उ॒त्स॒न्न॒य॒ज्ञो वा ए॒ष यद॒ग्निᳵ किव्ँवाहै॒तस्य॑ क्रि॒यते॒ किव्ँवा॒ न यद्वै य॒ज्ञस्य॑ क्रि॒यमा॑णस्यान्त॒र्यन्ति॒ पूय॑ति॒ वा अ॑स्य॒ तदा॑श्वि॒नीरुप॑ दधात्य॒श्विनौ॒ वै दे॒वाना॑म्भि॒षजौ॒ ताभ्या॑मे॒वास्मै॑ भेष॒जङ्क॑रोति॒ पञ्चोप॑ दधाति॒ पाङ्क्तो॑ य॒ज्ञो यावा॑ने॒व य॒ज्ञस्तस्मै॑ भेष॒जङ्क॑रोत्यृत॒व्या॑ उप॑ दधात्यृतू॒नाङ्कॢप्त्यै॑ [1]
पञ्चोप॑ दधाति पञ्च॒ वा ऋ॒तवो॒ याव॑न्त ए॒वर्तव॒स्तान्क॑ल्पयति समा॒नप्र॑भृतयो भवन्ति समा॒नोद॑र्का॒स्तस्मा॑त्समा॒ना ऋ॒तव॒ एके॑न प॒देन॒ व्याव॑र्तन्ते॒ तस्मा॑दृ॒तवो॒ व्याव॑र्तन्ते प्राण॒भृत॒ उप॑ दधात्यृ॒तुष्वे॒व प्रा॒णान्द॑धाति॒ तस्मा॑त्समा॒नास्सन्त॑ ऋ॒तवो॒ न जी॑र्य॒न्त्यथो॒ प्र ज॑नयत्ये॒वैना॑ने॒ष वै वा॒युर्यत्प्रा॒णो यदृ॑त॒व्या॑ उप॒धाय॑ प्राण॒भृतः॑ [2]
उ॒प॒दधा॑ति॒ तस्मा॒त्सर्वा॑नृ॒तूननु॑ वा॒युरा व॑रीवर्त्ति वृष्टि॒सनी॒रुप॑ दधाति॒ वृष्टि॑मे॒वाव॑ रुन्द्धे॒ यदे॑क॒धोप॑द॒ध्यादेक॑मृ॒तुव्ँव॑र्षेदनुपरि॒हारँ॑ सादयति॒ तस्मा॒त्सर्वा॑नृ॒तून्व॑र्षति॒ यत्प्रा॑ण॒भृत॑ उप॒धाय॑ वृष्टि॒सनी॑रुप॒दधा॑ति॒ तस्मा॑द्वा॒युप्र॑च्युता दि॒वो वृष्टि॑रीर्ते प॒शवो॒ वै व॑य॒स्या॑ नाना॑मनस॒ᳵ खलु॒ वै प॒शवो॒ नाना॑व्रता॒स्ते॑ऽप ए॒वाभि सम॑नसः [3]
यङ्का॒मये॑ताप॒शुस्स्या॒दिति॑ वय॒स्या॑स्तस्यो॑प॒धाया॑प॒स्या॑ उप॑ दध्या॒दसं॑ज्ञानमे॒वास्मै॑ प॒शुभि॑ᳵ करोत्यप॒शुरे॒व भ॑वति॒ यङ्का॒मये॑त पशु॒मान्त्स्या॒दित्य॑प॒स्या॑स्तस्यो॑प॒धाय॑ वय॒स्या॑ उप॑ दध्यात्सं॒ज्ञान॑मे॒वास्मै॑ प॒शुभि॑ᳵ करोति पशु॒माने॒व भ॑वति॒ चत॑स्रᳶ पु॒रस्ता॒दुप॑ दधाति॒ तस्मा॑च्च॒त्वारि॒ चक्षु॑षो रू॒पाणि॒ द्वे शु॒क्ले द्वे कृ॒ष्णे [4]
मू॒र्ध॒न्वती॑र्भवन्ति॒ तस्मा॑त्पु॒रस्ता॑न्मू॒र्धा पञ्च॒ दक्षि॑णायाँ॒ श्रोण्या॒मुप॑ दधाति॒ पञ्चोत्त॑रस्या॒न्तस्मा॑त्प॒श्चाद्वर्षी॑यान्पु॒रस्ता॑त्प्रवणᳶ प॒शुर्ब॒स्तो वय॒ इति॒ दक्षि॒णेऽँस॒ उप॑ दधाति वृ॒ष्णिर्वय॒ इत्युत्त॒रेऽँसा॑वे॒व प्रति॑ दधाति व्या॒घ्रो वय॒ इति॒ दक्षि॑णे प॒क्ष उप॑ दधाति सिँ॒हो वय॒ इत्युत्त॑रे प॒क्षयो॑रे॒व वी॒र्य॑न्दधाति॒ पुरु॑षो॒ वय॒ इति॒ मध्ये॒ तस्मा॒त्पुरु॑षᳶ पशू॒नामधि॑पतिः ॥ [5]
इन्द्रा॑ग्नी॒ अव्य॑थमाना॒मिति॑ स्वयमातृ॒ण्णामुप॑ दधातीन्द्रा॒ग्निभ्याव्ँ॒वा इ॒मौ लो॒कौ विधृ॑ताव॒नयो॑र्लो॒कयो॒र्विधृ॑त्या॒ अधृ॑तेव॒ वा ए॒षा यन्म॑ध्य॒मा चिति॑र॒न्तरि॑क्षमिव॒ वा ए॒षेन्द्रा॑ग्नी॒ इत्या॑हेन्द्रा॒ग्नी वै दे॒वाना॑मोजो॒भृता॒वोज॑सै॒वैना॑म॒न्तरि॑क्षे चिनुते॒ धृत्यै॑ स्वयमातृ॒ण्णामुप॑ दधात्य॒न्तरि॑क्षव्ँ॒ वै स्व॑यमातृ॒ण्णान्तरि॑क्षमे॒वोप॑ ध॒त्तेऽश्व॒मुप॑ [6]
घ्रा॒प॒य॒ति॒ प्रा॒णमे॒वास्या॑न्दधा॒त्यथो॑ प्राजाप॒त्यो वा अश्वᳶ॑ प्र॒जाप॑तिनै॒वाग्निञ्चि॑नुते स्वयमातृ॒ण्णा भ॑वति प्रा॒णाना॒मुत्सृ॑ष्ट्या॒ अथो॑ सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै दे॒वानाव्ँ॒ वै सु॑व॒र्गल्ँ लो॒कय्ँय॒तान्दिश॒स्सम॑व्लीयन्त॒ त ए॒ता दिश्या॑ अपश्य॒न्ता उपा॑दधत॒ ताभि॒र्वै ते दिशो॑ऽदृँह॒न्यद्दिश्या॑ उप॒दधा॑ति दि॒शाव्ँविधृ॑त्यै॒ दश॑ प्राण॒भृतᳶ॑ पु॒रस्ता॒दुप॑ [7]
द॒धा॒ति॒ नव॒ वै पुरु॑षे प्रा॒णा नाभि॑र्दश॒मी प्रा॒णाने॒व पु॒रस्ता॑द्धत्ते॒ तस्मा॑त्पु॒रस्ता॑त्प्रा॒णा ज्योति॑ष्मतीमुत्त॒मामुप॑ दधाति॒ तस्मा॑त्प्रा॒णानाव्ँ॒वाग्ज्योति॑रुत्त॒मा दशोप॑ दधाति॒ दशा॑क्षरा वि॒राड्वि॒राट्छन्द॑सा॒ञ्ज्योति॒र्ज्योति॑रे॒व पु॒रस्ता॑द्धत्ते॒ तस्मा॑त्पु॒रस्ता॒ज्ज्योति॒रुपा॑स्महे॒ छन्दाँ॑सि प॒शुष्वा॒जिम॑यु॒स्तान्बृ॑ह॒त्युद॑जय॒त्तस्मा॒द्बार्ह॑ताः [8]
प॒शव॑ उच्यन्ते॒ मा छन्द॒ इति॑ दक्षिण॒त उप॑ दधाति॒ तस्मा॑द्दक्षि॒णावृ॑तो॒ मासाः॑ पृथि॒वी छन्द॒ इति॑ प॒श्चात्प्रति॑ष्ठित्या अ॒ग्निर्दे॒वतेत्यु॑त्तर॒त ओजो॒ वा अ॒ग्निरोज॑ ए॒वोत्त॑र॒तो ध॑त्ते॒ तस्मा॑दुत्तरतोभिप्रया॒यी ज॑यति॒ षट्त्रिँ॑श॒त्सम्प॑द्यन्ते॒ षट्त्रिँ॑शदक्षरा बृह॒ती बार्ह॑ताᳶ प॒शवो॑ बृह॒त्यैवास्मै॑ प॒शूनव॑ रुन्द्धे बृह॒ती छन्द॑साँ॒ स्वारा॑ज्य॒म्परी॑याय॒ यस्यै॒ताः [9]
उ॒प॒धी॒यन्ते॒ गच्छ॑ति॒ स्वारा॑ज्यँ स॒प्त वाल॑खिल्याᳶ पु॒रस्ता॒दुप॑ दधाति स॒प्त प॒श्चात्स॒प्त वै शी॑र्ष॒ण्याः॑ प्रा॒णा द्वाववा॑ञ्चौ प्रा॒णानाँ॑ सवीर्य॒त्वाय॑ मू॒र्धासि॒ राडिति॑ पु॒रस्ता॒दुप॑ दधाति॒ यन्त्री॒ राडिति॑ प॒श्चात्प्रा॒णाने॒वास्मै॑ स॒मीचो॑ दधाति ॥ [10]
दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒ता अ॑क्ष्णयास्तो॒मीया॑ अपश्य॒न्ता अ॒न्यथा॒नूच्या॒न्यथोपा॑दधत॒ तदसु॑रा॒ नान्ववा॑य॒न्ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यद॑क्ष्णयास्तो॒मीया॑ अ॒न्यथा॒नूच्या॒न्यथो॑प॒दधा॑ति॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवत्या॒शुस्त्रि॒वृदिति॑ पु॒रस्ता॒दुप॑ दधाति य॒ज्ञमु॒खव्ँ वै त्रि॒वृत् [11]
य॒ज्ञ॒मु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति॒ व्यो॑म सप्तद॒श इति॑ दक्षिण॒तोऽन्नव्ँ॒ वै व्यो॑मान्नँ॑ सप्तद॒शोऽन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॑णे॒नान्न॑मद्यते ध॒रुण॑ एकविँ॒श इति॑ प॒श्चात्प्र॑ति॒ष्ठा वा ए॑कविँ॒शᳶ प्रति॑ष्ठित्यै भा॒न्तᳶ प॑ञ्चद॒श इत्यु॑त्तर॒त ओजो॒ वै भा॒न्त ओजᳶ॑ पञ्चद॒श ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते॒ तस्मा॑दुत्तरतोभिप्रया॒यी ज॑यति॒ प्रतू॑र्तिरष्टाद॒श इति॑ पु॒रस्ता॑त् [12]
उप॑ दधाति॒ द्वौ त्रि॒वृता॑वभिपू॒र्वय्ँय॑ज्ञमु॒खे वि या॑तयत्यभिव॒र्तस्स॑विँ॒श इति॑ दक्षिण॒तोऽन्नव्ँ॒ वा अ॑भिव॒र्तोऽन्नँ॑ सविँ॒शोऽन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॑णे॒नान्न॑मद्यते॒ वर्चो॑ द्वाविँ॒श इति॑ प॒श्चाद्यद्विँ॑श॒तिर्द्वे तेन॑ वि॒राजौ॒ यद्द्वे प्र॑ति॒ष्ठा तेन॑ वि॒राजो॑रे॒वाभि॑पू॒र्वम॒न्नाद्ये॒ प्रति॑ तिष्ठति॒ तपो॑ नवद॒श इत्यु॑त्तर॒तस्तस्मा॑त्स॒व्यः [13]
हस्त॑योस्तप॒स्वित॑रो॒ योनि॑श्चतुर्विँ॒श इति॑ पु॒रस्ता॒दुप॑ दधाति॒ चतु॑र्विँशत्यक्षरा गाय॒त्री गा॑य॒त्री य॑ज्ञमु॒खय्ँय॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति॒ गर्भाः॑ पञ्चविँ॒श इति॑ दक्षिण॒तोऽन्नव्ँ॒ वै गर्भा॒ अन्न॑म्पञ्चविँ॒शोऽन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॑णे॒नान्न॑मद्यत॒ ओज॑स्त्रिण॒व इति॑ प॒श्चादि॒मे वै लो॒कास्त्रि॑ण॒व ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठति स॒म्भर॑णस्त्रयोविँ॒श इति॑ [14]
उ॒त्त॒र॒तस्तस्मा॑त्स॒व्यो हस्त॑योस्सम्भा॒र्य॑तर॒ᳵ क्रतु॑रेकत्रिँ॒श इति॑ पु॒रस्ता॒दुप॑ दधाति॒ वाग्वै क्रतु॑र्यज्ञमु॒खव्ँवाग्य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति ब्र॒ध्नस्य॑ वि॒ष्टप॑ञ्चतुस्त्रिँ॒श इति॑ दक्षिण॒तो॑ऽसौ वा आ॑दि॒त्यो ब्र॒ध्नस्य॑ वि॒ष्टप॑म्ब्रह्मवर्च॒समे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॒णोऽर्धो॑ ब्रह्मवर्च॒सित॑रᳶ प्रति॒ष्ठा त्र॑यस्त्रिँ॒श इति॑ प॒श्चात्प्रति॑ष्ठित्यै॒ नाक॑ष्षट्त्रिँ॒श इत्यु॑त्तर॒तस्सु॑व॒र्गो वै लो॒को नाक॑स्सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ [15]
अ॒ग्नेर्भा॒गो॑ऽसीति॑ पु॒रस्ता॒दुप॑ दधाति यज्ञमु॒खव्ँ वा अ॒ग्निर्य॑ज्ञमु॒खन्दी॒क्षा य॑ज्ञमु॒खम्ब्रह्म॑ यज्ञमु॒खन्त्रि॒वृद्य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति नृ॒चक्ष॑साम्भा॒गो॑ऽसीति॑ दक्षिण॒तश्शु॑श्रु॒वाँसो॒ वै नृ॒चक्ष॒सोऽन्न॑न्धा॒ता जा॒तायै॒वास्मा॒ अन्न॒मपि॑ दधाति॒ तस्मा॑ज्जा॒तोऽन्न॑मत्ति ज॒नित्रँ॑ स्पृ॒तँ स॑प्तद॒शस्स्तोम॒ इत्या॒हान्नव्ँ॒ वै ज॒नित्र॑म् [16]
अन्नँ॑ सप्तद॒शोऽन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॑णे॒नान्न॑मद्यते मि॒त्रस्य॑ भा॒गो॑ऽसीति॑ प॒श्चात्प्रा॒णो वै मि॒त्रो॑ऽपा॒नो वरु॑णᳶ प्राणापा॒नावे॒वास्मि॑न्दधाति दि॒वो वृ॒ष्टिर्वाताः॑ स्पृ॒ता ए॑कविँ॒शस्स्तोम॒ इत्या॑ह प्रति॒ष्ठा वा ए॑कविँ॒शᳶ प्रति॑ष्ठित्या॒ इन्द्र॑स्य भा॒गो॑ऽसीत्यु॑त्तर॒त ओजो॒ वा इन्द्र॒ ओजो॒ विष्णु॒रोजः॑ क्ष॒त्रमोजᳶ॑ पञ्चद॒शः [17]
ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते॒ तस्मा॑दुत्तरतोभिप्रया॒यी ज॑यति॒ वसू॑नाम्भा॒गो॑ऽसीति॑ पु॒रस्ता॒दुप॑ दधाति यज्ञमु॒खव्ँ वै वस॑वो यज्ञमु॒खँ रु॒द्रा य॑ज्ञमु॒खञ्च॑तुर्विँ॒शो य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तयत्यादि॒त्याना॑म्भा॒गो॑ऽसीति॑ दक्षिण॒तोऽन्नव्ँ॒वा आ॑दि॒त्या अन्न॑म्म॒रुतोऽन्न॒ङ्गर्भा॒ अन्न॑म्पञ्चविँ॒शोऽन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॑णे॒नान्न॑मद्य॒तेऽदि॑त्यै भा॒गः [18]
अ॒सीति॑ प॒श्चात्प्र॑ति॒ष्ठा वा अदि॑तिᳶ प्रति॒ष्ठा पू॒षा प्र॑ति॒ष्ठा त्रि॑ण॒वᳶ प्रति॑ष्ठित्यै दे॒वस्य॑ सवि॒तुर्भा॒गो॑ऽसीत्यु॑त्तर॒तो ब्रह्म॒ वै दे॒वस्स॑वि॒ता ब्रह्म॒ बृह॒स्पति॒र्ब्रह्म॑ चतुष्टो॒मो ब्र॑ह्मवर्च॒समे॒वोत्त॑र॒तो ध॑त्ते॒ तस्मा॒दुत्त॒रोऽर्धो॑ ब्रह्मवर्च॒सित॑रस्सावि॒त्रव॑ती भवति॒ प्रसू॑त्यै॒ तस्मा॑द्ब्राह्म॒णाना॒मुदी॑ची स॒निᳶ प्रसू॑ता ध॒र्त्रश्च॑तुष्टो॒म इति॑ पु॒रस्ता॒दुप॑ दधाति यज्ञमु॒खव्ँ वै ध॒र्त्रः [19]
य॒ज्ञ॒मु॒खञ्च॑तुष्टो॒मो य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति॒ यावा॑नाम्भा॒गो॑ऽसीति॑ दक्षिण॒तो मासा॒ वै यावा॑ अर्धमा॒सा अया॑वा॒स्तस्मा॑द्दक्षि॒णावृ॑तो॒ मासा॒ अन्नव्ँ॒ वै यावा॒ अन्न॑म्प्र॒जा अन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॑णे॒नान्न॑मद्यत ऋभू॒णाम्भा॒गो॑ऽसीति॑ प॒श्चात्प्रति॑ष्ठित्यै विव॒र्तो॑ऽष्टाचत्वारिँ॒श इत्यु॑त्तर॒तो॑ऽनयो॑र्लो॒कयोः॑ सवीर्य॒त्वाय॒ तस्मा॑दि॒मौ लो॒कौ स॒माव॑द्वीर्यौ [20]
यस्य॒ मुख्य॑वतीᳶ पु॒रस्ता॑दुपधी॒यन्ते॒ मुख्य॑ ए॒व भ॑व॒त्यास्य॒ मुख्यो॑ जायते॒ यस्यान्न॑वतीर्दक्षिण॒तोऽत्त्यन्न॒मास्या॑न्ना॒दो जा॑यते॒ यस्य॑ प्रति॒ष्ठाव॑तीᳶ प॒श्चात्प्रत्ये॒व ति॑ष्ठति॒ यस्यौज॑स्वतीरुत्तर॒त ओ॑ज॒स्व्ये॑व भ॑व॒त्यास्यौ॑ज॒स्वी जा॑यते॒ऽर्को वा ए॒ष यद॒ग्निस्तस्यै॒तदे॒व स्तो॒त्रमे॒तच्छ॒स्त्रय्यँदे॒षा वि॒धा [21]
वि॒धी॒यते॒ऽर्क ए॒व तद॒र्क्य॑मनु॒ वि धी॑य॒तेऽत्त्यन्न॒मास्या॑न्ना॒दो जा॑यते॒ यस्यै॒षा वि॒धा वि॑धी॒यते॒ य उ॑ चैनामे॒वव्ँवेद॒ सृष्टी॒रुप॑ दधाति यथासृ॒ष्टमे॒वाव॑ रुन्द्धे॒ न वा इ॒दन्दिवा॒ न नक्त॑मासी॒दव्या॑वृत्त॒न्ते दे॒वा ए॒ता व्यु॑ष्टीरपश्य॒न्ता उपा॑दधत॒ ततो॒ वा इ॒दव्व्ँयौ॑च्छ॒द्यस्यै॒ता उ॑पधी॒यन्ते॒ व्ये॑वास्मा॑ उच्छ॒त्यथो॒ तम॑ ए॒वाप॑ हते ॥ [22]
अग्ने॑ जा॒तान्प्र णु॑दा नस्स॒पत्ना॒निति॑ पु॒रस्ता॒दुप॑ दधाति जा॒ताने॒व भ्रातृ॑व्या॒न्प्र णु॑दते॒ सह॑सा जा॒तानिति॑ प॒श्चाज्ज॑नि॒ष्यमा॑णाने॒व प्रति॑ नुदते चतुश्चत्वारिँ॒शस्स्तोम॒ इति॑ दक्षिण॒तो ब्र॑ह्मवर्च॒सव्ँ वै च॑तुश्चत्वारिँ॒शो ब्र॑ह्मवर्च॒समे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॒णोऽर्धो॑ ब्रह्मवर्च॒सित॑रष्षोड॒शस्स्तोम॒ इत्यु॑त्तर॒त ओजो॒ वै षो॑ड॒श ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते॒ तस्मा॑त् [23]
उ॒त्त॒र॒तो॒भि॒प्र॒या॒यी ज॑यति॒ वज्रो॒ वै च॑तुश्चत्वारिँ॒शो वज्र॑ष्षोड॒शो यदे॒ते इष्ट॑के उप॒दधा॑ति जा॒ताँश्चै॒व ज॑नि॒ष्यमा॑णाँश्च॒ भ्रातृ॑व्यान्प्र॒णुद्य॒ वज्र॒मनु॒ प्र ह॑रति॒ स्तृत्यै॒ पुरी॑षवती॒म्मध्य॒ उप॑ दधाति॒ पुरी॑षव्ँ॒ वै मध्य॑मा॒त्मन॒स्सात्मा॑नमे॒वाग्निञ्चि॑नुते॒ सात्मा॒मुष्मिल्ँ॑ लो॒के भ॑वति॒ य ए॒वव्ँ वेदै॒ता वा अ॑सप॒त्ना नामेष्ट॑का॒ यस्यै॒ता उ॑पधी॒यन्ते॑ [24]
नास्य॑ स॒पत्नो॑ भवति प॒शुर्वा ए॒ष यद॒ग्निर्वि॒राज॑ उत्त॒माया॒ञ्चित्या॒मुप॑ दधाति वि॒राज॑मे॒वोत्त॒माम्प॒शुषु॑ दधाति॒ तस्मा॑त्पशु॒मानु॑त्त॒माव्ँवाचव्ँ॑वदति॒ दश॑द॒शोप॑ दधाति सवीर्य॒त्वाया॑क्ष्ण॒योप॑ दधाति॒ तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै॒ यानि॒ वै छन्दाँ॑सि सुव॒र्ग्या॑ण्यास॒न्तैर्दे॒वास्सु॑व॒र्गल्ँ लो॒कमा॑य॒न्तेनर्ष॑यः [25]
अ॒श्रा॒म्य॒न्ते तपो॑ऽतप्यन्त॒ तानि॒ तप॑सापश्य॒न्तेभ्य॑ ए॒ता इष्ट॑का॒ निर॑मिम॒तेव॒श्छन्दो॒ वरि॑व॒श्छन्द॒ इति॒ ता उपा॑दधत॒ ताभि॒र्वै ते सु॑व॒र्गल्ँ लो॒कमा॑य॒न्यदे॒ता इष्ट॑का उप॒दधा॑ति॒ यान्ये॒व छन्दाँ॑सि सुव॒र्ग्या॑णि॒ तैरे॒व यज॑मानस्सुव॒र्गल्ँ लो॒कमे॑ति य॒ज्ञेन॒ वै प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत॒ तास्स्तोम॑भागैरे॒वासृ॑जत॒ यत् [26]
स्तोम॑भागा उप॒दधा॑ति प्र॒जा ए॒व तद्यज॑मानस्सृजते॒ बृह॒स्पति॒र्वा ए॒तद्य॒ज्ञस्य॒ तेज॒स्सम॑भर॒द्यत्स्तोम॑भागा॒ यत्स्तोम॑भागा उप॒दधा॑ति॒ सते॑जसमे॒वाग्निञ्चि॑नुते॒ बृह॒स्पति॒र्वा ए॒ताय्ँ य॒ज्ञस्य॑ प्रति॒ष्ठाम॑पश्य॒द्यत्स्तोम॑भागा॒ यत्स्तोम॑भागा उप॒दधा॑ति य॒ज्ञस्य॒ प्रति॑ष्ठित्यै स॒प्तस॒प्तोप॑ दधाति सवीर्य॒त्वाय॑ ति॒स्रो मध्ये॒ प्रति॑ष्ठित्यै ॥ [27]
र॒श्मिरित्ये॒वादि॒त्यम॑सृजत॒ प्रेति॒रिति॒ धर्म॒मन्वि॑ति॒रिति॒ दिवँ॑ स॒न्धिरित्य॒न्तरि॑क्षम्प्रति॒धिरिति॑ पृथि॒वीव्ँ वि॑ष्ट॒म्भ इति॒ वृष्टि॑म्प्र॒वेत्यह॑रनु॒वेति॒ रात्रि॑मु॒शिगिति॒ वसू॑न्प्रके॒त इति॑ रु॒द्रान्त्सु॑दी॒तिरित्या॑दि॒त्यानोज॒ इति॑ पि॒तॄँस्तन्तु॒रिति॑ प्र॒जाᳶ पृ॑तना॒षाडिति॑ प॒शून्रे॒वदित्योष॑धीरभि॒जिद॑सि यु॒क्तग्रा॑वा [28]
इन्द्रा॑य॒ त्वेन्द्र॑ञ्जि॒न्वेत्ये॒व द॑क्षिण॒तो वज्र॒म्पर्यौ॑हद॒भिजि॑त्यै॒ ताᳶ प्र॒जा अप॑प्राणा असृजत॒ तास्वधि॑पतिर॒सीत्ये॒व प्रा॒णम॑दधाद्य॒न्तेत्य॑पा॒नँ सँ॒सर्प॒ इति॒ चक्षु॑र्वयो॒धा इति॒ श्रोत्र॒न्ताᳶ प्र॒जाᳶ प्रा॑ण॒तीर॑पान॒तीᳶ पश्य॑न्तीश्शृण्व॒तीर्न मि॑थु॒नी अ॑भव॒न्तासु॑ त्रि॒वृद॒सीत्ये॒व मि॑थु॒नम॑दधा॒त्ताᳶ प्र॒जा मि॑थु॒नी [29]
भव॑न्ती॒र्न प्राजा॑यन्त॒ तास्सँ॑रो॒हो॑ऽसि नीरो॒हो॑ऽसीत्ये॒व प्राज॑नय॒त्ताᳶ प्र॒जाᳶ प्रजा॑ता॒ न प्रत्य॑तिष्ठ॒न्ता व॑सु॒को॑ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिर॒सीत्ये॒वैषु लो॒केषु॒ प्रत्य॑स्थापय॒द्यदाह॑ वसु॒को॑ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिर॒सीति॑ प्र॒जा ए॒व प्रजा॑ता ए॒षु लो॒केषु॒ प्रति॑ ष्ठापयति॒ सात्मा॒न्तरि॑क्षँ रोहति॒ सप्रा॑णो॒ऽमुष्मिल्ँ॑ लो॒के प्रति॑ तिष्ठ॒त्यव्य॑र्धुकᳶ प्राणापा॒नाभ्या॑म्भवति॒ य ए॒वव्ँ वेद॑ ॥ [30]
ना॒क॒सद्भि॒र्वै दे॒वास्सु॑व॒र्गल्ँ लो॒कमा॑य॒न्तन्ना॑क॒सदा॑न्नाकस॒त्त्वय्यँन्ना॑क॒सद॑ उप॒दधा॑ति नाक॒सद्भि॑रे॒व तद्यज॑मानस्सुव॒र्गल्ँ लो॒कमे॑ति सुव॒र्गो वै लो॒को नाको॒ यस्यै॒ता उ॑पधी॒यन्ते॒ नास्मा॒ अक॑म्भवति यजमानायत॒नव्ँ वै ना॑क॒सदो॒ यन्ना॑क॒सद॑ उप॒दधा॑त्या॒यत॑नमे॒व तद्यज॑मानᳵ कुरुते पृ॒ष्ठानाव्ँ॒वा ए॒तत्तेज॒स्सम्भृ॑तय्ँ॒यन्ना॑क॒सदो॒ यन्ना॑क॒सदः॑ [31]
उ॒प॒दधा॑ति पृ॒ष्ठाना॑मे॒व तेजोऽव॑ रुन्द्धे पञ्च॒चोडा॒ उप॑ दधात्यप्स॒रस॑ ए॒वैन॑मे॒ता भू॒ता अ॒मुष्मिल्ँ॑ लो॒क उप॑ शे॒रेऽथो॑ तनू॒पानी॑रे॒वैता यज॑मानस्य॒ यन्द्वि॒ष्यात्तमु॑प॒दध॑द्ध्यायेदे॒ताभ्य॑ ए॒वैन॑न्दे॒वता॑भ्य॒ आ वृ॑श्चति ता॒जगार्ति॒मार्च्छ॒त्युत्त॑रा नाक॒सद्भ्य॒ उप॑ दधाति॒ यथा॑ जा॒यामा॒नीय॑ गृ॒हेषु॑ निषा॒दय॑ति ता॒दृगे॒व तत् [32]
प॒श्चात्प्राची॑मुत्त॒मामुप॑ दधाति॒ तस्मा॑त्प॒श्चात्प्राची॒ पत्न्यन्वा॑स्ते स्वयमातृ॒ण्णाञ्च॑ विक॒र्णीञ्चो॑त्त॒मे उप॑ दधाति प्रा॒णो वै स्व॑यमातृ॒ण्णायु॑र्विक॒र्णी प्रा॒णञ्चै॒वायु॑श्च प्रा॒णाना॑मुत्त॒मौ ध॑त्ते॒ तस्मा॑त्प्रा॒णश्चायु॑श्च प्रा॒णाना॑मुत्त॒मौ नान्यामुत्त॑रा॒मिष्ट॑का॒मुप॑ दध्या॒द्यद॒न्यामुत्त॑रा॒मिष्ट॑कामुपद॒ध्यात्प॑शू॒नाम् [33]
च॒ यज॑मानस्य च प्रा॒णञ्चायु॒श्चापि॑ दध्या॒त्तस्मा॒न्नान्योत्त॒रेष्ट॑कोप॒धेया॑ स्वयमातृ॒ण्णामुप॑ दधात्य॒सौ वै स्व॑यमातृ॒ण्णामूमे॒वोप॑ ध॒त्तेऽश्व॒मुप॑ घ्रापयति प्रा॒णमे॒वास्या॑न्दधा॒त्यथो॑ प्राजाप॒त्यो वा अश्वᳶ॑ प्र॒जाप॑तिनै॒वाग्निञ्चि॑नुते स्वयमातृ॒ण्णा भ॑वति प्रा॒णाना॒मुत्सृ॑ष्ट्या॒ अथो॑ सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या ए॒षा वै दे॒वानाव्ँ॒विक्रा॑न्ति॒र्यद्वि॑क॒र्णी यद्वि॑क॒र्णीमु॑प॒दधा॑ति दे॒वाना॑मे॒व विक्रा॑न्ति॒मनु॒ वि क्र॑मत उत्तर॒त उप॑ दधाति॒ तस्मा॑दुत्तर॒तउ॑पचारो॒ऽग्निर्वा॑यु॒मती॑ भवति॒ समि॑द्ध्यै ॥ [34]
छन्दाँ॒स्युप॑ दधाति प॒शवो॒ वै छन्दाँ॑सि प॒शूने॒वाव॑ रुन्द्धे॒ छन्दाँ॑सि॒ वै दे॒वानाव्ँ॑वा॒मम्प॒शवो॑ वा॒ममे॒व प॒शूनव॑ रुन्द्ध ए॒ताँ ह॒ वै य॒ज्ञसे॑नश्चैत्रियाय॒णश्चितिव्ँ॑वि॒दाञ्च॑कार॒ तया॒ वै स प॒शूनवा॑रुन्द्ध॒ यदे॒तामु॑प॒दधा॑ति प॒शूने॒वाव॑ रुन्द्धे गाय॒त्रीᳶ पु॒रस्ता॒दुप॑ दधाति॒ तेजो॒ वै गा॑य॒त्री तेज॑ ए॒व [35]
मु॒ख॒तो ध॑त्ते मूर्ध॒न्वती॑र्भवन्ति मू॒र्धान॑मे॒वैनँ॑ समा॒नाना॑ङ्करोति त्रि॒ष्टुभ॒ उप॑ दधातीन्द्रि॒यव्ँ वै त्रि॒ष्टुगि॑न्द्रि॒यमे॒व म॑ध्य॒तो ध॑त्ते॒ जग॑ती॒रुप॑ दधाति॒ जाग॑ता॒ वै प॒शवᳶ॑ प॒शूने॒वाव॑ रुन्द्धेऽनु॒ष्टुभ॒ उप॑ दधाति प्रा॒णा वा अ॑नु॒ष्टुप्प्रा॒णाना॒मुत्सृ॑ष्ट्यै बृह॒तीरु॒ष्णिहाः॑ प॒ङ्क्तीर॒क्षर॑पङ्क्ती॒रिति॒ विषु॑रूपाणि॒ छन्दाँ॒स्युप॑ दधाति॒ विषु॑रूपा॒ वै प॒शवᳶ॑ प॒शवः॑ [36]
छन्दाँ॑सि॒ विषु॑रूपाने॒व प॒शूनव॑ रुन्द्धे॒ विषु॑रूपमस्य गृ॒हे दृ॑श्यते॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वव्ँ वेदाति॑च्छन्दस॒मुप॑ दधा॒त्यति॑च्छन्दा॒ वै सर्वा॑णि॒ छन्दाँ॑सि॒ सर्वे॑भिरे॒वैन॒ञ्छन्दो॑भिश्चिनुते॒ वर्ष्म॒ वा ए॒षा छन्द॑साय्ँ॒यदति॑च्छन्दा॒ यदति॑च्छन्दसमुप॒दधा॑ति॒ वर्ष्मै॒वैनँ॑ समा॒नाना॑ङ्करोति द्वि॒पदा॒ उप॑ दधाति द्वि॒पाद्यज॑मान॒ᳶ प्रति॑ष्ठित्यै ॥ [37]
सर्वा॑भ्यो॒ वै दे॒वता॑भ्यो॒ऽग्निश्ची॑यते॒ यत्स॒युजो॒ नोप॑द॒ध्याद्दे॒वता॑ अस्या॒ग्निव्ँवृ॑ञ्जीर॒न्यत्स॒युज॑ उप॒दधा॑त्या॒त्मनै॒वैनँ॑ स॒युज॑ञ्चिनुते॒ नाग्निना॒ व्यृ॑ध्य॒तेऽथो॒ यथा॒ पुरु॑ष॒स्स्नाव॑भि॒स्सन्त॑त ए॒वमे॒वैताभि॑र॒ग्निस्सन्त॑तो॒ऽग्निना॒ वै दे॒वास्सु॑व॒र्गल्ँ लो॒कमा॑य॒न्ता अ॒मूᳵ कृ॑त्तिका अभव॒न्यस्यै॒ता उ॑पधी॒यन्ते॑ सुव॒र्गमे॒व [38]
लो॒कमे॑ति॒ गच्छ॑ति प्रका॒शञ्चि॒त्रमे॒व भ॑वति मण्डलेष्ट॒का उप॑ दधाती॒मे वै लो॒का म॑ण्डलेष्ट॒का इ॒मे खलु॒ वै लो॒का दे॑वपु॒रा दे॑वपु॒रा ए॒व प्र वि॑शति॒ नार्ति॒मार्च्छ॑त्य॒ग्निञ्चि॑क्या॒नो वि॒श्वज्यो॑तिष॒ उप॑ दधाती॒माने॒वैताभि॑र्लो॒काञ्ज्योति॑ष्मतᳵ कुरु॒तेऽथो॑ प्रा॒णाने॒वैता यज॑मानस्य दाध्रत्ये॒ता वै दे॒वताः॑ सुव॒र्ग्या॑स्ता ए॒वान्वा॒रभ्य॑ सुव॒र्गल्ँ लो॒कमे॑ति ॥ [39]
वृ॒ष्टि॒सनी॒रुप॑ दधाति॒ वृष्टि॑मे॒वाव॑ रुन्द्धे॒ यदे॑क॒धोप॑द॒ध्यादेक॑मृ॒तुव्ँव॑र्षेदनुपरि॒हारँ॑ सादयति॒ तस्मा॒त्सर्वा॑नृ॒तून्व॑र्षति पुरोवात॒सनि॑र॒सीत्या॑है॒तद्वै वृष्ट्यै॑ रू॒पँ रू॒पेणै॒व वृष्टि॒मव॑ रुन्द्धे सय्ँ॒यानी॑भि॒र्वै दे॒वा इ॒माल्लोँ॒कान्त्सम॑यु॒स्तत्सय्ँ॒यानी॑नाँ सय्ँयानि॒त्वय्यँत्सय्ँ॒यानी॑रुप॒दधा॑ति॒ यथा॒प्सु ना॒वा सय्ँ॒यात्ये॒वम् [40]
ए॒वैताभि॒र्यज॑मान इ॒माल्लोँ॒कान्त्सय्ँया॑ति प्ल॒वो वा ए॒षो॑ऽग्नेर्यत्सय्ँ॒यानी॒र्यत्सय्ँ॒यानी॑रुप॒दधा॑ति प्ल॒वमे॒वैतम॒ग्नय॒ उप॑ दधात्यु॒त यस्यै॒तासूप॑हिता॒स्वापो॒ऽग्निँ हर॒न्त्यहृ॑त ए॒वास्या॒ग्निरा॑दित्येष्ट॒का उप॑ दधात्यादि॒त्या वा ए॒तम्भूत्यै॒ प्रति॑ नुदन्ते॒ योऽल॒म्भूत्यै॒ सन्भूति॒न्न प्रा॒प्नोत्या॑दि॒त्याः [41]
ए॒वैन॒म्भूति॑ङ्गमयन्त्य॒सौ वा ए॒तस्या॑दि॒त्यो रुच॒मा द॑त्ते॒ यो॑ऽग्निञ्चि॒त्वा न रोच॑ते॒ यदा॑दित्येष्ट॒का उ॑प॒दधा॑त्य॒सावे॒वास्मि॑न्नादि॒त्यो रुच॑न्दधाति॒ यथा॒सौ दे॒वानाँ॒ रोच॑त ए॒वमे॒वैष म॑नु॒ष्या॑णाँ रोचते घृतेष्ट॒का उप॑ दधात्ये॒तद्वा अ॒ग्नेᳶ प्रि॒यन्धाम॒ यद्घृ॒तम्प्रि॒येणै॒वैन॒न्धाम्ना॒ सम॑र्धयति [42]
अथो॒ तेज॑सानुपरि॒हारँ॑ सादय॒त्यप॑रिवर्गमे॒वास्मि॒न्तेजो॑ दधाति प्र॒जाप॑तिर॒ग्निम॑चिनुत॒ स यश॑सा॒ व्या॑र्ध्यत॒ स ए॒ता य॑शो॒दा अ॑पश्य॒त्ता उपा॑धत्त॒ ताभि॒र्वै स यश॑ आ॒त्मन्न॑धत्त॒ यद्य॑शो॒दा उ॑प॒दधा॑ति॒ यश॑ ए॒व ताभि॒र्यज॑मान आ॒त्मन्ध॑त्ते॒ पञ्चोप॑ दधाति॒ पाङ्क्त॒ᳶ पुरु॑षो॒ यावा॑ने॒व पुरु॑ष॒स्तस्मि॒न्यशो॑ दधाति ॥ [43]
दे॒वा॒सु॒रास्सय्ँय॑त्ता आस॒न्कनी॑याँसो दे॒वा आस॒न्भूयाँ॒सोऽसु॑रा॒स्ते दे॒वा ए॒ता इष्ट॑का अपश्य॒न्ता उपा॑दधत भूय॒स्कृद॒सीत्ये॒व भूयाँ॑सोऽभव॒न्वन॒स्पति॑भि॒रोष॑धीभिर्वरिव॒स्कृद॒सीती॒माम॑जय॒न्प्राच्य॒सीति॒ प्राची॒न्दिश॑मजयन्नू॒र्ध्वासीत्य॒मूम॑जयन्नन्तरिक्ष॒सद॑स्य॒न्तरि॑क्षे सी॒देत्य॒न्तरि॑क्षमजय॒न्ततो॑ दे॒वा अभ॑वन्न् [44]
परासु॑रा॒ यस्यै॒ता उ॑पधी॒यन्ते॒ भूया॑ने॒व भ॑वत्य॒भीमाल्लोँ॒काञ्ज॑यति॒ भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवत्यप्सु॒षद॑सि श्येन॒सद॒सीत्या॑है॒तद्वा अ॒ग्ने रू॒पँ रू॒पेणै॒वाग्निमव॑ रुन्द्धे पृथि॒व्यास्त्वा॒ द्रवि॑णे सादया॒मीत्या॑हे॒माने॒वैताभि॑र्लो॒कान्द्रवि॑णावतᳵ कुरुत आयु॒ष्या॑ उप॑ दधा॒त्यायु॑रे॒व [45]
अ॒स्मि॒न्द॒धा॒त्यग्ने॒ यत्ते॒ परँ॒ हृन्नामेत्या॑है॒तद्वा अ॒ग्नेᳶ प्रि॒यन्धाम॑ प्रि॒यमे॒वास्य॒ धामोपा॑प्नोति॒ तावेहि॒ सँ र॑भावहा॒ इत्या॑ह॒ व्ये॑वैने॑न॒ परि॑ धत्ते॒ पाञ्च॑जन्ये॒ष्वप्ये॑ध्यग्न॒ इत्या॑है॒ष वा अ॒ग्निᳶ पाञ्च॑जन्यो॒ यᳶ पञ्च॑चितीक॒स्तस्मा॑दे॒वमा॑हर्त॒व्या॑ उप॑ दधात्ये॒तद्वा ऋ॑तू॒नाम्प्रि॒यन्धाम॒ यदृ॑त॒व्या॑ ऋतू॒नामे॒व प्रि॒यन्धामाव॑ रुन्द्धे सु॒मेक॒ इत्या॑ह सव्ँवत्स॒रो वै सु॒मेक॑स्सव्ँवत्स॒रस्यै॒व प्रि॒यन्धामोपा॑प्नोति ॥ [46]
प्र॒जाप॑ते॒रक्ष्य॑श्वय॒त्तत्परा॑पत॒त्तदश्वो॑ऽभव॒द्यदश्व॑य॒त्तदश्व॑स्याश्व॒त्वन्तद्दे॒वा अ॑श्वमे॒धेनै॒व प्रत्य॑दधुरे॒ष वै प्र॒जाप॑तिँ॒ सर्व॑ङ्करोति॒ यो॑ऽश्वमे॒धेन॒ यज॑ते॒ सर्व॑ ए॒व भ॑वति॒ सर्व॑स्य॒ वा ए॒षा प्राय॑श्चित्ति॒स्सर्व॑स्य भेष॒जँ सर्वव्ँ॒वा ए॒तेन॑ पा॒प्मान॑न्दे॒वा अ॑तर॒न्नपि॒ वा ए॒तेन॑ ब्रह्मह॒त्याम॑तर॒न्त्सर्व॑म्पा॒प्मान॑म् [47]
त॒र॒ति॒ तर॑ति ब्रह्मह॒त्याय्ँयो॑ऽश्वमे॒धेन॒ यज॑ते॒ य उ॑ चैनमे॒वव्ँवेदोत्त॑रव्ँ॒ वै तत्प्र॒जाप॑ते॒रक्ष्य॑श्वय॒त्तस्मा॒दश्व॑स्योत्तर॒तोऽव॑ द्यन्ति दक्षिण॒तो॑ऽन्येषा॑म्पशू॒नाव्ँ वै॑त॒सᳵ कटो॑ भवत्य॒प्सुयो॑नि॒र्वा अश्वो॑ऽप्सु॒जो वे॑त॒सस्स्व ए॒वैनय्ँ॒योनौ॒ प्रति॑ ष्ठापयति चतुष्टो॒मस्स्तोमो॑ भवति स॒रड्ढ॒ वा अश्व॑स्य॒ सक्थ्यावृ॑ह॒त्तद्दे॒वाश्च॑तुष्टो॒मेनै॒व प्रत्य॑दधु॒र्यच्च॑तुष्टो॒मस्स्तोमो॒ भव॒त्यश्व॑स्य सर्व॒त्वाय॑ ॥ [48]