हिर॑ण्यवर्णा॒श्शुच॑यᳶ पाव॒का यासु॑ जा॒तᳵ क॒श्यपो॒ यास्विन्द्रः॑ । अ॒ग्निय्ँया गर्भ॑न्दधि॒रे विरू॑पा॒स्ता न॒ आप॒श्शँ स्यो॒ना भ॑वन्तु । यासाँ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒ञ्जना॑नाम् । म॒धु॒श्चुत॒श्शुच॑यो॒ याᳶ पा॑व॒कास्ता न॒ आप॒श्शँ स्यो॒ना भ॑वन्तु । यासा॑न्दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षय्ँया अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति । याᳶ पृ॑थि॒वीम्पय॑सो॒न्दन्ति॑ [1]
शु॒क्रास्ता न॒ आप॒श्शँ स्यो॒ना भ॑वन्तु । शि॒वेन॑ मा॒ चक्षु॑षा पश्यतापश्शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वच॑म्मे । सर्वाँ॑ अ॒ग्नीँ र॑प्सु॒षदो॑ हुवे वो॒ मयि॒ वर्चो॒ बल॒मोजो॒ नि ध॑त्त । यद॒दस्स॑म्प्रय॒तीरहा॒वन॑दता ह॒ते । तस्मा॒दा न॒द्यो॑ नाम॑ स्थ॒ ता वो॒ नामा॑नि सिन्धवः । यत्प्रेषि॑ता॒ वरु॑णेन॒ ताश्शीभँ॑ स॒मव॑ल्गत । [2]
तदा॑प्नो॒दिन्द्रो॑ वो य॒तीस्तस्मा॒दापो॒ अनु॑ स्थन । अ॒प॒का॒मँ स्यन्द॑माना॒ अवी॑वरत वो॒ हिक॑म् । इन्द्रो॑ व॒श्शक्ति॑भिर्देवी॒स्तस्मा॒द्वार्णाम॑ वो हि॒तम् । एको॑ दे॒वो अप्य॑तिष्ठ॒त्स्यन्द॑माना यथाव॒शम् । उदा॑निषुर्म॒हीरिति॒ तस्मा॑दुद॒कमु॑च्यते । आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसुर॒ग्नीषोमौ॑ बिभ्र॒त्याप॒ इत्ताः । ती॒व्रो रसो॑ मधु॒पृचा॑म् [3]
अ॒र॒ङ्ग॒म आ मा॑ प्रा॒णेन॑ स॒ह वर्च॑सा गन् । आदित्प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वाङ्न॑ आसाम् । मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्हि॒ हिर॑ण्यवर्णा॒ अतृ॑पय्ँय॒दा वः॑ । आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से । यो व॑श्शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ । तस्मा॒ अर॑ङ्गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः । दि॒वि श्र॑यस्वा॒न्तरि॑क्षे यतस्व पृथि॒व्या सम्भ॑व ब्रह्मवर्च॒सम॑सि ब्रह्मवर्च॒साय॑ त्वा ॥ [4]
अ॒पाङ्ग्रहा॑न्गृह्णात्ये॒तद्वाव रा॑ज॒सूयय्ँ॒यदे॒ते ग्रहाः॑ स॒वो॑ऽग्निर्व॑रुणस॒वो रा॑ज॒सूय॑मग्निस॒वश्चित्य॒स्ताभ्या॑मे॒व सू॑य॒तेऽथो॑ उ॒भावे॒व लो॒काव॒भि ज॑यति॒ यश्च॑ राज॒सूये॑नेजा॒नस्य॒ यश्चा॑ग्नि॒चित॒ आपो॑ भव॒न्त्यापो॒ वा अ॒ग्नेर्भ्रातृ॑व्या॒ यद॒पो॑ऽग्नेर॒धस्ता॑दुप॒दधा॑ति॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवत्य॒मृत॑म् [5]
वा आप॒स्तस्मा॑द॒द्भिरव॑तान्तम॒भि षि॑ञ्चन्ति॒ नार्ति॒मार्च्छ॑ति॒ सर्व॒मायु॑रेति॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वव्ँ वेदान्नव्ँ॒वा आपᳶ॑ प॒शव॒ आपोऽन्न॑म्प॒शवो॑ऽन्ना॒दᳶ प॑शु॒मान्भ॑वति॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वव्ँ वेद॒ द्वाद॑श भवन्ति॒ द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रस्सव्ँ॑वत्स॒रेणै॒वास्मै॑ [6]
अन्न॒मव॑ रुन्द्धे॒ पात्रा॑णि भवन्ति॒ पात्रे॒ वा अन्न॑मद्यते॒ सयो॑न्ये॒वान्न॒मव॑ रुन्द्ध॒ आ द्वा॑द॒शात्पुरु॑षा॒दन्न॑म॒त्त्यथो॒ पात्रा॒न्न छि॑द्यते॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वव्ँ वेद॑ कु॒म्भाश्च॑ कु॒म्भीश्च॑ मिथु॒नानि॑ भवन्ति मिथु॒नस्य॒ प्रजा॑त्यै॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ [7]
चै॒ना॒ ए॒वव्ँ वेद॒ शुग्वा अ॒ग्निस्सो॑ऽध्व॒र्युय्ँयज॑मानम्प्र॒जाश्शु॒चार्प॑यति॒ यद॒प उ॑प॒दधा॑ति॒ शुच॑मे॒वास्य॑ शमयति॒ नार्ति॒मार्च्छ॑त्यध्व॒र्युर्न यज॑मान॒श्शाम्य॑न्ति प्र॒जा यत्रै॒ता उ॑पधी॒यन्ते॒ऽपाव्ँवा ए॒तानि॒ हृद॑यानि॒ यदे॒ता आपो॒ यदे॒ता अ॒प उ॑प॒दधा॑ति दि॒व्याभि॑रे॒वैना॒स्सँ सृ॑जति॒ वर्षु॑कᳶ प॒र्जन्यः॑ [8]
भ॒व॒ति॒ यो वा ए॒तासा॑मा॒यत॑न॒ङ्कॢप्तिव्ँ॒वेदा॒यत॑नवान्भवति॒ कल्प॑तेऽस्मा अनुसी॒तमुप॑ दधात्ये॒तद्वा आ॑सामा॒यत॑नमे॒षा कॢप्ति॒र्य ए॒वव्ँ वेदा॒यत॑नवान्भवति॒ कल्प॑तेऽस्मै द्व॒न्द्वम॒न्या उप॑ दधाति॒ चत॑स्रो॒ मध्ये॒ धृत्या॒ अन्नव्ँ॒वा इष्ट॑का ए॒तत्खलु॒ वै सा॒क्षादन्नय्ँ॒यदे॒ष च॒रुर्यदे॒तञ्च॒रुमु॑प॒दधा॑ति सा॒क्षात् [9]
ए॒वास्मा॒ अन्न॒मव॑ रुन्द्धे मध्य॒त उप॑ दधाति मध्य॒त ए॒वास्मा॒ अन्न॑न्दधाति॒ तस्मा॑न्मध्य॒तोऽन्न॑मद्यते बार्हस्प॒त्यो भ॑वति॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र्ब्रह्म॑णै॒वास्मा॒ अन्न॒मव॑ रुन्द्धे ब्रह्मवर्च॒सम॑सि ब्रह्मवर्च॒साय॒ त्वेत्या॑ह तेज॒स्वी ब्र॑ह्मवर्च॒सी भ॑वति॒ यस्यै॒ष उ॑पधी॒यते॒ य उ॑ चैनमे॒वव्ँवेद॑ ॥ [10]
भू॒ते॒ष्ट॒का उप॑ दधा॒त्यत्रा॑त्र॒ वै मृ॒त्युर्जा॑यते॒ यत्र॑यत्रै॒व मृ॒त्युर्जाय॑ते॒ तत॑ ए॒वैन॒मव॑ यजते॒ तस्मा॑दग्नि॒चित्सर्व॒मायु॑रेति॒ सर्वे॒ ह्य॑स्य मृ॒त्यवोऽवे॑ष्टा॒स्तस्मा॑दग्नि॒चिन्नाभिच॑रित॒वै प्र॒त्यगे॑नमभिचा॒रस्स्तृ॑णुते सू॒यते॒ वा ए॒ष यो॑ऽग्निञ्चि॑नु॒ते दे॑वसु॒वामे॒तानि॑ ह॒वीँषि॑ भवन्त्ये॒ताव॑न्तो॒ वै दे॒वानाँ॑ स॒वास्त ए॒व [11]
अ॒स्मै॒ स॒वान्प्र य॑च्छन्ति॒ त ए॑नँ सुवन्ते स॒वो॑ऽग्निर्व॑रुणस॒वो रा॑ज॒सूय॑म्ब्रह्मस॒वश्चित्यो॑ दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इत्या॑ह सवि॒तृप्र॑सूत ए॒वैन॒म्ब्रह्म॑णा दे॒वता॑भिर॒भि षि॑ञ्च॒त्यन्न॑स्यान्नस्या॒भि षि॑ञ्च॒त्यन्न॑स्यान्न॒स्याव॑रुद्ध्यै पु॒रस्ता॑त्प्र॒त्यञ्च॑म॒भि षि॑ञ्चति पु॒रस्ता॒द्धि प्र॑ती॒चीन॒मन्न॑म॒द्यते॑ शीर्ष॒तो॑ऽभि षि॑ञ्चति शीर्ष॒तो ह्यन्न॑म॒द्यत॒ आ मुखा॑द॒न्वव॑स्रावयति [12]
मु॒ख॒त ए॒वास्मा॑ अ॒न्नाद्य॑न्दधात्य॒ग्नेस्त्वा॒ साम्रा॑ज्येना॒भि षि॑ञ्चा॒मीत्या॑है॒ष वा अ॒ग्नेस्स॒वस्तेनै॒वैन॑म॒भि षि॑ञ्चति॒ बृह॒स्पते॑स्त्वा॒ साम्रा॑ज्येना॒भि षि॑ञ्चा॒मीत्या॑ह॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र्ब्रह्म॑णै॒वैन॑म॒भि षि॑ञ्च॒तीन्द्र॑स्य त्वा॒ साम्रा॑ज्येना॒भि षि॑ञ्चा॒मीत्या॑हेन्द्रि॒यमे॒वास्मि॑न्नु॒परि॑ष्टाद्दधात्ये॒तत् [13]
वै रा॑ज॒सूय॑स्य रू॒पय्यँ ए॒वव्ँवि॒द्वान॒ग्निञ्चि॑नु॒त उ॒भावे॒व लो॒काव॒भि ज॑यति॒ यश्च॑ राज॒सूये॑नेजा॒नस्य॒ यश्चा॑ग्नि॒चित॒ इन्द्र॑स्य सुषुवा॒णस्य॑ दश॒धेन्द्रि॒यव्ँवी॒र्य॑म्परा॑पत॒त्तद्दे॒वास्सौ॑त्राम॒ण्या सम॑भरन्त्सू॒यते॒ वा ए॒ष यो॑ऽग्निञ्चि॑नु॒ते॑ऽग्निञ्चि॒त्वा सौ॑त्राम॒ण्या य॑जेतेन्द्रि॒यमे॒व वी॒र्यँ॑ स॒म्भृत्या॒त्मन्ध॑त्ते ॥ [14]
स॒जूरब्दोऽया॑वभिस्स॒जूरु॒षा अरु॑णीभिस्स॒जूस्सूर्य॒ एत॑शेन स॒जोषा॑व॒श्विना॒ दँसो॑भिस्स॒जूर॒ग्निर्वै॑श्वान॒र इडा॑भिर्घृ॒तेन॒ स्वाहा॑ सव्ँवत्स॒रो वा अब्दो॒ मासा॒ अया॑वा उ॒षा अरु॑णी॒ सूर्य॒ एत॑श इ॒मे अ॒श्विना॑ सव्ँवत्स॒रो॑ऽग्निर्वै॑श्वान॒रᳶ प॒शव॒ इडा॑ प॒शवो॑ घृ॒तँ सव्ँ॑वत्स॒रम्प॒शवोऽनु॒ प्र जा॑यन्ते सव्ँवत्स॒रेणै॒वास्मै॑ प॒शून्प्र ज॑नयति दर्भस्त॒म्बे जु॑होति॒ यत् [15]
वा अ॒स्या अ॒मृतय्ँ॒यद्वी॒र्य॑न्तद्द॒र्भास्तस्मि॑ञ्जुहोति॒ प्रैव जा॑यतेऽन्ना॒दो भ॑वति॒ यस्यै॒वञ्जुह्व॑त्ये॒ता वै दे॒वता॑ अ॒ग्नेᳶ पु॒रस्ता॑द्भागा॒स्ता ए॒व प्री॑णा॒त्यथो॒ चक्षु॑रे॒वाग्नेᳶ पु॒रस्ता॒त्प्रति॑ दधा॒त्यन॑न्धो भवति॒ य ए॒वव्ँ वेदापो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सी॒त्स प्र॒जाप॑तिᳶ पुष्करप॒र्णे वातो॑ भू॒तो॑ऽलेलाय॒त्सः [16]
प्र॒ति॒ष्ठान्नावि॑न्द॒त स ए॒तद॒पाङ्कु॒लाय॑मपश्य॒त्तस्मि॑न्न॒ग्निम॑चिनुत॒ तदि॒यम॑भव॒त्ततो॒ वै स प्रत्य॑तिष्ठ॒द्याम्पु॒रस्ता॑दु॒पाद॑धा॒त्तच्छिरो॑ऽभव॒त्सा प्राची॒ दिग्यान्द॑क्षिण॒त उ॒पाद॑धा॒त्स दक्षि॑णᳶ प॒क्षो॑ऽभव॒त्सा द॑क्षि॒णा दिग्याम्प॒श्चादु॒पाद॑धा॒त्तत्पुच्छ॑मभव॒त्सा प्र॒तीची॒ दिग्यामु॑त्तर॒त उ॒पाद॑धात् [17]
स उत्त॑रᳶ प॒क्षो॑ऽभव॒त्सोदी॑ची॒ दिग्यामु॒परि॑ष्टादु॒पाद॑धा॒त्तत्पृ॒ष्ठम॑भव॒त्सोर्ध्वा दिगि॒यव्ँ वा अ॒ग्निᳶ पञ्चे॑ष्टक॒स्तस्मा॒द्यद॒स्याङ्खन॑न्त्य॒भीष्ट॑कान्तृ॒न्दन्त्य॒भि शर्क॑राँ॒ सर्वा॒ वा इ॒यव्ँवयो॑भ्यो॒ नक्त॑न्दृ॒शे दी॑प्यते॒ तस्मा॑दि॒माव्ँवयाँ॑सि॒ नक्त॒न्नाध्या॑सते॒ य ए॒वव्ँवि॒द्वान॒ग्निञ्चि॑नु॒ते प्रत्ये॒व [18]
ति॒ष्ठ॒त्य॒भि दिशो॑ जयत्याग्ने॒यो वै ब्रा॑ह्म॒णस्तस्मा॑द्ब्राह्म॒णाय॒ सर्वा॑सु दि॒क्ष्वर्धु॑कँ॒ स्वामे॒व तद्दिश॒मन्वे॑त्य॒पाव्ँ वा अ॒ग्निᳵ कु॒लाय॒न्तस्मा॒दापो॒ऽग्निँ हारु॑का॒स्स्वामे॒व तद्योनि॒म्प्र वि॑शन्ति ॥ [19]
सव्ँ॒व॒त्स॒रमुख्य॑म्भृ॒त्वा द्वि॒तीये॑ सव्ँवत्स॒र आ॑ग्ने॒यम॒ष्टाक॑पाल॒न्निर्व॑पेदै॒न्द्रमेका॑दशकपालव्ँ वैश्वदे॒वन्द्वाद॑शकपालम्बार्हस्प॒त्यञ्च॒रुव्ँ वै॑ष्ण॒वन्त्रि॑कपा॒लन्तृ॒तीये॑ सव्ँवत्स॒रे॑ऽभि॒जिता॑ यजेत॒ यद॒ष्टाक॑पालो॒ भव॑त्य॒ष्टाक्ष॑रा गाय॒त्र्या॑ग्ने॒यङ्गा॑य॒त्रम्प्रा॑तस्सव॒नम्प्रा॑तस्सव॒नमे॒व तेन॑ दाधार गाय॒त्रीञ्छन्दो॒ यदेका॑दशकपालो॒ भव॒त्येका॑दशाक्षरा त्रि॒ष्टुगै॒न्द्रन्त्रैष्टु॑भ॒म्माध्य॑न्दिनँ॒ सव॑न॒म्माध्य॑न्दिनमे॒व सव॑न॒न्तेन॑ दाधार त्रि॒ष्टुभ॑म् [20]
छन्दो॒ यद्द्वाद॑शकपालो॒ भव॑ति॒ द्वाद॑शाक्षरा॒ जग॑ती वैश्वदे॒वञ्जाग॑तन्तृतीयसव॒नन्तृ॑तीयसव॒नमे॒व तेन॑ दाधार॒ जग॑ती॒ञ्छन्दो॒ यद्बा॑र्हस्प॒त्यश्च॒रुर्भव॑ति॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र्ब्रह्मै॒व तेन॑ दाधार॒ यद्वै॑ष्ण॒वस्त्रि॑कपा॒लो भव॑ति य॒ज्ञो वै विष्णु॑र्य॒ज्ञमे॒व तेन॑ दाधार॒ यत्तृ॒तीये॑ सव्ँवत्स॒रे॑ऽभि॒जिता॒ यज॑ते॒ऽभिजि॑त्यै॒ यत्सव्ँ॑वत्स॒रमुख्य॑म्बि॒भर्ती॒ममे॒व [21]
तेन॑ लो॒कँ स्पृ॑णोति॒ यद्द्वि॒तीये॑ सव्ँवत्स॒रे॑ऽग्निञ्चि॑नु॒ते॑ऽन्तरि॑क्षमे॒व तेन॑ स्पृणोति॒ यत्तृ॒तीये॑ सव्ँवत्स॒रे यज॑ते॒ऽमुमे॒व तेन॑ लो॒कँ स्पृ॑णोत्ये॒तव्ँ वै पर॑ आट्णा॒रᳵ क॒क्षीवाँ॑ औशि॒जो वी॒तह॑व्यश्श्राय॒सस्त्र॒सद॑स्युᳶ पौरुकु॒त्स्यᳶ प्र॒जाका॑मा अचिन्वत॒ ततो॒ वै ते स॒हस्रँ॑सहस्रम्पु॒त्रान॑विन्दन्त॒ प्रथ॑ते प्र॒जया॑ प॒शुभि॒स्ताम्मात्रा॑माप्नोति॒ यान्तेऽग॑च्छ॒न्य ए॒वव्ँवि॒द्वाने॒तम॒ग्निञ्चि॑नु॒ते ॥ [22]
प्र॒जाप॑तिर॒ग्निम॑चिनुत॒ स क्षु॒रप॑विर्भू॒त्वाति॑ष्ठ॒त्तन्दे॒वा बिभ्य॑तो॒ नोपा॑य॒न्ते छन्दो॑भिरा॒त्मान॑ञ्छादयि॒त्वोपा॑य॒न्तच्छन्द॑साञ्छन्द॒स्त्वम्ब्रह्म॒ वै छन्दाँ॑सि॒ ब्रह्म॑ण ए॒तद्रू॒पय्ँयत्कृ॑ष्णाजि॒नङ्कार्ष्णी॑ उपा॒नहा॒वुप॑ मुञ्चते॒ छन्दो॑भिरे॒वात्मान॑ञ्छादयि॒त्वाग्निमुप॑ चरत्या॒त्मनोऽहिँ॑सायै देवनि॒धिर्वा ए॒ष नि धी॑यते॒ यद॒ग्निः [23]
अ॒न्ये वा॒ वै नि॒धिमगु॑प्तव्ँवि॒न्दन्ति॒ न वा॒ प्रति॒ प्र जा॑नात्यु॒खामा क्रा॑मत्या॒त्मान॑मे॒वाधि॒पाङ्कु॑रुते॒ गुप्त्या॒ अथो॒ खल्वा॑हु॒र्नाक्रम्येति॑ नैर्ऋ॒त्यु॑खा यदा॒क्रामे॒न्निर्ऋ॑त्या आ॒त्मान॒मपि॑ दध्या॒त्तस्मा॒न्नाक्रम्या॑ पुरुषशी॒र्षमुप॑ दधाति॒ गुप्त्या॒ अथो॒ यथा॑ ब्रू॒यादे॒तन्मे॑ गोपा॒येति॑ ता॒दृगे॒व तत् [24]
प्र॒जाप॑ति॒र्वा अथ॑र्वा॒ग्निरे॒व द॒ध्यङ्ङा॑थर्व॒णस्तस्येष्ट॑का अ॒स्थान्ये॒तँ ह॒ वाव तदृषि॑र॒भ्यनू॑वा॒चेन्द्रो॑ दधी॒चो अ॒स्थभि॒रिति॒ यदिष्ट॑काभिर॒ग्निञ्चि॒नोति॒ सात्मा॑नमे॒वाग्निञ्चि॑नुते॒ सात्मा॒मुष्मिल्ँ॑ लो॒के भ॑वति॒ य ए॒वव्ँ वेद॒ शरी॑रव्ँ॒वा ए॒तद॒ग्नेर्यच्चित्य॑ आ॒त्मा वै॑श्वान॒रो यच्चि॒ते वै॑श्वान॒रञ्जु॒होति॒ शरी॑रमे॒व सँ॒स्कृत्य॑ [25]
अ॒भ्यारो॑हति॒ शरी॑रव्ँ॒वा ए॒तद्यज॑मान॒स्सँस्कु॑रुते॒ यद॒ग्निञ्चि॑नु॒ते यच्चि॒ते वै॑श्वान॒रञ्जु॒होति॒ शरी॑रमे॒व सँ॒स्कृत्या॒त्मना॒भ्यारो॑हति॒ तस्मा॒त्तस्य॒ नाव॑ द्यन्ति॒ जीव॑न्ने॒व दे॒वानप्ये॑ति वैश्वान॒र्यर्चा पुरी॑ष॒मुप॑ दधाती॒यव्ँ वा अ॒ग्निर्वै॑श्वान॒रस्तस्यै॒षा चिति॒र्यत्पुरी॑षम॒ग्निमे॒व वै॑श्वान॒रञ्चि॑नुत ए॒षा वा अ॒ग्नेᳶ प्रि॒या त॒नूर्यद्वै॑श्वान॒रᳶ प्रि॒यामे॒वास्य॑ त॒नुव॒मव॑ रुन्द्धे ॥ [26]
अ॒ग्नेर्वै दी॒क्षया॑ दे॒वा वि॒राज॑माप्नुवन्ति॒स्रो रात्री॑र्दीक्षि॒तस्स्या॑त्त्रि॒पदा॑ वि॒राड्वि॒राज॑माप्नोति॒ षड्रात्री॑र्दीक्षि॒तस्स्या॒त् षड्वा ऋ॒तव॑स्सव्ँवत्स॒रस्सव्ँ॑वत्स॒रो वि॒राड्वि॒राज॑माप्नोति॒ दश॒ रात्री॑र्दीक्षि॒तस्स्या॒द्दशा॑क्षरा वि॒राड्वि॒राज॑माप्नोति॒ द्वाद॑श॒ रात्री॑र्दीक्षि॒तस्स्या॒द्द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रस्सव्ँ॑वत्स॒रो वि॒राड्वि॒राज॑माप्नोति॒ त्रयो॑दश॒ रात्री॑र्दीक्षि॒तस्स्या॒त्त्रयो॑दश [27]
मासाः॑ सव्ँवत्स॒रस्सव्ँ॑वत्स॒रो वि॒राड्वि॒राज॑माप्नोति॒ पञ्च॑दश॒ रात्री॑र्दीक्षि॒तस्स्या॒त्पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑योऽर्धमास॒शस्सव्ँ॑वत्स॒र आ॑प्यते सव्ँवत्स॒रो वि॒राड्वि॒राज॑माप्नोति स॒प्तद॑श॒ रात्री॑र्दीक्षि॒तस्स्या॒द्द्वाद॑श॒ मासा॒ᳶ पञ्च॒र्तव॒स्स सव्ँ॑वत्स॒रस्सव्ँ॑वत्स॒रो वि॒राड्वि॒राज॑माप्नोति॒ चतु॑र्विँशतिँ॒ रात्री॑र्दीक्षि॒तस्स्या॒च्चतु॑र्विँशतिरर्धमा॒सास्सव्ँ॑वत्स॒रस्सव्ँ॑वत्स॒रो वि॒राड्वि॒राज॑माप्नोति त्रिँ॒शतँ॒ रात्री॑र्दीक्षि॒तस्स्या॑त् [28]
त्रिँ॒शद॑क्षरा वि॒राड्वि॒राज॑माप्नोति॒ मास॑न्दीक्षि॒तस्स्या॒द्यो मास॒स्स सव्ँ॑वत्स॒रस्सव्ँ॑वत्स॒रो वि॒राड्वि॒राज॑माप्नोति च॒तुरो॑ मा॒सो दी॑क्षि॒तस्स्या॑च्च॒तुरो॒ वा ए॒तम्मा॒सो वस॑वोऽबिभरु॒स्ते पृ॑थि॒वीमाज॑यन्गाय॒त्रीञ्छन्दो॒ऽष्टौ रु॒द्रास्ते॑ऽन्तरि॑क्ष॒माज॑यन्त्रि॒ष्टुभ॒ञ्छन्दो॒ द्वाद॑शादि॒त्यास्ते दिव॒माज॑य॒ञ्जग॑ती॒ञ्छन्द॒स्ततो॒ वै ते व्या॒वृत॑मगच्छ॒ञ्छ्रैष्ठ्य॑न्दे॒वाना॒म्तस्मा॒द्द्वाद॑श मा॒सो भृ॒त्वाग्निञ्चि॑न्वीत॒ द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रस्सव्ँ॑वत्स॒रो॑ऽग्निश्चित्य॒स्तस्या॑होरा॒त्राणीष्ट॑का आ॒प्तेष्ट॑कमेनञ्चिनु॒तेऽथो॑ व्या॒वृत॑मे॒व ग॑च्छति॒ श्रैष्ठ्यँ॑ समा॒नाना॑म् ॥ [29]
सु॒व॒र्गाय॒ वा ए॒ष लो॒काय॑ चीयते॒ यद॒ग्निस्तय्ँयन्नान्वा॒रोहे॑त्सुव॒र्गाल्लो॒काद्यज॑मानो हीयेत पृथि॒वीमाक्र॑मिषम्प्रा॒णो मा॒ मा हा॑सीद॒न्तरि॑क्ष॒माक्र॑मिषम्प्र॒जा मा॒ मा हा॑सी॒द्दिव॒माक्र॑मिषँ॒ सुव॑रग॒न्मेत्या॑है॒ष वा अ॒ग्नेर॑न्वारो॒हस्तेनै॒वैन॑म॒न्वारो॑हति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै॒ यत्प॒क्षस॑म्मिताम्मिनु॒यात् [30]
कनी॑याँसय्ँ यज्ञक्र॒तुमुपे॑या॒त्पापी॑यस्यस्या॒त्मनᳶ॑ प्र॒जा स्या॒द्वेदि॑सम्मिताम्मिनोति॒ ज्यायाँ॑समे॒व य॑ज्ञक्र॒तुमुपै॑ति॒ नास्या॒त्मन॒ᳶ पापी॑यसी प्र॒जा भ॑वति साह॒स्रञ्चि॑न्वीत प्रथ॒मञ्चि॑न्वा॒नस्स॒हस्र॑सम्मितो॒ वा अ॒यल्ँ लो॒क इ॒ममे॒व लो॒कम॒भि ज॑यति॒ द्विषा॑हस्रञ्चिन्वीत द्वि॒तीय॑ञ्चिन्वा॒नो द्विषा॑हस्रव्ँ॒ वा अ॒न्तरि॑क्षम॒न्तरि॑क्षमे॒वाभि ज॑यति॒ त्रिषा॑हस्रञ्चिन्वीत तृ॒तीय॑ञ्चिन्वा॒नः [31]
त्रिषा॑हस्रो॒ वा अ॒सौ लो॒को॑ऽमुमे॒व लो॒कम॒भि ज॑यति जानुद॒घ्नञ्चि॑न्वीत प्रथ॒मञ्चि॑न्वा॒नो गा॑यत्रि॒यैवेमल्ँ लो॒कम॒भ्यारो॑हति नाभिद॒घ्नञ्चि॑न्वीत द्वि॒तीय॑ञ्चिन्वा॒नस्त्रि॒ष्टुभै॒वान्तरि॑क्षम॒भ्यारो॑हति ग्रीवद॒घ्नञ्चि॑न्वीत तृ॒तीय॑ञ्चिन्वा॒नो जग॑त्यै॒वामुल्ँ लो॒कम॒भ्यारो॑हति॒ नाग्निञ्चि॒त्वा रा॒मामुपे॑यादयो॒नौ रेतो॑ धास्या॒मीति॒ न द्वि॒तीय॑ञ्चि॒त्वान्यस्य॒ स्त्रिय॑म् [32]
उपे॑या॒न्न तृ॒तीय॑ञ्चि॒त्वा काञ्च॒नोपे॑या॒द्रेतो॒ वा ए॒तन्नि ध॑त्ते॒ यद॒ग्निञ्चि॑नु॒ते यदु॑पे॒याद्रेत॑सा॒ व्यृ॑ध्ये॒ताथो॒ खल्वा॑हुरप्रज॒स्यन्तद्यन्नोपे॒यादिति॒ यद्रे॑त॒स्सिचा॑वुप॒दधा॑ति॒ ते ए॒व यज॑मानस्य॒ रेतो॑ बिभृत॒स्तस्मा॒दुपे॑या॒द्रेत॒सोऽस्क॑न्दाय॒ त्रीणि॒ वाव रेताँ॑सि पि॒ता पु॒त्रᳶ पौत्रः॑ [33]
यद्द्वे रे॑त॒स्सिचा॑वुपद॒ध्याद्रेतो॑ऽस्य॒ विच्छि॑न्द्यात्ति॒स्र उप॑ दधाति॒ रेत॑स॒स्सन्त॑त्या इ॒यव्ँ वाव प्र॑थ॒मा रे॑त॒स्सिग्वाग्वा इ॒यन्तस्मा॒त्पश्य॑न्ती॒माम्पश्य॑न्ति॒ वाचव्ँ॒वद॑न्तीम॒न्तरि॑क्षन्द्वि॒तीया॑ प्रा॒णो वा अ॒न्तरि॑क्ष॒न्तस्मा॒न्नान्तरि॑क्ष॒म्पश्य॑न्ति॒ न प्रा॒णम॒सौ तृ॒तीया॒ चक्षु॒र्वा अ॒सौ तस्मा॒त्पश्य॑न्त्य॒मूम्पश्य॑न्ति॒ चक्षु॒र्यजु॑षे॒माञ्च॑ [34]
अ॒मूञ्चोप॑ दधाति॒ मन॑सा मध्य॒मामे॒षाल्ँ लो॒काना॒ङ्कॢप्त्या॒ अथो॑ प्रा॒णाना॑मि॒ष्टो य॒ज्ञो भृगु॑भिराशी॒र्दा वसु॑भि॒स्तस्य॑ त इ॒ष्टस्य॑ वी॒तस्य॒ द्रवि॑णे॒ह भ॑क्षी॒येत्या॑ह स्तुतश॒स्त्रे ए॒वैतेन॑ दुहे पि॒ता मा॑त॒रिश्वाच्छि॑द्रा प॒दा धा॒ अच्छि॑द्रा उ॒शिजᳶ॑ प॒दानु॑ तक्षु॒स्सोमो॑ विश्व॒विन्ने॒ता ने॑ष॒द्बृह॒स्पति॑रुक्थाम॒दानि॑ शँसिष॒दित्या॑है॒तद्वा अ॒ग्नेरु॒क्थन्तेनै॒वैन॒मनु॑ शँसति ॥ [35]
सू॒यते॒ वा ए॒षो॑ऽग्नी॒नाय्ँय उ॒खाया॑म्भ्रि॒यते॒ यद॒धस्सा॒दये॒द्गर्भाः॑ प्र॒पादु॑कास्स्यु॒रथो॒ यथा॑ स॒वात्प्र॑त्यव॒रोह॑ति ता॒दृगे॒व तदा॑स॒न्दी सा॑दयति॒ गर्भा॑णा॒न्धृत्या॒ अप्र॑पादा॒याथो॑ स॒वमे॒वैन॑ङ्करोति॒ गर्भो॒ वा ए॒ष यदुख्यो॒ योनि॑श्शि॒क्यय्ँ॑यच्छि॒क्या॑दु॒खान्नि॒रूहे॒द्योने॒र्गर्भ॒न्निर्ह॑ण्या॒त्षडु॑द्यामँ शि॒क्य॑म्भवति षोढाविहि॒तो वै [36]
पुरु॑ष आ॒त्मा च॒ शिर॑श्च च॒त्वार्यङ्गा॑न्या॒त्मन्ने॒वैन॑म्बिभर्ति प्र॒जाप॑ति॒र्वा ए॒ष यद॒ग्निस्तस्यो॒खा चो॒लूख॑लञ्च॒ स्तनौ॒ ताव॑स्य प्र॒जा उप॑ जीवन्ति॒ यदु॒खाञ्चो॒लूख॑लञ्चोप॒दधा॑ति॒ ताभ्या॑मे॒व यज॑मानो॒ऽमुष्मिल्ँ॑ लो॒के॑ऽग्निन्दु॑हे सव्ँवत्स॒रो वा ए॒ष यद॒ग्निस्तस्य॑ त्रेधाविहि॒ता इ॑ष्टकाᳶ प्राजाप॒त्या वै॑ष्ण॒वीः [37]
वै॒श्व॒क॒र्म॒णीर॑होरा॒त्राण्ये॒वास्य॑ प्राजाप॒त्या यदुख्य॑म्बि॒भर्ति॑ प्राजाप॒त्या ए॒व तदुप॑ धत्ते॒ यत्स॒मिध॑ आ॒दधा॑ति वैष्ण॒वा वै वन॒स्पत॑यो वैष्ण॒वीरे॒व तदुप॑ धत्ते॒ यदिष्ट॑काभिर॒ग्निञ्चि॒नोती॒यव्ँ वै वि॒श्वक॑र्मा वैश्वकर्म॒णीरे॒व तदुप॑ धत्ते तस्मा॑दाहुस्त्रि॒वृद॒ग्निरिति॒ तव्ँवा ए॒तय्ँयज॑मान ए॒व चि॑न्वीत॒ यद॑स्या॒न्यश्चि॑नु॒याद्यत्तन्दक्षि॑णाभि॒र्न रा॒धये॑द॒ग्निम॑स्य वृञ्जीत॒ यो॑ऽस्या॒ग्निञ्चि॑नु॒यात्तन्दक्षि॑णाभी राधयेद॒ग्निमे॒व तत्स्पृ॑णोति ॥ [38]
प्र॒जाप॑तिर॒ग्निम॑चिनुत॒र्तुभि॑स्सव्ँवत्स॒रव्ँ व॑स॒न्तेनै॒वास्य॑ पूर्वा॒र्धम॑चिनुत ग्री॒ष्मेण॒ दक्षि॑णम्प॒क्षव्ँ व॒र्षाभि॒ᳶ पुच्छँ॑ श॒रदोत्त॑रम्प॒क्षँ हे॑म॒न्तेन॒ मध्य॒म्ब्रह्म॑णा॒ वा अ॑स्य॒ तत्पू॑र्वा॒र्धम॑चिनुत क्ष॒त्रेण॒ दक्षि॑णम्प॒क्षम्प॒शुभि॒ᳶ पुच्छव्ँ॑वि॒शोत्त॑रम्प॒क्षमा॒शया॒ मध्यय्ँ॒य ए॒वव्ँवि॒द्वान॒ग्निञ्चि॑नु॒त ऋ॒तुभि॑रे॒वैन॑ञ्चिनु॒तेऽथो॑ ए॒तदे॒व सर्व॒मव॑ [39]
रु॒न्द्धे॒ शृ॒ण्वन्त्ये॑नम॒ग्निञ्चि॑क्या॒नमत्त्यन्नँ॒ रोच॑त इ॒यव्ँ वाव प्र॑थ॒मा चिति॒रोष॑धयो॒ वन॒स्पत॑य॒ᳶ पुरी॑षम॒न्तरि॑क्षन्द्वि॒तीया॒ वयाँ॑सि॒ पुरी॑षम॒सौ तृ॒तीया॒ नक्ष॑त्राणि॒ पुरी॑षय्यँ॒ज्ञश्च॑तु॒र्थी दक्षि॑णा॒ पुरी॑षय्ँ॒यज॑मानᳶ पञ्च॒मी प्र॒जा पुरी॑षय्ँ॒यत्त्रिचि॑तीकञ्चिन्वी॒त य॒ज्ञन्दक्षि॑णामा॒त्मान॑म्प्र॒जाम॒न्तरि॑या॒त्तस्मा॒त्पञ्च॑चितीकश्चेत॒व्य॑ ए॒तदे॒व सर्वँ॑ स्पृणोति॒ यत्ति॒स्रश्चित॑यः [40]
त्रि॒वृद्ध्य॑ग्निर्यद्द्वे द्वि॒पाद्यज॑मान॒ᳶ प्रति॑ष्ठित्यै॒ पञ्च॒ चित॑यो भवन्ति॒ पाङ्क्त॒ᳶ पुरु॑ष आ॒त्मान॑मे॒व स्पृ॑णोति॒ पञ्च॒ चित॑यो भवन्ति प॒ञ्चभि॒ᳶ पुरी॑षैर॒भ्यू॑हति॒ दश॒ सम्प॑द्यन्ते॒ दशा॑क्षरो॒ वै पुरु॑षो॒ यावा॑ने॒व पुरु॑ष॒स्तँ स्पृ॑णो॒त्यथो॒ दशा॑क्षरा वि॒राडन्नव्ँ॑वि॒राड्वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठति सव्ँवत्स॒रो वै ष॒ष्ठी चिति॑र्ऋ॒तव॒ᳶ पुरी॑षँ॒ षट्चित॑यो भवन्ति॒ षट्पुरी॑षाणि॒ द्वाद॑श॒ सम्प॑द्यन्ते॒ द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रस्सव्ँ॑वत्स॒र ए॒व प्रति॑ तिष्ठति ॥ [41]
रोहि॑तो धू॒म्ररो॑हितᳵ क॒र्कन्धु॑रोहित॒स्ते प्रा॑जाप॒त्या ब॒भ्रुर॑रु॒णब॑भ्रु॒श्शुक॑बभ्रु॒स्ते रौ॒द्राश्श्येत॑श्श्येता॒क्षश्श्येत॑ग्रीव॒स्ते पि॑तृदेव॒त्या॑स्ति॒स्रᳵ कृ॒ष्णा व॒शा वा॑रु॒ण्य॑स्ति॒स्रश्श्वे॒ता व॒शास्सौ॒र्यो॑ मैत्राबार्हस्प॒त्या धू॒म्रल॑लामास्तूप॒राः ॥ [42]
पृश्ञि॑स्तिर॒श्चीन॑पृश्ञिरू॒र्ध्वपृ॑श्ञि॒स्ते मा॑रु॒ताᳶ फ॒ल्गूर्लो॑हितो॒र्णी ब॑ल॒क्षी तास्सा॑रस्व॒त्यᳶ॑ पृष॑ती स्थू॒लपृ॑षती क्षु॒द्रपृ॑षती॒ ता वै॑श्वदे॒व्य॑स्ति॒स्रश्श्या॒मा व॒शाᳶ पौ॒ष्णिय॑स्ति॒स्रो रोहि॑णीर्व॒शा मै॒त्रिय॑ ऐन्द्राबार्हस्प॒त्या अ॑रु॒णल॑लामास्तूप॒राः ॥ [43]
शि॒ति॒बा॒हुर॒न्यत॑श्शितिबाहुस्सम॒न्तशि॑तिबाहु॒स्त ऐ॑न्द्रवाय॒वाश्शि॑ति॒रन्ध्रो॒ऽन्यत॑श्शितिरन्ध्रस्सम॒न्तशि॑तिरन्ध्र॒स्ते मै॑त्रावरु॒णाश्शु॒द्धवा॑लस्स॒र्वशु॑द्धवालो म॒णिवा॑ल॒स्त आ॑श्वि॒नास्ति॒स्रश्शि॒ल्पा व॒शा वै॑श्वदे॒व्य॑स्ति॒स्रश्श्येनीः॑ परमे॒ष्ठिने॑ सोमापौ॒ष्णाश्श्या॒मल॑लामास्तूप॒राः ॥ [44]
उ॒न्न॒त ऋ॑ष॒भो वा॑म॒नस्त ऐ॑न्द्रावरु॒णाश्शिति॑ककुच्छितिपृ॒ष्ठश्शिति॑भस॒त्त ऐ॑न्द्राबार्हस्प॒त्याश्शि॑ति॒पाच्छि॒त्योष्ठ॑श्शिति॒भ्रुस्त ऐ॑न्द्रावैष्ण॒वास्ति॒स्रस्सि॒ध्मा व॒शा वै॑श्वकर्म॒ण्य॑स्ति॒स्रो धा॒त्रे पृ॑षोद॒रा ऐ॑न्द्रापौ॒ष्णाश्श्येत॑ललामास्तूप॒राः ॥ [45]
क॒र्णास्त्रयो॑ या॒मास्सौ॒म्यास्त्रय॑श्श्विति॒ङ्गा अ॒ग्नये॒ यवि॑ष्ठाय॒ त्रयो॑ नकु॒लास्ति॒स्रो रोहि॑णी॒स्त्र्यव्य॒स्ता वसू॑नान्ति॒स्रो॑ऽरु॒णा दि॑त्यौ॒ह्य॑स्ता रु॒द्राणाँ॑ सोमै॒न्द्रा ब॒भ्रुल॑लामास्तूप॒राः ॥ [46]
शु॒ण्ठास्त्रयो॑ वैष्ण॒वा अ॑धीलोध॒कर्णा॒स्त्रयो॒ विष्ण॑व उरुक्र॒माय॑ लप्सु॒दिन॒स्त्रयो॒ विष्ण॑व उरुगा॒याय॒ पञ्चा॑वीस्ति॒स्र आ॑दि॒त्याना॑न्त्रिव॒त्सास्ति॒स्रोऽङ्गि॑रसामैन्द्रावैष्ण॒वा गौ॒रल॑लामास्तूप॒राः ॥ [47]
इन्द्रा॑य॒ राज्ञे॒ त्रय॑श्शितिपृ॒ष्ठा इन्द्रा॑याधिरा॒जाय॒ त्रय॒श्शिति॑ककुद॒ इन्द्रा॑य स्व॒राज्ञे॒ त्रय॒श्शिति॑भसदस्ति॒स्रस्तु॑र्यौ॒ह्य॑स्सा॒ध्याना॑न्ति॒स्रᳶ प॑ष्ठौ॒ह्यो॑ विश्वे॑षान्दे॒वाना॑माग्ने॒न्द्राᳵ कृ॒ष्णल॑लामास्तूप॒राः ॥ [48]
अदि॑त्यै॒ त्रयो॑ रोहितै॒ता इ॑न्द्रा॒ण्यै त्रय॑ᳵ कृष्णै॒ताᳵ कु॒ह्वै॑ त्रयो॑ऽरुणै॒तास्ति॒स्रो धे॒नवो॑ रा॒कायै॒ त्रयो॑ऽन॒ड्वाह॑स्सिनीवा॒ल्या आ॑ग्नावैष्ण॒वा रोहि॑तललामास्तूप॒राः ॥ [49]
सौ॒म्यास्त्रयᳶ॑ पि॒शङ्गा॒स्सोमा॑य॒ राज्ञे॒ त्रय॑स्सा॒रङ्गाः॑ पार्ज॒न्या नभो॑रूपास्ति॒स्रो॑ऽजा म॒ल्हा इ॑न्द्रा॒ण्यै ति॒स्रो मे॒ष्य॑ आदि॒त्या द्या॑वापृथि॒व्या॑ मा॒लङ्गा॑स्तूप॒राः ॥ [50]
वा॒रु॒णास्त्रय॑ᳵ कृ॒ष्णल॑लामा॒ वरु॑णाय॒ राज्ञे॒ त्रयो॒ रोहि॑तोललामा॒ वरु॑णाय रि॒शाद॑से॒ त्रयो॑ऽरु॒णल॑लामाश्शि॒ल्पास्त्रयो॑ वैश्वदे॒वास्त्रय॒ᳶ पृश्ञ॑यस्सर्वदेव॒त्या॑ ऐन्द्रासू॒राश्श्येत॑ललामास्तूप॒राः ॥ [51]
सोमा॑य स्व॒राज्ञे॑ऽनोवा॒हाव॑न॒ड्वाहा॑विन्द्रा॒ग्निभ्या॑मोजो॒दाभ्या॒मुष्टा॑राविन्द्रा॒ग्निभ्या॑म्बल॒दाभ्याँ॑ सीरवा॒हाववी॒ द्वे धे॒नू भौ॒मी दि॒ग्भ्यो वड॑बे॒ द्वे धे॒नू भौ॒मी वै॑रा॒जी पु॑रु॒षी द्वे धे॒नू भौ॒मी वा॒यव॑ आरोहणवा॒हाव॑न॒ड्वाहौ॑ वारु॒णी कृ॒ष्णे व॒शे अ॑रा॒ड्यौ॑ दि॒व्यावृ॑ष॒भौ प॑रिम॒रौ ॥ [52]
एका॑दश प्रा॒तर्ग॒व्याᳶ प॒शव॒ आ ल॑भ्यन्ते छग॒लᳵ क॒ल्माष॑ᳵ किकिदी॒विर्वि॑दी॒गय॒स्ते त्वा॒ष्ट्रास्सौ॒रीर्नव॑ श्वे॒ता व॒शा अ॑नूब॒न्ध्या॑ भवन्त्याग्ने॒य ऐ॑न्द्रा॒ग्न आ॑श्वि॒नस्ते वि॑शालयू॒प आ ल॑भ्यन्ते ॥ [53]
पि॒शङ्गा॒स्त्रयो॑ वास॒न्तास्सा॒रङ्गा॒स्त्रयो॒ ग्रैष्मा॒ᳶ पृष॑न्त॒स्त्रयो॒ वार्षि॑का॒ᳶ पृश्ञ॑य॒स्त्रय॑श्शार॒दाᳶ पृ॑श्ञिस॒क्थास्त्रयो॒ हैम॑न्तिका अवलि॒प्तास्त्रय॑श्शैशि॒रास्सव्ँ॑वत्स॒राय॒ निव॑क्षसः ॥ [54]