सुक्री॑तेन यजते॒ ताम॒प्सु प्रावे॑शय॒न्निन्द्रा॑यो॒देहीति॒ सा रोहि॑णी लक्ष्म॒णा प॑ष्ठौ॒ही वार्त्र॑घ्नी रू॒पङ्कृ॒त्वा त्रय॑स्त्रिँशता च त्रि॒भिश्च॑ श॒तैस्स॒होदैत्तस्मा॒द्रोहि॑णील्ँलक्ष्म॒णाम्प॑ष्ठौ॒हीव्ँवार्त्र॑घ्नीन्दद्या॒द्य ए॒वव्ँवि॒द्वान्रोहि॑णील्ँलक्ष्म॒णाम्प॑ष्ठौ॒हीव्ँवार्त्र॑घ्नी॒न्ददा॑ति॒ त्रय॑स्त्रिँशच्चै॒वास्य॒ त्रीणि॑ च श॒तानि॒ सा द॒त्ता [23]
भ॒व॒ति॒ ताम॒प्सु प्रावे॑शयन्य॒मायो॒देहीति॒ सा जर॑ती मू॒र्खा त॑ज्जघ॒न्या रू॒पङ्कृ॒त्वा त्रय॑स्त्रिँशता च त्रि॒भिश्च॑ श॒तैस्स॒होदैत्तस्मा॒ज्जर॑तीम्मू॒र्खान्त॑ज्जघ॒न्याम॑नु॒स्तर॑णीङ्कुर्वीत॒ य ए॒वव्ँवि॒द्वाञ्जर॑तीम्मू॒र्खान्त॑ज्जघ॒न्याम॑नु॒स्तर॑णीङ्कुरु॒ते त्रय॑स्त्रिँशच्चै॒वास्य॒ त्रीणि॑ च श॒तानि॒ सामुष्मिल्ँ॑ लो॒के भ॑वति॒ वागे॒व स॑हस्रत॒मी तस्मा॑त् [24]
वरो॒ देय॒स्सा हि वर॑स्स॒हस्र॑मस्य॒ सा द॒त्ता भ॑वति॒ तस्मा॒द्वरो॒ न प्र॑ति॒गृह्य॒स्सा हि वर॑स्स॒हस्र॑मस्य॒ प्रति॑गृहीतम्भवती॒यव्ँवर॒ इति॑ ब्रूया॒दथा॒न्याम्ब्रू॑यादि॒यम्ममेति॒ तथा॑स्य॒ तत्स॒हस्र॒मप्र॑तिगृहीतम्भवत्युभयतए॒नी स्या॒त्तदा॑हुरन्यतए॒नी स्या॑त्स॒हस्र॑म्प॒रस्ता॒देत॒मिति॒ यैव वरः॑ [25]
क॒ल्या॒णी रू॒पस॑मृद्धा॒ सा स्या॒त्सा हि वर॒स्समृ॑द्ध्यै॒ तामुत्त॑रे॒णाग्नी॑ध्रम्पर्या॒णीया॑हव॒नीय॒स्यान्ते॑ द्रोणकल॒शमव॑ घ्रापये॒दा जि॑घ्र क॒लश॑म्मह्यु॒रुधा॑रा॒ पय॑स्व॒त्या त्वा॑ विश॒न्त्विन्द॑वस्समु॒द्रमि॑व॒ सिन्ध॑व॒स्सा मा॑ स॒हस्र॒ आ भ॑ज प्र॒जया॑ प॒शुभि॑स्स॒ह पुन॒र्मा वि॑शताद्र॒यिरिति॑ प्र॒जयै॒वैन॑म्प॒शुभी॑ र॒य्या सम् [26]
अ॒र्ध॒य॒ति॒ प्र॒जावा॑न्पशु॒मान्र॑यि॒मान्भ॑वति॒ य ए॒वव्ँ वेद॒ तया॑ स॒हाग्नी॑ध्रम्प॒रेत्य॑ पु॒रस्ता॑त्प्र॒तीच्या॒न्तिष्ठ॑न्त्याञ्जुहुयादु॒भा जि॑ग्यथु॒र्न परा॑ जयेथे॒ न परा॑ जिग्ये कत॒रश्च॒नैनोः॑ । इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथान्त्रे॒धा स॒हस्रव्ँ॒वि तदै॑रयेथा॒मिति॑ त्रेधाविभ॒क्तव्ँ वै त्रि॑रा॒त्रे स॒हस्रँ॑ साह॒स्रीमे॒वैना॑ङ्करोति स॒हस्र॑स्यै॒वैना॒म्मात्रा॑म् [27]
क॒रो॒ति॒ रू॒पाणि॑ जुहोति रू॒पैरे॒वैनाँ॒ सम॑र्धयति॒ तस्या॑ उपो॒त्थाय॒ कर्ण॒मा ज॑पे॒दिडे॒ रन्तेऽदि॑ते॒ सर॑स्वति॒ प्रिये॒ प्रेय॑सि॒ महि॒ विश्रु॑त्ये॒तानि॑ ते अघ्निये॒ नामा॑नि सु॒कृत॑म्मा दे॒वेषु॑ ब्रूता॒दिति॑ दे॒वेभ्य॑ ए॒वैन॒मा वे॑दय॒त्यन्वे॑नन्दे॒वा बु॑ध्यन्ते ॥ [28]
स॒ह॒स्र॒त॒म्या॑ वै यज॑मानस्सुव॒र्गल्ँ लो॒कमे॑ति॒ सैनँ॑ सुव॒र्गल्ँ लो॒कङ्ग॑मयति॒ सा मा॑ सुव॒र्गल्ँ लो॒कङ्ग॑म॒येत्या॑ह सुव॒र्गमे॒वैनल्ँ॑ लो॒कङ्ग॑मयति॒ सा मा॒ ज्योति॑ष्मन्तल्ँ लो॒कङ्ग॑म॒येत्या॑ह॒ ज्योति॑ष्मन्तमे॒वैनल्ँ॑ लो॒कङ्ग॑मय॒ति सा मा॒ सर्वा॒न्पुण्या॑ल्लोँ॒कान्ग॑म॒येत्या॑ह॒ सर्वा॑ने॒वैन॒म्पुण्या॑ल्लोँ॒कान्ग॑मयति॒ सा [29]
मा॒ प्र॒ति॒ष्ठाङ्ग॑मय प्र॒जया॑ प॒शुभि॑स्स॒ह पुन॒र्मा वि॑शताद्र॒यिरिति॑ प्र॒जयै॒वैन॑म्प॒शुभी॑ र॒य्याम्प्रति॑ ष्ठापयति प्र॒जावा॑न्पशु॒मान्र॑यि॒मान्भ॑वति॒ य ए॒वव्ँ वेद॒ ताम॒ग्नीधे॑ वा ब्र॒ह्मणे॑ वा॒ होत्रे॑ वोद्गा॒त्रे वा॑ध्व॒र्यवे॑ वा दद्यात्स॒हस्र॑मस्य॒ सा द॒त्ता भ॑वति स॒हस्र॑मस्य॒ प्रति॑गृहीतम्भवति॒ यस्तामवि॑द्वान् [30]
प्र॒ति॒गृ॒ह्णाति॒ ताम्प्रति॑ गृह्णीया॒देका॑सि॒ न स॒हस्र॒मेका॑न्त्वा भू॒ताम्प्रति॑ गृह्णामि॒ न स॒हस्र॒मेका॑ मा भू॒ता वि॑श॒ मा स॒हस्र॒मित्येका॑मे॒वैना॑म्भू॒ताम्प्रति॑ गृह्णाति॒ न स॒हस्रय्ँ॒य ए॒वव्ँ वेद॑ स्यो॒नासि॑ सु॒षदा॑ सु॒शेवा॑ स्यो॒ना मा वि॑श सु॒षदा॒ मा वि॑श सु॒शेवा॒ मा वि॑श [31]
इत्या॑ह स्यो॒नैवैनँ॑ सु॒षदा॑ सु॒शेवा॑ भू॒ता वि॑शति॒ नैनँ॑ हिनस्ति ब्रह्मवा॒दिनो॑ वदन्ति स॒हस्रँ॑ सहस्रत॒म्यन्वे॒ती ३ स॑हस्रत॒मीँ स॒हस्रा ३ मिति॒ यत्प्राची॑मुत्सृ॒जेत्स॒हस्रँ॑ सहस्रत॒म्यन्वि॑या॒त्तत्स॒हस्र॑मप्रज्ञा॒त्रँ सु॑व॒र्गल्ँ लो॒कन्न प्र जा॑नीयात्प्र॒तीची॒मुत्सृ॑जति॒ ताँ स॒हस्र॒मनु॑ प॒र्याव॑र्तते॒ सा प्र॑जान॒ती सु॑व॒र्गल्ँ लो॒कमे॑ति॒ यज॑मानम॒भ्युत्सृ॑जति क्षि॒प्रे स॒हस्र॒म्प्र जा॑यत उत्त॒मा नी॒यते॑ प्रथ॒मा दे॒वान्ग॑च्छति ॥ [32]
अत्रि॑रददा॒दौर्वा॑य प्र॒जाम्पु॒त्रका॑माय॒ स रि॑रिचा॒नो॑ऽमन्यत॒ निर्वी॑र्यश्शिथि॒लो या॒तया॑मा॒ स ए॒तञ्च॑तूरा॒त्रम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै तस्य॑ च॒त्वारो॑ वी॒रा आऽजा॑यन्त॒ सुहो॑ता॒ सू॑द्गाता॒ स्व॑ध्वर्यु॒स्सुस॑भेयो॒ य ए॒वव्ँवि॒द्वाँश्च॑तूरा॒त्रेण॒ यज॑त॒ आस्य॑ च॒त्वारो॑ वी॒रा जा॑यन्ते॒ सुहो॑ता॒ सू॑द्गाता॒ स्व॑ध्वर्यु॒स्सुस॑भेयो॒ ये च॑तुर्विँ॒शाᳶ पव॑माना ब्रह्मवर्च॒सन्तत् [33]
य उ॒द्यन्त॒स्स्तोमा॒श्श्रीस्सात्रिँ॑ श्र॒द्धादे॑वय्ँ॒यज॑मानञ्च॒त्वारि॑ वी॒र्या॑णि॒ नोपा॑नम॒न्तेज॑ इन्द्रि॒यम्ब्र॑ह्मवर्च॒सम॒न्नाद्यँ॒ स ए॒ताँश्च॒तुर॒श्चतु॑ष्टोमा॒न्त्सोमा॑नपश्य॒त्तानाह॑र॒त्तैर॑यजत॒ तेज॑ ए॒व प्र॑थ॒मेनावा॑रुन्द्धेन्द्रि॒यन्द्वि॒तीये॑न ब्रह्मवर्च॒सन्तृ॒तीये॑ना॒न्नाद्य॑ञ्चतु॒र्थेन॒ य ए॒वव्ँवि॒द्वाँश्च॒तुर॒श्चतु॑ष्टोमा॒न्त्सोमा॑ना॒हर॑ति॒ तैर्यज॑ते॒ तेज॑ ए॒व प्र॑थ॒मेनाव॑ रुन्द्ध इन्द्रि॒यन्द्वि॒तीये॑न ब्रह्मवर्च॒सन्तृ॒तीये॑ना॒न्नाद्य॑ञ्चतु॒र्थेन॒ यामे॒वात्रि॒र्ऋद्धि॒मार्ध्नो॒त्तामे॒व यज॑मान ऋध्नोति ॥ [34]
ज॒मद॑ग्नि॒ᳶ पुष्टि॑कामश्चतूरा॒त्रेणा॑यजत॒ स ए॒तान्पोषाँ॑ अपुष्य॒त्तस्मा॑त्पलि॒तौ जाम॑दग्नियौ॒ न सञ्जा॑नाते ए॒ताने॒व पोषा॑न्पुष्यति॒ य ए॒वव्ँवि॒द्वाँश्च॑तूरा॒त्रेण॒ यज॑ते पुरोडा॒शिन्य॑ उप॒सदो॑ भवन्ति प॒शवो॒ वै पु॑रो॒डाशᳶ॑ प॒शूने॒वाव॑ रु॒न्द्धेऽन्नव्ँ॒ वै पु॑रो॒डाशोऽन्न॑मे॒वाव॑ रुन्द्धेऽन्ना॒दᳶ प॑शु॒मान्भ॑वति॒ य ए॒वव्ँवि॒द्वाँश्च॑तूरा॒त्रेण॒ यज॑ते ॥ [35]
सव्ँ॒व॒त्स॒रो वा इ॒दमेक॑ आसी॒त्सो॑ऽकामयत॒र्तून्त्सृ॑जे॒येति॒ स ए॒तम्प॑ञ्चरा॒त्रम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै स ऋ॒तून॑सृजत॒ य ए॒वव्ँवि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते॒ प्रैव जा॑यते॒ त ऋ॒तव॑स्सृ॒ष्टा न व्याव॑र्तन्त॒ त ए॒तम्प॑ञ्चरा॒त्रम॑पश्य॒न्तमाह॑र॒न्तेना॑यजन्त॒ ततो॒ वै ते व्याव॑र्तन्त [36]
य ए॒वव्ँवि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते॒ वि पा॒प्मना॒ भ्रातृ॑व्ये॒णा व॑र्तते॒ सार्व॑सेनिश्शौचे॒यो॑ऽकामयत पशु॒मान्त्स्या॒मिति॒ स ए॒तम्प॑ञ्चरा॒त्रमाह॑र॒त्तेना॑यजत॒ ततो॒ वै स स॒हस्र॑म्प॒शून्प्राप्नो॒द्य ए॒वव्ँवि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते॒ प्र स॒हस्र॑म्प॒शूना॑प्नोति बब॒रᳶ प्रावा॑हणिरकामयत वा॒चᳶ प्र॑वदि॒ता स्या॒मिति॒ स ए॒तम्प॑ञ्चरा॒त्रमा [37]
अ॒ह॒र॒त्तेना॑यजत॒ ततो॒ वै स वा॒चᳶ प्र॑वदि॒ताभ॑व॒द्य ए॒वव्ँवि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते प्रवदि॒तैव वा॒चो भ॑व॒त्यथो॑ एनव्ँवा॒चस्पति॒रित्या॑हु॒रना॑प्तश्चतूरा॒त्रोऽति॑रिक्तष्षड्रा॒त्रोऽथ॒ वा ए॒ष स॑म्प्र॒ति य॒ज्ञो यत्प॑ञ्चरा॒त्रो य ए॒वव्ँवि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते सम्प्र॒त्ये॑व य॒ज्ञेन॑ यजते पञ्चरा॒त्रो भ॑वति॒ पञ्च॒ वा ऋ॒तव॑स्सव्ँवत्स॒रः [38]
ऋ॒तुष्वे॒व सव्ँ॑वत्स॒रे प्रति॑ तिष्ठ॒त्यथो॒ पञ्चा॑क्षरा प॒ङ्क्तिᳶ पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्धे त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒ तेज॑ ए॒वाव॑ रुन्द्धे पञ्चद॒शो भ॑वतीन्द्रि॒यमे॒वाव॑ रुन्द्धे सप्तद॒शो भ॑वत्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायते पञ्चविँ॒शो॑ऽग्निष्टो॒मो भ॑वति प्र॒जाप॑ते॒राप्त्यै॑ महाव्र॒तवा॑न॒न्नाद्य॒स्याव॑रुद्ध्यै विश्व॒जित्सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति॒ सर्व॑स्या॒भिजि॑त्यै ॥ [39]
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॑ऽश्विनो॑र्बा॒हुभ्या॑म्पू॒ष्णो हस्ता॑भ्या॒मा द॑द इ॒माम॑गृभ्णन्रश॒नामृ॒तस्य॒ पूर्व॒ आयु॑षि वि॒दथे॑षु क॒व्या । तया॑ दे॒वास्सु॒तमा ब॑भूवुर्ऋ॒तस्य॒ साम॑न्त्स॒रमा॒रप॑न्ती । अ॒भि॒धा अ॑सि॒ भुव॑नमसि य॒न्तासि॑ ध॒र्तासि॒ सो॑ऽग्निव्ँ वै॑श्वान॒रँ सप्र॑थसङ्गच्छ॒ स्वाहा॑कृतᳶ पृथि॒व्याय्ँय॒न्ता राड्य॒न्तासि॒ यम॑नो ध॒र्तासि॑ ध॒रुण॑ᳵ कृ॒ष्यै त्वा॒ क्षेमा॑य त्वा र॒य्यै त्वा॒ पोषा॑य त्वा पृथि॒व्यै त्वा॒न्तरि॑क्षाय त्वा दि॒वे त्वा॑ स॒ते त्वास॑ते त्वा॒द्भ्यस्त्वौष॑धीभ्यस्त्वा॒ विश्वे॑भ्यस्त्वा भू॒तेभ्यः॑ ॥ [40]
वि॒भूर्मा॒त्रा प्र॒भूᳶ पि॒त्राश्वो॑ऽसि॒ हयो॒ऽस्यत्यो॑ऽसि॒ नरो॒ऽस्यर्वा॑सि॒ सप्ति॑रसि वा॒ज्य॑सि॒ वृषा॑सि नृ॒मणा॑ असि॒ ययु॒र्नामा॑स्यादि॒त्याना॒म्पत्वान्वि॑ह्य॒ग्नये॒ स्वाहा॒ स्वाहे॑न्द्रा॒ग्निभ्याँ॒ स्वाहा॑ प्र॒जाप॑तये॒ स्वाहा॒ विश्वे॑भ्यो दे॒वेभ्य॒स्स्वाहा॒ सर्वा॑भ्यो दे॒वेता॑भ्य इ॒ह धृति॒स्स्वाहे॒ह विधृ॑ति॒स्स्वाहे॒ह रन्ति॒स्स्वाहे॒ह रम॑ति॒स्स्वाहा॒ भूर॑सि भु॒वे त्वा॒ भव्या॑य त्वा भविष्य॒ते त्वा॒ विश्वे॑भ्यस्त्वा भू॒तेभ्यो॒ देवा॑ आशापाला ए॒तन्दे॒वेभ्योऽश्व॒म्मेधा॑य॒ प्रोक्षि॑तङ्गोपायत ॥ [41]
आय॑नाय॒ स्वाहा॒ प्राय॑णाय॒ स्वाहो॑द्द्रा॒वाय॒ स्वाहोद्द्रु॑ताय॒ स्वाहा॑ शूका॒राय॒ स्वाहा॒ शूकृ॑ताय॒ स्वाहा॒ पला॑यिताय॒ स्वाहा॒ऽऽपला॑यिताय॒ स्वाहा॒ऽऽवल्ग॑ते॒ स्वाहा॑ परा॒वल्ग॑ते॒ स्वाहा॑ऽऽय॒ते स्वाहा॑ प्रय॒ते स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ [42]
अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॑ वा॒यवे॒ स्वाहा॒पाम्मोदा॑य॒ स्वाहा॑ सवि॒त्रे स्वाहा॒ सर॑स्वत्यै॒ स्वाहेन्द्रा॑य॒ स्वाहा॒ बृह॒स्पत॑ये॒ स्वाहा॑ मि॒त्राय॒ स्वाहा॒ वरु॑णाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ 43 ॥
पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहा॑ दि॒वे स्वाहा॒ सूर्या॑य॒ स्वाहा॑ च॒न्द्रम॑से॒ स्वाहा॒ नक्ष॑त्रेभ्य॒स्स्वाहा॒ प्राच्यै॑ दि॒शे स्वाहा॒ दक्षि॑णायै दि॒शे स्वाहा॑ प्र॒तीच्यै॑ दि॒शे स्वाहोदी॑च्यै दि॒शे स्वाहो॒र्ध्वायै॑ दि॒शे स्वाहा॑ दि॒ग्भ्यस्स्वाहा॑ऽवान्तरदि॒शाभ्य॒स्स्वाहा॒ समा॑भ्य॒स्स्वाहा॑ श॒रद्भ्य॒स्स्वाहा॑ऽहोरा॒त्रेभ्य॒स्स्वाहा॑ऽर्धमा॒सेभ्य॒स्स्वाहा॒ मासे॑भ्य॒स्स्वाह॒र्तुभ्य॒स्स्वाहा॑ सव्ँवत्स॒राय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ 44 ॥
अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॑ सवि॒त्रे स्वाहा॒ सर॑स्वत्यै॒ स्वाहा॑ पू॒ष्णे स्वाहा॒ बृह॒स्पत॑ये॒ स्वाहा॒ऽपाम्मोदा॑य॒ स्वाहा॑ वा॒यवे॒ स्वाहा॑ मि॒त्राय॒ स्वाहा॒ वरु॑णाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ 45 ॥
पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहा॑ दि॒वे स्वाहा॒ऽग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॒ सूर्या॑य॒ स्वाहा॑ च॒न्द्रम॑से॒ स्वाहाऽह्ने॒ स्वाहा॒ रात्रि॑यै॒ स्वाह॒र्जवे॒ स्वाहा॑ सा॒धवे॒ स्वाहा॑ सुक्षि॒त्यै स्वाहा॑ क्षु॒धे स्वाहा॑ऽऽशिति॒म्ने स्वाहा॒ रोगा॑य॒ स्वाहा॑ हि॒माय॒ स्वाहा॑ शी॒ताय॒ स्वाहा॑ऽऽत॒पाय॒ स्वाहाऽर॑ण्याय॒ स्वाहा॑ सुव॒र्गाय॒ स्वाहा॑ लो॒काय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ 46 ॥
भुवो॑ दे॒वाना॒ङ्कर्म॑णा॒पस॒र्तस्य॑ प॒थ्या॑सि॒ वसु॑भिर्दे॒वेभि॑र्दे॒वत॑या गाय॒त्रेण॑ त्वा॒ छन्द॑सा युनज्मि वस॒न्तेन॑ त्व॒र्तुना॑ ह॒विषा॑ दीक्षयामि रु॒द्रेभि॑र्दे॒वेभि॑र्दे॒वत॑या॒ त्रैष्टु॑भेन त्वा॒ छन्द॑सा युनज्मि ग्री॒ष्मेण॑ त्व॒र्तुना॑ ह॒विषा॑ दीक्षयाम्यादि॒त्येभि॑र्दे॒वेभि॑र्दे॒वत॑या॒ जाग॑तेन त्वा॒ छन्द॑सा युनज्मि व॒र्षाभि॑स्त्व॒र्तुना॑ ह॒विषा॑ दीक्षयामि॒ विश्वे॑भिर्दे॒वेभि॑र्दे॒वत॒यानु॑ष्टुभेन त्वा॒ छन्द॑सा युनज्मि [47]
श॒रदा॑ त्व॒र्तुना॑ ह॒विषा॑ दीक्षया॒म्यङ्गि॑रोभिर्दे॒वेभि॑र्दे॒वत॑या॒ पाङ्क्ते॑न त्वा॒ छन्द॑सा युनज्मि हेमन्तशिशि॒राभ्या॑न्त्व॒र्तुना॑ ह॒विषा॑ दीक्षया॒म्याहन्दी॒क्षाम॑रुहमृ॒तस्य॒ पत्नी॑ङ्गाय॒त्रेण॒ छन्द॑सा॒ ब्रह्म॑णा च॒र्तँ स॒त्ये॑ऽधाँ स॒त्यमृ॒ते॑ऽधाम् । म॒हीमू॒ षु सु॒त्रामा॑णमि॒ह धृति॒स्स्वाहे॒ह विधृ॑ति॒स्स्वाहे॒ह रन्ति॒स्स्वाहे॒ह रम॑ति॒स्स्वाहा॑ ॥ 48 ॥
ई॒ङ्का॒राय॒ स्वाहेङ्कृ॑ताय॒ स्वाहा॒ क्रन्द॑ते॒ स्वाहा॑ऽव॒क्रन्द॑ते॒ स्वाहा॒ प्रोथ॑ते॒ स्वाहा॑ प्र॒प्रोथ॑ते॒ स्वाहा॑ ग॒न्धाय॒ स्वाहा॑ घ्रा॒ताय॒ स्वाहा॑ प्रा॒णाय॒ स्वाहा॑ व्या॒नाय॒ स्वाहा॑ऽपा॒नाय॒ स्वाहा॑ सन्दी॒यमा॑नाय॒ स्वाहा॒ सन्दि॑ताय॒ स्वाहा॑ विचृ॒त्यमा॑नाय॒ स्वाहा॒ विचृ॑त्ताय॒ स्वाहा॑ पलायि॒ष्यमा॑णाय॒ स्वाहा॒ पला॑यिताय॒ स्वाहो॑परँस्य॒ते स्वाहोप॑रताय॒ स्वाहा॑ निवेक्ष्य॒ते स्वाहा॑ निवि॒शमा॑नाय॒ स्वाहा॒ निवि॑ष्टाय॒ स्वाहा॑ निषत्स्य॒ते स्वाहा॑ नि॒षीद॑ते॒ स्वाहा॒ निष॑ण्णाय॒ स्वाहा॑ [49]
आ॒सि॒ष्य॒ते स्वाहाऽऽसी॑नाय॒ स्वाहा॑ऽऽसि॒ताय॒ स्वाहा॑ निपत्स्य॒ते स्वाहा॑ नि॒पद्य॑मानाय॒ स्वाहा॒ निप॑न्नाय॒ स्वाहा॑ शयिष्य॒ते स्वाहा॒ शया॑नाय॒ स्वाहा॑ शयि॒ताय॒ स्वाहा॑ सम्मीलिष्य॒ते स्वाहा॑ स॒म्मील॑ते॒ स्वाहा॒ सम्मी॑लिताय॒ स्वाहा॑ स्वप्स्य॒ते स्वाहा॑ स्वप॒ते स्वाहा॑ सु॒प्ताय॒ स्वाहा॑ प्रभोत्स्य॒ते स्वाहा॑ प्र॒बुध्य॑मानाय॒ स्वाहा॒ प्रबु॑द्धाय॒ स्वाहा॑ जागरिष्य॒ते स्वाहा॒ जाग्र॑ते॒ स्वाहा॑ जागरि॒ताय॒ स्वाहा॒ शुश्रू॑षमाणाय॒ स्वाहा॑ शृण्व॒ते स्वाहा॑ श्रु॒ताय॒ स्वाहा॑ वीक्षिष्य॒ते स्वाहा॑ [50]
वीक्ष॑माणाय॒ स्वाहा॒ वीक्षि॑ताय॒ स्वाहा॑ सँहास्य॒ते स्वाहा॑ स॒ञ्जिहा॑नाय॒ स्वाहो॒ज्जिहा॑नाय॒ स्वाहा॑ विवर्त्स्य॒ते स्वाहा॑ वि॒वर्त॑मानाय॒ स्वाहा॒ विवृ॑त्ताय॒ स्वाहो॑त्थास्य॒ते स्वाहो॒त्तिष्ठ॑ते॒ स्वाहोत्थि॑ताय॒ स्वाहा॑ विधविष्य॒ते स्वाहा॑ विधून्वा॒नाय॒ स्वाहा॒ विधू॑ताय॒ स्वाहो॑त्क्रँस्य॒ते स्वाहो॒त्क्राम॑ते॒ स्वाहोत्क्रा॑न्ताय॒ स्वाहा॑ चङ्क्रमिष्य॒ते स्वाहा॑ चङ्क्र॒म्यमा॑णाय॒ स्वाहा॑ चङ्क्रमि॒ताय॒ स्वाहा॑ कण्डूयिष्य॒ते स्वाहा॑ कण्डू॒यमा॑नाय॒ स्वाहा॑ कण्डूयि॒ताय॒ स्वाहा॑ निकषिष्य॒ते स्वाहा॑ नि॒कष॑माणाय॒ स्वाहा॒ निक॑षिताय॒ स्वाहा॒ यदत्ति॒ तस्मै॒ स्वाहा॒ यत्पिब॑ति॒ तस्मै॒ स्वाहा॒ यन्मेह॑ति॒ तस्मै॒ स्वाहा॒ यच्छकृ॑त्क॒रोति॒ तस्मै॒ स्वाहा॒ रेत॑से॒ स्वाहा॑ प्र॒जाभ्य॒स्स्वाहा॑ प्रजन॑नाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ [51]
अ॒ग्नये॒ स्वाहा॑ वा॒यवे॒ स्वाहा॒ सूर्या॑य॒ स्वाह॒र्तम॑स्यृ॒तस्य॒र्तम॑सि स॒त्यम॑सि स॒त्यस्य॑ स॒त्यम॑स्यृ॒तस्य॒ पन्था॑ असि दे॒वाना॑ञ्छा॒याऽमृ॑तस्य॒ नाम॒ तत्स॒त्यय्ँयत्त्वम्प्र॒जाप॑ति॒रस्यधि॒ यद॑स्मिन्वा॒जिनी॑व॒ शुभ॒स्स्पर्ध॑न्ते॒ दिव॒स्सूर्ये॑ण॒ विशो॒ऽपो वृ॑णा॒नᳶ प॑वते क॒व्यन्प॒शुन्न गो॒पा इर्य॒ᳶ परि॑ज्मा ॥ 52 ॥