दे॒वा॒सु॒रास्सय्ँय॑त्ता आस॒न्ते न व्य॑जयन्त॒ स ए॒ता इन्द्र॑स्त॒नूर॑पश्य॒त्ता उपा॑धत्त॒ ताभि॒र्वै स त॒नुव॑मिन्द्रि॒यव्ँवी॒र्य॑मा॒त्मन्न॑धत्त॒ ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यदि॑न्द्रत॒नूरु॑प॒दधा॑ति त॒नुव॑मे॒व ताभि॑रिन्द्रि॒यव्ँवी॒र्यय्ँ॑यज॑मान आ॒त्मन्ध॒त्तेऽथो॒ सेन्द्र॑मे॒वाग्निँ सत॑नुञ्चिनुते॒ भव॑त्या॒त्मना॒ परा॑ऽस्य॒ भ्रातृ॑व्यः [1]
भ॒व॒ति॒ य॒ज्ञो दे॒वेभ्योऽपा॑क्राम॒त्तम॑व॒रुध॒न्नाश॑क्नुव॒न्त ए॒ता य॑ज्ञत॒नूर॑पश्य॒न्ता उपा॑दधत॒ ताभि॒र्वै ते य॒ज्ञमवा॑रुन्धत॒ यद्य॑ज्ञत॒नूरु॑प॒दधा॑ति य॒ज्ञमे॒व ताभि॒र्यज॑मा॒नोऽव॑ रुन्द्धे॒ त्रय॑स्त्रिँशत॒मुप॑ दधाति॒ त्रय॑स्त्रिँश॒द्वै दे॒वता॑ दे॒वता॑ ए॒वाव॑ रु॒न्द्धेऽथो॒ सात्मा॑नमे॒वाग्निँ सत॑नुञ्चिनुते॒ सात्मा॒मुष्मिल्ँ॑ लो॒के [2]
भ॒व॒ति॒ य ए॒वव्ँ वेद॒ ज्योति॑ष्मती॒रुप॑ दधाति॒ ज्योति॑रे॒वास्मि॑न्दधात्ये॒ताभि॒र्वा अ॒ग्निश्चि॒तो ज्व॑लति॒ ताभि॑रे॒वैनँ॒ समि॑न्द्ध उ॒भयो॑रस्मै लो॒कयो॒र्ज्योति॑र्भवति नक्षत्रेष्ट॒का उप॑ दधात्ये॒तानि॒ वै दि॒वो ज्योतीँ॑षि॒ तान्ये॒वाव॑ रुन्द्धे सु॒कृताव्ँ॒वा ए॒तानि॒ ज्योतीँ॑षि॒ यन्नक्ष॑त्राणि॒ तान्ये॒वाप्नो॒त्यथो॑ अनूका॒शमे॒वैतानि॑ [3]
ज्योतीँ॑षि कुरुते सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै॒ यत्सँस्पृ॑ष्टा उपद॒ध्याद्वृष्ट्यै॑ लो॒कमपि॑ दध्या॒दव॑र्षुकᳶ प॒र्जन्य॑स्स्या॒दसँ॑स्पृष्टा॒ उप॑ दधाति॒ वृष्ट्या॑ ए॒व लो॒कङ्क॑रोति॒ वर्षु॑कᳶ प॒र्जन्यो॑ भवति पु॒रस्ता॑द॒न्याᳶ प्र॒तीची॒रुप॑ दधाति प॒श्चाद॒न्याᳶ प्राची॒स्तस्मा॑त्प्रा॒चीना॑नि च प्रती॒चीना॑नि च॒ नक्ष॑त्रा॒ण्या व॑र्तन्ते ॥ [4]
ऋ॒त॒व्या॑ उप॑ दधात्यृतू॒नाङ्कॢप्त्यै॑ द्व॒न्द्वमुप॑ दधाति॒ तस्मा॑द्द्व॒न्द्वमृ॒तवोऽधृ॑तेव॒ वा ए॒षा यन्म॑ध्य॒मा चिति॑र॒न्तरि॑क्षमिव॒ वा ए॒षा द्व॒न्द्वम॒न्यासु॒ चिती॒षूप॑ दधाति॒ चत॑स्रो॒ मध्ये॒ धृत्या॑ अन्त॒श्श्लेष॑णव्ँ॒वा ए॒ताश्चिती॑नाय्ँ॒यदृ॑त॒व्या॑ यदृ॑त॒व्या॑ उप॒दधा॑ति॒ चितीनाव्ँ॒विधृ॑त्या॒ अव॑का॒मनूप॑ दधात्ये॒षा वा अ॒ग्नेर्योनि॒स्सयो॑निम् [5]
ए॒वाग्निञ्चि॑नुत उ॒वाच॑ ह वि॒श्वामि॒त्रोऽद॒दित्स ब्रह्म॒णान्नय्ँ॒यस्यै॒ता उ॑पधी॒यान्तै॒ य उ॑ चैना ए॒वव्ँ वेद॒दिति॑ सव्ँवत्स॒रो वा ए॒तम्प्र॑ति॒ष्ठायै॑ नुदते॒ यो॑ऽग्निञ्चि॒त्वा न प्र॑ति॒तिष्ठ॑ति॒ पञ्च॒ पूर्वा॒श्चित॑यो भव॒न्त्यथ॑ ष॒ष्ठीञ्चिति॑ञ्चिनुते॒ षड्वा ऋ॒तव॑स्सव्ँवत्स॒र ऋ॒तुष्वे॒व सव्ँ॑वत्स॒रे प्रति॑ तिष्ठत्ये॒ता वै [6]
अधि॑पत्नी॒र्नामेष्ट॑का॒ यस्यै॒ता उ॑पधी॒यन्तेऽधि॑पतिरे॒व स॑मा॒नाना॑म्भवति॒ यन्द्वि॒ष्यात्तमु॑प॒दध॑द्ध्यायेदे॒ताभ्य॑ ए॒वैन॑न्दे॒वता॑भ्य॒ आ वृ॑श्चति ता॒जगार्ति॒मार्च्छ॒त्यङ्गि॑रसस्सुव॒र्गल्ँ लो॒कय्ँयन्तो॒ या य॒ज्ञस्य॒ निष्कृ॑ति॒रासी॒त्तामृषि॑भ्य॒ᳶ प्रत्यौ॑ह॒न्तद्धिर॑ण्यमभव॒द्यद्धि॑रण्यश॒ल्कैᳶ प्रो॒क्षति॑ य॒ज्ञस्य॒ निष्कृ॑त्या॒ अथो॑ भेष॒जमे॒वास्मै॑ करोति [7]
अथो॑ रू॒पेणै॒वैनँ॒ सम॑र्धय॒त्यथो॒ हिर॑ण्यज्योतिषै॒व सु॑व॒र्गल्ँ लो॒कमे॑ति साह॒स्रव॑ता॒ प्रोक्ष॑ति साह॒स्रᳶ प्र॒जाप॑तिᳶ प्र॒जाप॑ते॒राप्त्या॑ इ॒मा मे॑ अग्न॒ इष्ट॑का धे॒नव॑स्स॒न्त्वित्या॑ह धे॒नूरे॒वैनाः॑ कुरुते॒ ता ए॑नङ्काम॒दुघा॑ अ॒मुत्रा॒मुष्मिल्ँ॑ लो॒क उप॑ तिष्ठन्ते ॥ [8]
रु॒द्रो वा ए॒ष यद॒ग्निस्स ए॒तर्हि॑ जा॒तो यर्हि॒ सर्व॑श्चि॒तस्स यथा॑ व॒त्सो जा॒तस्स्तन॑म्प्रे॒प्सत्ये॒वव्ँवा ए॒ष ए॒तर्हि॑ भाग॒धेय॒म्प्रेप्स॑ति॒ तस्मै॒ यदाहु॑ति॒न्न जु॑हु॒याद॑ध्व॒र्युञ्च॒ यज॑मानञ्च ध्यायेच्छतरु॒द्रीय॑ञ्जुहोति भाग॒धेये॑नै॒वैनँ॑ शमयति॒ नार्ति॒मार्च्छ॑त्यध्व॒र्युर्न यज॑मानो॒ यद्ग्रा॒म्याणा॑म्पशू॒नाम् [9]
पय॑सा जुहु॒याद्ग्रा॒म्यान्प॒शूञ्छु॒चार्प॑ये॒द्यदा॑र॒ण्याना॑मार॒ण्याञ्ज॑र्तिलयवा॒ग्वा॑ वा जुहु॒याद्ग॑वीधुकयवा॒ग्वा॑ वा॒ न ग्रा॒म्यान्प॒शून्‌हि॒नस्ति॒ नार॒ण्यानथो॒ खल्वा॑हु॒रना॑हुति॒र्वै ज॒र्तिला॑श्च ग॒वीधु॑का॒श्चेत्य॑जक्षी॒रेण॑ जुहोत्याग्ने॒यी वा ए॒षा यद॒जाहु॑त्यै॒व जु॑होति॒ न ग्रा॒म्यान्प॒शून्‌हि॒नस्ति॒ नार॒ण्यानङ्गि॑रसस्सुव॒र्गल्ँ लो॒कय्ँयन्तः॑ [10]
अ॒जाया॑ङ्घ॒र्मम्प्रासि॑ञ्च॒न्त्सा शोच॑न्ती प॒र्णम्परा॑जिहीत॒ सो ३॑ ऽर्को॑ऽभव॒त्तद॒र्कस्या॑र्क॒त्वम॑र्कप॒र्णेन॑ जुहोति सयोनि॒त्वायोद॒ङ्तिष्ठ॑ञ्जुहोत्ये॒षा वै रु॒द्रस्य॒ दिक्स्वाया॑मे॒व दि॒शि रु॒द्रन्नि॒रव॑दयते चर॒माया॒मिष्ट॑कायाञ्जुहोत्यन्त॒त ए॒व रु॒द्रन्नि॒रव॑दयते त्रेधाविभ॒क्तञ्जु॑होति॒ त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान्त्स॒माव॑द्वीर्यान्करो॒तीय॒त्यग्रे॑ जुहोति [11]
अथेय॒त्यथेय॑ति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒वैनल्ँ॑ लो॒केभ्य॑श्शमयति ति॒स्र उत्त॑रा॒ आहु॑तीर्जुहोति॒ षट्त्सम्प॑द्य॒न्ते षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैनँ॑ शमयति॒ यद॑नुपरि॒क्राम॑ञ्जुहु॒याद॑न्तरवचा॒रिणँ॑ रु॒द्रङ्कु॑र्या॒दथो॒ खल्वा॑हु॒ᳵ कस्याव्ँ॒वाह॑ दि॒शि रु॒द्रᳵ कस्याव्ँ॒वेत्य॑नुपरि॒क्राम॑मे॒व हो॑त॒व्य॑मप॑रिवर्गमे॒वैनँ॑ शमयति [12]
ए॒ता वै दे॒वताः॑ सुव॒र्ग्या॑ या उ॑त्त॒मास्ता यज॑मानव्ँवाचयति॒ ताभि॑रे॒वैनँ॑ सुव॒र्गल्ँ लो॒कङ्ग॑मयति॒ यन्द्वि॒ष्यात्तस्य॑ सञ्च॒रे प॑शू॒नान्न्य॑स्ये॒द्यᳶ प्र॑थ॒मᳶ प॒शुर॑भि॒तिष्ठ॑ति॒ स आर्ति॒मार्च्छ॑ति ॥ [13]
अश्म॒न्नूर्ज॒मिति॒ परि॑ षिञ्चति मा॒र्जय॑त्ये॒वैन॒मथो॑ त॒र्पय॑त्ये॒व स ए॑नन्तृ॒प्तोऽक्षु॑ध्य॒न्नशो॑चन्न॒मुष्मिल्ँ॑ लो॒क उप॑ तिष्ठते॒ तृप्य॑ति प्र॒जया॑ प॒शुभि॒र्य ए॒वव्ँ वेद॒ तान्न॒ इष॒मूर्ज॑न्धत्त मरुतस्सँररा॒णा इत्या॒हान्नव्ँ॒वा ऊर्गन्न॑म्म॒रुतोऽन्न॑मे॒वाव॑ रु॒न्द्धेऽश्मँ॑स्ते॒ क्षुद॒मुन्ते॒ शुक् [14]
ऋ॒च्छ॒तु॒ यन्द्वि॒ष्म इत्या॑ह॒ यमे॒व द्वेष्टि॒ तम॑स्य क्षु॒धा च॑ शु॒चा चा॑र्पयति॒ त्रिᳶ प॑रिषि॒ञ्चन्पर्ये॑ति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वाग्निस्तस्य॒ शुचँ॑ शमयति॒ त्रिᳶ पुन॒ᳶ पर्ये॑ति॒ षट्त्सम्प॑द्यन्ते॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वास्य॒ शुचँ॑ शमयत्य॒पाव्ँवा ए॒तत्पुष्पय्ँ॒यद्वे॑त॒सो॑ऽपाम् [15]
शरोऽव॑का वेतसशा॒खया॒ चाव॑काभिश्च॒ वि क॑र्ष॒त्यापो॒ वै शा॒न्ताश्शा॒न्ताभि॑रे॒वास्य॒ शुचँ॑ शमयति॒ यो वा अ॒ग्निञ्चि॒तम्प्र॑थ॒मᳶ प॒शुर॑धि॒क्राम॑तीश्व॒रो वै तँ शु॒चा प्र॒दहो म॒ण्डूके॑न॒ वि क॑र्षत्ये॒ष वै प॑शू॒नाम॑नुपजीवनी॒यो न वा ए॒ष ग्रा॒म्येषु॑ प॒शुषु॑ हि॒तो नार॒ण्येषु॒ तमे॒व शु॒चार्प॑यत्यष्टा॒भिर्वि क॑र्षति [16]
अ॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रो॑ऽग्निर्यावा॑ने॒वाग्निस्तस्य॒ शुचँ॑ शमयति पाव॒कव॑तीभि॒रन्नव्ँ॒ वै पा॑व॒कोऽन्ने॑नै॒वास्य॒ शुचँ॑ शमयति मृ॒त्युर्वा ए॒ष यद॒ग्निर्ब्रह्म॑ण ए॒तद्रू॒पय्ँयत्कृ॑ष्णाजि॒नङ्कार्ष्णी॑ उपा॒नहा॒वुप॑ मुञ्चते॒ ब्रह्म॑णै॒व मृ॒त्योर॒न्तर्ध॑त्ते॒ऽन्तर्मृ॒त्योर्ध॑त्ते॒ऽन्तर॒न्नाद्या॒दित्या॑हुर॒न्यामु॑पमु॒ञ्चते॒ऽन्यान्नान्तः [17]
ए॒व मृ॒त्योर्ध॒त्तेऽवा॒न्नाद्यँ॑ रुन्द्धे॒ नम॑स्ते॒ हर॑से शो॒चिष॒ इत्या॑ह नम॒स्कृत्य॒ हि वसी॑याँसमुप॒चर॑न्त्य॒न्यन्ते॑ अ॒स्मत्त॑पन्तु हे॒तय॒ इत्या॑ह॒ यमे॒व द्वेष्टि॒ तम॑स्य शु॒चार्प॑यति पाव॒को अ॒स्मभ्यँ॑ शि॒वो भ॒वेत्या॒हान्नव्ँ॒ वै पा॑व॒कोऽन्न॑मे॒वाव॑ रुन्द्धे॒ द्वाभ्या॒मधि॑ क्रामति॒ प्रति॑ष्ठित्या अप॒स्य॑वतीभ्याँ॒ शान्त्यै॑ ॥ [18]
नृ॒षदे॒ वडिति॒ व्याघा॑रयति प॒ङ्क्त्याहु॑त्या यज्ञमु॒खमा र॑भतेऽक्ष्ण॒या व्याघा॑रयति॒ तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै॒ यद्व॑षट्कु॒र्याद्या॒तया॑मास्य वषट्का॒रस्स्या॒द्यन्न व॑षट्कु॒र्याद्रक्षाँ॑सि य॒ज्ञँ ह॑न्यु॒र्वडित्या॑ह प॒रोक्ष॑मे॒व वष॑ट्करोति॒ नास्य॑ या॒तया॑मा वषट्का॒रो भव॑ति॒ न य॒ज्ञँ रक्षाँ॑सि घ्नन्ति हु॒तादो॒ वा अ॒न्ये दे॒वाः [19]
अ॒हु॒तादो॒ऽन्ये तान॑ग्नि॒चिदे॒वोभया॑न्प्रीणाति॒ ये दे॒वा दे॒वाना॒मिति॑ द॒ध्ना म॑धुमि॒श्रेणावो॑क्षति हु॒ताद॑श्चै॒व दे॒वान॑हु॒ताद॑श्च॒ यज॑मानᳶ प्रीणाति॒ ते यज॑मानम्प्रीणन्ति द॒ध्नैव हु॒तादᳶ॑ प्री॒णाति॒ मधु॑षाऽहु॒तादो॑ ग्रा॒म्यव्ँवा ए॒तदन्नय्ँ॒यद्दध्या॑र॒ण्यम्मधु॒ यद्द॒ध्ना म॑धुमि॒श्रेणा॒वोक्ष॑त्यु॒भय॒स्याव॑रुद्ध्यै ग्रुमु॒ष्टिनावो॑क्षति प्राजाप॒त्यः [20]
वै ग्रु॑मु॒ष्टिस्स॑योनि॒त्वाय॒ द्वाभ्या॒म्प्रति॑ष्ठित्या अनुपरि॒चार॒मवो॑क्ष॒त्यप॑रिवर्गमे॒वैना॑न्प्रीणाति॒ वि वा ए॒ष प्रा॒णैᳶ प्र॒जया॑ प॒शुभि॑र्ऋध्यते॒ यो॑ऽग्निञ्चि॒न्वन्न॑धि॒क्राम॑ति प्राण॒दा अ॑पान॒दा इत्या॑ह प्रा॒णाने॒वात्मन्ध॑त्ते वर्चो॒दा व॑रिवो॒दा इत्या॑ह प्र॒जा वै वर्चᳶ॑ प॒शवो॒ वरि॑वᳶ प्र॒जामे॒व प॒शूना॒त्मन्ध॑त्त॒ इन्द्रो॑ वृ॒त्रम॑ह॒न्तव्ँवृ॒त्रः [21]
ह॒तष्षो॑ड॒शभि॑र्भो॒गैर॑सिना॒त्स ए॒ताम॒ग्नयेऽनी॑कवत॒ आहु॑तिमपश्य॒त्ताम॑जुहो॒त्तस्या॒ग्निरनी॑कवा॒न्त्स्वेन॑ भाग॒धेये॑न प्री॒तष्षो॑डश॒धा वृ॒त्रस्य॑ भो॒गानप्य॑दहद्वैश्वकर्म॒णेन॑ पा॒प्मनो॒ निर॑मुच्यत॒ यद॒ग्नयेऽनी॑कवत॒ आहु॑तिञ्जु॒होत्य॒ग्निरे॒वास्यानी॑कवा॒न्त्स्वेन॑ भाग॒धेये॑न प्री॒तᳶ पा॒प्मान॒मपि॑ दहति वैश्वकर्म॒णेन॑ पा॒प्मनो॒ निर्मु॑च्यते॒ यङ्का॒मये॑त चि॒रम्पा॒प्मनः॑ [22]
निर्मु॑च्ये॒तेत्येकै॑क॒न्तस्य॑ जुहुयाच्चि॒रमे॒व पा॒प्मनो॒ निर्मु॑च्यते॒ यङ्का॒मये॑त ता॒जक्पा॒प्मनो॒ निर्मु॑च्ये॒तेति॒ सर्वा॑णि॒ तस्या॑नु॒द्रुत्य॑ जुहुयात्ता॒जगे॒व पा॒प्मनो॒ निर्मु॑च्य॒तेऽथो॒ खलु॒ नानै॒व सू॒क्ताभ्या॑ञ्जुहोति॒ नानै॒व सू॒क्तयो॑र्वी॒र्य॑न्दधा॒त्यथो॒ प्रति॑ष्ठित्यै ॥ [23]
उदे॑नमुत्त॒रान्न॒येति॑ स॒मिध॒ आ द॑धाति॒ यथा॒ जनय्ँ॑य॒ते॑ऽव॒सङ्क॒रोति॑ ता॒दृगे॒व तत्ति॒स्र आ द॑धाति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वाग्निस्तस्मै॑ भाग॒धेय॑ङ्करो॒त्यौदु॑म्बरीर्भव॒न्त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्ज॑मे॒वास्मा॒ अपि॑ दधा॒त्युदु॑ त्वा॒ विश्वे॑ दे॒वा इत्या॑ह प्रा॒णा वै विश्वे॑ दे॒वाᳶ प्रा॒णैः [24]
ए॒वैन॒मुद्य॑च्छ॒तेऽग्ने॒ भर॑न्तु॒ चित्ति॑भि॒रित्या॑ह॒ यस्मा॑ ए॒वैन॑ञ्चि॒त्तायो॒द्यच्छ॑ते॒ तेनै॒वैनँ॒ सम॑र्धयति॒ पञ्च॒ दिशो॒ दैवी॑र्य॒ज्ञम॑वन्तु दे॒वीरित्या॑ह॒ दिशो॒ ह्ये॑षोऽनु॑ प्र॒च्यव॒तेऽपाम॑तिन्दुर्म॒तिम्बाध॑माना॒ इत्या॑ह॒ रक्ष॑सा॒मप॑हत्यै रा॒यस्पोषे॑ य॒ज्ञप॑तिमा॒भज॑न्ती॒रित्या॑ह प॒शवो॒ वै रा॒यस्पोषः॑ [25]
प॒शूने॒वाव॑ रुन्द्धे ष॒ड्भिर्ह॑रति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैनँ॑ हरति॒ द्वे प॑रि॒गृह्य॑वती भवतो॒ रक्ष॑सा॒मप॑हत्यै॒ सूर्य॑रश्मि॒र्हरि॑केशᳶ पु॒रस्ता॒दित्या॑ह॒ प्रसू॑त्यै॒ ततᳶ॑ पाव॒का आ॒शिषो॑ नो जुषन्ता॒मित्या॒हान्नव्ँ॒ वै पा॑व॒कोऽन्न॑मे॒वाव॑ रुन्द्धे देवासु॒रास्सय्ँय॑त्ता आस॒न्ते दे॒वा ए॒तदप्र॑तिरथमपश्य॒न्तेन॒ वै ते॑ऽप्र॒ति [26]
असु॑रानजय॒न्तदप्र॑तिरथस्याप्रतिरथ॒त्वय्यँदप्र॑तिरथन्द्वि॒तीयो॒ होता॒न्वाहा॑प्र॒त्ये॑व तेन॒ यज॑मानो॒ भ्रातृ॑व्याञ्जय॒त्यथो॒ अन॑भिजितमे॒वाभि ज॑यति दश॒र्चम्भ॑वति॒ दशा॑क्षरा वि॒राड्वि॒राजे॒मौ लो॒कौ विधृ॑ताव॒नयो॑र्लो॒कयो॒र्विधृ॑त्या॒ अथो॒ दशा॑क्षरा वि॒राडन्नव्ँ॑वि॒राड्वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठ॒त्यस॑दिव॒ वा अ॒न्तरि॑क्षम॒न्तरि॑क्षमि॒वाग्नी॑ध्र॒माग्नी॑ध्रे [27]
अश्मा॑न॒न्नि द॑धाति स॒त्त्वाय॒ द्वाभ्या॒म्प्रति॑ष्ठित्यै वि॒मान॑ ए॒ष दि॒वो मध्य॑ आस्त॒ इत्या॑ह॒ व्ये॑वैतया॑ मिमीते॒ मध्ये॑ दि॒वो निहि॑तᳶ पृश्ञि॒रश्मेत्या॒हान्नव्ँ॒ वै पृश्ञ्यन्न॑मे॒वाव॑ रुन्द्धे चत॒सृभि॒रा पुच्छा॑देति च॒त्वारि॒ छन्दाँ॑सि॒ छन्दो॑भिरे॒वेन्द्रव्ँ॒विश्वा॑ अवीवृध॒न्नित्या॑ह॒ वृद्धि॑मे॒वोपाव॑र्तते॒ वाजा॑नाँ॒ सत्प॑ति॒म्पति॑म् [28]
इत्या॒हान्नव्ँ॒ वै वाजोऽन्न॑मे॒वाव॑ रुन्द्धे सुम्न॒हूर्य॒ज्ञो दे॒वाँ आ च॑ वक्ष॒दित्या॑ह प्र॒जा वै प॒शव॑स्सु॒म्नम्प्र॒जामे॒व प॒शूना॒त्मन्ध॑त्ते॒ यक्ष॑द॒ग्निर्दे॒वो दे॒वाँ आ च॑ वक्ष॒दित्या॑ह स्व॒गाकृ॑त्यै॒ वाज॑स्य मा प्रस॒वेनो॑द्ग्रा॒भेणोद॑ग्रभी॒दित्या॑हा॒सौ वा आ॑दि॒त्य उ॒द्यन्नु॑द्ग्रा॒भ ए॒ष नि॒म्रोच॑न्निग्रा॒भो ब्रह्म॑णै॒वात्मान॑मुद्गृ॒ह्णाति॒ ब्रह्म॑णा॒ भ्रातृ॑व्य॒न्नि गृ॑ह्णाति ॥ [29]
प्राची॒मनु॑ प्र॒दिश॒म्प्रेहि॑ वि॒द्वानित्या॑ह देवलो॒कमे॒वैतयो॒पाव॑र्तते॒ क्रम॑ध्वम॒ग्निना॒ नाक॒मित्या॑हे॒माने॒वैतया॑ लो॒कान्क्र॑मते पृथि॒व्या अ॒हमुद॒न्तरि॑क्ष॒मारु॑ह॒मित्या॑हे॒माने॒वैतया॑ लो॒कान्त्स॒मारो॑हति॒ सुव॒र्यन्तो॒ नापे॑क्षन्त॒ इत्या॑ह सुव॒र्गमे॒वैतया॑ लो॒कमे॒त्यग्ने॒ प्रेहि॑ [30]
प्र॒थ॒मो दे॑वय॒तामित्या॑हो॒भये॑ष्वे॒वैतया॑ देवमनु॒ष्येषु॒ चक्षु॑र्दधाति प॒ञ्चभि॒रधि॑ क्रामति॒ पाङ्क्तो॑ य॒ज्ञो यावा॑ने॒व य॒ज्ञस्तेन॑ स॒ह सु॑व॒र्गल्ँ लो॒कमे॑ति॒ नक्तो॒षासेति॑ पुरोनुवा॒क्या॑मन्वा॑ह॒ प्रत्त्या॒ अग्ने॑ सहस्रा॒क्षेत्या॑ह साह॒स्रᳶ प्र॒जाप॑तिᳶ प्र॒जाप॑ते॒राप्त्यै॒ तस्मै॑ ते विधेम॒ वाजा॑य॒ स्वाहेत्या॒हान्नव्ँ॒ वै वाजोऽन्न॑मे॒वाव॑ [31]
रु॒न्द्धे॒ द॒ध्नᳶ पू॒र्णामौदु॑म्बरीँ स्वयमातृ॒ण्णाया॑ञ्जुहो॒त्यूर्ग्वै दध्यूर्गु॑दु॒म्बरो॒ऽसौ स्व॑यमातृ॒ण्णाऽमुष्या॑मे॒वोर्ज॑न्दधाति॒ तस्मा॑द॒मुतो॒ऽर्वाची॒मूर्ज॒मुप॑ जीवामस्ति॒सृभि॑स्सादयति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वाग्निस्तम्प्र॑ति॒ष्ठाङ्ग॑मयति॒ प्रेद्धो॑ अग्ने दीदिहि पु॒रो न॒ इत्यौदुम्ब॑री॒मा द॑धात्ये॒षा वै सू॒र्मी कर्ण॑कावत्ये॒तया॑ ह स्म [32]
वै दे॒वा असु॑राणाँ शतत॒र्हाँस्तृँ॑हन्ति॒ यदे॒तया॑ स॒मिध॑मा॒दधा॑ति॒ वज्र॑मे॒वैतच्छ॑त॒घ्नीय्ँयज॑मानो॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒ स्तृत्या॒ अछ॑म्बट्कारव्ँ वि॒धेम॑ ते पर॒मे जन्म॑न्नग्न॒ इति॒ वैक॑ङ्कती॒मा द॑धाति॒ भा ए॒वाव॑ रुन्द्धे॒ ताँ स॑वि॒तुर्वरे॑ण्यस्य चि॒त्रामिति॑ शमी॒मयीँ॒ शान्त्या॑ अ॒ग्निर्वा॑ ह॒ वा अ॑ग्नि॒चित॑न्दु॒हे॑ऽग्नि॒चिद्वा॒ग्निन्दु॑हे॒ ताम् [33]
स॒वि॒तुर्वरे॑ण्यस्य चि॒त्रामित्या॑है॒ष वा अ॒ग्नेर्दोह॒स्तम॑स्य॒ कण्व॑ ए॒व श्रा॑य॒सो॑ऽवे॒त्तेन॑ ह स्मैनँ॒ स दु॑हे॒ यदे॒तया॑ स॒मिध॑मा॒दधा॑त्यग्नि॒चिदे॒व तद॒ग्निन्दु॑हे स॒प्त ते॑ अग्ने स॒मिध॑स्स॒प्त जि॒ह्वा इत्या॑ह स॒प्तैवास्य॒ साप्ता॑नि प्रीणाति पू॒र्णया॑ जुहोति पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिᳶ प्र॒जाप॑तेः [34]
आप्त्यै॒ न्यू॑नया जुहोति॒ न्यू॑ना॒द्धि प्र॒जाप॑तिᳶ प्र॒जा असृ॑जत प्र॒जानाँ॒ सृष्ट्या॑ अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत॒ स दिशोऽनु॒ प्रावि॑श॒ज्जुह्व॒न्मन॑सा॒ दिशो॑ ध्यायेद्दि॒ग्भ्य ए॒वैन॒मव॑ रुन्द्धे द॒ध्ना पु॒रस्ता॑ज्जुहो॒त्याज्ये॑नो॒परि॑ष्टा॒त्तेज॑श्चै॒वास्मा॑ इन्द्रि॒यञ्च॑ स॒मीची॑ दधाति॒ द्वाद॑शकपालो वैश्वान॒रो भ॑वति॒ द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रस्सव्ँ॑वत्स॒रो॑ऽग्निर्वै॑श्वान॒रस्सा॒क्षात् [35]
ए॒व वै॑श्वान॒रमव॑ रुन्द्धे॒ यत्प्र॑याजानूया॒जान्कु॒र्याद्विक॑स्ति॒स्सा य॒ज्ञस्य॑ दर्विहो॒मङ्क॑रोति य॒ज्ञस्य॒ प्रति॑ष्ठित्यै रा॒ष्ट्रव्ँ वै वै॑श्वान॒रो विण्म॒रुतो वैश्वान॒रँ हु॒त्वा मा॑रु॒ताञ्जु॑होति रा॒ष्ट्र ए॒व विश॒मनु॑ बध्नात्यु॒च्चैर्वै॑श्वान॒रस्या श्रा॑वयत्युपाँ॒शु मा॑रु॒ताञ्जु॑होति॒ तस्मा॑द्रा॒ष्ट्रव्ँविश॒मति॑ वदति मारु॒ता भ॑वन्ति म॒रुतो॒ वै दे॒वानाव्ँ॒विशो॑ देववि॒शेनै॒वास्मै॑ मनुष्यवि॒शमव॑ रुन्द्धे स॒प्त भ॑वन्ति स॒प्तग॑णा॒ वै म॒रुतो॑ गण॒श ए॒व विश॒मव॑ रुन्द्धे ग॒णेन॑ ग॒णम॑नु॒द्रुत्य॑ जुहोति॒ विश॑मे॒वास्मा॒ अनु॑वर्त्मानङ्करोति ॥ [36]
वसो॒र्धारा॑ञ्जुहोति॒ वसो॑र्मे॒ धारा॑स॒दिति॒ वा ए॒षा हू॑यते घृ॒तस्य॒ वा ए॑नमे॒षा धारा॒मुष्मिल्ँ॑ लो॒के पिन्व॑मा॒नोप॑ तिष्ठत॒ आज्ये॑न जुहोति॒ तेजो॒ वा आज्य॒न्तेजो॒ वसो॒र्धारा॒ तेज॑सै॒वास्मै॒ तेजोऽव॑ रु॒न्द्धेऽथो॒ कामा॒ वै वसो॒र्धारा॒ कामा॑ने॒वाव॑ रुन्द्धे॒ यङ्का॒मये॑त प्रा॒णान॑स्या॒न्नाद्यव्ँ॒वि [37]
छि॒न्द्या॒मिति॑ वि॒ग्राह॒न्तस्य॑ जुहुयात्प्रा॒णाने॒वास्या॒न्नाद्यव्ँ॒विच्छि॑नत्ति॒ यङ्का॒मये॑त प्रा॒णान॑स्या॒न्नाद्यँ॒ सन्त॑नुया॒मिति॒ सन्त॑ता॒न्तस्य॑ जुहुयात्प्रा॒णाने॒वास्या॒न्नाद्यँ॒ सन्त॑नोति॒ द्वाद॑श द्वाद॒शानि॑ जुहोति॒ द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रस्सव्ँ॑वत्स॒रेणै॒वास्मा॒ अन्न॒मव॑ रु॒न्द्धेऽन्न॑ञ्च॒ मेऽक्षु॑च्च म॒ इत्या॑है॒तद्वै [38]
अन्न॑स्य रू॒पँ रू॒पेणै॒वान्न॒मव॑ रुन्द्धे॒ऽग्निश्च॑ म॒ आप॑श्च म॒ इत्या॑है॒षा वा अन्न॑स्य॒ योनि॒स्सयो॑न्ये॒वान्न॒मव॑ रुन्द्धेऽर्धे॒न्द्राणि॑ जुहोति दे॒वता॑ ए॒वाव॑ रुन्द्धे॒ यत्सर्वे॑षाम॒र्धमिन्द्र॒ᳶ प्रति॒ तस्मा॒दिन्द्रो॑ दे॒वता॑नाम्भूयिष्ठ॒भाक्त॑म॒ इन्द्र॒मुत्त॑रमाहेन्द्रि॒यमे॒वास्मि॑न्नु॒परि॑ष्टाद्दधाति यज्ञायु॒धानि॑ जुहोति य॒ज्ञः [39]
वै य॑ज्ञायु॒धानि॑ य॒ज्ञमे॒वाव॑ रु॒न्द्धेऽथो॑ ए॒तद्वै य॒ज्ञस्य॑ रू॒पँ रू॒पेणै॒व य॒ज्ञमव॑ रुन्द्धेऽवभृ॒थश्च॑ मे स्वगाका॒रश्च॑ म॒ इत्या॑ह स्व॒गाकृ॑त्या अ॒ग्निश्च॑ मे घ॒र्मश्च॑ म॒ इत्या॑है॒तद्वै ब्र॑ह्मवर्च॒सस्य॑ रू॒पँ रू॒पेणै॒व ब्र॑ह्मवर्च॒समव॑ रुन्द्ध॒ ऋक्च॑ मे॒ साम॑ च म॒ इत्या॑ह [40]
ए॒तद्वै छन्द॑साँ रू॒पँ रू॒पेणै॒व छन्दाँ॒स्यव॑ रुन्द्धे॒ गर्भा॑श्च मे व॒त्साश्च॑ म॒ इत्या॑है॒तद्वै प॑शू॒नाँ रू॒पँ रू॒पेणै॒व प॒शूनव॑ रुन्द्धे॒ कल्पा॑ञ्जुहो॒त्यकॢ॑प्तस्य॒ कॢप्त्यै॑ युग्मदयु॒जे जु॑होति मिथुन॒त्वायो॑त्त॒राव॑ती भवतो॒ऽभिक्रा॑न्त्या॒ एका॑ च मे ति॒स्रश्च॑ म॒ इत्या॑ह देवछन्द॒सव्ँवा एका॑ च ति॒स्रश्च॑ [41]
म॒नु॒ष्य॒छ॒न्द॒सञ्चत॑स्रश्चा॒ष्टौ च॑ देवछन्द॒सञ्चै॒व म॑नुष्यछन्द॒सञ्चाव॑ रुन्द्ध॒ आ त्रय॑स्त्रिँशतो जुहोति॒ त्रय॑स्त्रिँश॒द्वै दे॒वता॑ दे॒वता॑ ए॒वाव॑ रुन्द्ध॒ आष्टाच॑त्वारिँशतो जुहोत्य॒ष्टाच॑त्वारिँशदक्षरा॒ जग॑ती॒ जाग॑ताᳶ प॒शवो॒ जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुन्द्धे॒ वाज॑श्च प्रस॒वश्चेति॑ द्वाद॒शञ्जु॑होति॒ द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रस्सव्ँ॑वत्स॒र ए॒व प्रति॑ तिष्ठति ॥ [42]
अ॒ग्निर्दे॒वेभ्योऽपा॑क्रामद्भाग॒धेय॑मि॒च्छमा॑न॒स्तन्दे॒वा अ॑ब्रुव॒न्नुप॑ न॒ आ व॑र्तस्व ह॒व्यन्नो॑ व॒हेति॒ सो॑ऽब्रवी॒द्वरव्ँ॑वृणै॒ मह्य॑मे॒व वा॑जप्रस॒वीय॑ञ्जुहव॒न्निति॒ तस्मा॑द॒ग्नये॑ वाजप्रस॒वीय॑ञ्जुह्वति॒ यद्वा॑जप्रस॒वीय॑ञ्जु॒होत्य॒ग्निमे॒व तद्भा॑ग॒धेये॑न॒ सम॑र्धय॒त्यथो॑ अभिषे॒क ए॒वास्य॒ स च॑तुर्द॒शभि॑र्जुहोति स॒प्त ग्रा॒म्या ओष॑धयस्स॒प्त [43]
आ॒र॒ण्या उ॒भयी॑षा॒मव॑रुद्ध्या॒ अन्न॑स्यान्नस्य जुहो॒त्यन्न॑स्यान्न॒स्याव॑रुद्ध्या॒ औदु॑म्बरेण स्रु॒वेण॑ जुहो॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्गन्न॑मू॒र्जैवास्मा॒ ऊर्ज॒मन्न॒मव॑ रुन्द्धे॒ऽग्निर्वै दे॒वाना॑म॒भिषि॑क्तोऽग्नि॒चिन्म॑नु॒ष्या॑णा॒न्तस्मा॑दग्नि॒चिद्वर्ष॑ति॒ न धा॑वे॒दव॑रुद्धँ॒ ह्य॑स्यान्न॒मन्न॑मिव॒ खलु॒ वै व॒र्षय्यँद्धावे॑द॒न्नाद्या॑द्धावेदु॒पाव॑र्तेता॒न्नाद्य॑मे॒वाभि [44]
उ॒पाव॑र्तते॒ नक्तो॒षासेति॑ कृ॒ष्णायै॑ श्वे॒तव॑त्सायै॒ पय॑सा जुहो॒त्यह्नै॒वास्मै॒ रात्रि॒म्प्र दा॑पयति॒ रात्रि॒याह॑रहोरा॒त्रे ए॒वास्मै॒ प्रत्ते॒ काम॑म॒न्नाद्य॑न्दुहाते राष्ट्र॒भृतो॑ जुहोति रा॒ष्ट्रमे॒वाव॑ रुन्द्धे ष॒ड्भिर्जु॑होति॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठति॒ भुव॑नस्य पत॒ इति॑ रथमु॒खे पञ्चाहु॑तीर्जुहोति॒ वज्रो॒ वै रथो॒ वज्रे॑णै॒व दिशः॑ [45]
अ॒भि ज॑यत्यग्नि॒चितँ॑ ह॒ वा अ॒मुष्मिल्ँ॑ लो॒के वातो॒ऽभि प॑वते वातना॒मानि॑ जुहोत्य॒भ्ये॑वैन॑म॒मुष्मिल्ँ॑ लो॒के वातᳶ॑ पवते॒ त्रीणि॑ जुहोति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒व लो॒केभ्यो॒ वात॒मव॑ रुन्द्धे समु॒द्रो॑ऽसि॒ नभ॑स्वा॒नित्या॑है॒तद्वै वात॑स्य रू॒पँ रू॒पेणै॒व वात॒मव॑ रुन्द्धेऽञ्ज॒लिना॑ जुहोति॒ न ह्ये॑तेषा॑म॒न्यथाहु॑तिरव॒कल्प॑ते ॥ [46]
सुव॒र्गाय॒ वै लो॒काय॑ देवर॒थो यु॑ज्यते यत्राकू॒ताय॑ मनुष्यर॒थ ए॒ष खलु॒ वै दे॑वर॒थो यद॒ग्निर॒ग्निय्ँयु॑नज्मि॒ शव॑सा घृ॒तेनेत्या॑ह यु॒नक्त्ये॒वैनँ॒ स ए॑नय्ँयु॒क्तस्सु॑व॒र्गल्ँ लो॒कम॒भि व॑हति॒ यत्सर्वा॑भिᳶ प॒ञ्चभि॑र्यु॒ञ्ज्याद्यु॒क्तो॑ऽस्या॒ग्निᳶ प्रच्यु॑तस्स्या॒दप्र॑तिष्ठिता॒ आहु॑तय॒स्स्युरप्र॑तिष्ठिता॒स्स्तोमा॒ अप्र॑तिष्ठितान्यु॒क्थानि॑ ति॒सृभिᳶ॑ प्रातस्सव॒ने॑ऽभि मृ॑शति त्रि॒वृत् [47]
वा अ॒ग्निर्यावा॑ने॒वाग्निस्तय्ँयु॑नक्ति॒ यथाऽन॑सि यु॒क्त आ॑धी॒यत॑ ए॒वमे॒व तत्प्रत्याहु॑तय॒स्तिष्ठ॑न्ति॒ प्रति॒ स्तोमा॒ᳶ प्रत्यु॒क्थानि॑ यज्ञाय॒ज्ञिय॑स्य स्तो॒त्रे द्वाभ्या॑म॒भि मृ॑शत्ये॒तावा॒न्‌वै य॒ज्ञो यावा॑नग्निष्टो॒मो भू॒मा त्वा अ॒स्यात॑ ऊ॒र्ध्वᳵ क्रि॑यते॒ यावा॑ने॒व य॒ज्ञस्तम॑न्त॒तो॑ऽन्वारो॑हति॒ द्वाभ्या॒म्प्रति॑ष्ठित्या॒ एक॒याप्र॑स्तुत॒म्भव॒त्यथ॑ [48]
अ॒भि मृ॑श॒त्युपै॑न॒मुत्त॑रो य॒ज्ञो न॑म॒त्यथो॒ सन्त॑त्यै॒ प्र वा ए॒षो॑ऽस्माल्लो॒काच्च्य॑वते॒ यो॑ऽग्निञ्चि॑नु॒ते न वा ए॒तस्या॑निष्ट॒क आहु॑ति॒रव॑ कल्पते॒ याव्ँवा ए॒षो॑ऽनिष्ट॒क आहु॑तिञ्जु॒होति॒ स्रव॑ति॒ वै सा ताँ स्रव॑न्तीय्ँ य॒ज्ञोऽनु॒ परा॑ भवति य॒ज्ञय्ँयज॑मानो॒ यत्पु॑नश्चि॒तिञ्चि॑नु॒त आहु॑तीना॒म्प्रति॑ष्ठित्यै॒ प्रत्याहु॑तय॒स्तिष्ठ॑न्ति [49]
न य॒ज्ञᳶ प॑रा॒भव॑ति॒ न यज॑मानो॒ऽष्टावुप॑ दधात्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रेणै॒वैन॒ञ्छन्द॑सा चिनुते॒ यदेका॑दश॒ त्रैष्टु॑भेन॒ यद्द्वाद॑श॒ जाग॑तेन॒ छन्दो॑भिरे॒वैन॑ञ्चिनुते नपा॒त्को वै नामै॒षो॑ऽग्निर्यत्पु॑नश्चि॒तिर्य ए॒वव्ँवि॒द्वान्पु॑नश्चि॒तिञ्चि॑नु॒त आ तृ॒तीया॒त्पुरु॑षा॒दन्न॑मत्ति॒ यथा॒ वै पु॑नरा॒धेय॑ ए॒वम्पु॑नश्चि॒तिर्यो॑ऽग्न्या॒धेये॑न॒ न [50]
ऋ॒ध्नोति॒ स पु॑नरा॒धेय॒मा ध॑त्ते॒ यो॑ऽग्निञ्चि॒त्वा नर्ध्नोति॒ स पु॑नश्चि॒तिञ्चि॑नुते॒ यत्पु॑नश्चि॒तिञ्चि॑नु॒त ऋद्ध्या॒ अथो॒ खल्वा॑हु॒र्न चे॑त॒व्येति॑ रु॒द्रो वा ए॒ष यद॒ग्निर्यथा॑ व्या॒घ्रँ सु॒प्तम्बो॒धय॑ति ता॒दृगे॒व तदथो॒ खल्वा॑हुश्चेत॒व्येति॒ यथा॒ वसी॑याँसम्भाग॒धेये॑न बो॒धय॑ति ता॒दृगे॒व तन्मनु॑र॒ग्निम॑चिनुत॒ तेन॒ नार्ध्नो॒त्स ए॒ताम्पु॑नश्चि॒तिम॑पश्य॒त्ताम॑चिनुत॒ तया॒ वै स आ॑र्ध्नो॒द्यत्पु॑नश्चि॒तिञ्चि॑नु॒त ऋद्ध्यै॑ ॥ [51]
छ॒न्द॒श्चित॑ञ्चिन्वीत प॒शुका॑मᳶ प॒शवो॒ वै छन्दाँ॑सि पशु॒माने॒व भ॑वति श्येन॒चित॑ञ्चिन्वीत सुव॒र्गका॑मश्श्ये॒नो वै वय॑सा॒म्पति॑ष्ठश्श्ये॒न ए॒व भू॒त्वा सु॑व॒र्गल्ँ लो॒कम्प॑तति कङ्क॒चित॑ञ्चिन्वीत॒ यᳵ का॒मये॑त शीर्ष॒ण्वान॒मुष्मिल्ँ॑ लो॒के स्या॒मिति॑ शीर्ष॒ण्वाने॒वामुष्मिल्ँ॑ लो॒के भ॑वत्यलज॒चित॑ञ्चिन्वीत॒ चतु॑स्सीतम्प्रति॒ष्ठाका॑म॒श्चत॑स्रो॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठति प्रउग॒चित॑ञ्चिन्वीत॒ भ्रातृ॑व्यवा॒न्प्र [52]
ए॒व भ्रातृ॑व्यान्नुदत उभ॒यतᳶ॑प्रउगञ्चिन्वीत॒ यᳵ का॒मये॑त॒ प्र जा॒तान्भ्रातृ॑व्यान्नु॒देय॒ प्रति॑जनि॒ष्यमा॑णा॒निति॒ प्रैव जा॒तान्भ्रातृ॑व्यान्नु॒दते॒ प्रति॑ जनि॒ष्यमा॑णान्रथचक्र॒चित॑ञ्चिन्वीत॒ भ्रातृ॑व्य॒वान्‌वज्रो॒ वै रथो॒ वज्र॑मे॒व भ्रातृ॑व्येभ्य॒ᳶ प्र ह॑रति द्रोण॒चित॑ञ्चिन्वी॒तान्न॑कामो॒ द्रोणे॒ वा अन्न॑म्भ्रियते॒ सयो॑न्ये॒वान्न॒मव॑ रुन्द्धे समू॒ह्य॑ञ्चिन्वीत प॒शुका॑मᳶ पशु॒माने॒व भ॑वति [53]
प॒रि॒चा॒य्य॑ञ्चिन्वीत॒ ग्राम॑कामो ग्रा॒म्ये॑व भ॑वति श्मशान॒चित॑ञ्चिन्वीत॒ यᳵ का॒मये॑त पितृलो॒क ऋ॑ध्नुया॒मिति॑ पितृलो॒क ए॒वर्ध्नो॑ति विश्वामित्रजमद॒ग्नी वसि॑ष्ठेनास्पर्धेताँ॒ स ए॒ता ज॒मद॑ग्निर्विह॒व्या॑ अपश्य॒त्ता उपा॑धत्त॒ ताभि॒र्वै स वसि॑ष्ठस्येन्द्रि॒यव्ँवी॒र्य॑मवृङ्क्त॒ यद्वि॑ह॒व्या॑ उप॒दधा॑तीन्द्रि॒यमे॒व ताभि॑र्वी॒र्यय्ँ॑यज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते॒ होतु॒र्धिष्णि॑य॒ उप॑ दधाति यजमानायत॒नव्ँ वै [54]
होता॒ स्व ए॒वास्मा॑ आ॒यत॑न इन्द्रि॒यव्ँवी॒र्य॑मव॑ रुन्द्धे॒ द्वाद॒शोप॑ दधाति॒ द्वाद॑शाक्षरा॒ जग॑ती॒ जाग॑ताᳶ प॒शवो॒ जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुन्द्धे॒ऽष्टाव॑ष्टाव॒न्येषु॒ धिष्णि॑ये॒षूप॑ दधात्य॒ष्टाश॑फाᳶ प॒शवᳶ॑ प॒शूने॒वाव॑ रुन्द्धे॒ षण्मा॑र्जा॒लीये॒ षड्वा ऋ॒तव॑ ऋ॒तव॒ᳵ खलु॒ वै दे॒वाᳶ पि॒तर॑ ऋ॒तूने॒व दे॒वान्पि॒तॄन्प्री॑णाति ॥ [55]
पव॑स्व॒ वाज॑सातय॒ इत्य॑नु॒ष्टुक्प्र॑ति॒पद्भ॑वति ति॒स्रो॑ऽनु॒ष्टुभ॒श्चत॑स्रो गाय॒त्रियो॒ यत्ति॒स्रो॑ऽनु॒ष्टुभ॒स्तस्मा॒दश्व॑स्त्रि॒भिस्तिष्ठँ॑ स्तिष्ठति॒ यच्चत॑स्रो गाय॒त्रिय॒स्तस्मा॒त्सर्वाँ॑श्च॒तुरᳶ॑ प॒दᳶ प्र॑ति॒दध॒त्पला॑यते पर॒मा वा ए॒षा छन्द॑साय्ँ॒यद॑नु॒ष्टुक्प॑र॒मश्च॑तुष्टो॒मस्स्तोमा॑नाम्पर॒मस्त्रि॑रा॒त्रो य॒ज्ञाना॑म्पर॒मोऽश्वᳶ॑ पशू॒नाम्पर॑मेणै॒वैन॑म्पर॒मता॑ङ्गमयत्येकविँ॒शमह॑र्भवति [56]
यस्मि॒न्नश्व॑ आल॒भ्यते॒ द्वाद॑श॒ मासा॒ᳶ पञ्च॒र्तव॒स्त्रय॑ इ॒मे लो॒का अ॒सावा॑दि॒त्य ए॑कविँ॒श ए॒ष प्र॒जाप॑तिᳶ प्राजाप॒त्योऽश्व॒स्तमे॒व सा॒क्षादृ॑ध्नोति॒ शक्व॑रयᳶ पृ॒ष्ठम्भ॑वन्त्य॒न्यद॑न्य॒च्छन्दो॒ऽन्ये॑न्ये॒ वा ए॒ते प॒शव॒ आ ल॑भ्यन्त उ॒तेव॑ ग्रा॒म्या उ॒तेवा॑र॒ण्या यच्छक्व॑रयᳶ पृ॒ष्ठम्भव॒न्त्यश्व॑स्य सर्व॒त्वाय॑ पार्थुर॒श्मम्ब्र॑ह्मसा॒मम्भ॑वति र॒श्मिना॒ वा अश्वः॑ [57]
य॒त ई॑श्व॒रो वा अश्वोऽय॒तोऽप्र॑तिष्ठित॒ᳶ परा॑म्परा॒वत॒ङ्गन्तो॒र्यर्त्पा॑र्थुर॒श्मम्ब्र॑ह्मसा॒मम्भव॒त्यश्व॑स्य॒ यत्यै॒ धृत्यै॒ सङ्कृ॑त्यच्छावाकसा॒मम्भ॑वत्युत्सन्नय॒ज्ञो वा ए॒ष यद॑श्वमे॒धᳵ कस्तद्वे॒देत्या॑हु॒र्यदि॒ सर्वो॑ वा क्रि॒यते॒ न वा॒ सर्व॒ इति॒ यत्सङ्कृ॑त्यच्छावाकसा॒मम्भव॒त्यश्व॑स्य सर्व॒त्वाय॒ पर्या॑प्त्या॒ अन॑न्तरायाय॒ सर्व॑स्तोमोऽतिरा॒त्र उ॑त्त॒ममह॑र्भवति॒ सर्व॒स्याप्त्यै॒ सर्व॑स्य॒ जित्यै॒ सर्व॑मे॒व तेना॑प्नोति॒ सर्व॑ञ्जयति ॥ [58]