य॒ज्ञेन॒ वै प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत॒ ता उ॑प॒यड्भि॑रे॒वासृ॑जत॒ यदु॑प॒यज॑ उप॒यज॑ति प्र॒जा ए॒व तद्यज॑मानस्सृजते जघना॒र्धादव॑ द्यति जघना॒र्धाद्धि प्र॒जाᳶ प्र॒जाय॑न्ते स्थविम॒तोऽव॑ द्यति स्थविम॒तो हि प्र॒जाᳶ प्र॒जाय॒न्तेऽस॑म्भिन्द॒न्नव॑ द्यति प्रा॒णाना॒मस॑म्भेदाय॒ न प॒र्याव॑र्तयति॒ यत्प॑र्याव॒र्तये॑दुदाव॒र्तᳶ प्र॒जा ग्राहु॑कस्स्यात्समु॒द्रङ्ग॑च्छ॒ स्वाहेत्या॑ह॒ रेतः॑ [1]
ए॒व तद्द॑धात्य॒न्तरि॑क्षङ्गच्छ॒ स्वाहेत्या॑हा॒न्तरि॑क्षेणै॒वास्मै॑ प्र॒जाᳶ प्र ज॑नयत्य॒न्तरि॑क्षँ॒ ह्यनु॑ प्र॒जाᳶ प्र॒जाय॑न्ते दे॒वँ स॑वि॒तार॑ङ्गच्छ॒ स्वाहेत्या॑ह सवि॒तृप्र॑सूत ए॒वास्मै॑ प्र॒जाᳶ प्र ज॑नयत्यहोरा॒त्रे ग॑च्छ॒ स्वाहेत्या॑हाहोरा॒त्राभ्या॑मे॒वास्मै॑ प्र॒जाᳶ प्र ज॑नयत्यहोरा॒त्रे ह्यनु॑ प्र॒जाᳶ प्र॒जाय॑न्ते मि॒त्रावरु॑णौ गच्छ॒ स्वाहा॑ [2]
इत्या॑ह प्र॒जास्वे॒व प्रजा॑तासु प्राणापा॒नौ द॑धाति॒ सोम॑ङ्गच्छ॒ स्वाहेत्या॑ह सौ॒म्या हि दे॒वत॑या प्र॒जा य॒ज्ञङ्ग॑च्छ॒ स्वाहेत्या॑ह प्र॒जा ए॒व य॒ज्ञियाः॑ करोति॒ छन्दाँ॑सि गच्छ॒ स्वाहेत्या॑ह प॒शवो॒ वै छन्दाँ॑सि प॒शूने॒वाव॑ रुन्द्धे॒ द्यावा॑पृथि॒वी ग॑च्छ॒ स्वाहेत्या॑ह प्र॒जा ए॒व प्रजा॑ता॒ द्यावा॑पृथि॒वीभ्या॑मुभ॒यत॒ᳶ परि॑ गृह्णाति॒ नभः॑ [3]
दि॒व्यङ्ग॑च्छ॒ स्वाहेत्या॑ह प्र॒जाभ्य॑ ए॒व प्रजा॑ताभ्यो॒ वृष्टि॒न्नि य॑च्छत्य॒ग्निव्ँ वै॑श्वान॒रङ्ग॑च्छ॒ स्वाहेत्या॑ह प्र॒जा ए॒व प्रजा॑ता अ॒स्याम्प्रति॑ ष्ठापयति प्रा॒णानाव्ँ॒वा ए॒षोऽव॑ द्यति॒ यो॑ऽव॒द्यति॑ गु॒दस्य॒ मनो॑ मे॒ हार्दि॑ य॒च्छेत्या॑ह प्रा॒णाने॒व य॑थास्था॒नमुप॑ ह्वयते प॒शोर्वा आल॑ब्धस्य॒ हृद॑यँ॒ शुगृ॑च्छति॒ सा हृ॑दयशू॒लम् [4]
अ॒भि समे॑ति॒ यत्पृ॑थि॒व्याँ हृ॑दयशू॒लमु॑द्वा॒सये॑त्पृथि॒वीँ शु॒चार्प॑ये॒द्यद॒प्स्व॑पश्शु॒चार्प॑ये॒च्छुष्क॑स्य चा॒र्द्रस्य॑ च स॒न्धावुद्वा॑सयत्यु॒भय॑स्य॒ शान्त्यै॒ यन्द्वि॒ष्यात्तन्ध्या॑येच्छु॒चैवैन॑मर्पयति ॥ [5]
दे॒वा वै य॒ज्ञमाग्नी॑ध्रे॒ व्य॑भजन्त॒ ततो॒ यद॒त्यशि॑ष्यत॒ तद॑ब्रुव॒न्वस॑तु॒ नु न॑ इ॒दमिति॒ तद्व॑सती॒वरी॑णाव्ँवसतीवरि॒त्वन्तस्मि॑न्प्रा॒तर्न सम॑शक्नुव॒न्तद॒प्सु प्रावे॑शय॒न्ता व॑सती॒वरी॑रभवन्वसती॒वरी॑र्गृह्णाति य॒ज्ञो वै व॑सती॒वरी॑र्य॒ज्ञमे॒वारभ्य॑ गृही॒त्वोप॑ वसति॒ यस्यागृ॑हीता अ॒भि नि॒म्रोचे॒दना॑रब्धोऽस्य य॒ज्ञस्स्या॑त् [6]
य॒ज्ञव्ँवि च्छि॑न्द्याज्ज्योति॒ष्या॑ वा गृह्णी॒याद्धिर॑ण्यव्ँवाव॒धाय॒ सशु॑क्राणामे॒व गृ॑ह्णाति॒ यो वा॑ ब्राह्म॒णो ब॑हुया॒जी तस्य॒ कुम्भ्या॑नाङ्गृह्णीया॒त्स हि गृ॑ही॒तव॑सतीवरीको वसती॒वरी॑र्गृह्णाति प॒शवो॒ वै व॑सती॒वरीः॑ प॒शूने॒वारभ्य॑ गृही॒त्वोप॑ वसति॒ यद॑न्वी॒पन्तिष्ठ॑न्गृह्णी॒यान्नि॒र्मार्गु॑का अस्मात्प॒शव॑स्स्युᳶ प्रती॒पन्तिष्ठ॑न्गृह्णाति प्रति॒रुध्यै॒वास्मै॑ प॒शून्गृ॑ह्णा॒तीन्द्रः॑ [7]
वृ॒त्रम॑ह॒न्त्सो ३॑ऽपो ३॑ऽभ्य॑म्रियत॒ तासाय्ँ॒यन्मेध्यय्ँ॑ य॒ज्ञियँ॒ सदे॑व॒मासी॒त्तदत्य॑मुच्यत॒ ता वह॑न्तीरभव॒न्वह॑न्तीनाङ्गृह्णाति॒ या ए॒व मेध्या॑ य॒ज्ञिया॒स्सदे॑वा॒ आप॒स्तासा॑मे॒व गृ॑ह्णाति॒ नान्त॒मा वह॑न्ती॒रती॑या॒द्यद॑न्त॒मा वह॑न्तीरती॒याद्य॒ज्ञमति॑ मन्येत॒ न स्था॑व॒राणा॑ङ्गृह्णीया॒द्वरु॑णगृहीता॒ वै स्था॑व॒रा यत्स्था॑व॒राणा॑ङ्गृह्णी॒यात् [8]
वरु॑णेनास्य य॒ज्ञङ्ग्रा॑हये॒द्यद्वै दिवा॒ भव॑त्य॒पो रात्रि॒ᳶ प्र वि॑शति॒ तस्मा॑त्ता॒म्रा आपो॒ दिवा॑ ददृश्रे॒ यन्नक्त॒म्भव॑त्य॒पोऽह॒ᳶ प्र वि॑शति॒ तस्मा॑च्च॒न्द्रा आपो॒ नक्त॑न्ददृश्रे छा॒यायै॑ चा॒तप॑तश्च स॒न्धौ गृ॑ह्णात्यहोरा॒त्रयो॑रे॒वास्मै॒ वर्ण॑ङ्गृह्णाति ह॒विष्म॑तीरि॒मा आप॒ इत्या॑ह ह॒विष्कृ॑तानामे॒व गृ॑ह्णाति ह॒विष्माँ॑ अस्तु [9]
सूर्य॒ इत्या॑ह॒ सशु॑क्राणामे॒व गृ॑ह्णात्यनु॒ष्टुभा॑ गृह्णाति॒ वाग्वा अ॑नु॒ष्टुग्वा॒चैवैना॒स्सर्व॑या गृह्णाति॒ चतु॑ष्पदय॒र्चा गृ॑ह्णाति॒ त्रिस्सा॑दयति स॒प्त सम्प॑द्यन्ते स॒प्तप॑दा॒ शक्व॑री प॒शव॒श्शक्व॑री प॒शूने॒वाव॑ रुन्द्धे॒ऽस्मै वै लो॒काय॒ गार्ह॑पत्य॒ आ धी॑यते॒ऽमुष्मा॑ आहव॒नीयो॒ यद्गार्ह॑पत्य उपसा॒दये॑द॒स्मिल्लोँ॒के प॑शु॒मान्त्स्या॒द्ययदा॑हव॒नीये॒ऽमुष्मि॑न् [10]
लो॒के प॑शु॒मान्त्स्या॑दु॒भयो॒रुप॑ सादयत्यु॒भयो॑रे॒वैनल्ँ॑ लो॒कयोः॑ पशु॒मन्त॑ङ्करोति स॒र्वत॒ᳶ परि॑ हरति॒ रक्ष॑सा॒मप॑हत्या इन्द्राग्नि॒योर्भा॑ग॒धेयी॒स्स्थेत्या॑ह यथाय॒जुरे॒वैतदाग्नी॑ध्र॒ उप॑ वासयत्ये॒तद्वै य॒ज्ञस्याप॑राजितय्ँ॒यदाग्नी॑ध्रय्ँ॒यदे॒व य॒ज्ञस्याप॑राजित॒न्तदे॒वैना॒ उप॑ वासयति॒ यत॒ᳵ खलु॒ वै य॒ज्ञस्य॒ वित॑तस्य॒ न क्रि॒यते॒ तदनु॑ य॒ज्ञँ रक्षाँ॒स्यव॑ चरन्ति॒ यद्वह॑न्तीनाङ्गृ॒ह्णाति॑ क्रि॒यमा॑णमे॒व तद्य॒ज्ञस्य॑ शये॒ रक्ष॑सा॒मन॑न्ववचाराय॒ न ह्ये॑ता ई॒लय॒न्त्या तृ॑तीयसव॒नात्परि॑ शेरे य॒ज्ञस्य॒ सन्त॑त्यै ॥ [11]
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ स त्वा अ॑ध्व॒र्युस्स्या॒द्यस्सोम॑मुपाव॒हर॒न्त्सर्वा॑भ्यो दे॒वता॑भ्य उपाव॒हरे॒दिति॑ हृ॒दे त्वेत्या॑ह मनु॒ष्ये॑भ्य ए॒वैतेन॑ करोति॒ मन॑से॒ त्वेत्या॑ह पि॒तृभ्य॑ ए॒वैतेन॑ करोति दि॒वे त्वा॒ सूर्या॑य॒ त्वेत्या॑ह दे॒वेभ्य॑ ए॒वैतेन॑ करोत्ये॒ताव॑ती॒र्वै दे॒वता॒स्ताभ्य॑ ए॒वैनँ॒ सर्वा॑भ्य उ॒पाव॑हरति पु॒रा वा॒चः [12]
प्रव॑दितोᳶ प्रातरनुवा॒कमु॒पाक॑रोति॒ याव॑त्ये॒व वाक्तामव॑ रुन्द्धे॒ऽपोऽग्रे॑ऽभि॒ व्याह॑रति य॒ज्ञो वा आपो॑ य॒ज्ञमे॒वाभि वाचव्ँ॒वि सृ॑जति॒ सर्वा॑णि॒ छन्दाँ॒स्यन्वा॑ह प॒शवो॒ वै छन्दाँ॑सि प॒शूने॒वाव॑ रुन्द्धे गायत्रि॒या तेज॑स्कामस्य॒ परि॑ दध्यात्त्रि॒ष्टुभे॑न्द्रि॒यका॑मस्य॒ जग॑त्या प॒शुका॑मस्याऽनु॒ष्टुभा॑ प्रति॒ष्ठाका॑मस्य प॒ङ्क्त्या य॒ज्ञका॑मस्य वि॒राजाऽन्न॑कामस्य शृ॒णोत्व॒ग्निस्स॒मिधा॒ हव॑म् [13]
म॒ इत्या॑ह सवि॒तृप्र॑सूत ए॒व दे॒वता॑भ्यो नि॒वेद्या॒पोऽच्छै॑त्य॒प इ॑ष्य होत॒रित्या॑हेषि॒तँ हि कर्म॑ क्रि॒यते॒ मैत्रा॑वरुणस्य चमसाध्वर्य॒वा द्र॒वेत्या॑ह मि॒त्रावरु॑णौ॒ वा अ॒पान्ने॒तारौ॒ ताभ्या॑मे॒वैना॒ अच्छै॑ति॒ देवी॑रापो अपान्नपा॒दित्या॒हाहु॑त्यै॒वैना॑ नि॒ष्क्रीय॑ गृह्णा॒त्यथो॑ ह॒विष्कृ॑तानामे॒वाभिघृ॑तानाङ्गृह्णाति [14]
कार्षि॑र॒सीत्या॑ह॒ शम॑लमे॒वासा॒मप॑ प्लावयति समु॒द्रस्य॒ वोऽक्षि॑त्या॒ उन्न॑य॒ इत्या॑ह॒ तस्मा॑द॒द्यमा॑नाᳶ पी॒यमा॑ना॒ आपो॒ न क्षी॑यन्ते॒ योनि॒र्वै य॒ज्ञस्य॒ चात्वा॑लय्ँ य॒ज्ञो व॑सती॒वरी॑र्होतृचम॒सञ्च॑ मैत्रावरुणचम॒सञ्च॑ सँ॒स्पर्श्य॑ वसती॒वरी॒र्व्यान॑यति य॒ज्ञस्य॑ सयोनि॒त्वायाथो॒ स्वादे॒वैना॒ योने॒ᳶ प्र ज॑नय॒त्यध्व॒र्योऽवे॑र॒पा (३) इत्या॑हो॒तेम॑नन्नमुरु॒तेमाᳶ प॒श्येति॒ वावैतदा॑ह॒ यद्य॑ग्निष्टो॒मो जु॒होति॒ यद्यु॒क्थ्यᳶ॑ परि॒धौ नि मा॑र्ष्टि॒ यद्य॑तिरा॒त्रो यजु॒र्वद॒न्प्र प॑द्यते यज्ञक्रतू॒नाव्व्ँयावृ॑त्त्यै ॥ [15]
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इति॒ ग्रावा॑ण॒मा द॑त्ते॒ प्रसू॑त्या अ॒श्विनो॑र्बा॒हुभ्या॒मित्या॑हा॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता॑म्पू॒ष्णो हस्ता॑भ्या॒मित्या॑ह॒ यत्यै॑ प॒शवो॒ वै सोमो॑ व्या॒न उ॑पाँशु॒सव॑नो॒ यदु॑पाँशु॒सव॑नम॒भि मिमी॑ते व्या॒नमे॒व प॒शुषु॑ दधा॒तीन्द्रा॑य॒ त्वेन्द्रा॑य॒ त्वेति॑ मिमीत॒ इन्द्रा॑य॒ हि सोम॑ आह्रि॒यते॒ पञ्च॒ कृत्वो॒ यजु॑षा मिमीते [16]
पञ्चा॑क्षरा प॒ङ्क्तिᳶ पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्धे॒ पञ्च॒ कृत्व॑स्तू॒ष्णीन्दश॒ सम्प॑द्यन्ते॒ दशा॑क्षरा वि॒राडन्नव्ँ॑वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्द्धे श्वा॒त्रास्स्थ॑ वृत्र॒तुर॒ इत्या॑है॒ष वा अ॒पाँ सो॑मपी॒थो य ए॒वव्ँ वेद॒ नाप्स्वार्ति॒मार्च्छ॑ति॒ यत्ते॑ सोम दि॒वि ज्योति॒रित्या॑है॒भ्य ए॒वैन॑म् [17]
लो॒केभ्य॒स्सम्भ॑रति॒ सोमो॒ वै राजा॒ दिशो॒ऽभ्य॑ध्याय॒त्स दिशोऽनु॒ प्रावि॑श॒त्प्रागपा॒गुद॑गध॒रागित्या॑ह दि॒ग्भ्य ए॒वैनँ॒ सम्भ॑र॒त्यथो॒ दिश॑ ए॒वास्मा॒ अव॑ रु॒न्द्धेऽम्ब॒ नि ष्व॒रेत्या॑ह॒ कामु॑का एनँ॒ स्त्रियो॑ भवन्ति॒ य ए॒वव्ँ वेद॒ यत्ते॑ सो॒मादा॑भ्य॒न्नाम॒ जागृ॒वीति॑ [18]
आ॒है॒ष वै सोम॑स्य सोमपी॒थो य ए॒वव्ँ वेद॒ न सौ॒म्यामार्ति॒मार्च्छ॑ति॒ घ्नन्ति॒ वा ए॒तत्सोमय्ँ॒यद॑भिषु॒ण्वन्त्यँ॒शूनप॑ गृह्णाति॒ त्राय॑त ए॒वैन॑म्प्रा॒णा वा अँ॒शवᳶ॑ प॒शव॒स्सोमो॒ऽँ॒शून्पुन॒रपि॑ सृजति प्रा॒णाने॒व प॒शुषु॑ दधाति॒ द्वौद्वा॒वपि॑ सृजति॒ तस्मा॒द्द्वौद्वौ॑ प्रा॒णाः ॥ [19]
प्रा॒णो वा ए॒ष यदु॑पाँ॒शुर्यदु॑पाँ॒श्व॑ग्रा॒ ग्रहा॑ गृ॒ह्यन्ते॑ प्रा॒णमे॒वानु॒ प्र य॑न्त्यरु॒णो ह॑ स्मा॒हौप॑वेशिᳶ प्रातस्सव॒न ए॒वाहय्ँ य॒ज्ञँ सँस्था॑पयामि॒ तेन॒ तत॒स्सँस्थि॑तेन चरा॒मीत्य॒ष्टौ कृत्वोऽग्रे॒ऽभि षु॑णोत्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रम्प्रा॑तस्सव॒नम्प्रा॑तस्सव॒नमे॒व तेना॑प्नो॒त्येका॑दश॒ कृत्वो॑ द्वि॒तीय॒मेका॑दशाक्षरा त्रि॒ष्टुप्त्रैष्टु॑भ॒म्माध्य॑न्दिनम् [20]
सव॑न॒म्माध्य॑न्दिनमे॒व सव॑न॒न्तेना॑प्नोति॒ द्वाद॑श॒ कृत्व॑स्तृ॒तीय॒न्द्वाद॑शाक्षरा॒ जग॑ती॒ जाग॑तन्तृतीयसव॒नन्तृ॑तीयसव॒नमे॒व तेना॑प्नोत्ये॒ताँ ह॒ वाव स य॒ज्ञस्य॒ सँस्थि॑तिमुवा॒चास्क॑न्दा॒यास्क॑न्नँ॒ हि तद्यद्य॒ज्ञस्य॒ सँस्थि॑तस्य॒ स्कन्द॒त्यथो॒ खल्वा॑हुर्गाय॒त्री वाव प्रा॑तस्सव॒ने नाति॒वाद॒ इत्यन॑तिवादुक एन॒म्भ्रातृ॑व्यो भवति॒ य ए॒वव्ँ वेद॒ तस्मा॑द॒ष्टाव॑ष्टौ [21]
कृत्वो॑ऽभि॒षुत्य॑म्ब्रह्मवा॒दिनो॑ वदन्ति प॒वित्र॑वन्तो॒ऽन्ये ग्रहा॑ गृ॒ह्यन्ते॒ किम्प॑वित्र उपाँ॒शुरिति॒ वाक्प॑वित्र॒ इति॑ ब्रूयाद्वा॒चस्पत॑ये पवस्व वाजि॒न्नित्या॑ह वा॒चैवैन॑म्पवयति॒ वृष्णो॑ अँ॒शुभ्या॒मित्या॑ह॒ वृष्णो॒ ह्ये॑तावँ॒शू यौ सोम॑स्य॒ गभ॑स्तिपूत॒ इत्या॑ह॒ गभ॑स्तिना॒ ह्ये॑नम्प॒वय॑ति दे॒वो दे॒वाना॑म्प॒वित्र॑म॒सीत्या॑ह दे॒वो ह्ये॑षः [22]
सन्दे॒वाना॑म्प॒वित्रय्ँ॒येषा॑म्भा॒गोऽसि॒ तेभ्य॒स्त्वेत्या॑ह॒ येषाँ॒ ह्ये॑ष भा॒गस्तेभ्य॑ एनङ्गृ॒ह्णाति॒ स्वाङ्कृ॑तो॒ऽसीत्या॑ह प्रा॒णमे॒व स्वम॑कृत॒ मधु॑मतीर्न॒ इष॑स्कृ॒धीत्या॑ह॒ सर्व॑मे॒वास्मा॑ इ॒दँ स्व॑दयति॒ विश्वे॑भ्यस्त्वेन्द्रि॒येभ्यो॑ दि॒व्येभ्य॒ᳶ पार्थि॑वेभ्य॒ इत्या॑हो॒भये॑ष्वे॒व दे॑वमनु॒ष्येषु॑ प्रा॒णान्द॑धाति॒ मन॑स्त्वा [23]
अ॒ष्ट्वित्या॑ह॒ मन॑ ए॒वाश्ञु॑त उ॒र्व॑न्तरि॑क्ष॒मन्वि॒हीत्या॑हान्तरिक्षदेव॒त्यो॑ हि प्रा॒णस्स्वाहा॑ त्वा सुभव॒स्सूर्या॒येत्या॑ह प्रा॒णा वै स्वभ॑वसो दे॒वास्तेष्वे॒व प॒रोक्ष॑ञ्जुहोति दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्य॒ इत्या॑हादि॒त्यस्य॒ वै र॒श्मयो॑ दे॒वा म॑रीचि॒पास्तेषा॒न्तद्भा॑ग॒धेय॒न्ताने॒व तेन॑ प्रीणाति॒ यदि॑ का॒मये॑त॒ वर्षु॑कᳶ प॒र्जन्यः॑ [24]
स्या॒दिति॒ नीचा॒ हस्ते॑न॒ नि मृ॑ज्या॒द्वृष्टि॑मे॒व नि य॑च्छति॒ यदि॑ का॒मये॒ताव॑र्षुकस्स्या॒दित्यु॑त्ता॒नेन॒ नि मृ॑ज्या॒द्वृष्टि॑मे॒वोद्य॑च्छति॒ यद्य॑भि॒चरे॑द॒मुञ्ज॒ह्यथ॑ त्वा होष्या॒मीति॑ ब्रूया॒दाहु॑तिमे॒वैन॑म्प्रे॒प्सन्‌ह॑न्ति॒ यदि॑ दू॒रे स्यादा तमि॑तोस्तिष्ठेत्प्रा॒णमे॒वास्या॑नु॒गत्य॑ हन्ति॒ यद्य॑भि॒चरे॑द॒मुष्य॑ [25]
त्वा॒ प्रा॒णे सा॑दया॒मीति॑ सादये॒दस॑न्नो॒ वै प्रा॒णᳶ प्रा॒णमे॒वास्य॑ सादयति ष॒ड्भिरँ॒शुभिᳶ॑ पवयति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैन॑म्पवयति॒ त्रिᳶ प॑वयति॒ त्रय॑ इ॒मे लो॒का ए॒भिरे॒वैनल्ँ॑ लो॒कैᳶ प॑वयति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा॑त्स॒त्यात्त्रयᳶ॑ पशू॒नाँ हस्ता॑दाना॒ इति॒ यत्त्रिरु॑पाँ॒शुँ हस्ते॑न विगृ॒ह्णाति॒ तस्मा॒त्त्रयᳶ॑ पशू॒नाँ हस्ता॑दाना॒ᳶ पुरु॑षो ह॒स्ती म॒र्कटः॑ ॥ [26]
दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा उ॑पाँ॒शौ य॒ज्ञँ सँ॒स्थाप्य॑मपश्य॒न्तमु॑पाँ॒शौ सम॑स्थापय॒न्तेऽसु॑रा॒ वज्र॑मु॒द्यत्य॑ दे॒वान॒भ्या॑यन्त॒ ते दे॒वा बिभ्य॑त॒ इन्द्र॒मुपा॑धाव॒न्तानिन्द्रो॑ऽन्तर्या॒मेणा॒न्तर॑धत्त॒ तद॑न्तर्या॒मस्या॑न्तर्याम॒त्वय्ँयद॑न्तर्या॒मो गृ॒ह्यते॒ भ्रातृ॑व्याने॒व तद्यज॑मानो॒ऽन्तर्ध॑त्ते॒ऽन्तस्ते॑ [27]
द॒धा॒मि॒ द्यावा॑पृथि॒वी अ॒न्तरु॒र्व॑न्तरि॑क्ष॒मित्या॑है॒भिरे॒व लो॒कैर्यज॑मानो॒ भ्रातृ॑व्यान॒न्तर्ध॑त्ते॒ ते दे॒वा अ॑मन्य॒न्तेन्द्रो॒ वा इ॒दम॑भू॒द्यद्व॒यँ स्म इति॒ ते॑ऽब्रुव॒न्मघ॑व॒न्ननु॑ न॒ आ भ॒जेति॑ स॒जोषा॑ दे॒वैरव॑रै॒ᳶ परै॒श्चेत्य॑ब्रवी॒द्ये चै॒व दे॒वाᳶ परे॒ ये चाव॑रे॒ तानु॒भया॑न् [28]
अ॒न्वाभ॑जत्स॒जोषा॑ दे॒वैरव॑रै॒ᳶ परै॒श्चेत्या॑ह॒ ये चै॒व दे॒वाᳶ परे॒ य चाव॑रे॒ तानु॒भया॑न॒न्वाभ॑जत्यन्तर्या॒मे म॑घवन्मादय॒स्वेत्या॑ह य॒ज्ञादे॒व यज॑मान॒न्नान्तरे॑त्युपया॒मगृ॑हीतो॒ऽसीत्या॑हापा॒नस्य॒ धृत्यै॒ यदु॒भाव॑पवि॒त्रौ गृ॒ह्येया॑ताम्प्रा॒णम॑पा॒नोऽनु॒ न्यृ॑च्छेत्प्र॒मायु॑कस्स्यात्प॒वित्र॑वानन्तर्या॒मो गृ॑ह्यते [29]
प्रा॒णा॒पा॒नयो॒र्विधृ॑त्यै प्राणापा॒नौ वा ए॒तौ यदु॑पाँश्वन्तर्या॒मौ व्या॒न उ॑पाँशु॒सव॑नो॒ यङ्का॒मये॑त प्र॒मायु॑कस्स्या॒दित्यसँ॑स्पृष्टौ॒ तस्य॑ सादयेद्व्या॒नेनै॒वास्य॑ प्राणापा॒नौ वि च्छि॑नत्ति ता॒जक्प्रमी॑यते॒ यङ्का॒मये॑त॒ सर्व॒मायु॑रिया॒दिति॒ सँस्पृ॑ष्टौ॒ तस्य॑ सादयेद्व्या॒नेनै॒वास्य॑ प्राणापा॒नौ सन्त॑नोति॒ सर्व॒मायु॑रेति ॥ [30]
वाग्वा ए॒षा यदै॑न्द्रवाय॒वो यदै॑न्द्रवाय॒वाग्रा॒ ग्रहा॑ गृ॒ह्यन्ते॒ वाच॑मे॒वानु॒ प्र य॑न्ति वा॒युन्दे॒वा अ॑ब्रुव॒न्त्सोमँ॒ राजा॑नँ हना॒मेति॒ सो॑ऽब्रवी॒द्वरव्ँ॑वृणै॒ मद॑ग्रा ए॒व वो॒ ग्रहा॑ गृह्यान्ता॒ इति॒ तस्मा॑दैन्द्रवाय॒वाग्रा॒ ग्रहा॑ गृह्यन्ते॒ तम॑घ्न॒न्त्सो॑ऽपूय॒त्तन्दे॒वा नोपा॑धृष्णुव॒न्ते वा॒युम॑ब्रुवन्नि॒मन्न॑स्स्वदय [31]
इति॒ सो॑ऽब्रवी॒द्वरव्ँ॑वृणै मद्देव॒त्या॑न्ये॒व व॒ᳶ पात्रा॑ण्युच्यान्ता॒ इति॒ तस्मा॑न्नानादेव॒त्या॑नि॒ सन्ति॑ वाय॒व्या॑न्युच्यन्ते॒ तमे॑भ्यो वा॒युरे॒वास्व॑दय॒त्तस्मा॒द्यत्पूय॑ति॒ तत्प्र॑वा॒ते वि ष॑जन्ति वा॒युर्हि तस्य॑ पवयि॒ता स्व॑दयि॒ता तस्य॑ वि॒ग्रह॑ण॒न्नावि॑न्द॒न्त्साऽदि॑तिरब्रवी॒द्वरव्ँ॑वृणा॒ अथ॒ मया॒ वि गृ॑ह्णीध्वम्मद्देव॒त्या॑ ए॒व व॒स्सोमाः॑ [32]
स॒न्ना अ॑स॒न्नित्यु॑पया॒मगृ॑हीतो॒ऽसीत्या॑हादितिदेव॒त्या॑स्तेन॒ यानि॒ हि दा॑रु॒मया॑णि॒ पात्रा॑ण्य॒स्यै तानि॒ योने॒स्सम्भू॑तानि॒ यानि॑ मृ॒न्मया॑नि सा॒क्षात्तान्य॒स्यै तस्मा॑दे॒वमा॑ह॒ वाग्वै परा॒च्यव्या॑कृतावद॒त्ते दे॒वा इन्द्र॑मब्रुवन्नि॒मान्नो॒ वाचव्ँ॒व्याकु॒र्विति॒ सो॑ऽब्रवी॒द्वरव्ँ॑वृणै॒ मह्य॑ञ्चै॒वैष वा॒यवे॑ च स॒ह गृ॑ह्याता॒ इति॒ तस्मा॑दैन्द्रवाय॒वस्स॒ह गृ॑ह्यते॒ तामिन्द्रो॑ मध्य॒तो॑ऽव॒क्रम्य॒ व्याक॑रो॒त्तस्मा॑दि॒यव्व्ँयाकृ॑ता॒ वागु॑द्यते॒ तस्मा॑त्स॒कृदिन्द्रा॑य मध्य॒तो गृ॑ह्यते॒ द्विर्वा॒यवे॒ द्वौ हि स वरा॒ववृ॑णीत ॥ [33]
मि॒त्रन्दे॒वा अ॑ब्रुव॒न्त्सोमँ॒ राजा॑नँ हना॒मेति॒ सो॑ऽब्रवी॒न्नाहँ सर्व॑स्य॒ वा अ॒हम्मि॒त्रम॒स्मीति॒ तम॑ब्रुव॒न्‌हना॑मै॒वेति॒ सो॑ऽब्रवी॒द्वरव्ँ॑वृणै॒ पय॑सै॒व मे॒ सोमँ॑ श्रीण॒न्निति॒ तस्मा॑न्मैत्रावरु॒णम्पय॑सा श्रीणन्ति॒ तस्मा॑त्प॒शवोऽपा॑क्रामन्मि॒त्रस्सन्क्रू॒रम॑क॒रिति॑ क्रू॒रमि॑व॒ खलु॒ वा ए॒षः [34]
क॒रो॒ति॒ यस्सोमे॑न॒ यज॑ते॒ तस्मा॑त्प॒शवोऽप॑ क्रामन्ति॒ यन्मै॑त्रावरु॒णम्पय॑सा श्री॒णाति॑ प॒शुभि॑रे॒व तन्मि॒त्रँ स॑म॒र्धय॑ति प॒शुभि॒र्यज॑मानम्पु॒रा खलु॒ वावैवम्मि॒त्रो॑ऽवे॒दप॒ मत्क्रू॒रञ्च॒क्रुषᳶ॑ प॒शव॑ᳵ क्रमिष्य॒न्तीति॒ तस्मा॑दे॒वम॑वृणीत॒ वरु॑णन्दे॒वा अ॑ब्रुव॒न्त्वयाँ॑श॒भुवा॒ सोमँ॒ राजा॑नँ हना॒मेति॒ सो॑ऽब्रवी॒द्वरव्ँ॑वृणै॒ मह्य॑ञ्च [35]
ए॒वैष मि॒त्राय॑ च स॒ह गृ॑ह्याता॒ इति॒ तस्मा॑न्मैत्रावरु॒णस्स॒ह गृ॑ह्यते॒ तस्मा॒द्राज्ञा॒ राजा॑नमँश॒भुवा॑ घ्नन्ति॒ वैश्ये॑न॒ वैश्यँ॑ शू॒द्रेण॑ शू॒द्रन्न वा इ॒दन्दिवा॒ न नक्त॑मासी॒दव्या॑वृत्त॒न्ते दे॒वा मि॒त्रावरु॑णावब्रुवन्नि॒दन्नो॒ वि वा॑सयत॒मिति॒ ताव॑ब्रूताव्ँ॒ँ वर॑व्वृणावहा॒ एक॑ ए॒वावत्पूर्वो॒ ग्रहो॑ गृह्याता॒ इति॒ तस्मा॑दैन्द्रवाय॒वᳶ पूर्वो॑ मैत्रावरु॒णाद्गृ॑ह्यते प्राणापा॒नौ ह्ये॑तौ यदु॑पाँश्वन्तर्या॒मौ मि॒त्रोऽह॒रज॑नय॒द्वरु॑णो॒ रात्रि॒न्ततो॒ वा इ॒दव्व्ँयौ॑च्छ॒द्यन्मै॑त्रावरु॒णो गृ॒ह्यते॒ व्यु॑ष्ट्यै ॥ [36]
य॒ज्ञस्य॒ शिरो॑ऽच्छिद्यत॒ ते दे॒वा अ॒श्विना॑वब्रुवन्भि॒षजौ॒ वै स्थ॑ इ॒दय्ँ य॒ज्ञस्य॒ शिर॒ᳶ प्रति॑ धत्त॒मिति॒ ताव॑ब्रूताव्ँ॒ँ वर॑व्वृणावहै॒ ग्रह॑ ए॒व ना॒वत्रापि॑ गृह्यता॒मिति॒ ताभ्या॑मे॒तमा॑श्वि॒नम॑गृह्ण॒न्ततो॒ वै तौ य॒ज्ञस्य॒ शिर॒ᳶ प्रत्य॑धत्ता॒य्यँदा॑श्वि॒नो गृ॒ह्यते॑ य॒ज्ञस्य॒ निष्कृ॑त्यै॒ तौ दे॒वा अ॑ब्रुव॒न्नपू॑तौ॒ वा इ॒मौ म॑नुष्यच॒रौ [37]
भि॒षजा॒विति॒ तस्मा॑द्ब्राह्म॒णेन॑ भेष॒जन्न का॒र्य॑मपू॑तो॒ ह्ये ३॑ षो॑ऽमे॒ध्यो यो भि॒षक्तौ ब॑हिष्पवमा॒नेन॑ पवयि॒त्वा ताभ्या॑मे॒तमा॑श्वि॒नम॑गृह्ण॒न्तस्मा॑द्बहिष्पवमा॒ने स्तु॒त आ॑श्वि॒नो गृ॑ह्यते॒ तस्मा॑दे॒वव्ँवि॒दुषा॑ बहिष्पवमा॒न उ॑प॒सद्यᳶ॑ प॒वित्रव्ँ॒ वै ब॑हिष्पवमा॒न आ॒त्मान॑मे॒व प॑वयते॒ तयो॑स्त्रे॒धा भैष॑ज्यव्ँ॒वि न्य॑दधुर॒ग्नौ तृ॑तीयम॒प्सु तृती॑यम्ब्राह्म॒णे तृती॑य॒न्तस्मा॑दुदपा॒त्रम् [38]
उ॒प॒नि॒धाय॑ ब्राह्म॒णन्द॑क्षिण॒तो नि॒षाद्य॑ भेष॒जङ्कु॑र्या॒द्याव॑दे॒व भे॑ष॒जन्तेन॑ करोति स॒मर्धु॑कमस्य कृ॒तम्भ॑वति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा॑त्स॒त्यादेक॑पात्रा द्विदेव॒त्या॑ गृ॒ह्यन्ते॑ द्वि॒पात्रा॑ हूयन्त॒ इति॒ यदेक॑पात्रा गृ॒ह्यन्ते॒ तस्मा॒देको॑ऽन्तर॒तᳶ प्रा॒णो द्वि॒पात्रा॑ हूयन्ते॒ तस्मा॒द्द्वौद्वौ॑ ब॒हिष्टा॑त्प्रा॒णाᳶ प्रा॒णा वा ए॒ते यद्द्वि॑देव॒त्याः॑ प॒शव॒ इडा॒ यदिडा॒म्पूर्वा॑न्द्विदेव॒त्ये॑भ्य उप॒ह्वये॑त [39]
प॒शुभिᳶ॑ प्रा॒णान॒न्तर्द॑धीत प्र॒मायु॑कस्स्याद्द्विदेव॒त्या॑न्भक्षयि॒त्वेडा॒मुप॑ ह्वयते प्रा॒णाने॒वात्मन्धि॒त्वा प॒शूनुप॑ ह्वयते॒ वाग्वा ऐ॑न्द्रवाय॒वश्चक्षु॑र्मैत्रावरु॒णश्श्रोत्र॑माश्वि॒नᳶ पु॒रस्ता॑दैन्द्रवाय॒वम्भ॑क्षयति॒ तस्मा॑त्पु॒रस्ता॑द्वा॒चा व॑दति पु॒रस्ता॑न्मैत्रावरु॒णन्तस्मा॑त्पु॒रस्ता॒च्चक्षु॑षा पश्यति स॒र्वतᳶ॑ परि॒हार॑माश्वि॒नन्तस्मा॑त्स॒र्वत॒श्श्रोत्रे॑ण शृणोति प्रा॒णा वा ए॒ते यद्द्वि॑देव॒त्याः॑ [40]
अरि॑क्तानि॒ पात्रा॑णि सादयति॒ तस्मा॒दरि॑क्ता अन्तर॒तᳶ प्रा॒णा यत॒ᳵ खलु॒ वै य॒ज्ञस्य॒ वित॑तस्य॒ न क्रि॒यते॒ तदनु॑ य॒ज्ञँ रक्षाँ॒स्यव॑ चरन्ति॒ यदरि॑क्तानि॒ पात्रा॑णि सा॒दय॑ति क्रि॒यमा॑णमे॒व तद्य॒ज्ञस्य॑ शये॒ रक्ष॑सा॒मन॑न्ववचाराय॒ दक्षि॑णस्य हवि॒र्धान॒स्योत्त॑रस्याव्ँवर्त॒न्याँ सा॑दयति वा॒च्ये॑व वाच॑न्दधा॒त्या तृ॑तीयसव॒नात्परि॑ शेरे य॒ज्ञस्य॒ सन्त॑त्यै ॥ [41]
बृह॒स्पति॑र्दे॒वाना॑म्पु॒रोहि॑त॒ आसी॒च्छण्डा॒मर्का॒वसु॑राणा॒म्ब्रह्म॑ण्वन्तो दे॒वा आस॒न्ब्रह्म॑ण्व॒न्तोऽसु॑रा॒स्ते ३॑ऽन्यो॑न्यन्नाश॑क्नुवन्न॒भिभ॑वितु॒न्ते दे॒वाश्शण्डा॒मर्का॒वुपा॑मन्त्रयन्त॒ ताव॑ब्रूताव्ँ॒ँ वर॑व्वृणावहै॒ ग्रहा॑वे॒व ना॒वत्रापि॑ गृह्येता॒मिति॒ ताभ्या॑मे॒तौ शु॒क्राम॒न्थिना॑वगृह्ण॒न्ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यस्यै॒वव्ँवि॒दुष॑श्शु॒क्राम॒न्थिनौ॑ गृ॒ह्येते॒ भव॑त्या॒त्मना॒ परा॑ [42]
अ॒स्य॒ भ्रातृ॑व्यो भवति॒ तौ दे॒वा अ॑प॒नुद्या॒त्मन॒ इन्द्रा॑याजुहवु॒रप॑नुत्तौ॒ शण्डा॒मर्कौ॑ स॒हामुनेति॑ ब्रूया॒द्यन्द्वि॒ष्याद्यमे॒व द्वेष्टि॒ तेनै॑नौ स॒हाप॑ नुदते॒ स प्र॑थ॒मस्सङ्कृ॑तिर्वि॒श्वक॒र्मेत्ये॒वैना॑वा॒त्मन॒ इन्द्रा॑याजुहवु॒रिन्द्रो॒ ह्ये॑तानि॑ रू॒पाणि॒ करि॑क्र॒दच॑रद॒सौ वा आ॑दि॒त्यश्शु॒क्रश्च॒न्द्रमा॑ म॒न्थ्य॑पि॒गृह्य॒ प्राञ्चौ॒ निः [43]
क्रा॒म॒त॒स्तस्मा॒त्प्राञ्चौ॒ यन्तौ॒ न प॑श्यन्ति प्र॒त्यञ्चा॑वा॒वृत्य॑ जुहुत॒स्तस्मा॑त्प्र॒त्यञ्चौ॒ यन्तौ॑ पश्यन्ति॒ चक्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ यच्छु॒क्राम॒न्थिनौ॒ नासि॑कोत्तरवे॒दिर॒भितᳶ॑ परि॒क्रम्य॑ जुहुत॒स्तस्मा॑द॒भितो॒ नासि॑का॒ञ्चक्षु॑षी॒ तस्मा॒न्नासि॑कया॒ चक्षु॑षी॒ विधृ॑ते स॒र्वत॒ᳶ परि॑ क्रामतो॒ रक्ष॑सा॒मप॑हत्यै दे॒वा वै याᳶ प्राची॒राहु॑ती॒रजु॑हवु॒र्ये पु॒रस्ता॒दसु॑रा॒ आस॒न्ताँ स्ताभि॒ᳶ प्र [44]
अ॒नु॒द॒न्त॒ याᳶ प्र॒तीची॒र्ये प॒श्चादसु॑रा॒ आस॒न्ताँस्ताभि॒रपा॑नुदन्त॒ प्राची॑र॒न्या आहु॑तयो हू॒यन्ते॑ प्र॒त्यञ्चौ॑ शु॒क्राम॒न्थिनौ॑ प॒श्चाच्चै॒व पु॒रस्ता॑च्च॒ यज॑मानो॒ भ्रातृ॑व्या॒न्प्र णु॑दते॒ तस्मा॒त्परा॑चीᳶ प्र॒जाᳶ प्र वी॑यन्ते प्र॒तीची॑र्जायन्ते शु॒क्राम॒न्थिनौ॒ वा अनु॑ प्र॒जाᳶ प्र जा॑यन्ते॒ऽत्त्रीश्चा॒द्या॑श्च सु॒वीराः॑ प्र॒जाᳶ प्र॑ज॒नय॒न्परी॑हि शु॒क्रश्शु॒क्रशो॑चिषा [45]
सु॒प्र॒जाᳶ प्र॒जाᳶ प्र॑ज॒नय॒न्परी॑हि म॒न्थी म॒न्थिशो॑चि॒षेत्या॑है॒ता वै सु॒वीरा॒ या अ॒त्त्रीरे॒तास्सु॑प्र॒जा या आ॒द्या॑ य ए॒वव्ँ वेदा॒त्त्र्य॑स्य प्र॒जा जा॑यते॒ नाद्या॑ प्र॒जाप॑ते॒रक्ष्य॑श्वय॒त्तत्परा॑पत॒त्तद्विक॑ङ्कत॒म्प्रावि॑श॒त्तद्विक॑ङ्कते॒ नार॑मत॒ तद्यव॒म्प्रावि॑श॒त्तद्यवे॑ऽरमत॒ तद्यव॑स्य [46]
य॒व॒त्वय्यँद्वैक॑ङ्कतम्मन्थिपा॒त्रम्भव॑ति॒ सक्तु॑भिश्श्री॒णाति॑ प्र॒जाप॑तेरे॒व तच्चक्षु॒स्सम्भ॑रति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा॑त्स॒त्यान्म॑न्थिपा॒त्रँ सदो॒ नाश्ञु॑त॒ इत्या॑र्तपा॒त्रँ हीति॑ ब्रूया॒द्यद॑श्ञुवी॒तान्धो॑ऽध्व॒र्युस्स्या॒दार्ति॒मार्च्छे॒त्तस्मा॒न्नाश्ञु॑ते ॥ [47]
दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा आ॑ग्रय॒णाग्रा॒न्ग्रहा॑नपश्य॒न्तान॑गृह्णत॒ ततो॒ वै तेऽग्र॒म्पर्या॑य॒न्यस्यै॒वव्ँवि॒दुष॑ आग्रय॒णाग्रा॒ ग्रहा॑ गृ॒ह्यन्तेऽग्र॑मे॒व स॑मा॒नाना॒म्पर्ये॑ति रु॒ग्णव॑त्य॒र्चा भ्रातृ॑व्यवतो गृह्णीया॒द्भ्रातृ॑व्यस्यै॒व रु॒क्त्वाऽग्रँ॑ समा॒नाना॒म्पर्ये॑ति॒ ये दे॑वा दि॒व्येका॑दश॒ स्थेत्या॑ह [48]
ए॒ताव॑ती॒र्वै दे॒वता॒स्ताभ्य॑ ए॒वैनँ॒ सर्वा॑भ्यो गृह्णात्ये॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्य॒ इत्या॑ह वैश्वदे॒वो ह्ये॑ष दे॒वत॑या॒ वाग्वै दे॒वेभ्योऽपा॑क्रामद्य॒ज्ञायाऽति॑ष्ठमाना॒ ते दे॒वा वा॒च्यप॑क्रान्तायान्तू॒ष्णीङ्ग्रहा॑नगृह्णत॒ साऽम॑न्यत॒ वाग॒न्तर्य॑न्ति॒ वै मेति॒ साग्र॑य॒णम्प्रत्याग॑च्छ॒त्तदा॑ग्रय॒णस्या॑ग्रयण॒त्वम् [49]
तस्मा॑दाग्रय॒णे वाग्वि सृ॑ज्यते॒ यत्तू॒ष्णीम्पूर्वे॒ ग्रहा॑ गृ॒ह्यन्ते॒ यथा॑ त्सा॒रीय॑ति म॒ आख॒ इय॑ति॒ नाप॑ रात्स्या॒मीत्यु॑पावसृ॒जत्ये॒वमे॒व तद॑ध्व॒र्युरा॑ग्रय॒णङ्गृ॑ही॒त्वा य॒ज्ञमा॒रभ्य॒ वाचव्ँ॒वि सृ॑जते॒ त्रिर्हिङ्क॑रोत्युद्गा॒तॄने॒व तद्वृ॑णीते प्र॒जाप॑ति॒र्वा ए॒ष यदा॑ग्रय॒णो यदा॑ग्रय॒णङ्गृ॑ही॒त्वा हि॑ङ्क॒रोति॑ प्र॒जाप॑तिरे॒व [50]
तत्प्र॒जा अ॒भि जि॑घ्रति॒ तस्मा॑द्व॒त्सञ्जा॒तङ्गौर॒भि जि॑घ्रत्या॒त्मा वा ए॒ष य॒ज्ञस्य॒ यदा॑ग्रय॒णस्सव॑नेसवने॒ऽभि गृ॑ह्णात्या॒त्मन्ने॒व य॒ज्ञँ सन्त॑नोत्यु॒परि॑ष्टा॒दा न॑यति॒ रेत॑ ए॒व तद्द॑धात्य॒धस्ता॒दुप॑ गृह्णाति॒ प्र ज॑नयत्ये॒व तद्ब्र॑ह्मवा॒दिनो॑ वदन्ति॒ कस्मा॑त्स॒त्याद्गा॑य॒त्री कनि॑ष्ठा॒ छन्द॑साँ स॒ती सर्वा॑णि॒ सव॑नानि वह॒तीत्ये॒ष वै गा॑यत्रि॒यै व॒त्सो यदा॑ग्रय॒णस्तमे॒व तद॑भिनि॒वर्तँ॒ सर्वा॑णि॒ सव॑नानि वहति॒ तस्मा॑द्व॒त्सम॒पाकृ॑त॒ङ्गौर॒भि नि व॑र्तते ॥ [51]