यो वा अय॑थादेवतम॒ग्निञ्चि॑नु॒त आ दे॒वता॑भ्यो वृश्च्यते॒ पापी॑यान्भवति॒ यो य॑थादेव॒तन्न दे॒वता॑भ्य॒ आ वृ॑श्च्यते॒ वसी॑यान्भवत्याग्ने॒य्या गा॑यत्रि॒या प्र॑थ॒माञ्चिति॑म॒भि मृ॑शेत्त्रि॒ष्टुभा॑ द्वि॒तीया॒ञ्जग॑त्या तृ॒तीया॑मनु॒ष्टुभा॑ चतु॒र्थीम्प॒ङ्क्त्या प॑ञ्च॒मीय्यँ॑थादेव॒तमे॒वाग्निञ्चि॑नुते॒ न दे॒वता॑भ्य॒ आ वृ॑श्च्यते॒ वसी॑यान्भव॒तीडा॑यै॒ वा ए॒षा विभ॑क्तिᳶ प॒शव॒ इडा॑ प॒शुभि॑रेनम् [1]
चि॒नु॒ते॒ यो वै प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्निञ्चि॒नोति॒ नार्ति॒मार्च्छ॒त्यश्वा॑व॒भित॑स्तिष्ठेताङ्कृ॒ष्ण उ॑त्तर॒तश्श्वे॒तो दक्षि॑ण॒स्तावा॒लभ्येष्ट॑का॒ उप॑ दध्यादे॒तद्वै प्र॒जाप॑ते रू॒पम्प्रा॑जाप॒त्योऽश्व॑स्सा॒क्षादे॒व प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्निञ्चि॑नोति॒ नार्ति॒मार्च्छ॑त्ये॒तद्वा अह्नो॑ रू॒पय्ँयच्छ्वे॒तोऽश्वो॒ रात्रि॑यै कृ॒ष्ण ए॒तदह्नः॑ [2]
रू॒पय्ँयदिष्ट॑का॒ रात्रि॑यै॒ पुरी॑ष॒मिष्ट॑का उपधा॒स्यञ्छ्वे॒तमश्व॑म॒भि मृ॑शे॒त्पुरी॑षमुपधा॒स्यन्कृ॒ष्णम॑होरा॒त्राभ्या॑मे॒वैन॑ञ्चिनुते हिरण्यपा॒त्रम्मधोः॑ पू॒र्णन्द॑दाति मध॒व्यो॑ऽसा॒नीति॑ सौ॒र्या चि॒त्रव॒त्यावे॑क्षते चि॒त्रमे॒व भ॑वति म॒ध्यन्दि॒नेऽश्व॒मव॑ घ्रापयत्य॒सौ वा आ॑दि॒त्य इन्द्र॑ ए॒ष प्र॒जाप॑तिᳶ प्राजाप॒त्योऽश्व॒स्तमे॒व सा॒क्षादृ॑ध्नोति ॥ [3]
त्वाम॑ग्ने वृष॒भञ्चेकि॑तान॒म्पुन॒र्युवा॑नञ्ज॒नय॑न्नु॒पागा॑म् । अ॒स्थू॒रि णो॒ गार्ह॑पत्यानि सन्तु ति॒ग्मेन॑ नो॒ ब्रह्म॑णा॒ सँ शि॑शाधि । प॒शवो॒ वा ए॒ते यदिष्ट॑का॒श्चित्या॑ञ्चित्यामृष॒भमुप॑ दधाति मिथु॒नमे॒वास्य॒ तद्य॒ज्ञे क॑रोति प्र॒जन॑नाय॒ तस्मा॑द्यू॒थेयू॑थ ऋष॒भः । सव्ँ॒व॒त्स॒रस्य॑ प्रति॒माय्ँयान्त्वा॑ रात्र्यु॒पास॑ते । प्र॒जाँ सु॒वीरा॑ङ्कृ॒त्वा विश्व॒मायु॒र्व्य॑श्ञवत् । प्रा॒जा॒प॒त्याम् [4]
ए॒तामुप॑ दधाती॒यव्ँवावैषैका॑ष्ट॒का यदे॒वैका॑ष्ट॒काया॒मन्न॑ङ्क्रि॒यते॒ तदे॒वैतयाव॑ रुन्द्ध ए॒षा वै प्र॒जाप॑तेᳵ काम॒दुघा॒ तयै॒व यज॑मानो॒ऽमुष्मिल्ँ॑ लो॒के॑ऽग्निन्दु॑हे॒ येन॑ दे॒वा ज्योति॑षो॒र्ध्वा उ॒दाय॒न्‌येना॑दि॒त्या वस॑वो॒ येन॑ रु॒द्राः । येनाङ्गि॑रसो महि॒मान॑मान॒शुस्तेनै॑तु॒ यज॑मानस्स्व॒स्ति । सु॒व॒र्गाय॒ वा ए॒ष लो॒काय॑ [5]
ची॒य॒ते॒ यद॒ग्निर्येन॑ दे॒वा ज्योति॑षो॒र्ध्वा उ॒दाय॒न्नित्युख्यँ॒ समि॑न्द्ध॒ इष्ट॑का ए॒वैता उप॑ धत्ते वानस्प॒त्यास्सु॑व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै श॒तायु॑धाय श॒तवी॑र्याय श॒तोत॑येऽभिमाति॒षाहे॑ । श॒तय्ँयो न॑श्श॒रदो॒ अजी॑ता॒निन्द्रो॑ नेष॒दति॑ दुरि॒तानि॒ विश्वा॑ । ये च॒त्वारᳶ॑ प॒थयो॑ देव॒याना॑ अन्त॒रा द्यावा॑पृथि॒वी वि॒यन्ति॑ । तेषाय्ँ॒यो अज्या॑नि॒मजी॑तिमा॒वहा॒त्तस्मै॑ नो देवाः [6]
परि॑ दत्ते॒ह सर्वे॑ । ग्री॒ष्मो हे॑म॒न्त उ॒त नो॑ वस॒न्तश्श॒रद्व॒र्षास्सु॑वि॒तन्नो॑ अस्तु । तेषा॑मृतू॒नाँ श॒तशा॑रदानान्निवा॒त ए॑षा॒मभ॑ये स्याम । इ॒दु॒व॒त्स॒राय॑ परिवत्स॒राय॑ सव्ँवत्स॒राय॑ कृणुता बृ॒हन्नमः॑ । तेषाव्ँ॑व॒यँ सु॑म॒तौ य॒ज्ञिया॑ना॒ञ्ज्योगजी॑ता॒ अह॑तास्स्याम । भ॒द्रान्न॒श्श्रेय॒स्सम॑नैष्ट देवा॒स्त्वया॑व॒सेन॒ सम॑शीमहि त्वा । स नो॑ मयो॒भूᳶ पि॑तो [7]
आ वि॑शस्व॒ शन्तो॒काय॑ त॒नुवे॑ स्यो॒नः । अज्या॑नीरे॒ता उप॑ दधात्ये॒ता वै दे॒वता॒ अप॑राजिता॒स्ता ए॒व प्र वि॑शति॒ नैव जी॑यते ब्रह्मवा॒दिनो॑ वदन्ति॒ यद॑र्धमा॒सा मासा॑ ऋ॒तव॑स्सव्ँवत्स॒र ओष॑धी॒ᳶ पच॒न्त्यथ॒ कस्मा॑द॒न्याभ्यो॑ दे॒वता॑भ्य आग्रय॒णन्निरु॑प्यत॒ इत्ये॒ता हि तद्दे॒वता॑ उ॒दज॑य॒न्‌यदृ॒तुभ्यो॑ नि॒र्वपे॑द्दे॒वता॑भ्यस्स॒मद॑न्दध्यादाग्रय॒णन्नि॒रुप्यै॒ता आहु॑तीर्जुहोत्यर्धमा॒साने॒व मासा॑नृ॒तून्त्सव्ँ॑वत्स॒रम्प्री॑णाति॒ न दे॒वता॑भ्यस्स॒मद॑न्दधाति भ॒द्रान्न॒श्श्रेय॒स्सम॑नैष्ट देवा॒ इत्या॑ह हु॒ताद्या॑य॒ यज॑मान॒स्याप॑राभावाय ॥ [8]
इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्नस्तनू॒पा नᳶ॑ प्रतिस्प॒शः । यो नᳶ॑ पु॒रस्ता॑द्दक्षिण॒तᳶ प॒श्चादु॑त्तर॒तो॑ऽघा॒युर॑भि॒दास॑त्ये॒तँ सोऽश्मा॑नमृच्छतु । दे॒वा॒सु॒रास्सय्ँय॑त्ता आस॒न्तेऽसु॑रा दि॒ग्भ्य आबा॑धन्त॒ तान्दे॒वा इष्वा॑ च॒ वज्रे॑ण॒ चापा॑नुदन्त॒ यद्व॒ज्रिणी॑रुप॒दधा॒तीष्वा॑ चै॒व तद्वज्रे॑ण च॒ यज॑मानो॒ भ्रातृ॑व्या॒नप॑ नुदते दि॒क्षूप॑ [9]
द॒धा॒ति॒ दे॒व॒पु॒रा ए॒वैतास्त॑नू॒पानी॒ᳶ पर्यू॑ह॒तेऽग्ना॑विष्णू स॒जोष॑से॒मा व॑र्धन्तु वा॒ङ्गिरः॑ । द्यु॒म्नैर्वाजे॑भि॒रा ग॑तम् । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ यन्न दे॒वता॑यै॒ जुह्व॒त्यथ॑ किन्देव॒त्या॑ वसो॒र्धारेत्य॒ग्निर्वसु॒स्तस्यै॒षा धारा॒ विष्णु॒र्वसु॒स्तस्यै॒षा धारा॑ग्नावैष्ण॒व्यर्चा वसो॒र्धारा॑ञ्जुहोति भाग॒धेये॑नै॒वैनौ॒ सम॑र्धय॒त्यथो॑ ए॒ताम् [10]
ए॒वाहु॑तिमा॒यत॑नवतीङ्करोति॒ यत्का॑म एनाञ्जु॒होति॒ तदे॒वाव॑ रुन्द्धे रु॒द्रो वा ए॒ष यद॒ग्निस्तस्यै॒ते त॒नुवौ॑ घो॒रान्या शि॒वान्या यच्छ॑तरु॒द्रीय॑ञ्जु॒होति॒ यैवास्य॑ घो॒रा त॒नूस्तान्तेन॑ शमयति॒ यद्वसो॒र्धारा॑ञ्जु॒होति॒ यैवास्य॑ शि॒वा त॒नूस्तान्तेन॑ प्रीणाति॒ यो वै वसो॒र्धारा॑यै [11]
प्र॒ति॒ष्ठाव्ँवेद॒ प्रत्ये॒व ति॑ष्ठति॒ यदाज्य॑मु॒च्छिष्ये॑त॒ तस्मि॑न्ब्रह्मौद॒नम्प॑चे॒त्तम्ब्रा॑ह्म॒णाश्च॒त्वार॒ᳶ प्राश्ञी॑युरे॒ष वा अ॒ग्निर्वै॑श्वान॒रो यद्ब्रा॑ह्म॒ण ए॒षा खलु॒ वा अ॒ग्नेᳶ प्रि॒या त॒नूर्यद्वै॑श्वान॒रᳶ प्रि॒याया॑मे॒वैना॑न्त॒नुवा॒म्प्रति॑ ष्ठापयति॒ चत॑स्रो धे॒नूर्द॑द्या॒त्ताभि॑रे॒व यज॑मानो॒ऽमुष्मिल्ँ॑ लो॒के॑ऽग्निन्दु॑हे ॥ [12]
चित्ति॑ञ्जुहोमि॒ मन॑सा घृ॒तेनेत्या॒हादा॑भ्या॒ वै नामै॒षाहु॑तिर्वैश्वकर्म॒णी नैन॑ञ्चिक्या॒नम्भ्रातृ॑व्यो दभ्नो॒त्यथो॑ दे॒वता॑ ए॒वाव॑ रु॒न्द्धेऽग्ने॒ तम॒द्येति॑ प॒ङ्क्त्या जु॑होति प॒ङ्क्त्याहु॑त्या यज्ञमु॒खमार॑भते स॒प्त ते॑ अग्ने स॒मिध॑स्स॒प्त जि॒ह्वा इत्या॑ह॒ होत्रा॑ ए॒वाव॑ रुन्द्धे॒ऽग्निर्दे॒वेभ्योऽपा॑क्रामद्भाग॒धेय॑म् [13]
इ॒च्छमा॑न॒स्तस्मा॑ ए॒तद्भा॑ग॒धेय॒म्प्राय॑च्छन्ने॒तद्वा अ॒ग्नेर॑ग्निहो॒त्रमे॒तर्हि॒ खलु॒ वा ए॒ष जा॒तो यर्हि॒ सर्व॑श्चि॒तो जा॒तायै॒वास्मा॒ अन्न॒मपि॑ दधाति॒ स ए॑नम्प्री॒तᳶ प्री॑णाति॒ वसी॑यान्भवति ब्रह्मवा॒दिनो॑ वदन्ति॒ यदे॒ष गार्ह॑पत्यश्ची॒यतेऽथ॒ क्वा॑स्याहव॒नीय॒ इत्य॒सावा॑दि॒त्य इति॑ ब्रूयादे॒तस्मि॒न्‌हि सर्वा॑भ्यो दे॒वता॑भ्यो॒ जुह्व॑ति [14]
य ए॒वव्ँवि॒द्वान॒ग्निञ्चि॑नु॒ते सा॒क्षादे॒व दे॒वता॑ ऋध्नो॒त्यग्ने॑ यशस्वि॒न्‌यश॑से॒मम॑र्प॒येन्द्रा॑वती॒मप॑चितीमि॒हा व॑ह । अ॒यम्मू॒र्धा प॑रमे॒ष्ठी सु॒वर्चाः॑ समा॒नाना॑मुत्त॒मश्लो॑को अस्तु । भ॒द्रम्पश्य॑न्त॒ उप॑ सेदु॒रग्रे॒ तपो॑ दी॒क्षामृष॑यस्सुव॒र्विदः॑ । ततः॑ क्ष॒त्रम्बल॒मोज॑श्च जा॒तन्तद॒स्मै दे॒वा अ॒भि सन्न॑मन्तु । धा॒ता वि॑धा॒ता प॑र॒मा [15]
उ॒त स॒न्दृक्प्र॒जाप॑तिᳶ परमे॒ष्ठी वि॒राजा॑ । स्तोमा॒श्छन्दाँ॑सि नि॒विदो॑ म आहुरे॒तस्मै॑ रा॒ष्ट्रम॒भि सन्न॑माम । अ॒भ्याव॑र्तध्व॒मुप॒ मेत॑ सा॒कम॒यँ शा॒स्ताधि॑पतिर्वो अस्तु । अ॒स्य वि॒ज्ञान॒मनु॒ सँ र॑भध्वमि॒मम्प॒श्चादनु॑ जीवाथ॒ सर्वे॑ । रा॒ष्ट्रभृत॑ ए॒ता उप॑ दधात्ये॒षा वा अ॒ग्नेश्चिती॑ राष्ट्र॒भृत्तयै॒वास्मि॑न्रा॒ष्ट्रन्द॑धाति रा॒ष्ट्रमे॒व भ॑वति॒ नास्मा॑द्रा॒ष्ट्रम्भ्रँ॑शते ॥ [16]
यथा॒ वै पु॒त्रो जा॒तो म्रि॒यत॑ ए॒वव्ँवा ए॒ष म्रि॑यते॒ यस्या॒ग्निरुख्य॑ उ॒द्वाय॑ति॒ यन्नि॑र्म॒न्थ्य॑ङ्कु॒र्याद्विच्छि॑न्द्या॒द्भ्रातृ॑व्यमस्मै जनये॒त्स ए॒व पुनᳶ॑ प॒रीध्य॒स्स्वादे॒वैनय्ँ॒योने॑र्जनयति॒ नास्मै॒ भ्रातृ॑व्यञ्जनयति॒ तमो॒ वा ए॒तङ्गृ॑ह्णाति॒ यस्या॒ग्निरुख्य॑ उ॒द्वाय॑ति मृ॒त्युस्तम॑ᳵ कृ॒ष्णव्ँवास॑ᳵ कृ॒ष्णा धे॒नुर्दक्षि॑णा॒ तम॑सा [17]
ए॒व तमो॑ मृ॒त्युमप॑ हते॒ हिर॑ण्यन्ददाति॒ ज्योति॒र्वै हिर॑ण्य॒ञ्ज्योति॑षै॒व तमोऽप॑ ह॒तेऽथो॒ तेजो॒ वै हिर॑ण्य॒न्तेज॑ ए॒वात्मन्ध॑त्ते॒ सुव॒र्न घ॒र्मस्स्वाहा॒ सुव॒र्नार्कस्स्वाहा॒ सुव॒र्न शु॒क्रस्स्वाहा॒ सुव॒र्न ज्योति॒स्स्वाहा॒ सुव॒र्न सूर्य॒स्स्वाहा॒र्को वा ए॒ष यद॒ग्निर॒सावा॑दि॒त्यः [18]
अ॒श्व॒मे॒धो यदे॒ता आहु॑तीर्जु॒होत्य॑र्काश्वमे॒धयो॑रे॒व ज्योतीँ॑षि॒ सन्द॑धात्ये॒ष ह॒ त्वा अ॑र्काश्वमे॒धी यस्यै॒तद॒ग्नौ क्रि॒यत॒ आपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सी॒त्स ए॒ताम्प्र॒जाप॑तिᳶ प्रथ॒माञ्चिति॑मपश्य॒त्तामुपा॑धत्त॒ तदि॒यम॑भव॒त्तव्ँवि॒श्वक॑र्माब्रवी॒दुप॒ त्वाया॒नीति॒ नेह लो॒को॑ऽस्तीति॑ [19]
अ॒ब्र॒वी॒त्स ए॒तान्द्वि॒तीया॒ञ्चिति॑मपश्य॒त्तामुपा॑धत्त॒ तद॒न्तरि॑क्षमभव॒त्स य॒ज्ञᳶ प्र॒जाप॑तिमब्रवी॒दुप॒ त्वाया॒नीति॒ नेह लो॒को॑ऽस्तीत्य॑ब्रवी॒त्स वि॒श्वक॑र्माणमब्रवी॒दुप॒ त्वाया॒नीति॒ केन॑ मो॒पैष्य॒सीति॒ दिश्या॑भि॒रित्य॑ब्रवी॒त्तन्दिश्या॑भिरु॒पैत्ता उपा॑धत्त॒ ता दिशः॑ [20]
अ॒भ॒व॒न्त्स प॑रमे॒ष्ठी प्र॒जाप॑तिमब्रवी॒दुप॒ त्वाया॒नीति॒ नेह लो॒को॑ऽस्तीत्य॑ब्रवी॒त्स वि॒श्वक॑र्माणञ्च य॒ज्ञञ्चा॑ब्रवी॒दुप॑ वा॒माया॒नीति॒ नेह लो॒को॑ऽस्तीत्य॑ब्रूताँ॒ स ए॒तान्तृ॒तीया॒ञ्चिति॑मपश्य॒त्तामुपा॑धत्त॒ तद॒साव॑भव॒त्स आ॑दि॒त्यᳶ प्र॒जाप॑तिमब्रवी॒दुप॑ त्वा [21]
आ॒या॒नीति॒ नेह लो॒को॑ऽस्तीत्य॑ब्रवी॒त्स वि॒श्वक॑र्माणञ्च य॒ज्ञञ्चा॑ब्रवी॒दुप॑ वा॒माया॒नीति॒ नेह लो॒को॑ऽस्तीत्य॑ब्रूताँ॒ स प॑रमे॒ष्ठिन॑मब्रवी॒दुप॒ त्वाया॒नीति॒ केन॑ मो॒पैष्य॒सीति॑ लोकम्पृ॒णयेत्य॑ब्रवी॒त्तल्ँलो॑कम्पृ॒णयो॒पैत्तस्मा॒दया॑तयाम्नी लोकम्पृ॒णाऽया॑तयामा॒ ह्य॑सौ [22]
आ॒दि॒त्यस्तानृष॑योऽब्रुव॒न्नुप॑ व॒ आया॒मेति॒ केन॑ न उ॒पैष्य॒थेति॑ भू॒म्नेत्य॑ब्रुव॒न्तान्द्वाभ्या॒ञ्चिती॑भ्यामु॒पाय॒न्त्स पञ्च॑चितीक॒स्सम॑पद्यत॒ य ए॒वव्ँवि॒द्वान॒ग्निञ्चि॑नु॒ते भूया॑ने॒व भ॑वत्य॒भीमाल्लोँ॒काञ्ज॑यति वि॒दुरे॑नन्दे॒वा अथो॑ ए॒तासा॑मे॒व दे॒वता॑नाँ॒ सायु॑ज्यङ्गच्छति ॥ [23]
वयो॒ वा अ॒ग्निर्यद॑ग्नि॒चित्प॒क्षिणो॑ऽश्ञी॒यात्तमे॒वाग्निम॑द्या॒दार्ति॒मार्च्छे॑त्सव्ँवत्स॒रव्व्ँर॒तञ्च॑रेत्सव्ँवत्स॒रँ हि व्र॒तन्नाति॑ प॒शुर्वा ए॒ष यद॒ग्निर्हि॒नस्ति॒ खलु॒ वै तम्प॒शुर्य ए॑नम्पु॒रस्ता॑त्प्र॒त्यञ्च॑मुप॒चर॑ति॒ तस्मा॑त्प॒श्चात्प्राङु॑प॒चर्य॑ आ॒त्मनोऽहिँ॑सायै॒ तेजो॑ऽसि॒ तेजो॑ मे यच्छ पृथि॒वीय्ँय॑च्छ [24]
पृ॒थि॒व्यै मा॑ पाहि॒ ज्योति॑रसि॒ ज्योति॑र्मे यच्छा॒न्तरि॑क्षय्ँयच्छा॒न्तरि॑क्षान्मा पाहि॒ सुव॑रसि॒ सुव॑र्मे यच्छ॒ दिवय्ँ॑यच्छ दि॒वो मा॑ पा॒हीत्या॑है॒ताभि॒र्वा इ॒मे लो॒का विधृ॑ता॒ यदे॒ता उ॑प॒दधा॑त्ये॒षाल्ँ लो॒कानाव्ँ॒विधृ॑त्यै स्वयमातृ॒ण्णा उ॑प॒धाय॑ हिरण्येष्ट॒का उप॑ दधाती॒मे वै लो॒कास्स्व॑यमातृ॒ण्णा ज्योति॒र्हिर॑ण्यय्ँ॒यत्स्व॑यमातृ॒ण्णा उ॑प॒धाय॑ [25]
हि॒र॒ण्ये॒ष्ट॒का उ॑प॒दधा॑ती॒माने॒वैताभि॑र्लो॒काञ्ज्योति॑ष्मतᳵ कुरु॒तेऽथो॑ ए॒ताभि॑रे॒वास्मा॑ इ॒मे लो॒काᳶ प्र भा॑न्ति॒ यास्ते॑ अग्ने॒ सूर्ये॒ रुच॑ उद्य॒तो दिव॑मात॒न्वन्ति॑ र॒श्मिभिः॑ । ताभि॒स्सर्वा॑भी रु॒चे जना॑य नस्कृधि । या वो॑ देवा॒स्सूर्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुचः॑ । इन्द्रा॑ग्नी॒ ताभि॒स्सर्वा॑भी॒ रुच॑न्नो धत्त बृहस्पते । रुच॑न्नो धेहि [26]
ब्रा॒ह्म॒णेषु॒ रुचँ॒ राज॑सु नस्कृधि । रुचव्ँ॑वि॒श्ये॑षु शू॒द्रेषु॒ मयि॑ धेहि रु॒चा रुच॑म् । द्वे॒धा वा अ॒ग्निञ्चि॑क्या॒नस्य॒ यश॑ इन्द्रि॒यङ्ग॑च्छत्य॒ग्निव्ँवा॑ चि॒तमी॑जा॒नव्ँवा॒ यदे॒ता आहु॑तीर्जु॒होत्या॒त्मन्ने॒व यश॑ इन्द्रि॒यन्ध॑त्त ईश्व॒रो वा ए॒ष आर्ति॒मार्तो॒र्यो॑ऽग्निञ्चि॒न्वन्न॑धि॒क्राम॑ति॒ तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒ इति॑ वारु॒ण्यर्चा [27]
जु॒हु॒या॒च्छान्ति॑रे॒वैषाग्नेर्गुप्ति॑रा॒त्मनो॑ ह॒विष्कृ॑तो॒ वा ए॒ष यो॑ऽग्निञ्चि॑नु॒ते यथा॒ वै ह॒विस्स्कन्द॑त्ये॒वव्ँवा ए॒ष स्क॑न्दति॒ यो॑ऽग्निञ्चि॒त्वा स्त्रिय॑मु॒पैति॑ मैत्रावरु॒ण्यामिक्ष॑या यजेत मैत्रावरु॒णता॑मे॒वोपै॑त्या॒त्मनोऽस्क॑न्दाय॒ यो वा अ॒ग्निमृ॑तु॒स्थाव्ँवेद॒र्तुर्ऋ॑तुरस्मै॒ कल्प॑मान एति॒ प्रत्ये॒व ति॑ष्ठति सव्ँवत्स॒रो वा अ॒ग्निः [28]
ऋ॒तु॒स्थास्तस्य॑ वस॑न्त॒श्शिरो॑ ग्री॒ष्मो दक्षि॑णᳶ प॒क्षो व॒र्षाᳶ पुच्छँ॑ श॒रदुत्त॑रᳶ प॒क्षो हे॑म॒न्तो मध्य॑म्पूर्वप॒क्षाश्चित॑योऽपरप॒क्षाᳶ पुरी॑षमहोरा॒त्राणीष्ट॑का ए॒ष वा अ॒ग्निर्ऋ॑तु॒स्था य ए॒वव्ँ वेद॒र्तुर्ऋ॑तुरस्मै॒ कल्प॑मान एति॒ प्रत्ये॒व ति॑ष्ठति प्र॒जाप॑ति॒र्वा ए॒तञ्ज्यैष्ठ्य॑कामो॒ न्य॑धत्त॒ ततो॒ वै स ज्यैष्ठ्य॑मगच्छ॒द्य ए॒वव्ँवि॒द्वान॒ग्निञ्चि॑नु॒ते ज्यैष्ठ्य॑मे॒व ग॑च्छति ॥ [29]
यदाकू॑तात्स॒मसु॑स्रोद्धृ॒दो वा॒ मन॑सो वा॒ सम्भृ॑त॒ञ्चक्षु॑षो वा । तमनु॒ प्रेहि॑ सुकृ॒तस्य॑ लो॒कय्ँयत्रर्ष॑यᳶ प्रथम॒जा ये पु॑रा॒णाः । ए॒तँ स॑धस्थ॒ परि॑ ते ददामि॒ यमा॒वहा॑च्छेव॒धिञ्जा॒तवे॑दाः । अ॒न्वा॒ग॒न्ता य॒ज्ञप॑तिर्वो॒ अत्र॒ तँ स्म॑ जानीत पर॒मे व्यो॑मन् । जा॒नी॒तादे॑नम्पर॒मे व्यो॑म॒न्देवाः॑ सधस्था वि॒द रू॒पम॑स्य । यदा॒गच्छा॑त् [30]
प॒थिभि॑र्देव॒यानै॑रिष्टापू॒र्ते कृ॑णुतादा॒विर॑स्मै । सम्प्र च्य॑वध्व॒मनु॒ सम्प्र या॒ताग्ने॑ प॒थो दे॑व॒याना॑न्कृणुध्वम् । अ॒स्मिन्त्स॒धस्थे॒ अध्युत्त॑रस्मि॒न्विश्वे॑ देवा॒ यज॑मानश्च सीदत । प्र॒स्त॒रेण॑ परि॒धिना॑ स्रु॒चा वेद्या॑ च ब॒र्हिषा॑ । ऋ॒चेमय्ँ य॒ज्ञन्नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे । यदि॒ष्टय्यँत्प॑रा॒दानय्ँ॒यद्द॒त्तय्ँया च॒ दक्षि॑णा । तत् [31]
अ॒ग्निर्वै॑श्वकर्म॒णस्सुव॑र्दे॒वेषु॑ नो दधत् । येना॑ स॒हस्रव्ँ॒वह॑सि॒ येना॑ग्ने सर्ववेद॒सम् । तेने॒मय्ँ य॒ज्ञन्नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे । येना॑ग्ने॒ दक्षि॑णा यु॒क्ता य॒ज्ञव्ँवह॑न्त्यृ॒त्विजः॑ । तेने॒मय्ँ य॒ज्ञन्नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे । येना॑ग्ने सु॒कृतᳶ॑ प॒था मधो॒र्धारा॑ व्यान॒शुः । तेने॒मय्ँ य॒ज्ञन्नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे । यत्र॒ धारा॒ अन॑पेता॒ मधो॑र्घृ॒तस्य॑ च॒ याः । तद॒ग्निर्वै॑श्वकर्म॒णस्सुव॑र्दे॒वेषु॑ नो दधत् ॥ [32]
यास्ते॑ अग्ने स॒मिधो॒ यानि॒ धाम॒ या जि॒ह्वा जा॑तवेदो॒ यो अ॒र्चिः । ये ते॑ अग्ने मे॒डयो॒ य इन्द॑व॒स्तेभि॑रा॒त्मान॑ञ्चिनुहि प्रजा॒नन् । उ॒त्स॒न्न॒य॒ज्ञो वा ए॒ष यद॒ग्निᳵ किव्ँवाहै॒तस्य॑ क्रि॒यते॒ किव्ँवा॒ न यद्वा अ॑ध्व॒र्युर॒ग्नेश्चि॒न्वन्न॑न्त॒रेत्या॒त्मनो॒ वै तद॒न्तरे॑ति॒ यास्ते॑ अग्ने स॒मिधो॒ यानि॑ [33]
धामेत्या॑है॒षा वा अ॒ग्नेस्स्व॑यञ्चि॒तिर॒ग्निरे॒व तद॒ग्निञ्चि॑नोति॒ नाध्व॒र्युरा॒त्मनो॒ऽन्तरे॑ति॒ चत॑स्र॒ आशा॒ᳶ प्र च॑रन्त्व॒ग्नय॑ इ॒मन्नो॑ य॒ज्ञन्न॑यतु प्रजा॒नन् । घृ॒तम्पिन्व॑न्न॒जरँ॑ सु॒वीर॒म्ब्रह्म॑ स॒मिद्भ॑व॒त्याहु॑तीनाम् । सु॒व॒र्गाय॒ वा ए॒ष लो॒कायोप॑ धीयते॒ यत्कू॒र्मश्चत॑स्र॒ आशा॒ᳶ प्र च॑रन्त्व॒ग्नय॒ इत्या॑ह [34]
दिश॑ ए॒वैतेन॒ प्र जा॑नाती॒मन्नो॑ य॒ज्ञन्न॑यतु प्रजा॒नन्नित्या॑ह सुव॒र्गस्य॑ लो॒कस्या॒भिनी॑त्यै॒ ब्रह्म॑ स॒मिद्भ॑व॒त्याहु॑तीना॒मित्या॑ह॒ ब्रह्म॑णा॒ वै दे॒वास्सु॑व॒र्गल्ँ लो॒कमा॑य॒न्‌यद्ब्रह्म॑ण्वत्योप॒दधा॑ति॒ ब्रह्म॑णै॒व तद्यज॑मानस्सुव॒र्गल्ँ लो॒कमे॑ति प्र॒जाप॑ति॒र्वा ए॒ष यद॒ग्निस्तस्य॑ प्र॒जाᳶ प॒शव॒श्छन्दाँ॑सि रू॒पँ सर्वा॒न्‌वर्णा॒निष्ट॑कानाङ्कुर्याद्रू॒पेणै॒व प्र॒जाम्प॒शूञ्छन्दाँ॒स्यव॑ रु॒न्द्धेऽथो॑ प्र॒जाभ्य॑ ए॒वैन॑म्प॒शुभ्य॒श्छन्दो॑भ्योऽव॒रुद्ध्य॑ चिनुते ॥ [35]
मयि॑ गृह्णा॒म्यग्रे॑ अ॒ग्निँ रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य । मयि॑ प्र॒जाम्मयि॒ वर्चो॑ दधा॒म्यरि॑ष्टास्स्याम त॒नुवा॑ सु॒वीराः॑ । यो नो॑ अ॒ग्निᳶ पि॑तरो हृ॒त्स्व॑न्तरम॑र्त्यो॒ मर्त्याँ॑ आवि॒वेश॑ । तमा॒त्मन्परि॑ गृह्णीमहे व॒यम्मा सो अ॒स्माँ अ॑व॒हाय॒ परा॑ गात् । यद॑ध्व॒र्युरा॒त्मन्न॒ग्निमगृ॑हीत्वा॒ग्निञ्चि॑नु॒याद्यो॑ऽस्य॒ स्वो॑ऽग्निस्तमपि॑ [36]
यज॑मानाय चिनुयाद॒ग्निङ्खलु॒ वै प॒शवोऽनूप॑ तिष्ठन्तेऽप॒क्रामु॑का अस्मात्प॒शव॑स्स्यु॒र्मयि॑ गृह्णा॒म्यग्रे॑ अ॒ग्निमित्या॑हा॒त्मन्ने॒व स्वम॒ग्निन्दा॑धार॒ नास्मा॑त्प॒शवोऽप॑ क्रामन्ति ब्रह्मवा॒दिनो॑ वदन्ति॒ यन्मृच्चाप॑श्चा॒ग्नेर॑ना॒द्यमथ॒ कस्मा॑न्मृ॒दा चा॒द्भिश्चा॒ग्निश्ची॑यत॒ इति॒ यद॒द्भिस्सय्ँ॒यौति॑ [37]
आपो॒ वै सर्वा॑ दे॒वता॑ दे॒वता॑भिरे॒वैनँ॒ सँ सृ॑जति॒ यन्मृ॒दा चि॒नोती॒यव्ँ वा अ॒ग्निर्वै॑श्वान॒रो॑ऽग्निनै॒व तद॒ग्निञ्चि॑नोति ब्रह्मवा॒दिनो॑ वदन्ति॒ यन्मृ॒दा चा॒द्भिश्चा॒ग्निश्ची॒यतेऽथ॒ कस्मा॑द॒ग्निरु॑च्यत॒ इति॒ यच्छन्दो॑भिश्चि॒नोत्य॒ग्नयो॒ वै छन्दाँ॑सि॒ तस्मा॑द॒ग्निरु॑च्य॒तेऽथो॑ इ॒यव्ँ वा अ॒ग्निर्वै॑श्वान॒रो यत् [38]
मृ॒दा चि॒नोति॒ तस्मा॑द॒ग्निरु॑च्यते हिरण्येष्ट॒का उप॑ दधाति॒ ज्योति॒र्वै हिर॑ण्य॒ञ्ज्योति॑रे॒वास्मि॑न्दधा॒त्यथो॒ तेजो॒ वै हिर॑ण्य॒न्तेज॑ ए॒वात्मन्ध॑त्ते॒ यो वा अ॒ग्निँ स॒र्वतो॑मुखञ्चिनु॒ते सर्वा॑सु प्र॒जास्वन्न॑मत्ति॒ सर्वा॒ दिशो॒ऽभि ज॑यति गाय॒त्रीम्पु॒रस्ता॒दुप॑ दधाति त्रिष्टुभ॑न्दक्षिण॒तो जग॑तीम्प॒श्चाद॑नु॒ष्टुभ॑मुत्तर॒तᳶ प॒ङ्क्तिम्मध्य॑ ए॒ष वा अ॒ग्निस्स॒र्वतो॑मुख॒स्तय्ँय ए॒वव्ँवि॒द्वाँश्चि॑नु॒ते सर्वा॑सु प्र॒जास्वन्न॑मत्ति॒ सर्वा॒ दिशो॒ऽभि ज॑य॒त्यथो॑ दि॒श्ये॑व दिश॒म्प्र व॑यति॒ तस्मा॑द्दि॒शि दिक्प्रोता॑ ॥ [39]
प्र॒जाप॑तिर॒ग्निम॑सृजत॒ सो॑ऽस्मात्सृ॒ष्टᳶ प्राङ्प्राद्र॑व॒त्तस्मा॒ अश्व॒म्प्रत्या॑स्य॒त्स द॑क्षि॒णाव॑र्तत॒ तस्मै॑ वृ॒ष्णिम्प्रत्या॑स्य॒त्स प्र॒त्यङ्ङाव॑र्तत॒ तस्मा॑ ऋष॒भम्प्रत्या॑स्य॒त्स उद॒ङ्ङाव॑र्तत॒ तस्मै॑ ब॒स्तम्प्रत्या॑स्य॒त्स ऊ॒र्ध्वो॑ऽद्रव॒त्तस्मै॒ पुरु॑ष॒म्प्रत्या॑स्य॒त्यत्प॑शुशी॒र्षाण्यु॑प॒दधा॑ति स॒र्वत॑ ए॒वैन॑म् [40]
अ॒व॒रुध्य॑ चिनुत ए॒ता वै प्रा॑ण॒भृत॒श्चक्षु॑ष्मती॒रिष्ट॑का॒ यत्प॑शुशी॒र्षाणि॒ यत्प॑शुशी॒र्षाण्यु॑प॒दधा॑ति॒ ताभि॑रे॒व यज॑मानो॒ऽमुष्मिल्ँ॑ लो॒के प्राणि॒त्यथो॒ ताभि॑रे॒वास्मा॑ इ॒मे लो॒काᳶ प्र भा॑न्ति मृ॒दाभि॒लिप्योप॑ दधाति मेध्य॒त्वाय॑ प॒शुर्वा ए॒ष यद॒ग्निरन्न॑म्प॒शव॑ ए॒ष खलु॒ वा अ॒ग्निर्यत्प॑शुशी॒र्षाणि॒ यङ्का॒मये॑त॒ कनी॑यो॒ऽस्यान्न॑म् [41]
स्या॒दिति॑ सन्त॒रान्तस्य॑ पशुशी॒र्षाण्युप॑ दध्या॒त्कनी॑य ए॒वास्यान्न॑म्भवति॒ यङ्का॒मये॑त स॒माव॑द॒स्यान्नँ॑ स्या॒दिति॑ मध्य॒तस्तस्योप॑ दध्यात्स॒माव॑दे॒वास्यान्न॑म्भवति॒ यङ्का॒मये॑त॒ भूयो॒ऽस्यान्नँ॑ स्या॒दित्यन्ते॑षु॒ तस्य॑ व्यु॒दूह्योप॑ दध्यादन्त॒त ए॒वास्मा॒ अन्न॒मव॑ रुन्द्धे॒ भूयो॒ऽस्यान्न॑म्भवति ॥ [42]
स्ते॒गान्दँष्ट्रा॑भ्याम्म॒ण्डूका॒ञ्जम्भ्ये॑भि॒राद॑काङ्खा॒देनोर्जँ॑ सँसू॒देनार॑ण्य॒ञ्जाम्बी॑लेन॒ मृद॑म्ब॒र्स्वे॑भि॒श्शर्क॑राभि॒रव॑का॒मव॑काभि॒श्शर्क॑रामुत्सा॒देन॑ जि॒ह्वाम॑वक्र॒न्देन॒ तालुँ॒ सर॑स्वतीञ्जिह्वा॒ग्रेण॑ ॥ [43]
वाजँ॒ हनू॑भ्याम॒प आ॒स्ये॑नादि॒त्याञ्छ्मश्रु॑भिरुपया॒ममध॑रे॒णोष्ठे॑न॒ सदुत्त॑रे॒णान्त॑रेणानूका॒शम्प्र॑का॒शेन॒ बाह्यँ॑ स्तनयि॒त्नुन्नि॑र्बा॒धेन॑ सूर्या॒ग्नी चक्षु॑र्भ्याव्ँ वि॒द्युतौ॑ क॒नान॑काभ्याम॒शनि॑म्म॒स्तिष्के॑ण॒ बल॑म्म॒ज्जभिः॑ ॥ [44]
कू॒र्माञ्छ॒फैर॒च्छला॑भिᳵ क॒पिञ्ज॑ला॒न्त्साम॒ कुष्ठि॑काभिर्ज॒वञ्जङ्घा॑भिरग॒दञ्जानु॑भ्याव्ँ वी॒र्य॑ङ्कु॒हाभ्या॑म्भ॒यम्प्र॑चा॒लाभ्या॒ङ्गुहो॑पप॒क्षाभ्या॑म॒श्विना॒वँसा॑भ्या॒मदि॑तिँ शी॒र्ष्णा निर्ऋ॑ति॒न्निर्जा॑ल्मकेन शी॒र्ष्णा ॥ [45]
योक्त्र॒ङ्गृध्रा॑भिर्यु॒गमान॑तेन चि॒त्तम्मन्या॑भिस्सङ्क्रो॒शान्प्रा॒णैᳶ प्र॑का॒शेन॒ त्वच॑म्पराका॒शेनान्त॑राम्म॒शका॒न्केशै॒रिन्द्रँ॒ स्वप॑सा॒ वहे॑न॒ बृह॒स्पतिँ॑ शकुनिसा॒देन॒ रथ॑मु॒ष्णिहा॑भिः ॥ [46]
मि॒त्रावरु॑णौ॒ श्रोणी॑भ्यामिन्द्रा॒ग्नी शि॑ख॒ण्डाभ्या॒मिन्द्रा॒बृह॒स्पती॑ ऊ॒रुभ्या॒मिन्द्रा॒विष्णू॑ अष्ठी॒वद्भ्याँ॑ सवि॒तार॒म्पुच्छे॑न गन्ध॒र्वाञ्छेपे॑नाप्स॒रसो॑ मु॒ष्काभ्या॒म्पव॑मानम्पा॒युना॑ प॒वित्र॒म्पोत्रा॑भ्यामा॒क्रम॑णँ स्थू॒राभ्या॑म्प्रति॒क्रम॑ण॒ङ्कुष्ठा॑भ्याम् ॥ [47]
इन्द्र॑स्य क्रो॒डोऽदि॑त्यै पाज॒स्य॑न्दि॒शाञ्ज॒त्रवो॑ जी॒मूता॑न्हृदयौप॒शाभ्या॑म॒न्तरि॑क्षम्पुरि॒तता॒ नभ॑ उद॒र्ये॑णेन्द्रा॒णीम्प्ली॒ह्ना व॒ल्मीका॑न्क्लो॒म्ना गि॒रीन्प्ला॒शिभि॑स्समु॒द्रमु॒दरे॑ण वैश्वान॒रम्भस्म॑ना ॥ [48]
पू॒ष्णो व॑नि॒ष्ठुर॑न्धा॒हेस्स्थू॑रगु॒दा स॒र्पान्गुदा॑भिर्ऋ॒तून्पृ॒ष्टीभि॒र्दिव॑म्पृ॒ष्ठेन॒ वसू॑नाम्प्रथ॒मा कीक॑सा रु॒द्राणा॑न्द्वि॒तीया॑दि॒त्याना॑न्तृ॒तीयाङ्गि॑रसाञ्चतु॒र्थी सा॒ध्याना॑म्पञ्च॒मी विश्वे॑षान्दे॒वानाँ॑ ष॒ष्ठी ॥ [49]
ओजो॑ ग्री॒वाभि॒र्निर्ऋ॑तिम॒स्थभि॒रिन्द्रँ॒ स्वप॑सा॒ वहे॑न रु॒द्रस्य॑ विच॒लस्स्क॒न्धो॑ऽहोरा॒त्रयो॑र्द्वि॒तीयो॑ऽर्धमा॒साना॑न्तृ॒तीयो॑ मा॒साञ्च॑तु॒र्थ ऋ॑तू॒नाम्प॑ञ्च॒मस्सव्ँ॑वत्स॒रस्य॑ ष॒ष्ठः ॥ [50]
आ॒न॒न्दन्न॒न्दथु॑ना॒ काम॑म्प्रत्या॒साभ्या॑म्भ॒यँ शि॑ती॒मभ्या॑म्प्र॒शिष॑म्प्रशा॒साभ्याँ॑ सूर्याचन्द्र॒मसौ॒ वृक्या॑भ्याँ श्यामशब॒लौ मत॑स्नाभ्या॒व्व्ँयु॑ष्टिँ रू॒पेण॒ निम्रु॑क्ति॒मरू॑पेण ॥ [51]
अह॑र्माँ॒सेन॒ रात्रि॒म्पीव॑सा॒पो यू॒षेण॑ घृ॒तँ रसे॑न॒ श्याव्ँवस॑या दू॒षीका॑भिर्ह्रा॒दुनि॒मश्रु॑भि॒ᳶ पृष्वा॒न्दिवँ॑ रू॒पेण॒ नक्ष॑त्राणि॒ प्रति॑रूपेण पृथि॒वीञ्चर्म॑णा छ॒वीञ्छ॒व्यो॑पाकृ॑ताय॒ स्वाहाल॑ब्धाय॒ स्वाहा॑ हु॒ताय॒ स्वाहा॑ ॥ [52]
अ॒ग्नेᳶ प॑क्ष॒तिस्सर॑स्वत्यै॒ निप॑क्षति॒स्सोम॑स्य तृ॒तीया॒पाञ्च॑तु॒र्थ्योष॑धीनाम्पञ्च॒मी सव्ँ॑वत्स॒रस्य॑ ष॒ष्ठी म॒रुताँ॑ सप्त॒मी बृह॒स्पते॑रष्ट॒मी मि॒त्रस्य॑ नव॒मी वरु॑णस्य दश॒मीन्द्र॑स्यैकाद॒शी विश्वे॑षान्दे॒वाना॑न्द्वाद॒शी द्यावा॑पृथि॒व्योᳶ पा॒र्श्वय्यँ॒मस्य॑ पाटू॒रः ॥ [53]
वा॒योᳶ प॑क्ष॒तिस्सर॑स्वतो॒ निप॑क्षतिश्च॒न्द्रम॑सस्तृ॒तीया॒ नक्ष॑त्राणाञ्चतु॒र्थी स॑वि॒तुᳶ प॑ञ्च॒मी रु॒द्रस्य॑ ष॒ष्ठी स॒र्पाणाँ॑ सप्त॒म्य॑र्य॒म्णो॑ऽष्ट॒मी त्वष्टु॑र्नव॒मी धा॒तुर्द॑श॒मीन्द्रा॒ण्या ए॑काद॒श्यदि॑त्यै द्वाद॒शी द्यावा॑पृथि॒व्योᳶ पा॒र्श्वय्यँ॒म्यै॑ पाटू॒रः ॥ [54]
पन्था॑मनू॒वृग्भ्याँ॒ सन्त॑तिँ स्नाव॒न्या॑भ्याँ॒ शुका॑न्पि॒त्तेन॑ हरि॒माणय्ँ॑य॒क्ना हली॑क्ष्णान्पापवा॒तेन॑ कू॒श्माञ्छक॑भिश्शव॒र्तानूव॑ध्येन॒ शुनो॑ वि॒शस॑नेन स॒र्पाल्लोँ॑हितग॒न्धेन॒ वयाँ॑सि पक्वग॒न्धेन॑ पि॒पीलि॑काᳶ प्रशा॒देन॑ ॥ [55]
क्रमै॒रत्य॑क्रमीद्वा॒जी विश्वै॑र्दे॒वैर्य॒ज्ञियैः॑ सव्ँविदा॒नः । स नो॑ नय सुकृ॒तस्य॑ लो॒कन्तस्य॑ ते व॒यँ स्व॒धया॑ मदेम ॥ [56]
द्यौस्ते॑ पृ॒ष्ठम्पृ॑थि॒वी स॒धस्थ॑मा॒त्मान्तरि॑क्षँ समु॒द्रो योनि॒स्सूर्य॑स्ते॒ चक्षु॒र्वातᳶ॑ प्रा॒णश्च॒न्द्रमा॒श्श्रोत्र॒म्मासा॑श्चार्धमा॒साश्च॒ पर्वा॑ण्यृ॒तवोङ्गा॑नि सव्ँवत्स॒रो म॑हि॒मा ॥ [57]
अ॒ग्निᳶ प॒शुरा॑सी॒त्तेना॑यजन्त॒ स ए॒तल्ँ लो॒कम॑जय॒द्यस्मि॑न्न॒ग्निस्स ते॑ लो॒कस्तञ्जे॑ष्य॒स्यथाव॑ जिघ्र वा॒युᳶ प॒शुरा॑सी॒त्तेना॑यजन्त॒ स ए॒तल्ँ लो॒कम॑जय॒द्यस्मि॑न्वा॒युस्स ते॑ लो॒कस्तस्मा॑त्त्वा॒न्तरे॑ष्यामि॒ यदि॒ नाव॒जिघ्र॑स्यादि॒त्यᳶ प॒शुरा॑सी॒त्तेना॑यजन्त॒ स ए॒तल्ँ लो॒कम॑जय॒द्यस्मि॑न्नादि॒त्यस्स ते॑ लो॒कस्तञ्जे॑ष्यसि॒ यद्य॑व॒जिघ्र॑सि ॥ [58]