प्रा॒चीन॑वँशङ्करोति देवमनु॒ष्या दिशो॒ व्य॑भजन्त॒ प्राची॑न्दे॒वा द॑क्षि॒णा पि॒तरᳶ॑ प्र॒तीची॑म्मनु॒ष्या॑ उदी॑चीँ रु॒द्रा यत्प्रा॒चीन॑वँशङ्क॒रोति॑ देवलो॒कमे॒व तद्यज॑मान उ॒पाव॑र्तते॒ परि॑ श्रयत्य॒न्तर्हि॑तो॒ हि दे॑वलो॒को म॑नुष्यलो॒कान्नास्माल्लो॒कात्स्वे॑तव्यमि॒वेत्या॑हु॒ᳵ को हि तद्वेद॒ यद्य॒मुष्मिल्ँ॑ लो॒केऽस्ति॑ वा॒ न वेति॑ दि॒क्ष्व॑तीका॒शान्क॑रोति [1]
उ॒भयो॑र्लो॒कयो॑र॒भिजि॑त्यै केशश्म॒श्रु व॑पते न॒खानि॒ नि कृ॑न्तते मृ॒ता वा ए॒षा त्वग॑मे॒ध्या यत्के॑शश्म॒श्रु मृ॒तामे॒व त्वच॑ममे॒ध्याम॑प॒हत्य॑ य॒ज्ञियो॑ भू॒त्वा मेध॒मुपै॒त्यङ्गि॑रसस्सुव॒र्गल्ँ लो॒कय्यँन्तो॒ऽप्सु दी॑क्षात॒पसी॒ प्रावे॑शयन्न॒प्सु स्ना॑ति सा॒क्षादे॒व दी॑क्षात॒पसी॒ अव॑ रुन्द्धे ती॒र्थे स्ना॑ति ती॒र्थे हि ते ताम्प्रावे॑शयन्ती॒र्थे स्ना॑ति [2]
ती॒र्थमे॒व स॑मा॒नाना॑म्भवत्य॒पो॑ऽश्ञात्यन्तर॒त ए॒व मेध्यो॑ भवति॒ वास॑सा दीक्षयति सौ॒म्यव्ँ वै क्षौम॑न्दे॒वत॑या॒ सोम॑मे॒ष दे॒वता॒मुपै॑ति॒ यो दीक्ष॑ते॒ सोम॑स्य त॒नूर॑सि त॒नुव॑म्मे पा॒हीत्या॑ह॒ स्वामे॒व दे॒वता॒मुपै॒त्यथो॑ आ॒शिष॑मे॒वैतामा शा॑स्ते॒ऽग्नेस्तू॑षा॒धानव्ँ॑वा॒योर्वा॑त॒पान॑म्पितृ॒णान्नी॒विरोष॑धीनाम्प्रघा॒तः [3]
आ॒दि॒त्याना॑म्प्राचीनता॒नो विश्वे॑षान्दे॒वाना॒मोतु॒र्नक्ष॑त्राणामतीका॒शास्तद्वा ए॒तत्स॑र्वदेव॒त्यय्ँ॑यद्वासो॒ यद्वास॑सा दी॒क्षय॑ति॒ सर्वा॑भिरे॒वैन॑न्दे॒वता॑भिर्दीक्षयति ब॒हिᳶप्रा॑णो॒ वै म॑नु॒ष्य॑स्तस्याश॑नम्प्रा॒णो॑ऽश्ञाति॒ सप्रा॑ण ए॒व दी॑क्षत॒ आशि॑तो भवति॒ यावा॑ने॒वास्य॑ प्रा॒णस्तेन॑ स॒ह मेध॒मुपै॑ति घृ॒तन्दे॒वाना॒म्मस्तु॑ पितृ॒णान्निष्प॑क्वम्मनु॒ष्या॑णा॒न्तद्वै [4]
ए॒तत्स॑र्वदेव॒त्यय्ँ॑यन्नव॑नीतय्ँ॒यन्नव॑नीतेनाभ्य॒ङ्क्ते सर्वा॑ ए॒व दे॒वताः॑ प्रीणाति॒ प्रच्यु॑तो॒ वा ए॒षो॑ऽस्माल्लो॒कादग॑तो देवलो॒कय्योँ दी॑क्षि॒तो॑ऽन्त॒रेव॒ नव॑नीत॒न्तस्मा॒न्नव॑नीतेना॒भ्य॑ङ्क्तेऽनुलो॒मय्यँजु॑षा॒ व्यावृ॑त्त्या॒ इन्द्रो॑ वृ॒त्रम॑ह॒न्तस्य॑ क॒नीनि॑का॒ परा॑पत॒त्तदाञ्ज॑नमभव॒द्यदा॒ङ्क्ते चक्षु॑रे॒व भ्रातृ॑व्यस्य वृङ्क्ते॒ दक्षि॑ण॒म्पूर्व॒माङ्क्ते॑ [5]
स॒व्यँ हि पूर्व॑म्मनु॒ष्या॑ आ॒ञ्जते॒ न नि धा॑वते॒ नीव॒ हि म॑नु॒ष्या॑ धाव॑न्ते॒ पञ्च॒ कृत्व॒ आङ्क्ते॒ पञ्चा॑क्षरा प॒ङ्क्तिᳶ पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्धे॒ परि॑मित॒माङ्क्तेऽप॑रिमितँ॒ हि म॑नु॒ष्या॑ आ॒ञ्जते॒ सतू॑ल॒याङ्क्तेऽप॑तूलया॒ हि म॑नु॒ष्या॑ आ॒ञ्जते॒ व्यावृ॑त्त्यै॒ यदप॑तूलयाञ्जी॒त वज्र॑ इव स्या॒त्सतू॑ल॒याङ्क्ते॑ मित्र॒त्वाय॑ [6]
इन्द्रो॑ वृ॒त्रम॑ह॒न्त्सोऽ३॑ पोऽ३॑ भ्य॑म्रियत॒ तासाय्ँ॒यन्मेध्यय्ँ॑ य॒ज्ञियँ॒ सदे॑व॒मासी॒त्तदपोद॑क्राम॒त्ते द॒र्भा अ॑भव॒न्यद्द॑र्भपुञ्जी॒लैᳶ प॒वय॑ति॒ या ए॒व मेध्या॑ य॒ज्ञिया॒स्सदे॑वा॒ आप॒स्ताभि॑रे॒वैन॑म्पवयति॒ द्वाभ्या॑म्पवयत्यहोरा॒त्राभ्या॑मे॒वैन॑म्पवयति त्रि॒भिᳶ प॑वयति॒ त्रय॑ इ॒मे लो॒का ए॒भिरे॒वैनल्ँ॑ लो॒कैᳶ प॑वयति प॒ञ्चभिः॑ [7]
प॒व॒य॒ति॒ पञ्चा॑क्षरा प॒ङ्क्तिᳶ पाङ्क्तो॑ य॒ज्ञो य॒ज्ञायै॒वैन॑म्पवयति ष॒ड्भिᳶ प॑वयति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैन॑म्पवयति स॒प्तभिᳶ॑ पवयति स॒प्त छन्दाँ॑सि॒ छन्दो॑भिरे॒वैन॑म्पवयति न॒वभिᳶ॑ पवयति॒ नव॒ वै पुरु॑षे प्रा॒णास्सप्रा॑णमे॒वैन॑म्पवय॒त्येक॑विँशत्या पवयति॒ दश॒ हस्त्या॑ अ॒ङ्गुल॑यो॒ दश॒ पद्या॑ आ॒त्मैक॑विँ॒शो यावा॑ने॒व पुरु॑ष॒स्तमप॑रिवर्गम् [8]
प॒व॒य॒ति॒ चि॒त्पति॑स्त्वा पुना॒त्वित्या॑ह॒ मनो॒ वै चि॒त्पति॒र्मन॑सै॒वैन॑म्पवयति वा॒क्पति॑स्त्वा पुना॒त्वित्या॑ह वा॒चैवैन॑म्पवयति दे॒वस्त्वा॑ सवि॒ता पु॑ना॒त्वित्या॑ह सवि॒तृप्र॑सूत ए॒वैन॑म्पवयति॒ तस्य॑ ते पवित्रपते प॒वित्रे॑ण॒ यस्मै॒ कम्पु॒ने तच्छ॑केय॒मित्या॑हा॒शिष॑मे॒वैतामा शा॑स्ते ॥ [9]
याव॑न्तो॒ वै दे॒वा य॒ज्ञायापु॑नत॒ त ए॒वाभ॑व॒न्य ए॒वव्ँवि॒द्वान्‌य॒ज्ञाय॑ पुनी॒ते भव॑त्ये॒व ब॒हिᳶ प॑वयि॒त्वान्तᳶ प्र पा॑दयति मनुष्यलो॒क ए॒वैन॑म्पवयि॒त्वा पू॒तन्दे॑वलो॒कम्प्र ण॑य॒त्यदी॑क्षित॒ एक॒याहु॒त्येत्या॑हुस्स्रु॒वेण॒ चत॑स्रो जुहोति दीक्षित॒त्वाय॑ स्रु॒चा प॑ञ्च॒मीम्पञ्चा॑क्षरा प॒ङ्क्तिᳶ पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्ध॒ आकू॑त्यै प्र॒युजे॒ऽग्नये॑ [10]
स्वाहेत्या॒हाकू॑त्या॒ हि पुरु॑षो य॒ज्ञम॒भि प्र॑यु॒ङ्क्ते यजे॒येति॑ मे॒धायै॒ मन॑से॒ऽग्नये॒ स्वाहेत्या॑ह मे॒धया॒ हि मन॑सा॒ पुरु॑षो य॒ज्ञम॑भि॒गच्छ॑ति॒ सर॑स्वत्यै पू॒ष्णे॑ऽग्नये॒ स्वाहेत्या॑ह॒ वाग्वै सर॑स्वती पृथि॒वी पू॒षा वा॒चैव पृ॑थि॒व्या य॒ज्ञम्प्र यु॑ङ्क्त॒ आपो॑ देवीर्बृहतीर्विश्वशम्भुव॒ इत्या॑ह॒ या वै वर्ष्या॒स्ताः [11]
आपो॑ दे॒वीर्बृ॑ह॒तीर्वि॒श्वश॑म्भुवो॒ यदे॒तद्यजु॒र्न ब्रू॒याद्दि॒व्या आपोऽशा॑न्ता इ॒मल्लोँ॒कमा ग॑च्छेयु॒रापो॑ देवीर्बृहतीर्विश्वशम्भुव॒ इत्या॑हा॒स्मा ए॒वैना॑ लो॒काय॑ शमयति॒ तस्मा॑च्छा॒न्ता इ॒मल्लोँ॒कमा ग॑च्छन्ति॒ द्यावा॑पृथि॒वी इत्या॑ह॒ द्यावा॑पृथि॒व्योर्हि य॒ज्ञ उ॒र्व॑न्तरि॑क्ष॒मित्या॑हा॒न्तरि॑क्षे॒ हि य॒ज्ञो बृह॒स्पति॑र्नो ह॒विषा॑ वृधातु [12]
इत्या॑ह॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र्ब्रह्म॑णै॒वास्मै॑ य॒ज्ञमव॑ रुन्द्धे॒ यद्ब्रू॒याद्वि॑धे॒रिति॑ यज्ञस्था॒णुमृ॑च्छेद्वृधा॒त्वित्या॑ह यज्ञस्था॒णुमे॒व परि॑ वृणक्ति प्र॒जाप॑तिर्य॒ज्ञम॑सृजत॒ सो॑ऽस्मात्सृ॒ष्टᳶ परा॑ङै॒त्स प्र यजु॒रव्ली॑ना॒त्प्र साम॒ तमृगुद॑यच्छ॒द्यदृगु॒दय॑च्छ॒त्तदौ॑द्ग्रह॒णस्यौ॑द्ग्रहण॒त्वमृ॒चा [13]
जु॒हो॒ति॒ य॒ज्ञस्योद्य॑त्या अनु॒ष्टुप्छन्द॑सा॒मुद॑यच्छ॒दित्या॑हु॒स्तस्मा॑दनु॒ष्टुभा॑ जुहोति य॒ज्ञस्योद्य॑त्यै॒ द्वाद॑श वात्सब॒न्धान्युद॑यच्छ॒न्नित्या॑हु॒स्तस्मा॑द्द्वाद॒शभि॑र्वात्सबन्ध॒विदो॑ दीक्षयन्ति॒ सा वा ए॒षर्ग॑नु॒ष्टुग्वाग॑नु॒ष्टुग्यदे॒तय॒र्चा दी॒क्षय॑ति वा॒चैवैनँ॒ सर्व॑या दीक्षयति॒ विश्वे॑ दे॒वस्य॑ ने॒तुरित्या॑ह सावि॒त्र्ये॑तेन॒ मर्तो॑ वृणीत स॒ख्यम् [14]
इत्या॑ह पितृदेव॒त्यै॑तेन॒ विश्वे॑ रा॒य इ॑षुध्य॒सीत्या॑ह वैश्वदे॒व्ये॑तेन॑ द्यु॒म्नव्ँवृ॑णीत पु॒ष्यस॒ इत्या॑ह पौ॒ष्ण्ये॑तेन॒ सा वा ए॒षर्क्स॑र्वदेव॒त्या॑ यदे॒तय॒र्चा दी॒क्षय॑ति॒ सर्वा॑भिरे॒वैन॑न्दे॒वता॑भिर्दीक्षयति स॒प्ताक्ष॑रम्प्रथ॒मम्प॒दम॒ष्टाक्ष॑राणि॒ त्रीणि॒ यानि॒ त्रीणि॒ तान्य॒ष्टावुप॑ यन्ति॒ यानि॑ च॒त्वारि॒ तान्य॒ष्टौ यद॒ष्टाक्ष॑रा॒ तेन॑ [15]
गा॒य॒त्री यदेका॑दशाक्षरा॒ तेन॑ त्रि॒ष्टुग्यद्द्वाद॑शाक्षरा॒ तेन॒ जग॑ती॒ सा वा ए॒षर्क्सर्वा॑णि॒ छन्दाँ॑सि॒ यदे॒तय॒र्चा दी॒क्षय॑ति॒ सर्वे॑भिरे॒वैन॒ञ्छन्दो॑भिर्दीक्षयति स॒प्ताक्ष॑रम्प्रथ॒मम्प॒दँ स॒प्तप॑दा॒ शक्व॑री प॒शव॒श्शक्व॑री प॒शूने॒वाव॑ रुन्द्ध॒ एक॑स्माद॒क्षरा॒दना॑प्तम्प्रथ॒मम्प॒दन्तस्मा॒द्यद्वा॒चोऽना॑प्त॒न्तन्म॑नु॒ष्या॑ उप॑ जीवन्ति पू॒र्णया॑ जुहोति पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिᳶ प्र॒जाप॑ते॒राप्त्यै॒ न्यू॑नया जुहोति॒ न्यू॑ना॒द्धि प्र॒जाप॑तिᳶ प्र॒जा असृ॑जत प्र॒जानाँ॒ सृष्ट्यै॑ ॥ [16]
ऋ॒क्सा॒मे वै दे॒वेभ्यो॑ य॒ज्ञायाति॑ष्ठमाने॒ कृष्णो॑ रू॒पङ्कृ॒त्वाप॒क्रम्या॑तिष्ठता॒न्ते॑ऽमन्यन्त॒ यव्ँवा इ॒मे उ॑पाव॒र्त्स्यत॒स्स इ॒दम्भ॑विष्य॒तीति॒ ते उपा॑मन्त्रयन्त॒ ते अ॑होरा॒त्रयो॑र्महि॒मान॑मपनि॒धाय॑ दे॒वानु॒पाव॑र्तेतामे॒ष वा ऋ॒चो वर्णो॒ यच्छु॒क्लङ्कृ॑ष्णाजि॒नस्यै॒ष साम्नो॒ यत्कृ॒ष्णमृ॑क्सा॒मयो॒श्शिल्पे॑ स्थ॒ इत्या॑हर्क्सा॒मे ए॒वाव॑ रुन्ध ए॒षः [17]
वा अह्नो॒ वर्णो॒ यच्छु॒क्लङ्कृ॑ष्णाजि॒नस्यै॒ष रात्रि॑या॒ यत्कृ॒ष्णय्ँयदे॒वैन॑यो॒स्तत्र॒ न्य॑क्त॒न्तदे॒वाव॑ रुन्द्धे कृष्णाजि॒नेन॑ दीक्षयति॒ ब्रह्म॑णो॒ वा ए॒तद्रू॒पय्ँयत्कृ॑ष्णाजि॒नम्ब्रह्म॑णै॒वैन॑न्दीक्षयती॒मान्धियँ॒ शिक्ष॑माणस्य दे॒वेत्या॑ह यथाय॒जुरे॒वैतद्गर्भो॒ वा ए॒ष यद्दी॑क्षि॒त उल्बव्ँ॒वास॒ᳶ प्रोर्णु॑ते॒ तस्मा॑त् [18]
गर्भा॒ᳶ प्रावृ॑ता जायन्ते॒ न पु॒रा सोम॑स्य क्र॒यादपो॑र्ण्वीत॒ यत्पु॒रा सोम॑स्य क्र॒याद॑पोर्ण्वी॒त गर्भाः॑ प्र॒जाना॑म्परा॒पातु॑कास्स्युᳵ क्री॒ते सोमेऽपो॑र्णुते॒ जाय॑त ए॒व तदथो॒ यथा॒ वसी॑याँसम्प्रत्यपोर्णु॒ते ता॒दृगे॒व तदङ्गि॑रसस्सुव॒र्गल्ँ लो॒कय्यँन्त॒ ऊर्ज॒व्व्ँय॑भजन्त॒ ततो॒ यद॒त्यशि॑ष्यत॒ ते श॒रा अ॑भव॒न्नूर्ग्वै श॒रा यच्छ॑र॒मयी॑ [19]
मेख॑ला॒ भव॒त्यूर्ज॑मे॒वाव॑ रुन्द्धे मध्य॒तस्सन्न॑ह्यति मध्य॒त ए॒वास्मा॒ ऊर्ज॑न्दधाति॒ तस्मा॑न्मध्य॒त ऊ॒र्जा भु॑ञ्जत ऊ॒र्ध्वव्ँ वै पुरु॑षस्य॒ नाभ्यै॒ मेध्य॑मवा॒चीन॑ममे॒ध्यय्ँयन्म॑ध्य॒तस्स॒न्नह्य॑ति॒ मेध्य॑ञ्चै॒वास्या॑मे॒ध्यञ्च॒ व्याव॑र्तय॒तीन्द्रो॑ वृ॒त्राय॒ वज्र॒म्प्राह॑र॒त्स त्रे॒धा व्य॑भव॒त्स्फ्यस्तृती॑यँ॒ रथ॒स्तृती॑यय्ँ॒यूप॒स्तृती॑यम् [20]
ये॑ऽन्तश्श॒रा अशी॑र्यन्त॒ ते श॒रा अ॑भव॒न्तच्छ॒राणाँ॑ शर॒त्वव्ँ वज्रो॒ वै श॒राः क्षुत्खलु॒ वै म॑नु॒ष्य॑स्य॒ भ्रातृ॑व्यो॒ यच्छ॑र॒मयी॒ मेख॑ला॒ भव॑ति॒ वज्रे॑णै॒व सा॒क्षात्क्षुध॒म्भ्रातृ॑व्यम्मध्य॒तोऽप॑ हते त्रि॒वृद्भ॑वति त्रि॒वृद्वै प्रा॒णस्त्रि॒वृत॑मे॒व प्रा॒णम्म॑ध्य॒तो यज॑माने दधाति पृ॒थ्वी भ॑वति॒ रज्जू॑ना॒व्व्ँयावृ॑त्त्यै॒ मेख॑लया॒ यज॑मानन्दीक्षयति॒ योक्त्रे॑ण॒ पत्नी॑म्मिथुन॒त्वाय॑ [21]
य॒ज्ञो दक्षि॑णाम॒भ्य॑ध्याय॒त्ताँ सम॑भव॒त्तदिन्द्रो॑ऽचाय॒त्सो॑ऽमन्यत॒ यो वा इ॒तो ज॑नि॒ष्यते॒ स इ॒दम्भ॑विष्य॒तीति॒ ताम्प्रावि॑श॒त्तस्या॒ इन्द्र॑ ए॒वाजा॑यत॒ सो॑ऽमन्यत॒ यो वै मदि॒तोऽप॑रो जनि॒ष्यते॒ स इ॒दम्भ॑विष्य॒तीति॒ तस्या॑ अनु॒मृश्य॒ योनि॒माच्छि॑न॒त्सा सू॒तव॑शाभव॒त्तत्सू॒तव॑शायै॒ जन्म॑ [22]
ताँ हस्ते॒ न्य॑वेष्टयत॒ ताम्मृ॒गेषु॒ न्य॑दधा॒त्सा कृ॑ष्णविषा॒णाभ॑व॒दिन्द्र॑स्य॒ योनि॑रसि॒ मा मा॑ हिँसी॒रिति॑ कृष्णविषा॒णाम्प्र य॑च्छति॒ सयो॑निमे॒व य॒ज्ञङ्क॑रोति॒ सयो॑नि॒न्दक्षि॑णाँ॒ सयो॑नि॒मिन्द्रँ॑ सयोनि॒त्वाय॑ कृ॒ष्यै त्वा॑ सुस॒स्याया॒ इत्या॑ह॒ तस्मा॑दकृष्टप॒च्या ओष॑धयᳶ पच्यन्ते सुपिप्प॒लाभ्य॒स्त्वौष॑धीभ्य॒ इत्या॑ह॒ तस्मा॒दोष॑धय॒ᳶ फल॑ङ्गृह्णन्ति॒ यद्धस्ते॑न [23]
क॒ण्डू॒येत॑ पामन॒म्भावु॑काᳶ प्र॒जास्स्यु॒र्यत्स्मये॑त नग्न॒म्भावु॑काᳵ कृष्णविषा॒णया॑ कण्डूयतेऽपि॒गृह्य॑ स्मयते प्र॒जाना॑ङ्गोपी॒थाय॒ न पु॒रा दक्षि॑णाभ्यो॒ नेतोः॑ कृष्णविषा॒णामव॑ चृते॒द्यत्पु॒रा दक्षि॑णाभ्यो॒ नेतोः॑ कृष्णविषा॒णाम॑वचृ॒तेद्योनिᳶ॑ प्र॒जाना॑म्परा॒पातु॑का स्यान्नी॒तासु॒ दक्षि॑णासु॒ चात्वा॑ले कृष्णविषा॒णाम्प्रास्य॑ति॒ योनि॒र्वै य॒ज्ञस्य॒ चात्वा॑लय्ँ॒योनि॑ᳵ कृष्णविषा॒णा योना॑वे॒व योनि॑न्दधाति य॒ज्ञस्य॑ सयोनि॒त्वाय॑ ॥ [24]
वाग्वै दे॒वेभ्योऽपा॑क्रामद्य॒ज्ञायाति॑ष्ठमाना॒ सा वन॒स्पती॒न्प्रावि॑श॒त्सैषा वाग्वन॒स्पति॑षु वदति॒ या दु॑न्दु॒भौ या तूण॑वे॒ या वीणा॑याय्ँ॒यद्दी॑क्षितद॒ण्डम्प्र॒यच्छ॑ति॒ वाच॑मे॒वाव॑ रुन्द्ध॒ औदु॑म्बरो भव॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्ज॑मे॒वाव॑ रुन्द्धे॒ मुखे॑न॒ सम्मि॑तो भवति मुख॒त ए॒वास्मा॒ ऊर्ज॑न्दधाति॒ तस्मा॑न्मुख॒त ऊ॒र्जा भु॑ञ्जते [25]
क्री॒ते सोमे॑ मैत्रावरु॒णाय॑ द॒ण्डम्प्र य॑च्छति मैत्रावरु॒णो हि पु॒रस्ता॑दृ॒त्विग्भ्यो॒ वाचव्ँ॑वि॒भज॑ति॒ तामृ॒त्विजो॒ यज॑माने॒ प्रति॑ ष्ठापयन्ति॒ स्वाहा॑ य॒ज्ञम्मन॒सेत्या॑ह॒ मन॑सा॒ हि पुरु॑षो य॒ज्ञम॑भि॒गच्छ॑ति॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒मित्या॑ह॒ द्यावा॑पृथि॒व्योर्हि य॒ज्ञस्स्वाहो॒रोर॒न्तरि॑क्षा॒दित्या॑हा॒न्तरि॑क्षे॒ हि य॒ज्ञस्स्वाहा॑ य॒ज्ञव्ँ वाता॒दार॑भ॒ इत्या॑हा॒यम् [26]
वाव यᳶ पव॑ते॒ स य॒ज्ञस्तमे॒व सा॒क्षादा र॑भते मु॒ष्टी क॑रोति॒ वाचय्ँ॑यच्छति य॒ज्ञस्य॒ धृत्या॒ अदी॑क्षिष्टा॒यम्ब्रा॑ह्म॒ण इति॒ त्रिरु॑पाँ॒श्वा॑ह दे॒वेभ्य॑ ए॒वैन॒म्प्राह॒ त्रिरु॒च्चैरु॒भये॑भ्य ए॒वैन॑न्देवमनु॒ष्येभ्य॒ᳶ प्राह॒ न पु॒रा नक्ष॑त्रेभ्यो॒ वाचव्ँ॒वि सृ॑जे॒द्यत्पु॒रा नक्ष॑त्रेभ्यो॒ वाचव्ँ॑विसृ॒जेद्य॒ज्ञव्ँविच्छि॑न्द्यात् [27]
उदि॑तेषु॒ नक्ष॑त्रेषु व्र॒तङ्कृ॑णु॒तेति॒ वाचव्ँ॒वि सृ॑जति य॒ज्ञव्र॑तो॒ वै दी॑क्षि॒तो य॒ज्ञमे॒वाभि वाचव्ँ॒वि सृ॑जति॒ यदि॑ विसृ॒जेद्वै॑ष्ण॒वीमृच॒मनु॑ ब्रूयाद्य॒ज्ञो वै विष्णु॑र्य॒ज्ञेनै॒व य॒ज्ञँ सन्त॑नोति॒ दैवी॒न्धिय॑म्मनामह॒ इत्या॑ह य॒ज्ञमे॒व तन्म्र॑दयति सुपा॒रा नो॑ अस॒द्वश॒ इत्या॑ह॒ व्यु॑ष्टिमे॒वाव॑ रुन्द्धे [28]
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति होत॒व्य॑न्दीक्षि॒तस्य॑ गृ॒हा(३)इ न हो॑त॒व्या(३)मिति॑ ह॒विर्वै दी॑क्षि॒तो यज्जु॑हु॒याद्यज॑मानस्याव॒दाय॑ जुहुया॒द्यन्न जु॑हु॒याद्य॑ज्ञप॒रुर॒न्तरि॑या॒द्ये दे॒वा मनो॑जाता मनो॒युज॒ इत्या॑ह प्रा॒णा वै दे॒वा मनो॑जाता मनो॒युज॒स्तेष्वे॒व प॒रोक्ष॑ञ्जुहोति॒ तन्नेव॑ हु॒तन्नेवाहु॑तँ स्व॒पन्तव्ँ॒ वै दी॑क्षि॒तँ रक्षाँ॑सि जिघाँसन्त्य॒ग्निः [29]
खलु॒ वै र॑क्षो॒हाग्ने॒ त्वँ सु जा॑गृहि व॒यँ सु म॑न्दिषीम॒हीत्या॑हा॒ग्निमे॒वाधि॒पाङ्कृ॒त्वा स्व॑पिति॒ रक्ष॑सा॒मप॑हत्या अव्र॒त्यमि॑व॒ वा ए॒ष क॑रोति॒ यो दी॑क्षि॒तस्स्वपि॑ति॒ त्वम॑ग्ने व्रत॒पा अ॒सीत्या॑हा॒ग्निर्वै दे॒वाना॑व्व्ँर॒तप॑ति॒स्स ए॒वैन॑व्व्ँर॒तमा ल॑म्भयति दे॒व आ मर्त्ये॒ष्वेत्या॑ह दे॒वः [30]
ह्ये॑ष सन्मर्त्ये॑षु॒ त्वय्ँ य॒ज्ञेष्वीड्य॒ इत्या॑है॒तँ हि य॒ज्ञेष्वीड॒तेऽप॒ वै दी॑क्षि॒तात्सु॑षु॒पुष॑ इन्द्रि॒यन्दे॒वताः॑ क्रामन्ति॒ विश्वे॑ दे॒वा अ॒भि मामाव॑वृत्र॒न्नित्या॑हेन्द्रि॒येणै॒वैन॑न्दे॒वता॑भि॒स्सन्न॑यति॒ यदे॒तद्यजु॒र्न ब्रू॒याद्याव॑त ए॒व प॒शून॒भि दीक्षे॑त॒ ताव॑न्तोऽस्य प॒शव॑स्स्यू॒ रास्वेय॑त् [31]
सो॒मा भूयो॑ भ॒रेत्या॒हाप॑रिमिताने॒व प॒शूनव॑ रुन्द्धे च॒न्द्रम॑सि॒ मम॒ भोगा॑य भ॒वेत्या॑ह यथादेव॒तमे॒वैना॒ᳶ प्रति॑ गृह्णाति वा॒यवे॑ त्वा॒ वरु॑णाय॒ त्वेति॒ यदे॒वमे॒ता नानु॑दि॒शेदय॑थादेवत॒न्दक्षि॑णा गमये॒दा दे॒वता॑भ्यो वृश्च्येत॒ यदे॒वमे॒ता अ॑नुदि॒शति॑ यथादेव॒तमे॒व दक्षि॑णा गमयति॒ न दे॒वता॑भ्य॒ आ [32]
वृ॒श्च्य॒ते॒ देवी॑रापो अपान्नपा॒दित्या॑ह॒ यद्वो॒ मेध्यय्ँ॑ य॒ज्ञियँ॒ सदे॑व॒न्तद्वो॒ माव॑ क्रमिष॒मिति॒ वावैतदा॒हाच्छि॑न्न॒न्तन्तु॑म्पृथि॒व्या अनु॑ गेष॒मित्या॑ह॒ सेतु॑मे॒व कृ॒त्वात्ये॑ति ॥ [33]
दे॒वा वै दे॑व॒यज॑नमध्यव॒साय॒ दिशो॒ न प्राजा॑न॒न्तेऽ३॑ न्यो॑न्यमुपा॑धाव॒न्त्वया॒ प्र जा॑नाम॒ त्वयेति॒ तेऽदि॑त्याँ॒ सम॑ध्रियन्त॒ त्वया॒ प्र जा॑ना॒मेति॒ साब्र॑वी॒द्वरव्ँ॑वृणै॒ मत्प्रा॑यणा ए॒व वो॑ य॒ज्ञा मदु॑दयना अस॒न्निति॒ तस्मा॑दादि॒त्यᳶ प्रा॑य॒णीयो॑ य॒ज्ञाना॑मादि॒त्य उ॑दय॒नीय॒ᳶ पञ्च॑ दे॒वता॑ यजति॒ पञ्च॒ दिशो॑ दि॒शाम्प्रज्ञा॑त्यै [34]
अथो॒ पञ्चा॑क्षरा प॒ङ्क्तिᳶ पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्धे॒ पथ्याँ॑ स्व॒स्तिम॑यज॒न्प्राची॑मे॒व तया॒ दिश॒म्प्राजा॑नन्न॒ग्निना॑ दक्षि॒णा सोमे॑न प्र॒तीचीँ॑ सवि॒त्रोदी॑ची॒मदि॑त्यो॒र्ध्वाम्पथ्याँ॑ स्व॒स्तिय्ँय॑जति॒ प्राची॑मे॒व तया॒ दिश॒म्प्र जा॑नाति॒ पथ्याँ॑ स्व॒स्तिमि॒ष्ट्वाग्नीषोमौ॑ यजति॒ चक्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ यद॒ग्नीषोमौ॒ ताभ्या॑मे॒वानु॑ पश्यति [35]
अ॒ग्नीषोमा॑वि॒ष्ट्वा स॑वि॒तारय्ँ॑यजति सवि॒तृप्र॑सूत ए॒वानु॑ पश्यति सवि॒तार॑मि॒ष्ट्वादि॑तिय्ँयजती॒यव्ँ वा अदि॑तिर॒स्यामे॒व प्र॑ति॒ष्ठायानु॑ पश्य॒त्यदि॑तिमि॒ष्ट्वा मा॑रु॒तीमृच॒मन्वा॑ह म॒रुतो॒ वै दे॒वानाव्ँ॒विशो॑ देववि॒शङ्खलु॒ वै कल्प॑मानम्मनुष्यवि॒शमनु॑ कल्पते॒ यन्मा॑रु॒तीमृच॑म॒न्वाह॑ वि॒शाङ्कॢप्त्यै॑ ब्रह्मवा॒दिनो॑ वदन्ति प्रया॒जव॑दननूया॒जम्प्रा॑य॒णीय॑ङ्का॒र्य॑मनूया॒जव॑त् [36]
अ॒प्र॒या॒जमु॑दय॒नीय॒मिती॒मे वै प्र॑या॒जा अ॒मी अ॑नूया॒जास्सैव सा य॒ज्ञस्य॒ सन्त॑ति॒स्तत्तथा॒ न का॒र्य॑मा॒त्मा वै प्र॑या॒जाᳶ प्र॒जानू॑या॒जा यत्प्र॑या॒जान॑न्तरि॒यादा॒त्मान॑म॒न्तरि॑या॒द्यद॑नूया॒जान॑न्तरि॒यात्प्र॒जाम॒न्तरि॑या॒द्यत॒ᳵ खलु॒ वै य॒ज्ञस्य॒ वित॑तस्य॒ न क्रि॒यते॒ तदनु॑ य॒ज्ञᳶ परा॑ भवति य॒ज्ञम्प॑रा॒भव॑न्तय्ँ॒यज॑मा॒नोऽनु॑ [37]
परा॑भवति प्रया॒जव॑दे॒वानू॑या॒जव॑त्प्राय॒णीय॑ङ्का॒र्य॑म्प्रया॒जव॑दनूया॒जव॑दुदय॒नीय॒न्नात्मान॑मन्त॒रेति॒ न प्र॒जान्न य॒ज्ञᳶ प॑रा॒भव॑ति॒ न यज॑मानᳶ प्राय॒णीय॑स्य निष्का॒स उ॑दय॒नीय॑म॒भि निर्व॑पति॒ सैव सा य॒ज्ञस्य॒ सन्त॑ति॒र्याᳶ प्रा॑य॒णीय॑स्य या॒ज्या॑ यत्ता उ॑दय॒नीय॑स्य या॒ज्याः॑ कु॒र्यात्परा॑ङ॒मुल्ँ लो॒कमा रो॑हेत्प्र॒मायु॑कस्स्या॒द्याᳶ प्रा॑य॒णीय॑स्य पुरोनुवा॒क्या॑स्ता उ॑दय॒नीय॑स्य या॒ज्याः॑ करोत्य॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठति ॥ [38]
क॒द्रूश्च॒ वै सु॑प॒र्णी चा॑त्मरू॒पयो॑रस्पर्धेताँ॒ सा क॒द्रूस्सु॑प॒र्णीम॑जय॒त्साब्र॑वीत्तृ॒तीय॑स्यामि॒तो दि॒वि सोम॒स्तमा ह॑र॒ तेना॒त्मान॒न्निष्क्री॑णी॒ष्वेती॒यव्ँ वै क॒द्रूर॒सौ सु॑प॒र्णी छन्दाँ॑सि सौपर्णे॒यास्साब्र॑वीद॒स्मै वै पि॒तरौ॑ पु॒त्रान्बि॑भृतस्तृ॒तीय॑स्यामि॒तो दि॒वि सोम॒स्तमा ह॑र॒ तेना॒त्मान॒न्निष्क्री॑णीष्व [39]
इति॑ मा क॒द्रूर॑वोच॒दिति॒ जग॒त्युद॑पत॒च्चतु॑र्दशाक्षरा स॒ती साऽप्रा॑प्य॒ न्य॑वर्तत॒ तस्यै॒ द्वे अ॒क्षरे॑ अमीयेताँ॒ सा प॒शुभि॑श्च दी॒क्षया॒ चाग॑च्छ॒त्तस्मा॒ज्जग॑ती॒ छन्द॑साम्पश॒व्य॑तमा॒ तस्मा॑त्पशु॒मन्त॑न्दी॒क्षोप॑ नमति त्रि॒ष्टुगुद॑पत॒त्त्रयो॑दशाक्षरा स॒ती साऽप्रा॑प्य॒ न्य॑वर्तत॒ तस्यै॒ द्वे अ॒क्षरे॑ अमीयेताँ॒ सा दक्षि॑णाभिश्च [40]
तप॑सा॒ चाग॑च्छ॒त्तस्मा॑त्त्रि॒ष्टुभो॑ लो॒के माध्य॑न्दिने॒ सव॑ने॒ दक्षि॑णा नीयन्त ए॒तत्खलु॒ वाव तप॒ इत्या॑हु॒र्यस्स्वन्ददा॒तीति॑ गाय॒त्र्युद॑पत॒च्चतु॑रक्षरा स॒त्य॑जया॒ ज्योति॑षा॒ तम॑स्या अ॒जाभ्य॑रुन्द्ध॒ तद॒जाया॑ अज॒त्वँ सा सोम॒ञ्चाह॑रच्च॒त्वारि॑ चा॒क्षरा॑णि साष्टाक्ष॑रा॒ सम॑पद्यत ब्रह्मवा॒दिनो॑ वदन्ति [41]
कस्मा॑त्स॒त्याद्गा॑य॒त्री कनि॑ष्ठा॒ छन्द॑साँ स॒ती य॑ज्ञमु॒खम्परी॑या॒येति॒ यदे॒वादस्सोम॒माह॑र॒त्तस्मा॑द्यज्ञमु॒खम्पर्यै॒त्तस्मा॑त्तेज॒स्विनी॑तमा प॒द्भ्यान्द्वे सव॑ने स॒मगृ॑ह्णा॒न्मुखे॒नैकय्ँ॒यन्मुखे॑न स॒मगृ॑ह्णा॒त्तद॑धय॒त्तस्मा॒द्द्वे सव॑ने शु॒क्रव॑ती प्रातस्सव॒नञ्च॒ माध्य॑न्दिनञ्च॒ तस्मा॑त्तृतीयसव॒न ऋ॑जी॒षम॒भि षु॑ण्वन्ति धी॒तमि॑व॒ हि मन्य॑न्ते [42]
आ॒शिर॒मव॑ नयति सशुक्र॒त्वायाथो॒ सम्भ॑रत्ये॒वैन॒त्तँ सोम॑माह्रि॒यमा॑णङ्गन्ध॒र्वो वि॒श्वाव॑सु॒ᳶ पर्य॑मुष्णा॒त्स ति॒स्रो रात्री॒ᳶ परि॑मुषितोऽवस॒त्तस्मा॑त्ति॒स्रो रात्रीः॑ क्री॒तस्सोमो॑ वसति॒ ते दे॒वा अ॑ब्रुव॒न्त्स्त्रीका॑मा॒ वै ग॑न्ध॒र्वास्स्त्रि॒या निष्क्री॑णा॒मेति॒ ते वाचँ॒ स्त्रिय॒मेक॑हायनीङ्कृ॒त्वा तया॒ निर॑क्रीण॒न्त्सा रो॒हिद्रू॒पङ्कृ॒त्वा ग॑न्ध॒र्वेभ्यः॑ [43]
अ॒प॒क्रम्या॑तिष्ठ॒त्तद्रो॒हितो॒ जन्म॒ ते दे॒वा अ॑ब्रुव॒न्नप॑ यु॒ष्मदक्र॑मी॒न्नास्मानु॒पाव॑र्तते॒ वि ह्व॑यामहा॒ इति॒ ब्रह्म॑ गन्ध॒र्वा अव॑द॒न्नगा॑यन्दे॒वास्सा दे॒वान्गाय॑त उ॒पाव॑र्तत॒ तस्मा॒द्गाय॑न्तँ॒ स्त्रिय॑ᳵ कामयन्ते॒ कामु॑का एनँ॒ स्त्रियो॑ भवन्ति॒ य ए॒वव्ँ वेदाथो॒ य ए॒वव्ँवि॒द्वानपि॒ जन्ये॑षु॒ भव॑ति॒ तेभ्य॑ ए॒व द॑दत्यु॒त यद्ब॒हुत॑याः [44]
भव॒न्त्येक॑हायन्या क्रीणाति वा॒चैवैनँ॒ सर्व॑या क्रीणाति॒ तस्मा॒देक॑हायना मनु॒ष्या॑ वाचव्ँ॑वद॒न्त्यकू॑ट॒याऽक॑र्ण॒याऽका॑ण॒याऽश्लो॑ण॒याऽस॑प्तशफया क्रीणाति॒ सर्व॑यै॒वैन॑ङ्क्रीणाति॒ यच्छ्वे॒तया॑ क्रीणी॒याद्दु॒श्चर्मा॒ यज॑मानस्स्या॒द्यत्कृ॒ष्णया॑नु॒स्तर॑णी स्यात्प्र॒मायु॑को॒ यज॑मानस्स्या॒द्यद्द्वि॑रू॒पया॒ वात्र॑घ्नी स्या॒त्स वा॒न्यञ्जि॑नी॒यात्तव्ँवा॒न्यो जि॑नीयादरु॒णया॑ पिङ्गा॒क्ष्या क्री॑णात्ये॒तद्वै सोम॑स्य रू॒पँ स्वयै॒वैन॑न्दे॒वत॑या क्रीणाति ॥ [45]
तद्धिर॑ण्यमभव॒त्तस्मा॑द॒द्भ्यो हिर॑ण्यम्पुनन्ति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा॑त्स॒त्याद॑न॒स्थिके॑न प्र॒जाᳶ प्र॒वीय॑न्तेऽस्थ॒न्वती॑र्जायन्त॒ इति॒ यद्धिर॑ण्यङ्घृ॒ते॑ऽव॒धाय॑ जु॒होति॒ तस्मा॑दन॒स्थिके॑न प्र॒जाᳶ प्र वी॑यन्तेऽस्थ॒न्वती॑र्जायन्त ए॒तद्वा अ॒ग्नेᳶ प्रि॒यन्धाम॒ यद्घृ॒तन्तेजो॒ हिर॑ण्यमि॒यन्ते॑ शुक्र त॒नूरि॒दव्ँवर्च॒ इत्या॑ह॒ सते॑जसमे॒वैनँ॒ सत॑नुम् [46]
क॒रो॒त्यथो॒ सम्भ॑रत्ये॒वैनय्ँ॒यदब॑द्धमवद॒ध्याद्गर्भा॑ᳶ प्र॒जाना॑म्परा॒पातु॑कास्स्युर्ब॒द्धमव॑ दधाति॒ गर्भा॑णा॒न्धृत्यै॑ निष्ट॒र्क्य॑म्बध्नाति प्र॒जाना॑म्प्र॒जन॑नाय॒ वाग्वा ए॒षा यत्सो॑म॒क्रय॑णी॒ जूर॒सीत्या॑ह॒ यद्धि मन॑सा॒ जव॑ते॒ तद्वा॒चा वद॑ति धृ॒ता मन॒सेत्या॑ह॒ मन॑सा॒ हि वाग्धृ॒ता जुष्टा॒ विष्ण॑व॒ इत्या॑ह [47]
य॒ज्ञो वै विष्णु॑र्य॒ज्ञायै॒वैना॒ञ्जुष्टा॑ङ्करोति॒ तस्या॑स्ते स॒त्यस॑वसᳶ प्रस॒व इत्या॑ह सवि॒तृप्र॑सूतामे॒व वाच॒मव॑ रुन्द्धे॒ काण्डे॑काण्डे॒ वै क्रि॒यमा॑णे य॒ज्ञँ रक्षाँ॑सि जिघाँसन्त्ये॒ष खलु॒ वा अर॑क्षोहत॒ᳶ पन्था॒ यो॑ऽग्नेश्च॒ सूर्य॑स्य च॒ सूर्य॑स्य॒ चक्षु॒रारु॑हम॒ग्नेर॒क्ष्णᳵ क॒नीनि॑का॒मित्या॑ह॒ य ए॒वार॑क्षोहत॒ᳶ पन्था॒स्तँ स॒मारो॑हति [48]
वाग्वा ए॒षा यत्सो॑म॒क्रय॑णी॒ चिद॑सि म॒नासीत्या॑ह॒ शास्त्ये॒वैना॑मे॒तत्तस्मा॑च्छि॒ष्टाᳶ प्र॒जा जा॑यन्ते॒ चिद॒सीत्या॑ह॒ यद्धि मन॑सा चे॒तय॑ते॒ तद्वा॒चा वद॑ति म॒नासीत्या॑ह॒ यद्धि मन॑साभि॒गच्छ॑ति॒ तत्क॒रोति॒ धीर॒सीत्या॑ह॒ यद्धि मन॑सा॒ ध्याय॑ति॒ तद्वा॒चा [49]
वद॑ति॒ दक्षि॑णा॒सीत्या॑ह॒ दक्षि॑णा॒ ह्ये॑षा य॒ज्ञिया॒सीत्या॑ह य॒ज्ञिया॑मे॒वैना॑ङ्करोति क्ष॒त्रिया॒सीत्या॑ह क्ष॒त्रिया॒ ह्ये॑षादि॑तिरस्युभ॒यत॑श्शी॒र्ष्णीत्या॑ह॒ यदे॒वादि॒त्यᳶ प्रा॑य॒णीयो॑ य॒ज्ञाना॑मादि॒त्य उ॑दय॒नीय॒स्तस्मा॑दे॒वमा॑ह॒ यदब॑द्धा॒ स्यादय॑ता स्या॒द्यत्प॑दिब॒द्धानु॒स्तर॑णी स्यात्प्र॒मायु॑को॒ यज॑मानस्स्यात् [50]
यत्क॑र्णगृही॒ता वार्त्र॑घ्नी स्या॒त्स वा॒न्यञ्जि॑नी॒यात्तव्ँवा॒न्यो जि॑नीयान्मि॒त्रस्त्वा॑ प॒दि ब॑ध्ना॒त्वित्या॑ह मि॒त्रो वै शि॒वो दे॒वाना॒न्तेनै॒वैना॑म्प॒दि ब॑ध्नाति पू॒षाध्व॑नᳶ पा॒त्वित्या॑हे॒यव्ँ वै पू॒षेमामे॒वास्या॑ अधि॒पाम॑क॒स्सम॑ष्ट्या॒ इन्द्रा॒याध्य॑क्षा॒येत्या॒हेन्द्र॑मे॒वास्या॒ अध्य॑क्षङ्करोति [51]
अनु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒तेत्या॒हानु॑मतयै॒वैन॑या क्रीणाति॒ सा दे॑वि दे॒वमच्छे॒हीत्या॑ह दे॒वी ह्ये॑षा दे॒वस्सोम॒ इन्द्रा॑य॒ सोम॒मित्या॒हेन्द्रा॑य॒ हि सोम॑ आह्रि॒यते॒ यदे॒तद्यजु॒र्न ब्रू॒यात्परा॑च्ये॒व सो॑म॒क्रय॑णीयाद्रु॒द्रस्त्वा व॑र्तय॒त्वित्या॑ह रु॒द्रो वै क्रू॒रः [52]
दे॒वाना॒न्तमे॒वास्यै॑ प॒रस्ता॑द्दधा॒त्यावृ॑त्त्यै क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति॒ यद्रु॒द्रस्य॑ की॒र्तय॑ति मि॒त्रस्य॑ प॒थेत्या॑ह॒ शान्त्यै॑ वा॒चा वा ए॒ष वि क्री॑णीते॒ यस्सो॑म॒क्रय॑ण्या स्व॒स्ति सोम॑सखा॒ पुन॒रेहि॑ स॒ह र॒य्येत्या॑ह वा॒चैव वि॒क्रीय॒ पुन॑रा॒त्मन्वाच॑न्ध॒त्तेऽनु॑पदासुकास्य॒ वाग्भ॑वति॒ य ए॒वव्ँ वेद॑ ॥ [53]
षट्प॒दान्यनु॒ नि क्रा॑मति षड॒हव्ँवाङ्नाति॑ वदत्यु॒त सव्ँ॑वत्स॒रस्याय॑ने॒ याव॑त्ये॒व वाक्तामव॑ रुन्द्धे सप्त॒मे प॒दे जु॑होति स॒प्तप॑दा॒ शक्व॑री प॒शव॒श्शक्व॑री प॒शूने॒वाव॑ रुन्द्धे स॒प्त ग्रा॒म्याᳶ प॒शव॑स्स॒प्तार॒ण्यास्स॒प्त छन्दाँ॑स्यु॒भय॒स्याव॑रुद्ध्यै॒ वस्व्य॑सि रु॒द्रासीत्या॑ह रू॒पमे॒वास्या॑ ए॒तन्म॑हि॒मान॑म् [54]
व्याच॑ष्टे॒ बृह॒स्पति॑स्त्वा सु॒म्ने र॑ण्व॒त्वित्या॑ह॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र्ब्रह्म॑णै॒वास्मै॑ प॒शूनव॑ रुन्द्धे रु॒द्रो वसु॑भि॒रा चि॑के॒त्वित्या॒हावृ॑त्त्यै पृथि॒व्यास्त्वा॑ मू॒र्धन्ना जि॑घर्मि देव॒यज॑न॒ इत्या॑ह पृथि॒व्या ह्ये॑ष मू॒र्धा यद्दे॑व॒यज॑न॒मिडा॑याᳶ प॒द इत्या॒हेडा॑यै॒ ह्ये॑तत्प॒दय्ँयत्सो॑म॒क्रय॑ण्यै घृ॒तव॑ति॒ स्वाहा॑ [55]
इत्या॑ह॒ यदे॒वास्यै॑ प॒दाद्घृ॒तमपी॑ड्यत॒ तस्मा॑दे॒वमा॑ह॒ यद॑ध्व॒र्युर॑न॒ग्नावाहु॑तिञ्जुहु॒याद॒न्धो॑ऽध्व॒र्युस्स्या॒द्रक्षाँ॑सि य॒ज्ञँ ह॑न्यु॒र्हिर॑ण्यमु॒पास्य॑ जुहोत्यग्नि॒वत्ये॒व जु॑होति॒ नान्धो॑ऽध्व॒र्युर्भव॑ति॒ न य॒ज्ञँ रक्षाँ॑सि घ्नन्ति॒ काण्डे॑काण्डे॒ वै क्रि॒यमा॑णे य॒ज्ञँ रक्षाँ॑सि जिघाँसन्ति॒ परि॑लिखितँ॒ रक्ष॒ᳶ परि॑लिखिता॒ अरा॑तय॒ इत्या॑ह॒ रक्ष॑सा॒मप॑हत्यै [56]
इ॒दम॒हँ रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ यो॑ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्म इत्या॑ह॒ द्वौ वाव पुरु॑षौ॒ यञ्चै॒व द्वेष्टि॒ यश्चै॑न॒न्द्वेष्टि॒ तयो॑रे॒वान॑न्तरायङ्ग्री॒वाᳵ कृ॑न्तति प॒शवो॒ वै सो॑म॒क्रय॑ण्यै प॒दय्याँ॑वत्त्मू॒तँ सव्ँव॑पति प॒शूने॒वाव॑ रुन्द्धे॒ऽस्मे राय॒ इति॒ सव्ँव॑पत्या॒त्मान॑मे॒वाध्व॒र्युः [57]
प॒शुभ्यो॒ नान्तरे॑ति॒ त्वे राय॒ इति॒ यज॑मानाय॒ प्र य॑च्छति॒ यज॑मान ए॒व र॒यिन्द॑धाति॒ तोते॒ राय॒ इति॒ पत्नि॑या अ॒र्धो वा ए॒ष आ॒त्मनो॒ यत्पत्नी॒ यथा॑ गृ॒हेषु॑ निध॒त्ते ता॒दृगे॒व तत्त्वष्टी॑मती ते सपे॒येत्या॑ह॒ त्वष्टा॒ वै प॑शू॒नाम्मि॑थु॒नानाँ॑ रूप॒कृद्रू॒पमे॒व प॒शुषु॑ दधात्य॒स्मै वै लो॒काय॒ गार्ह॑पत्य॒ आ धी॑यते॒ऽमुष्मा॑ आहव॒नीयो॒ यद्गार्ह॑पत्य उप॒वपे॑द॒स्मिल्लोँ॒के प॑शु॒मान्त्स्या॒द्यदा॑हव॒नीये॒ऽमुष्मिल्ँ॑ लो॒के प॑शु॒मान्त्स्या॑दु॒भयो॒रुप॑ वपत्यु॒भयो॑रे॒वैनल्ँ॑ लो॒कयोः॑ पशु॒मन्त॑ङ्करोति ॥ [58]
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वि॒चित्य॒स्सोमा (३) न वि॒चित्या (३) इति॒ सोमो॒ वा ओष॑धीनाँ॒ राजा॒ तस्मि॒न्‌यदाप॑न्नङ्ग्रसि॒तमे॒वास्य॒ तद्यद्वि॑चिनु॒याद्यथा॒स्या॑द्ग्रसि॒तन्नि॑ष्खि॒दति॑ ता॒दृगे॒व तद्यन्न वि॑चिनु॒याद्यथा॒क्षन्नाप॑न्नव्ँवि॒धाव॑ति ता॒दृगे॒व तत्क्षोधु॑कोऽध्व॒र्युस्स्यात्क्षोधु॑को॒ यज॑मान॒स्सोम॑विक्रयि॒न्त्सोमँ॑ शोध॒येत्ये॒व ब्रू॑या॒द्यदीत॑रम् [59]
यदीत॑रमु॒भये॑नै॒व सो॑मविक्र॒यिण॑मर्पयति॒ तस्मा॑त्सोमविक्र॒यी क्षोधु॑कोऽरु॒णो ह॑ स्मा॒हौप॑वेशिस्सोम॒क्रय॑ण ए॒वाहन्तृ॑तीयसव॒नमव॑ रुन्ध॒ इति॑ पशू॒नाञ्चर्म॑न्मिमीते प॒शूने॒वाव॑ रुन्द्धे प॒शवो॒ हि तृ॒तीयँ॒ सव॑नय्ँ॒यङ्का॒मये॑ताप॒शुस्स्या॒दित्यृ॑क्ष॒तस्तस्य॑ मिमीत॒र्क्षव्ँ वा अ॑पश॒व्यम॑प॒शुरे॒व भ॑वति॒ यङ्का॒मये॑त पशु॒मान्त्स्या॑त् [60]
इति॑ लोम॒तस्तस्य॑ मिमीतै॒तद्वै प॑शू॒नाँ रू॒पँ रू॒पेणै॒वास्मै॑ प॒शूनव॑ रुन्द्धे पशु॒माने॒व भ॑वत्य॒पामन्ते॑ क्रीणाति॒ सर॑समे॒वैन॑ङ्क्रीणात्य॒मात्यो॒ऽसीत्या॑हा॒मैवैन॑ङ्कुरुते शु॒क्रस्ते॒ ग्रह॒ इत्या॑ह शु॒क्रो ह्य॑स्य॒ ग्रहोऽन॒साच्छ॑ याति महि॒मान॑मे॒वास्याच्छ॑ या॒त्यन॑सा [61]
अच्छ॑ याति॒ तस्मा॑दनोवा॒ह्यँ॑ स॒मे जीव॑नय्ँ॒यत्र॒ खलु॒ वा ए॒तँ शी॒र्ष्णा हर॑न्ति॒ तस्मा॑च्छीर्षहा॒र्य॑ङ्गि॒रौ जीव॑नम॒भि त्यन्दे॒वँ स॑वि॒तार॒मित्यति॑च्छन्दस॒र्चा मि॑मी॒तेऽति॑च्छन्दा॒ वै सर्वा॑णि॒ छन्दाँ॑सि॒ सर्वे॑भिरे॒वैन॒ञ्छन्दो॑भिर्मिमीते॒ वर्ष्म॒ वा ए॒षा छन्द॑साय्ँ॒यदति॑च्छन्दा॒ यदति॑च्छन्दस॒र्चा मिमी॑ते॒ वर्ष्मै॒वैनँ॑ समा॒नाना॑ङ्करो॒त्येक॑यैकयो॒त्सर्ग॑म् [62]
मि॒मी॒तेऽया॑तयाम्नियायातयाम्नियै॒वैन॑म्मिमीते॒ तस्मा॒न्नाना॑वीर्या अ॒ङ्गुल॑य॒स्सर्वा॑स्वङ्गु॒ष्ठमुप॒ नि गृ॑ह्णाति॒ तस्मा॑त्स॒माव॑द्वीर्यो॒ऽन्याभि॑र॒ङ्गुलि॑भि॒स्तस्मा॒त्सर्वा॒ अनु॒ सञ्च॑रति॒ यत्स॒ह सर्वा॑भि॒र्मिमी॑त॒ सँश्लि॑ष्टा अ॒ङ्गुल॑यो जायेर॒न्नेक॑यैकयो॒त्सर्ग॑म्मिमीते॒ तस्मा॒द्विभ॑क्ता जायन्ते॒ पञ्च॒ कृत्वो॒ यजु॑षा मिमीते॒ पञ्चा॑क्षरा प॒ङ्क्तिᳶ पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्धे॒ पञ्च॒ कृत्व॑स्तू॒ष्णीम् [63]
दश॒ सम्प॑द्यन्ते॒ दशा॑क्षरा वि॒राडन्नव्ँ॑वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्द्धे॒ यद्यजु॑षा॒ मिमी॑ते भू॒तमे॒वाव॑ रुन्द्धे॒ यत्तू॒ष्णीम्भ॑वि॒ष्यद्यद्वै तावा॑ने॒व सोम॒स्स्याद्याव॑न्त॒म्मिमी॑ते॒ यज॑मानस्यै॒व स्या॒न्नापि॑ सद॒स्या॑नाम्प्र॒जाभ्य॒स्त्वेत्युप॒ समू॑हति सद॒स्या॑ने॒वान्वाभ॑जति॒ वास॒सोप॑ नह्यति सर्वदेव॒त्यव्ँ॑ वै [64]
वास॒स्सर्वा॑भिरे॒वैन॑न्दे॒वता॑भि॒स्सम॑र्धयति प॒शवो॒ वै सोमᳶ॑ प्रा॒णाय॒ त्वेत्युप॑ नह्यति प्रा॒णमे॒व प॒शुषु॑ दधाति व्या॒नाय॒ त्वेत्यनु॑ शृन्थति व्या॒नमे॒व प॒शुषु॑ दधाति॒ तस्मा॑त्स्व॒पन्त॑म्प्रा॒णा न ज॑हति ॥ [65]
यत्क॒लया॑ ते श॒फेन॑ ते क्रीणा॒नीति॒ पणे॒तागो॑अर्घँ॒ सोम॑ङ्कु॒र्यादगो॑अर्घय्ँ॒यज॑मान॒मगो॑अर्घमध्व॒र्युङ्गोस्तु म॑हि॒मान॒न्नाव॑ तिरे॒द्गवा॑ ते क्रीणा॒नीत्ये॒व ब्रू॑याद्गोअ॒र्घमे॒व सोम॑ङ्क॒रोति॑ गोअ॒र्घय्ँयज॑मानङ्गोअ॒र्घम॑ध्व॒र्युन्न गोर्म॑हि॒मान॒मव॑ तिरत्य॒जया॑ क्रीणाति॒ सत॑पसमे॒वैन॑ङ्क्रीणाति॒ हिर॑ण्येन क्रीणाति॒ सशु॑क्रमे॒व [66]
ए॒न॒ङ्क्री॒णा॒ति॒ धे॒न्वा क्री॑णाति॒ साशि॑रमे॒वैन॑ङ्क्रीणात्यृष॒भेण॑ क्रीणाति॒ सेन्द्र॑मे॒वैन॑ङ्क्रीणात्यन॒डुहा॑ क्रीणाति॒ वह्नि॒र्वा अ॑न॒ड्वान्‌वह्नि॑नै॒व वह्नि॑ य॒ज्ञस्य॑ क्रीणाति मिथु॒नाभ्या॑ङ्क्रीणाति मिथु॒नस्याव॑रुद्ध्यै॒ वास॑सा क्रीणाति सर्वदेव॒त्यव्ँ॑ वै वास॒स्सर्वा॑भ्य ए॒वैन॑न्दे॒वता॑भ्यᳵ क्रीणाति॒ दश॒ सम्प॑द्यन्ते॒ दशा॑क्षरा वि॒राडन्नव्ँवि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्द्धे [67]
तप॑सस्त॒नूर॑सि प्र॒जाप॑ते॒र्वर्ण॒ इत्या॑ह प॒शुभ्य॑ ए॒व तद॑ध्व॒र्युर्नि ह्नु॑त आ॒त्मनोऽना॑व्रस्काय॒ गच्छ॑ति॒ श्रिय॒म्प्र प॒शूना॑प्नोति॒ य ए॒वव्ँ वेद॑ शु॒क्रन्ते॑ शु॒क्रेण॑ क्रीणा॒मीत्या॑ह यथाय॒जुरे॒वैतद्दे॒वा वै येन॒ हिर॑ण्येन॒ सोम॒मक्री॑ण॒न्तद॑भी॒षहा॒ पुन॒राद॑दत॒ को हि तेज॑सा विक्रे॒ष्यत॒ इति॒ येन॒ हिर॑ण्येन [68]
सोम॑ङ्क्रीणी॒यात्तद॑भी॒षहा॒ पुन॒रा द॑दीत॒ तेज॑ ए॒वात्मन्ध॑त्ते॒ऽस्मे ज्योति॑स्सोमविक्र॒यिणि॒ तम॒ इत्या॑ह॒ ज्योति॑रे॒व यज॑माने दधाति॒ तम॑सा॒ सोमविक्र॒यिण॑मर्पयति॒ यदनु॑पग्रथ्य ह॒न्याद्द॑न्द॒शूका॒स्ताँ समाँ॑ स॒र्पास्स्यु॑रि॒दम॒हँ स॒र्पाणा॑न्दन्द॒शूका॑नाङ्ग्री॒वा उप॑ ग्रथ्ना॒मीत्या॒हाद॑न्दशूका॒स्ताँ समाँ॑ स॒र्पा भ॑वन्ति॒ तम॑सा सोमविक्र॒यिणव्ँ॑विध्यति॒ स्वान॑ [69]
भ्राजेत्या॑है॒ते वा अ॒मुष्मिल्ँ॑ लो॒के सोम॑मरक्ष॒न्तेभ्योऽधि॒ सोम॒माह॑र॒न्‌यदे॒तेभ्य॑स्सोम॒क्रय॑णा॒न्नानु॑दि॒शेदक्री॑तोऽस्य॒ सोम॑स्स्या॒न्नास्यै॒ते॑ऽमुष्मिल्ँ॑ लो॒के सोमँ॑ रक्षेयु॒र्यदे॒तेभ्य॑स्सोम॒क्रय॑णाननुदि॒शति॑ क्री॒तो॑ऽस्य॒ सोमो॑ भवत्ये॒ते॑ऽस्या॒मुष्मिल्ँ॑ लो॒के सोमँ॑ रक्षन्ति ॥ [70]
वा॒रु॒णो वै क्री॒तस्सोम॒ उप॑नद्धो मि॒त्रो न॒ एहि॒ सुमि॑त्रधा॒ इत्या॑ह॒ शान्त्या॒ इन्द्र॑स्यो॒रुमा वि॑श॒ दक्षि॑ण॒मित्या॑ह दे॒वा वै यँ सोम॒मक्री॑ण॒न्तमिन्द्र॑स्यो॒रौ दक्षि॑ण॒ आसा॑दयन्ने॒ष खलु॒ वा ए॒तर्हीन्द्रो॒ यो यज॑ते॒ तस्मा॑दे॒वमा॒होदायु॑षा स्वा॒युषेत्या॑ह दे॒वता॑ ए॒वान्वा॒रभ्योत् [71]
ति॒ष्ठ॒त्यु॒र्व॑न्तरि॑क्ष॒मन्वि॒हीत्या॑हान्तरिक्षदेव॒त्यो ३॑ ह्ये॑तर्हि॒ सोमोऽदि॑त्या॒स्सदो॒ऽस्यदि॑त्या॒स्सद॒ आ सी॒देत्या॑ह यथाय॒जुरे॒वैतद्वि वा ए॑नमे॒तद॑र्धयति॒ यद्वा॑रु॒णँ सन्त॑म्मै॒त्रङ्क॒रोति॑ वारु॒ण्यर्चा सा॑दयति॒ स्वयै॒वैन॑न्दे॒वत॑या॒ सम॑र्धयति॒ वास॑सा प॒र्यान॑ह्यति सर्वदेव॒त्यव्ँ॑ वै वास॒स्सर्वा॑भिरे॒व [72]
ए॒न॒न्दे॒वता॑भि॒स्सम॑र्धय॒त्यथो॒ रक्ष॑सा॒मप॑हत्यै॒ वने॑षु॒ व्य॑न्तरि॑क्षन्तता॒नेत्या॑ह॒ वने॑षु॒ हि व्य॑न्तरि॑क्षन्त॒तान॒ वाज॒मर्व॒त्स्वित्या॑ह॒ वाजँ॒ ह्यर्व॑त्सु॒ पयो॑ अघ्नि॒यास्वित्या॑ह॒ पयो॒ ह्य॑घ्नि॒यासु॑ हृ॒त्सु क्रतु॒मित्या॑ह हृ॒त्सु हि क्रतुव्ँ॒वरु॑णो वि॒क्ष्व॑ग्निमित्या॑ह॒ वरु॑णो॒ हि वि॒क्ष्व॑ग्निन्दि॒वि सूर्य॑म् [73]
इत्या॑ह दि॒वि हि सूर्यँ॒ सोम॒मद्रा॒वित्या॑ह॒ ग्रावा॑णो॒ वा अद्र॑य॒स्तेषु॒ वा ए॒ष सोम॑न्दधाति॒ यो यज॑ते॒ तस्मा॑दे॒वमा॒होदु॒ त्यञ्जा॒तवे॑दस॒मिति॑ सौ॒र्यर्चा कृ॑ष्णाजि॒नम्प्र॒त्यान॑ह्यति॒ रक्ष॑सा॒मप॑हत्या॒ उस्रा॒वेत॑न्धूर्षाहा॒वित्या॑ह यथाय॒जुरे॒वैतत्प्र च्य॑वस्व भुवस्पत॒ इत्या॑ह भू॒तानाँ॒ हि [74]
ए॒ष पति॒र्विश्वा॑न्य॒भि धामा॒नीत्या॑ह॒ विश्वा॑नि॒ ह्ये ३॑ षो॑ऽभि धामा॑नि प्र॒च्यव॑ते॒ मा त्वा॑ परिप॒री वि॑द॒दित्या॑ह॒ यदे॒वादस्सोम॑माह्रि॒यमा॑णङ्गन्ध॒र्वो वि॒श्वाव॑सुᳶ प॒र्यमु॑ष्णा॒त्तस्मा॑दे॒वमा॒हाप॑रिमोषाय॒ यज॑मानस्य स्व॒स्त्यय॑न्य॒सीत्या॑ह॒ यज॑मानस्यै॒वैष य॒ज्ञस्या॑न्वार॒म्भोऽन॑वच्छित्त्यै॒ वरु॑णो॒ वा ए॒ष यज॑मानम॒भ्यैति॒ यत् [75]
क्री॒तस्सोम॒ उप॑नद्धो॒ नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑स॒ इत्या॑ह॒ शान्त्या॒ आ सोमव्ँ॒वह॑न्त्य॒ग्निना॒ प्रति॑ तिष्ठते॒ तौ स॒म्भव॑न्तौ॒ यज॑मानम॒भि सम्भ॑वतᳶ पु॒रा खलु॒ वावैष मेधा॑या॒त्मान॑मा॒रभ्य॑ चरति॒ यो दी॑क्षि॒तो यद॑ग्नीषो॒मीय॑म्प॒शुमा॒लभ॑त आत्मनि॒ष्क्रय॑ण ए॒वास्य॒ स तस्मा॒त्तस्य॒ नाश्य॑म्पुरुषनि॒ष्क्रय॑ण इव॒ ह्यथो॒ खल्वा॑हुर॒ग्नीषोमा॑भ्याव्ँ॒वा इन्द्रो॑ वृ॒त्रम॑ह॒न्निति॒ यद॑ग्नीषो॒मीय॑म्प॒शुमा॒लभ॑ते॒ वार्त्र॑घ्न ए॒वास्य॒ स तस्मा॑द्वा॒श्यव्ँ॑वारु॒ण्यर्चा परि॑ चरति॒ स्वयै॒वैन॑न्दे॒वत॑या॒ परि॑ चरति ॥ [76]