यदु॒भौ वि॒मुच्या॑ति॒थ्यङ्गृ॑ह्णी॒याद्य॒ज्ञव्ँविच्छि॑न्द्या॒द्यदु॒भाववि॑मुच्य॒ यथाना॑गतायाति॒थ्यङ्क्रि॒यते॑ ता॒दृगे॒व तद्विमु॑क्तो॒ऽन्यो॑ऽन॒ड्वान्भव॒त्यवि॑मुक्तो॒ऽन्योऽथा॑ति॒थ्यङ्गृ॑ह्णाति य॒ज्ञस्य॒ सन्त॑त्यै॒ पत्न्य॒न्वार॑भते॒ पत्नी॒ हि पारी॑णह्य॒स्येशे॒ पत्नि॑यै॒वानु॑मत॒न्निर्व॑पति॒ यद्वै पत्नी॑ य॒ज्ञस्य॑ क॒रोति॑ मिथु॒नन्तदथो॒ पत्नि॑या ए॒व [1]
ए॒ष य॒ज्ञस्या॑न्वार॒म्भोऽन॑वच्छित्त्यै॒ याव॑द्भि॒र्वै राजा॑नुच॒रैरा॒गच्छ॑ति॒ सर्वे॑भ्यो॒ वै तेभ्य॑ आति॒थ्यङ्क्रि॑यते॒ छन्दाँ॑सि॒ खलु॒ वै सोम॑स्य॒ राज्ञो॑ऽनुच॒राण्य॒ग्नेरा॑ति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वेत्या॑ह गायत्रि॒या ए॒वैतेन॑ करोति॒ सोम॑स्याति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वेत्या॑ह त्रि॒ष्टुभ॑ ए॒वैतेन॑ करो॒त्यति॑थेराति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वेत्या॑ह॒ जग॑त्यै [2]
ए॒वैतेन॑ करोत्य॒ग्नये॑ त्वा रायस्पोष॒दाव्ने॒ विष्ण॑वे॒ त्वेत्या॑हानु॒ष्टुभ॑ ए॒वैतेन॑ करोति श्ये॒नाय॑ त्वा सोम॒भृते॒ विष्ण॑वे॒ त्वेत्या॑ह गायत्रि॒या ए॒वैतेन॑ करोति॒ पञ्च॒ कृत्वो॑ गृह्णाति॒ पञ्चा॑क्षरा प॒ङ्क्तिᳶ पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्धे ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा॑त्स॒त्याद्गा॑यत्रि॒या उ॑भ॒यत॑ आति॒थ्यस्य॑ क्रियत॒ इति॒ यदे॒वादस्सोम॒मा [3]
अह॑र॒त्तस्मा॑द्गायत्रि॒या उ॑भ॒यत॑ आति॒थ्यस्य॑ क्रियते पु॒रस्ता॑च्चो॒परि॑ष्टाच्च॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यदा॑ति॒थ्यन्नव॑कपालᳶ पुरो॒डाशो॑ भवति॒ तस्मा॑न्नव॒धा शिरो॒ विष्यू॑त॒न्नव॑कपालᳶ पुरो॒डाशो॑ भवति॒ ते त्रय॑स्त्रिकपा॒लास्त्रि॒वृता॒ स्तोमे॑न॒ सम्मि॑ता॒स्तेज॑स्त्रि॒वृत्तेज॑ ए॒व य॒ज्ञस्य॑ शी॒र्षन्द॑धाति॒ नव॑कपालᳶ पुरो॒डाशो॑ भवति॒ ते त्रय॑स्त्रिकपा॒लास्त्रि॒वृता॑ प्रा॒णेन॒ सम्मि॑तास्त्रि॒वृद्वै [4]
प्रा॒णस्त्रि॒वृत॑मे॒व प्रा॒णम॑भिपू॒र्वय्ँ य॒ज्ञस्य॑ शी॒र्षन्द॑धाति प्र॒जाप॑ते॒र्वा ए॒तानि॒ पक्ष्मा॑णि॒ यद॑श्ववा॒ला ऐ॑क्ष॒वी ति॒रश्ची॒ यदाश्व॑वालᳶ प्रस्त॒रो भव॑त्यैक्ष॒वी ति॒रश्ची॑ प्र॒जाप॑तेरे॒व तच्चक्षु॒स्सम्भ॑रति दे॒वा वै या आहु॑ती॒रजु॑हवु॒स्ता असु॑रा नि॒ष्काव॑माद॒न्ते दे॒वाᳵ का॑र्ष्म॒र्य॑मपश्यन्कर्म॒ण्यो॑ वै कर्मै॑नेन कुर्वी॒तेति॒ ते का॑र्ष्मर्य॒मया॑न्परि॒धीन् [5]
अ॒कु॒र्व॒त॒ तैर्वै ते रक्षाँ॒स्यपा॑घ्नत॒ यत्का॑र्ष्मर्य॒मयाः॑ परि॒धयो॒ भव॑न्ति॒ रक्ष॑सा॒मप॑हत्यै॒ सँस्प॑र्शयति॒ रक्ष॑सा॒मन॑न्ववचाराय॒ न पु॒रस्ता॒त्परि॑ दधात्यादि॒त्यो ह्ये॑वोद्यन्पु॒रस्ता॒द्रक्षाँ॑स्यप॒हन्त्यू॒र्ध्वे स॒मिधा॒वा द॑धात्यु॒परि॑ष्टादे॒व रक्षाँ॒स्यप॑हन्ति॒ यजु॑षा॒न्यान्तू॒ष्णीम॒न्याम्मि॑थुन॒त्वाय॒ द्वे आ द॑धाति द्वि॒पाद्यज॑मान॒ᳶ प्रति॑ष्ठित्यै ब्रह्मवा॒दिनो॑ वदन्ति [6]
अ॒ग्निश्च॒ वा ए॒तौ सोम॑श्च क॒था सोमा॑याति॒थ्यङ्क्रि॒यते॒ नाग्नय॒ इति॒ यद॒ग्नाव॒ग्निम्म॑थि॒त्वा प्र॒हर॑ति॒ तेनै॒वाग्नय॑ आति॒थ्यङ्क्रि॑य॒तेऽथो॒ खल्वा॑हुर॒ग्निस्सर्वा॑ दे॒वता॒ इति॒ यद्ध॒विरा॒साद्या॒ग्निम्मन्थ॑ति ह॒व्यायै॒वास॑न्नाय॒ सर्वा॑ दे॒वता॑ जनयति ॥ [7]
दे॒वा॒सु॒रास्सय्ँय॑त्ता आस॒न्ते दे॒वा मि॒थो विप्रि॑या आस॒न्ते३॑ऽन्यो॑न्यस्मै॒ ज्यैष्ठ्या॒याति॑ष्ठमानाᳶ पञ्च॒धा व्य॑क्रामन्न॒ग्निर्वसु॑भि॒स्सोमो॑ रु॒द्रैरिन्द्रो॑ म॒रुद्भि॒र्वरु॑ण आदि॒त्यैर्बृह॒स्पति॒र्विश्वै॑र्दे॒वैस्ते॑ऽमन्य॒न्तासु॑रेभ्यो॒ वा इ॒दम्भ्रातृ॑व्येभ्यो रध्यामो॒ यन्मि॒थो विप्रि॑या॒स्स्मो या न॑ इ॒माᳶ प्रि॒यास्त॒नुव॒स्तास्स॒मव॑द्यामहै॒ ताभ्य॒स्स निर्ऋ॑च्छा॒द्यः [8]
न॒ᳶ प्र॒थ॒मो३॑ऽन्यो॑न्यस्मै॒ द्रुह्या॒दिति॒ तस्मा॒द्यस्सता॑नूनप्त्रिणाम्प्रथ॒मो द्रुह्य॑ति॒ स आर्ति॒मार्च्छ॑ति॒ यत्ता॑नून॒प्त्रँ स॑मव॒द्यति॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति॒ पञ्च॒ कृत्वोऽव॑ द्यति पञ्च॒धा हि ते तत्स॑म॒वाद्य॒न्ताथो॒ पञ्चा॑क्षरा प॒ङ्क्तिᳶ पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्ध॒ आप॑तये त्वा गृह्णा॒मीत्या॑ह प्रा॒णो वै [9]
आप॑तिᳶ प्रा॒णमे॒व प्री॑णाति॒ परि॑पतय॒ इत्या॑ह॒ मनो॒ वै परि॑पति॒र्मन॑ ए॒व प्री॑णाति॒ तनू॒नप्त्र॒ इत्या॑ह त॒नुवो॒ हि ते तास्स॑म॒वाद्य॑न्त शाक्व॒रायेत्या॑ह॒ शक्त्यै॒ हि ते तास्स॑म॒वाद्य॑न्त॒ शक्म॒न्नोजि॑ष्ठा॒येत्या॒हौजि॑ष्ठँ॒ हि ते तदा॒त्मन॑स्सम॒वाद्य॒न्ताना॑धृष्टमस्यनाधृ॒ष्यमित्या॒हाना॑धृष्टँ॒ ह्ये॑तद॑नाधृ॒ष्यन्दे॒वाना॒मोजः॑ [10]
इत्या॑ह दे॒वानाँ॒ ह्ये॑तदोजो॑ऽभिशस्ति॒पा अ॑नभिशस्ते॒न्यमित्या॑हाभिशस्ति॒पा ह्ये॑तद॑नभिशस्ते॒न्यमनु॑ मे दी॒क्षान्दी॒क्षाप॑तिर्मन्यता॒मित्या॑ह यथाय॒जुरे॒वैतद्घृ॒तव्ँ वै दे॒वा वज्र॑ङ्कृ॒त्वा सोम॑मघ्नन्नन्ति॒कमि॑व॒ खलु॒ वा अ॑स्यै॒तच्च॑रन्ति॒ यत्ता॑नून॒प्त्रेण॑ प्र॒चर॑न्त्यँ॒शुरँ॑शुस्ते देव सो॒मा प्या॑यता॒मित्या॑ह॒ यत् [11]
ए॒वास्या॑पुवा॒यते॒ यन्मीय॑ते॒ तदे॒वास्यै॒तेना प्या॑यय॒त्या तुभ्य॒मिन्द्रᳶ॑ प्यायता॒मा त्वमिन्द्रा॑य प्याय॒स्वेत्या॑हो॒भावे॒वेन्द्र॑ञ्च॒ सोम॒ञ्चा प्या॑यय॒त्या प्या॑यय॒ सखी॑न्त्स॒न्या मे॒धयेत्या॑ह॒र्त्विजो॒ वा अ॑स्य॒ सखा॑य॒स्ताने॒वा प्या॑ययति स्व॒स्ति ते॑ देव सोम सु॒त्याम॑शीय [12]
इत्या॑हा॒शिष॑मे॒वैतामा शा॑स्ते॒ प्र वा ए॒ते॑ऽस्माल्लो॒काच्च्य॑वन्ते॒ ये सोम॑माप्या॒यय॑न्त्यन्तरिक्षदेव॒त्यो॑ हि सोम॒ आप्या॑यित॒ एष्टा॒ राय॒ᳶ प्रेषे भगा॒येत्या॑ह॒ द्यावा॑पृथि॒वीभ्या॑मे॒व न॑म॒स्कृत्या॒स्मिल्लोँ॒के प्रति॑ तिष्ठन्ति देवासु॒रास्सय्ँय॑त्ता आस॒न्ते दे॒वा बिभ्य॑तो॒ऽग्निम्प्रावि॑श॒न्तस्मा॑दाहुर॒ग्निस्सर्वा॑ दे॒वता॒ इति॒ ते [13]
अ॒ग्निमे॒व वरू॑थङ्कृ॒त्वासु॑रान॒भ्य॑भवन्न॒ग्निमि॑व॒ खलु॒ वा ए॒ष प्र वि॑शति॒ यो॑ऽवान्तरदी॒क्षामु॒पैति॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवत्या॒त्मान॑मे॒व दी॒क्षया॑ पाति प्र॒जाम॑वान्तरदी॒क्षया॑ सन्त॒राम्मेख॑लाँ स॒माय॑च्छते प्र॒जा ह्या॑त्मनोऽन्त॑रतरा त॒प्तव्र॑तो भवति॒ मद॑न्तीभिर्मार्जयते॒ निर्ह्य॑ग्निश्शी॒तेन॒ वाय॑ति॒ समि॑द्ध्यै॒ या ते॑ अग्ने॒ रुद्रि॑या त॒नूरित्या॑ह॒ स्वयै॒वैन॑द्दे॒वत॑या व्रतयति सयोनि॒त्वाय॒ शान्त्यै॑ ॥ [14]
तेषा॒मसु॑राणान्ति॒स्रᳶ पुर॑ आसन्नय॒स्मय्य॑व॒माऽथ॑ रज॒ताऽथ॒ हरि॑णी॒ ता दे॒वा जेतु॒न्नाश॑क्नुव॒न्ता उ॑प॒सदै॒वाजि॑गीष॒न्तस्मा॑दाहु॒र्यश्चै॒वव्ँवेद॒ यश्च॒ नोप॒सदा॒ वै म॑हापु॒रञ्ज॑य॒न्तीति॒ त इषुँ॒ सम॑स्कुर्वता॒ग्निमनी॑कँ॒ सोमँ॑ श॒ल्यव्ँविष्णु॒न्तेज॑न॒न्ते॑ऽब्रुव॒न्क इ॒माम॑सिष्य॒तीति॑ [15]
रु॒द्र इत्य॑ब्रुवन्रु॒द्रो वै क्रू॒रस्सो॑ऽस्य॒त्विति॒ सो॑ऽब्रवी॒द्वरव्ँ॑वृणा अ॒हमे॒व प॑शू॒नामधि॑पतिरसा॒नीति॒ तस्मा॑द्रु॒द्रᳶ प॑शू॒नामधि॑पति॒स्ताँ रु॒द्रोऽवा॑सृज॒त्स ति॒स्रᳶ पुरो॑ भि॒त्त्वैभ्यो लो॒केभ्योऽसु॑रा॒न्प्राणु॑दत॒ यदु॑प॒सद॑ उपस॒द्यन्ते॒ भ्रातृ॑व्यपराणुत्त्यै॒ नान्यामाहु॑तिम्पु॒रस्ता॑ज्जुहुया॒द्यद॒न्यामाहु॑तिम्पु॒रस्ता॑ज्जुहु॒यात् [16]
अ॒न्यन्मुख॑ङ्कुर्यात्स्रु॒वेणा॑घा॒रमा घा॑रयति य॒ज्ञस्य॒ प्रज्ञा॑त्यै॒ परा॑ङति॒क्रम्य॑ जुहोति॒ परा॑च ए॒वैभ्यो लो॒केभ्यो॒ यज॑मानो॒ भ्रातृ॑व्या॒न्प्र णु॑दते॒ पुन॑रत्या॒क्रम्यो॑प॒सद॑ञ्जुहोति प्र॒णुद्यै॒वैभ्यो लो॒केभ्यो॒ भ्रातृ॑व्याञ्जि॒त्वा भ्रा॑तृव्यलो॒कम॒भ्यारो॑हति दे॒वा वै याᳶ प्रा॒तरु॑प॒सद॑ उ॒पासी॑द॒न्नह्न॒स्ताभि॒रसु॑रा॒न्प्राणु॑दन्त॒ यास्सा॒यँ रात्रि॑यै॒ ताभि॒र्यत्सा॒यम्प्रा॑तरुप॒सदः॑ [17]
उ॒प॒स॒द्यन्ते॑ऽहोरा॒त्राभ्या॑मे॒व तद्यज॑मानो॒ भ्रातृ॑व्या॒न्प्र णु॑दते॒ याᳶ प्रा॒तर्या॒ज्याः॑ स्युस्तास्सा॒यम्पु॑रोनुवा॒क्याः॑ कुर्या॒दया॑तयामत्वाय ति॒स्र उ॑प॒सद॒ उपै॑ति॒ त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान्प्री॑णाति॒ षट्त्सम्प॑द्यन्ते॒ षड्वा ऋ॒तव॑ ऋ॒तूने॒व प्री॑णाति॒ द्वाद॑शा॒हीने॒ सोम॒ उपै॑ति॒ द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रस्सव्ँ॑वत्स॒रमे॒व प्री॑णाति॒ चतु॑र्विँशति॒स्सम् [18]
प॒द्य॒न्ते॒ चतु॑र्विँशतिरर्धमा॒सा अ॑र्धमा॒साने॒व प्री॑णा॒त्यारा॑ग्रामवान्तरदी॒क्षामुपे॑या॒द्यᳵ का॒मये॑ता॒स्मिन्मे॑ लो॒केऽर्धु॑कँ स्या॒दित्येक॒मग्रेऽथे॒ द्वावथ॒ त्रीनथ॑ च॒तुर॑ ए॒षा वा आरा॑ग्रावान्तरदी॒क्षास्मिन्ने॒वास्मै॑ लो॒केऽर्धु॑कम्भवति प॒रोव॑रीयसीमवान्तरदी॒क्षामुपे॑या॒द्यᳵ का॒मये॑ता॒मुष्मि॑न्मे लो॒केऽर्धु॑कँ स्या॒दिति॑ च॒तुरोऽग्रेऽथ॒ त्रीनथ॒ द्वावथैक॑मे॒षा वै प॒रोव॑रीयस्यवान्तरदी॒क्षामुष्मि॑न्ने॒वास्मै॑ लो॒केऽर्धु॑कम्भवति ॥ [19]
सु॒व॒र्गव्ँवा ए॒ते लो॒कय्ँय॑न्ति॒ य उ॑प॒सद॑ उप॒यन्ति॒ तेषाय्ँ॒य उ॒न्नय॑ते॒ हीय॑त ए॒व स नोद॑ने॒षीति॒ सू॑न्नीयमिव॒ यो वै स्वा॒र्थेता॑य्यँ॒ताँ श्रा॒न्तो हीय॑त उ॒त स नि॒ष्ट्याय॑ स॒ह व॑सति॒ तस्मा॑त्स॒कृदु॒न्नीय॒ नाप॑र॒मुन्न॑येत द॒ध्नोन्न॑येतै॒तद्वै प॑शू॒नाँ रू॒पँ रू॒पेणै॒व प॒शूनव॑ रुन्द्धे [20]
य॒ज्ञो दे॒वेभ्यो॒ निला॑यत॒ विष्णू॑ रू॒पङ्कृ॒त्वा स पृ॑थि॒वीम्प्रावि॑श॒त्तन्दे॒वा हस्ता॑न्त्सँ॒रभ्यै॑च्छ॒न्तमिन्द्र॑ उ॒पर्यु॑प॒र्यत्य॑क्राम॒त्सो॑ऽब्रवी॒त्को मा॒यमु॒पर्यु॑प॒र्यत्य॑क्रमी॒दित्य॒हन्दु॒र्गे हन्तेत्यथ॒ कस्त्वमित्य॒हन्दु॒र्गादाह॒र्तेति॒ सो॑ऽब्रवीद्दु॒र्गे वै हन्ता॑वोचथा वरा॒हो॑ऽयव्ँवा॑ममो॒षः [21]
स॒प्ता॒नाङ्गि॑री॒णाम्प॒रस्ता॑द्वि॒त्तव्ँवेद्य॒मसु॑राणाम्बिभर्ति॒ तञ्ज॑हि॒ यदि॑ दु॒र्गे हन्तासीति॒ स द॑र्भपुञ्जी॒लमु॒द्वृह्य॑ स॒प्त गि॒रीन्भि॒त्त्वा तम॑ह॒न्त्सो॑ऽब्रवीद्दु॒र्गाद्वा आह॑र्तावोचथा ए॒तमा ह॒रेति॒ तमे॑भ्यो य॒ज्ञ ए॒व य॒ज्ञमाह॑र॒द्यत्तद्वि॒त्तव्ँवेद्य॒मसु॑राणा॒मवि॑न्दन्त॒ तदेकव्ँ॒वेद्यै॑ वेदि॒त्वमसु॑राणाम् [22]
वा इ॒यमग्र॑ आसी॒द्याव॒दासी॑नᳶ परा॒पश्य॑ति॒ ताव॑द्दे॒वाना॒न्ते दे॒वा अ॑ब्रुव॒न्नस्त्वे॒व नो॒ऽस्यामपीति॒ किय॑द्वो दास्याम॒ इति॒ याव॑दि॒यँ स॑लावृ॒की त्रिᳶ प॑रि॒क्राम॑ति॒ ताव॑न्नो द॒त्तेति॒ स इन्द्र॑स्सलावृ॒की रू॒पङ्कृ॒त्वेमान्त्रिस्स॒र्वत॒ᳶ पर्य॑क्राम॒त्तदि॒माम॑विन्दन्त॒ यदि॒मामवि॑न्दन्त॒ तद्वेद्यै॑ वेदि॒त्वम् [23]
सा वा इ॒यँ सर्वै॒व वेदि॒रिय॑ति शक्ष्या॒मीति॒ त्वा अ॑व॒माय॑ यजन्ते त्रिँ॒शत्प॒दानि॑ प॒श्चात्ति॒रश्ची॑ भवति॒ षट्त्रिँ॑श॒त्प्राची॒ चतु॑र्विँशतिᳶ पु॒रस्ता॑त्ति॒रश्ची॒ दश॑दश॒ सम्प॑द्यन्ते॒ दशा॑क्षरा वि॒राडन्नव्ँ॑वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्द्ध॒ उद्ध॑न्ति॒ यदे॒वास्या॑ अमे॒ध्यन्तदप॑ ह॒न्त्युद्ध॑न्ति॒ तस्मा॒दोष॑धय॒ᳶ परा॑ भवन्ति ब॒र्हिस्स्तृ॑णाति॒ तस्मा॒दोष॑धय॒ᳶ पुन॒रा भ॑व॒न्त्युत्त॑रम्ब॒र्हिष॑ उत्तरब॒र्हिस्स्तृ॑णाति प्र॒जा वै ब॒र्हिर्यज॑मान उत्तरब॒र्हिर्यज॑मानमे॒वाय॑जमाना॒दुत्त॑रङ्करोति॒ तस्मा॒द्यज॑मा॒नोऽय॑जमाना॒दुत्त॑रः ॥ [24]
यद्वा अनी॑शानो भा॒रमा॑द॒त्ते वि वै स लि॑शते॒ यद्द्वाद॑श सा॒ह्नस्यो॑प॒सद॒स्स्युस्ति॒स्रो॑ऽहीन॑स्य य॒ज्ञस्य॒ विलो॑म क्रियेत ति॒स्र ए॒व सा॒ह्नस्यो॑प॒सदो॒ द्वाद॑शा॒हीन॑स्य य॒ज्ञस्य॑ सवीर्य॒त्वायाथो॒ सलो॑म क्रियते व॒त्सस्यैक॒स्स्तनो॑ भा॒गी हि सोऽथैकँ॒ स्तन॑व्व्ँर॒तमुपै॒त्यथ॒ द्वावथ॒ त्रीनथ॑ च॒तुर॑ ए॒तद्वै [25]
क्षु॒रप॑वि॒ नाम॑ व्र॒तय्ँयेन॒ प्र जा॒तान्भ्रातृ॑व्यान्नु॒दते॒ प्रति॑ जनि॒ष्यमा॑णा॒नथो॒ कनी॑यसै॒व भूय॒ उपै॑ति च॒तुरोऽग्रे॒ स्तना॑न्व्र॒तमुपै॒त्यथ॒ त्रीनथ॒ द्वावथैक॑मे॒तद्वै सु॑जघ॒नन्नाम॑ व्र॒तन्त॑प॒स्यँ॑ सुव॒र्ग्य॑मथो॒ प्रैव जा॑यते प्र॒जया॑ प॒शुभि॑र्यवा॒गू रा॑ज॒न्य॑स्य व्र॒तङ्क्रू॒रेव॒ वै य॑वा॒गूᳵ क्रू॒र इ॑व [26]
रा॒ज॒न्यो॑ वज्र॑स्य रू॒पँ समृ॑द्ध्या आ॒मिक्षा॒ वैश्य॑स्य पाकय॒ज्ञस्य॑ रू॒पम्पुष्ट्यै॒ पयो॑ ब्राह्म॒णस्य॒ तेजो॒ वै ब्रा॑ह्म॒णस्तेज॒ᳶ पय॒स्तेज॑सै॒व तेज॒ᳶ पय॑ आ॒त्मन्ध॒त्तेऽथो॒ पय॑सा॒ वै गर्भा॑ वर्धन्ते॒ गर्भ॑ इव॒ खलु॒ वा ए॒ष यद्दी॑क्षि॒तो यद॑स्य॒ पयो॑ व्र॒तम्भव॑त्या॒त्मान॑मे॒व तद्व॑र्धयति॒ त्रिव्र॑तो॒ वै मनु॑रासी॒द्द्विव्र॑ता॒ असु॑रा॒ एक॑व्रताः [27]
दे॒वाᳶ प्रा॒तर्म॒ध्यन्दि॑ने सा॒यन्तन्मनो॑र्व्र॒तमा॑सीत्पाकय॒ज्ञस्य॑ रू॒पम्पुष्ट्यै॑ प्रा॒तश्च॑ सा॒यञ्चासु॑राणान्निर्म॒ध्यङ्क्षु॒धो रू॒पन्तत॒स्ते परा॑भवन्म॒ध्यन्दि॑ने मध्यरा॒त्रे दे॒वाना॒न्तत॒स्ते॑ऽभवन्त्सुव॒र्गल्ँ लो॒कमा॑य॒न्‌यद॑स्य म॒ध्यन्दि॑ने मध्यरा॒त्रे व्र॒तम्भव॑ति मध्य॒तो वा अन्ने॑न भुञ्जते मध्य॒त ए॒व तदूर्ज॑न्धत्ते॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॑ [28]
परा॑ऽस्य॒ भ्रातृ॑व्यो भवति॒ गर्भो॒ वा ए॒ष यद्दी॑क्षि॒तो योनि॑र्दीक्षितविमि॒तय्ँयद्दी॑क्षि॒तो दी॑क्षितविमि॒तात्प्र॒वसे॒द्यथा॒ योने॒र्गर्भ॒स्स्कन्द॑ति ता॒दृगे॒व तन्न प्र॑वस्त॒व्य॑मा॒त्मनो॑ गोपी॒थायै॒ष वै व्या॒घ्रᳵ कु॑लगो॒पो यद॒ग्निस्तस्मा॒द्यद्दी॑क्षि॒तᳶ प्र॒वसे॒त्स ए॑नमीश्व॒रो॑ऽनू॒त्थाय॒ हन्तो॒र्न प्र॑वस्त॒व्य॑मा॒त्मनो॒ गुप्त्यै॑ दक्षिण॒तश्श॑य ए॒तद्वै यज॑मानस्या॒यत॑नँ॒ स्व ए॒वायत॑ने शये॒ऽग्निम॑भ्या॒वृत्य॑ शये दे॒वता॑ ए॒व य॒ज्ञम॑भ्या॒वृत्य॑ शये ॥ [29]
पु॒रोह॑विषि देव॒यज॑ने याजये॒द्यङ्का॒मये॒तोपै॑न॒मुत्त॑रो य॒ज्ञो न॑मेद॒भि सु॑व॒र्गल्ँ लो॒कञ्ज॑ये॒दित्ये॒तद्वै पु॒रोह॑विर्देव॒यज॑नय्ँ॒यस्य॒ होता॑ प्रातरनुवा॒कम॑नुब्रु॒वन्न॒ग्निम॒प आ॑दि॒त्यम॒भि वि॒पश्य॒त्युपै॑न॒मुत्त॑रो य॒ज्ञो न॑मत्य॒भि सु॑व॒र्गल्ँ लो॒कञ्ज॑यत्या॒प्ते दे॑व॒यज॑ने याजये॒द्भ्रातृ॑व्यवन्त॒म्पन्थाव्ँ॑वाधिस्प॒र्शये॑त्क॒र्तव्ँवा॒ याव॒न्नान॑से॒ यात॒वै [30]
न रथा॑यै॒तद्वा आ॒प्तन्दे॑व॒यज॑नमा॒प्नोत्ये॒व भ्रातृ॑व्य॒न्नैन॒म्भ्रातृ॑व्य आप्नो॒त्येको॑न्नते देव॒यज॑ने याजयेत्प॒शुका॑म॒मेको॑न्नता॒द्वै दे॑व॒यज॑ना॒दङ्गि॑रसᳶ प॒शून॑सृजन्तान्त॒रा स॑दोहविर्धा॒ने उ॑न्न॒तँ स्या॑दे॒तद्वा एको॑न्नतन्देव॒यज॑नम्पशु॒माने॒व भ॑वति॒ त्र्यु॑न्नते देव॒यज॑ने याजयेत्सुव॒र्गका॑म॒न्त्र्यु॑न्नता॒द्वै दे॑व॒यज॑ना॒दङ्गि॑रसस्सुव॒र्गल्ँ लो॒कमा॑यन्नन्त॒राह॑व॒नीय॑ञ्च हवि॒र्धान॑ञ्च [31]
उ॒न्न॒तँ स्या॑दन्त॒रा ह॑वि॒र्धान॑ञ्च॒ सद॑श्चान्त॒रा सद॑श्च॒ गार्ह॑पत्यञ्चै॒तद्वै त्र्यु॑न्नतन्देव॒यज॑नँ सुव॒र्गमे॒व लो॒कमे॑ति॒ प्रति॑ष्ठिते देव॒यज॑ने याजयेत्प्रति॒ष्ठाका॑ममे॒तद्वै प्रति॑ष्ठितन्देव॒यज॑नय्ँ॒यत्स॒र्वत॑स्स॒मम्प्रत्ये॒व ति॑ष्ठति॒ यत्रा॒न्याअ॑न्या॒ ओष॑धयो॒ व्यति॑षक्ता॒स्स्युस्तद्या॑जयेत्प॒शुका॑ममे॒तद्वै प॑शू॒नाँ रू॒पँ रू॒पेणै॒वास्मै॑ प॒शून् [32]
अव॑ रुन्द्धे पशु॒माने॒व भ॑वति॒ निर्ऋ॑तिगृहीते देव॒यज॑ने याजये॒द्यङ्का॒मये॑त॒ निर्ऋ॑त्यास्य य॒ज्ञङ्ग्रा॑हयेय॒मित्ये॒तद्वै निर्ऋ॑तिगृहीतन्देव॒यज॑नय्ँ॒यत्स॒दृश्यै॑ स॒त्या॑ ऋ॒क्षन्निर्ऋ॑त्यै॒वास्य॑ य॒ज्ञङ्ग्रा॑हयति॒ व्यावृ॑त्ते देव॒यज॑ने याजयेद्व्या॒वृत्का॑मय्ँ॒यम्पात्रे॑ वा॒ तल्पे॑ वा॒ मीमाँ॑सेरन्प्रा॒चीन॑माहव॒नीया॑त्प्रव॒णँ स्या॑त्प्रती॒चीन॒ङ्गार्ह॑पत्यादे॒तद्वै व्यावृ॑त्तन्देव॒यज॑नव्ँ॒वि पा॒प्मना॒ भ्रातृ॑व्ये॒णा व॑र्तते॒ नैन॒म्पात्रे॒ न तल्पे॑ मीमाँसन्ते का॒र्ये॑ देव॒यज॑ने याजये॒द्भूति॑कामङ्का॒र्यो॑ वै पुरु॑षो॒ भव॑त्ये॒व ॥ [33]
तेभ्य॑ उत्तरवे॒दिस्सिँ॒ही रू॒पङ्कृ॒त्वोभया॑नन्त॒राप॒क्रम्या॑तिष्ठ॒त्ते दे॒वा अ॑मन्यन्त यत॒रान्‌वा इ॒यमु॑पाव॒र्त्स्यति॒ त इ॒दम्भ॑विष्य॒न्तीति॒ तामुपा॑मन्त्रयन्त॒ साब्र॑वी॒द्वरव्ँ॑वृणै॒ सर्वा॒न्मया॒ कामा॒न्व्य॑श्ञवथ॒ पूर्वान्तु मा॒ऽग्नेराहु॑तिरश्ञवता॒ इति॒ तस्मा॑दुत्तरवे॒दिम्पूर्वा॑म॒ग्नेर्व्याघा॑रयन्ति॒ वारे॑वृतँ॒ ह्य॑स्यै॒ शम्य॑या॒ परि॑ मिमीते [34]
मात्रै॒वास्यै॒ साऽथो॑ यु॒क्तेनै॒व यु॒क्तमव॑ रुन्द्धे वि॒त्ताय॑नी मे॒ऽसीत्या॑ह वि॒त्ता ह्ये॑ना॒नाव॑त्ति॒क्ताय॑नी मे॒ऽसीत्या॑ह ति॒क्तान्‌ह्ये॑ना॒नाव॒दव॑तान्मा नाथि॒तमित्या॑ह नाथि॒तान्‌ह्ये॑ना॒नाव॒दव॑तान्मा व्यथि॒तमित्या॑ह व्यथि॒तान्‌ह्ये॑ना॒नाव॑द्वि॒देर॒ग्निर्नभो॒ नाम॑ [35]
अग्ने॑ अङ्गिर॒ इति॒ त्रिर्ह॑रति॒ य ए॒वैषु लो॒केष्व॒ग्नय॒स्ताने॒वाव॑ रुन्द्धे तू॒ष्णीञ्च॑तु॒र्थँ ह॑र॒त्यनि॑रुक्तमे॒वाव॑ रुन्द्धे सिँ॒हीर॑सि महि॒षीर॒सीत्या॑ह सिँ॒हीर्ह्ये॑षा रू॒पङ्कृ॒त्वोभया॑नन्त॒राप॒क्रम्याति॑ष्ठदु॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिᳶ प्रथता॒मित्या॑ह॒ यज॑मानमे॒व प्र॒जया॑ प॒शुभिᳶ॑ प्रथयति ध्रु॒वा [36]
अ॒सीति॒ सँ ह॑न्ति॒ धृत्यै॑ दे॒वेभ्य॑श्शुन्धस्व दे॒वेभ्य॑श्शुम्भ॒स्वेत्यव॑ चो॒क्षति॒ प्र च॑ किरति॒ शुद्ध्या॑ इन्द्रघो॒षस्त्वा॒ वसु॑भिᳶ पु॒रस्ता॑त्पा॒त्वित्या॑ह दि॒ग्भ्य ए॒वैना॒म्प्रोक्ष॑ति दे॒वाँश्चेदु॑त्तरवे॒दिरु॒पाव॑वर्ती॒हैव वि ज॑यामहा॒ इत्यसु॑रा॒ वज्र॑मु॒द्यत्य॑ दे॒वान॒भ्या॑यन्त॒ तानि॑न्द्रघो॒षो वसु॑भिᳶ पु॒रस्ता॒दप॑ [37]
अ॒नु॒द॒त॒ मनो॑जवाᳶ पि॒तृभि॑र्दक्षिण॒तᳶ प्रचे॑ता रु॒द्रैᳶ प॒श्चाद्वि॒श्वक॑र्मादि॒त्यैरु॑त्तर॒तो यदे॒वमु॑त्तरवे॒दिम्प्रो॒क्षति॑ दि॒ग्भ्य ए॒व तद्यज॑मानो॒ भ्रातृ॑व्या॒न्प्रणु॑दत॒ इन्द्रो॒ यती॑न्त्सालावृ॒केभ्य॒ᳶ प्राय॑च्छ॒त्तान्द॑क्षिण॒त उ॑त्तरवे॒द्या आ॑द॒न्‌यत्प्रोक्ष॑णीनामु॒च्छिष्ये॑त॒ तद्द॑क्षिण॒त उ॑त्तरवे॒द्यै नि न॑ये॒द्यदे॒व तत्र॑ क्रू॒रन्तत्तेन॑ शमयति॒ यन्द्वि॒ष्यात्तन्ध्या॑येच्छु॒चैवैन॑मर्पयति ॥ [38]
सोत्त॑रवे॒दिर॑ब्रवी॒त्सर्वा॒न्मया॒ कामा॒न्व्य॑श्ञव॒थेति॒ ते दे॒वा अ॑कामय॒न्तासु॑रा॒न्भ्रातृ॑व्यान॒भि भ॑वे॒मेति॒ ते॑ऽजुहवुस्सिँ॒हीर॑सि सपत्नसा॒ही स्वाहेति॒ तेऽसु॑रा॒न्भ्रातृ॑व्यान॒भ्य॑भव॒न्तेऽसु॑रा॒न्भ्रातृ॑व्यानभि॒भूया॑कामयन्त प्र॒जाव्ँवि॑न्देम॒हीति॒ ते॑ऽजुहवुस्सिँ॒हीर॑सि सुप्रजा॒वनि॒स्स्वाहेति॒ ते प्र॒जाम॑विन्दन्त॒ ते प्र॒जाव्ँवि॒त्त्वा [39]
अ॒का॒म॒य॒न्त॒ प॒शून्‌वि॑न्देम॒हीति॒ ते॑ऽजुहवुस्सिँ॒हीर॑सि रायस्पोष॒वनि॒स्स्वाहेति॒ ते प॒शून॑विन्दन्त॒ ते प॒शून्‌वि॒त्त्वाऽका॑मयन्त प्रति॒ष्ठाव्ँवि॑न्देम॒हीति॒ ते॑ऽजुहवुस्सिँ॒हीर॑स्यादित्य॒वनि॒स्स्वाहेति॒ त इ॒माम्प्र॑ति॒ष्ठाम॑विन्दन्त॒ त इ॒माम्प्र॑ति॒ष्ठाव्ँवि॒त्त्वाका॑मयन्त दे॒वता॑ आ॒शिष॒ उपे॑या॒मेति॒ ते॑ऽजुहवुस्सिँ॒हीर॒स्या व॑ह दे॒वान्दे॑वय॒ते [40]
यज॑मानाय॒ स्वाहेति॒ ते दे॒वता॑ आ॒शिष॒ उपा॑य॒न्पञ्च॒ कृत्वो॒ व्याघा॑रयति॒ पञ्चा॑क्षरा प॒ङ्क्तिᳶ पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्धेऽक्ष्ण॒या व्याघा॑रयति॒ तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै भू॒तेभ्य॒स्त्वेति॒ स्रुच॒मुद्गृ॑ह्णाति॒ य ए॒व दे॒वा भू॒तास्तेषा॒न्तद्भा॑ग॒धेय॒न्ताने॒व तेन॑ प्रीणाति॒ पौतु॑द्रवान्परि॒धीन्परि॑ दधात्ये॒षाम् [41]
लो॒कानाव्ँ॒विधृ॑त्या अ॒ग्नेस्त्रयो॒ ज्यायाँ॑सो॒ भ्रात॑र आस॒न्ते दे॒वेभ्यो॑ ह॒व्यव्ँवह॑न्त॒ᳶ प्रामी॑यन्त॒ सो॑ऽग्निर॑बिभेदि॒त्थव्ँ वाव स्य आर्ति॒मारि॑ष्य॒तीति॒ स निला॑यत॒ स याव्ँ वन॒स्पति॒ष्वव॑स॒त्ताम्पूतु॑द्रौ॒ यामोष॑धीषु॒ ताँ सु॑गन्धि॒तेज॑ने॒ याम्प॒शुषु॒ ताम्पेत्व॑स्यान्त॒रा शृङ्गे॒ तन्दे॒वता॒ᳶ प्रैष॑मैच्छ॒न्तमन्व॑विन्द॒न्तम॑ब्रुवन्न् [42]
उप॑ न॒ आ व॑र्तस्व ह॒व्यन्नो॑ व॒हेति॒ सो॑ऽब्रवी॒द्वरव्ँ॑वृणै॒ यदे॒व गृ॑ही॒तस्याहु॑तस्य बहिᳶपरि॒धि स्कन्दा॒त्तन्मे॒ भ्रातृ॑णाम्भाग॒धेय॑मस॒दिति॒ तस्मा॒द्यद्गृ॑ही॒तस्याहु॑तस्य बहिᳶपरि॒धि स्कन्द॑ति॒ तेषा॒न्तद्भा॑ग॒धेय॒न्ताने॒व तेन॑ प्रीणाति॒ सो॑ऽमन्यतास्थ॒न्वन्तो॑ मे॒ पूर्वे॒ भ्रात॑र॒ᳶ प्रामे॑षता॒स्थानि॑ शातया॒ इति॒ स यानि॑ [43]
अ॒स्थान्यशा॑तयत॒ तत्पूतु॑द्र्वभव॒द्यन्माँ॒समुप॑मृत॒न्तद्गुल्गु॑लु॒ यदे॒तान्त्स॑म्भा॒रान्त्स॒म्भर॑त्य॒ग्निमे॒व तत्सम्भ॑रत्य॒ग्नेᳶ पुरी॑षम॒सीत्या॑हा॒ग्नेर्ह्ये॑तत्पुरी॑षय्ँ॒यत्स॑म्भा॒रा अथो॒ खल्वा॑हुरे॒ते वावैन॒न्ते भ्रात॑र॒ᳶ परि॑ शेरे॒ यत्पौतु॑द्रवाᳶ परि॒धय॒ इति॑ ॥ [44]
ब॒द्धमव॑ स्यति वरुणपा॒शादे॒वैने॑ मुञ्चति॒ प्र णे॑नेक्ति॒ मेध्ये॑ ए॒वैने॑ करोति सावित्रि॒यर्चा हु॒त्वा ह॑वि॒र्धाने॒ प्र व॑र्तयति सवि॒तृप्र॑सूत ए॒वैने॒ प्र व॑र्तयति॒ वरु॑णो॒ वा ए॒ष दु॒र्वागु॑भ॒यतो॑ ब॒द्धो यदक्ष॒स्स यदु॒त्सर्जे॒द्यज॑मानस्य गृ॒हान॒भ्युत्स॑र्जेत् सु॒वाग्दे॑व॒ दुर्याँ॒ आ व॒देत्या॑ह गृ॒हा वै दुर्या॒श्शान्त्यै॒ पत्नी॑ [45]
उपा॑नक्ति॒ पत्नी॒ हि सर्व॑स्य मि॒त्रम्मि॑त्र॒त्वाय॒ यद्वै पत्नी॑ य॒ज्ञस्य॑ क॒रोति॑ मिथु॒नन्तदथो॒ पत्नि॑या ए॒वैष य॒ज्ञस्या॑न्वार॒म्भोऽन॑वच्छित्त्यै॒ वर्त्म॑ना॒ वा अ॒न्वित्य॑ य॒ज्ञँ रक्षाँ॑सि जिघाँसन्ति वैष्ण॒वीभ्या॑मृ॒ग्भ्याव्ँ वर्त्म॑नोर्जुहोति य॒ज्ञो वै विष्णु॑र्य॒ज्ञादे॒व रक्षाँ॒स्यप॑ हन्ति॒ यद॑ध्व॒र्युर॑न॒ग्नावाहु॑तिञ्जुहु॒याद॒न्धो॑ऽध्व॒र्युस्स्या॒द्रक्षाँ॑सि य॒ज्ञँ ह॑न्युः [46]
हिर॑ण्यमु॒पास्य॑ जुहोत्यग्नि॒वत्ये॒व जु॑होति॒ नान्धो॑ऽध्व॒र्युर्भव॑ति॒ न य॒ज्ञँ रक्षाँ॑सि घ्नन्ति॒ प्राची॒ प्रेत॑मध्व॒रङ्क॒ल्पय॑न्ती॒ इत्या॑ह सुव॒र्गमे॒वैने॑ लो॒कङ्ग॑मय॒त्यत्र॑ रमेथाव्ँ॒वर्ष्म॑न्पृथि॒व्या इत्या॑ह॒ वर्ष्म॒ ह्ये॑तत्पृ॑थि॒व्या यद्दे॑व॒यज॑नँ॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यद्ध॑वि॒र्धान॑न्दि॒वो वा॑ विष्णवु॒त वा॑ पृथि॒व्याः [47]
इत्या॒शीर्प॑दय॒र्चा दक्षि॑णस्य हवि॒र्धान॑स्य मे॒थीन्नि ह॑न्ति शीर्ष॒त ए॒व य॒ज्ञस्य॒ यज॑मान आ॒शिषोऽव॑ रुन्द्धे द॒ण्डो वा औ॑प॒रस्तृ॒तीय॑स्य हवि॒र्धान॑स्य वषट्का॒रेणाक्ष॑मच्छिन॒द्यत्तृ॒तीय॑ञ्छ॒दिर्ह॑वि॒र्धान॑योरुदाह्रि॒यते॑ तृ॒तीय॑स्य हवि॒र्धान॒स्याव॑रुद्ध्यै॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यद्ध॑वि॒र्धानव्ँ॒विष्णो॑ र॒राट॑मसि॒ विष्णोः॑ पृ॒ष्ठम॒सीत्या॑ह॒ तस्मा॑देताव॒द्धा शिरो॒ विष्यू॑तव्ँ॒विष्णो॒स्स्यूर॑सि॒ विष्णो॑र्ध्रु॒वम॒सीत्या॑ह वैष्ण॒वँ हि दे॒वत॑या हवि॒र्धानय्ँ॒यम्प्र॑थ॒मङ्ग्र॒न्थिङ्ग्र॑थ्नी॒याद्यत्तन्न वि॑स्रँ॒सये॒दमे॑हेनाध्व॒र्युᳶ प्र मी॑येत॒ तस्मा॒त्स वि॒स्रस्यः॑ ॥ [48]
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इत्यभ्रि॒मा द॑त्ते॒ प्रसू॑त्या अ॒श्विनो॑र्बा॒हुभ्या॒मित्या॑हा॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता॑म्पू॒ष्णो हस्ता॑भ्या॒मित्या॑ह॒ यत्यै॒ वज्र॑ इव॒ वा ए॒षा यदभ्रि॒रभ्रि॑रसि॒ नारि॑र॒सीत्या॑ह॒ शान्त्यै॒ काण्डे॑काण्डे॒ वै क्रि॒यमा॑णे य॒ज्ञँ रक्षाँ॑सि जिघाँसन्ति॒ परि॑लिखितँ॒ रक्ष॒ᳶ परि॑लिखिता॒ अरा॑तय॒ इत्या॑ह॒ रक्ष॑सा॒मप॑हत्यै [49]
इ॒दम॒हँ रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ यो॑ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्म इत्या॑ह॒ द्वौ वाव पुरु॑षौ॒ यञ्चै॒व द्वेष्टि॒ यश्चै॑न॒न्द्वेष्टि॒ तयो॑रे॒वान॑न्तरायङ्ग्री॒वाᳵ कृ॑न्तति दि॒वे त्वा॒न्तरि॑क्षाय त्वा पृथि॒व्यै त्वेत्या॑है॒भ्य ए॒वैना॑ल्लोँ॒केभ्य॒ᳶ प्रोक्ष॑ति प॒रस्ता॑द॒र्वाची॒म्प्रोक्ष॑ति॒ तस्मा॑त् [50]
प॒रस्ता॑द॒र्वाची॑म्मनु॒ष्या॑ ऊर्ज॒मुप॑ जीवन्ति क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति॒ यत्खन॑त्य॒पोऽव॑ नयति॒ शान्त्यै॒ यव॑मती॒रव॑ नय॒त्यूर्ग्वै यव॒ ऊर्गु॑दु॒म्बर॑ ऊ॒र्जैवोर्जँ॒ सम॑र्धयति॒ यज॑मानेन॒ सम्मि॒तौदु॑म्बरी भवति॒ यावा॑ने॒व यज॑मान॒स्ताव॑तीमे॒वास्मि॒न्नूर्ज॑न्दधाति पितृ॒णाँ सद॑नम॒सीति॑ ब॒र्हिरव॑ स्तृणाति पितृदेव॒त्य॑म् [51]
ह्ये॑तद्यन्निखा॑तय्ँ॒यद्ब॒र्हिरन॑वस्तीर्य मिनु॒यात्पि॑तृदेव॒त्या॑ निखा॑ता स्याद्ब॒र्हिर॑व॒स्तीर्य॑ मिनोत्य॒स्यामे॒वैना॑म्मिनो॒त्यथो॑ स्वा॒रुह॑मे॒वैना॑ङ्करो॒त्युद्दिवँ॑ स्तभा॒नान्तरि॑क्षम्पृ॒णेत्या॑है॒षाल्लोँ॒कानाव्ँ॒विधृ॑त्यै द्युता॒नस्त्वा॑ मारु॒तो मि॑नो॒त्वित्या॑ह द्युता॒नो ह॑ स्म॒ वै मा॑रु॒तो दे॒वाना॒मौदु॑म्बरीम्मिनोति॒ तेनै॒व [52]
ए॒ना॒म्मि॒नो॒ति॒ ब्र॒ह्म॒वनि॑न्त्वा क्षत्र॒वनि॒मित्या॑ह यथाय॒जुरे॒वैतद्घृ॒तेन॑ द्यावापृथिवी॒ आ पृ॑णेथा॒मित्यौदु॑म्बर्याञ्जुहोति॒ द्यावा॑पृथि॒वी ए॒व रसे॑नानक्त्या॒न्तम॒न्वव॑स्रावयत्या॒न्तमे॒व यज॑मान॒न्तेज॑साऽनक्त्यै॒न्द्रम॒सीति॑ छ॒दिरधि॒ नि द॑धात्यै॒न्द्रँ हि दे॒वत॑या॒ सदो॑ विश्वज॒नस्य॑ छा॒येत्या॑ह विश्वज॒नस्य॒ ह्ये॑षा छा॒या यत्सदो॒ नव॑छदि [53]
तेज॑स्कामस्य मिनुयात्त्रि॒वृता॒ स्तोमे॑न॒ सम्मि॑त॒न्तेज॑स्त्रि॒वृत्ते॑ज॒स्व्ये॑व भ॑व॒त्येका॑दशछदीन्द्रि॒यका॑म॒स्यैका॑दशाक्षरा त्रि॒ष्टुगि॑न्द्रि॒यन्त्रि॒ष्टुगि॑न्द्रिया॒व्ये॑व भ॑वति॒ पञ्च॑दशछदि॒ भ्रातृ॑व्यवतᳶ पञ्चद॒शो वज्रो॒ भ्रातृ॑व्याभिभूत्यै स॒प्तद॑शछदि प्र॒जाका॑मस्य सप्तद॒शᳶ प्र॒जाप॑तिᳶ प्र॒जाप॑ते॒राप्त्या॒ एक॑विँशतिछदि प्रति॒ष्ठाका॑मस्यैकविँ॒शस्स्तोमा॑नाम्प्रति॒ष्ठा प्रति॑ष्ठित्या उ॒दरव्ँ॒ वै सद॒ ऊर्गु॑दु॒म्बरो॑ मध्य॒त औदु॑म्बरीम्मिनोति मध्य॒त ए॒व प्र॒जाना॒मूर्ज॑न्दधाति॒ तस्मा॑त् [54]
म॒ध्य॒त ऊ॒र्जा भु॑ञ्जते यजमानलो॒के वै दक्षि॑णानि छ॒दीँषि॑ भ्रातृव्यलो॒क उत्त॑राणि॒ दक्षि॑णा॒न्युत्त॑राणि करोति॒ यज॑मानमे॒वाय॑जमाना॒दुत्त॑रङ्करोति॒ तस्मा॒द्यज॑मा॒नोऽय॑जमाना॒दुत्त॑रोऽन्तर्व॒र्तान्क॑रोति॒ व्यावृ॑त्त्यै॒ तस्मा॒दर॑ण्यम्प्र॒जा उप॑ जीवन्ति॒ परि॑ त्वा गिर्वणो॒ गिर॒ इत्या॑ह यथाय॒जुरे॒वैतदिन्द्र॑स्य॒ स्यूर॒सीन्द्र॑स्य ध्रु॒वम॒सीत्या॑है॒न्द्रँ हि दे॒वत॑या॒ सदो॒ यम्प्र॑थ॒मङ्ग्र॒न्थिङ्ग्र॑थ्नी॒याद्यत्तन्न वि॑स्रँ॒सये॒दमे॑हेनाध्व॒र्युᳶ प्र मी॑येत॒ तस्मा॒त्स वि॒स्रस्यः॑ ॥ [55]
शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यद्ध॑वि॒र्धान॑म्प्रा॒णा उ॑पर॒वा ह॑वि॒र्धाने॑ खायन्ते॒ तस्मा॑च्छी॒र्षन्प्रा॒णा अ॒धस्ता॑त्खायन्ते॒ तस्मा॑द॒धस्ता॑च्छी॒र्ष्णᳶ प्रा॒णा र॑क्षो॒हणो॑ वलग॒हनो॑ वैष्ण॒वान्ख॑ना॒मीत्या॑ह वैष्ण॒वा हि दे॒वत॑योपर॒वा असु॑रा॒ वै नि॒र्यन्तो॑ दे॒वाना॑म्प्रा॒णेषु॑ वल॒गान्न्य॑खन॒न्तान्बा॑हुमा॒त्रेऽन्व॑विन्द॒न्तस्मा॑द्बाहुमा॒त्राᳵ खा॑यन्त इ॒दम॒हन्तव्ँव॑ल॒गमुद्व॑पामि [56]
यन्न॑स्समा॒नो यमस॑मानो निच॒खानेत्या॑ह॒ द्वौ वाव पुरु॑षौ॒ यश्चै॒व स॑मा॒नो यश्चास॑मानो॒ यमे॒वास्मै॒ तौ व॑ल॒गन्नि॒खन॑त॒स्तमे॒वोद्व॑पति॒ सन्तृ॑णत्ति॒ तस्मा॒त्सन्तृ॑ण्णा अन्तर॒तᳶ प्रा॒णा न सम्भि॑नत्ति॒ तस्मा॒दस॑म्भिन्नाᳶ प्रा॒णा अ॒पोऽव॑ नयति॒ तस्मा॑दा॒र्द्रा अ॑न्तर॒तᳶ प्रा॒णा यव॑मती॒रव॑ नयति [57]
ऊर्ग्वै यवᳶ॑ प्रा॒णा उ॑पर॒वाᳶ प्रा॒णेष्वे॒वोर्ज॑न्दधाति ब॒र्हिरव॑ स्तृणाति॒ तस्मा॑ल्लोम॒शा अ॑न्तर॒तᳶ प्रा॒णा आज्ये॑न॒ व्याघा॑रयति॒ तेजो॒ वा आज्य॑म्प्रा॒णा उ॑पर॒वाᳶ प्रा॒णेष्वे॒व तेजो॑ दधाति॒ हनू॒ वा ए॒ते य॒ज्ञस्य॒ यद॑धि॒षव॑णे॒ न सन्तृ॑ण॒त्त्यस॑न्तृण्णे॒ हि हनू॒ अथो॒ खलु॑ दीर्घसो॒मे स॒न्तृद्ये॒ धृत्यै॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यद्ध॑वि॒र्धान॑म् [58]
प्रा॒णा उ॑पर॒वा हनू॑ अधि॒षव॑णे जि॒ह्वा चर्म॒ ग्रावा॑णो॒ दन्ता॒ मुख॑माहव॒नीयो॒ नासि॑कोत्तरवे॒दिरु॒दरँ॒ सदो॑ य॒दा खलु॒ वै जि॒ह्वया॑ द॒त्स्वधि॒ खाद॒त्यथ॒ मुख॑ङ्गच्छति य॒दा मुख॒ङ्गच्छ॒त्यथो॒दर॑ङ्गच्छति॒ तस्मा॑द्धवि॒र्धाने॒ चर्म॒न्नधि॒ ग्राव॑भिरभि॒षुत्या॑हव॒नीये॑ हु॒त्वा प्र॒त्यञ्चᳶ॑ प॒रेत्य॒ सद॑सि भक्षयन्ति॒ यो वै वि॒राजो॑ यज्ञमु॒खे दोहव्ँ॒वेद॑ दु॒ह ए॒वैना॑मि॒यव्ँ वै वि॒राट्तस्यै॒ त्वक्चर्मोधो॑ऽधि॒षव॑णे॒ स्तना॑ उपर॒वा ग्रावा॑णो व॒त्सा ऋ॒त्विजो॑ दुहन्ति॒ सोम॒ᳶ पयो॒ य ए॒वव्ँ वेद॑ दु॒ह ए॒वैना॑म् ॥ [59]