सा॒वि॒त्राणि॑ जुहोति॒ प्रसू॑त्यै चतुर्गृही॒तेन॑ जुहोति॒ चतु॑ष्पादᳶ प॒शवᳶ॑ प॒शूने॒वाव॑ रुन्द्धे॒ चत॑स्रो॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठति॒ छन्दाँ॑सि दे॒वेभ्योऽपा॑क्राम॒न्न वो॑ऽभा॒गानि॑ ह॒व्यव्ँव॑क्ष्याम॒ इति॒ तेभ्य॑ ए॒तच्च॑तुर्गृही॒तम॑धारयन्पुरोनुवा॒क्या॑यै या॒ज्या॑यै दे॒वता॑यै वषट्का॒राय॒ यच्च॑तुर्गृही॒तञ्जु॒होति॒ छन्दाँ॑स्ये॒व तत्प्री॑णाति॒ तान्य॑स्य प्री॒तानि॑ दे॒वेभ्यो॑ ह॒व्यव्ँव॑हन्ति॒ यङ्का॒मये॑त [1]
पापी॑यान्त्स्या॒दित्येकै॑क॒न्तस्य॑ जुहुया॒दाहु॑तीभिरे॒वैन॒मप॑ गृह्णाति॒ पापी॑यान्भवति॒ यङ्का॒मये॑त॒ वसी॑यान्त्स्या॒दिति॒ सर्वा॑णि॒ तस्या॑नु॒द्रुत्य॑ जुहुया॒दाहु॑त्यै॒वैन॑म॒भि क्र॑मयति॒ वसी॑यान्भव॒त्यथो॑ य॒ज्ञस्यै॒वैषाभिक्रा॑न्ति॒रेति॒ वा ए॒ष य॑ज्ञमु॒खादृद्ध्या॒ यो॑ऽग्नेर्दे॒वता॑या॒ एत्य॒ष्टावे॒तानि॑ सावि॒त्राणि॑ भवन्त्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रः [2]
अ॒ग्निस्तेनै॒व य॑ज्ञमु॒खादृद्ध्या॑ अ॒ग्नेर्दे॒वता॑यै॒ नैत्य॒ष्टौ सा॑वि॒त्राणि॑ भव॒न्त्याहु॑तिर्नव॒मी त्रि॒वृत॑मे॒व य॑ज्ञमु॒खे वि या॑तयति॒ यदि॑ का॒मये॑त॒ छन्दाँ॑सि यज्ञयश॒सेना॑र्पयेय॒मित्यृच॑मन्त॒माङ्कु॑र्या॒च्छन्दाँ॑स्ये॒व य॑ज्ञयश॒सेना॑र्पयति॒ यदि॑ का॒मये॑त॒ यज॑मानय्ँ यज्ञयश॒सेना॑र्पयेय॒मिति॒ यजु॑रन्त॒मङ्कु॑र्या॒द्यज॑मानमे॒व य॑ज्ञयश॒सेना॑र्पयत्यृ॒चा स्तोमँ॒ सम॑र्ध॒येति॑ [3]
आ॒ह॒ समृ॑द्ध्यै च॒तुर्भि॒रभ्रि॒मा द॑त्ते च॒त्वारि॒ छन्दाँ॑सि॒ छन्दो॑भिरे॒व दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इत्या॑ह॒ प्रसू॑त्या अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत॒ स वेणु॒म्प्रावि॑श॒त्स ए॒तामू॒तिमनु॒ सम॑चर॒द्यद्वेणोः॑ सुषि॒रँ सु॑षि॒राभ्रि॑र्भवति सयोनि॒त्वाय॒ स यत्र॑य॒त्राव॑स॒त्तत्कृ॒ष्णम॑भवत्कल्मा॒षी भ॑वति रू॒पस॑मृद्ध्या उभयतः॒क्ष्णूर्भ॑वती॒तश्चा॒मुत॑श्चा॒र्कस्याव॑रुद्ध्यै व्याममा॒त्री भ॑वत्ये॒ताव॒द्वै पुरु॑षे वी॒र्यव्ँ॑ वी॒र्य॑सम्मि॒ताऽप॑रिमिता भव॒त्यप॑रिमित॒स्याव॑रुद्ध्यै॒ यो वन॒स्पती॑नाम्फल॒ग्रहि॒स्स ए॑षाव्ँवी॒र्या॑वान्फल॒ग्रहि॒र्वेणु॑र्वैण॒वी भ॑वति वी॒र्य॑स्याव॑रुद्ध्यै ॥ [4]
व्यृ॑द्धव्ँ॒वा ए॒तद्य॒ज्ञस्य॒ यद॑य॒जुष्के॑ण क्रि॒यत॑ इ॒माम॑गृभ्णन्रश॒नामृ॒तस्येत्य॑श्वाभि॒धानी॒मा द॑त्ते॒ यजु॑ष्कृत्यै य॒ज्ञस्य॒ समृ॑द्ध्यै॒ प्रतू॑र्तव्ँवाजि॒न्ना द्र॒वेत्यश्व॑म॒भि द॑धाति रू॒पमे॒वास्यै॒तन्म॑हि॒मानव्ँ॒व्याच॑ष्टे यु॒ञ्जाथाँ॒ रास॑भय्ँयु॒वमिति॑ गर्द॒भमस॑त्ये॒व ग॑र्द॒भम्प्रति॑ ष्ठापयति॒ तस्मा॒दश्वा॑द्गर्द॒भोऽस॑त्तरो॒ योगे॑योगे त॒वस्त॑र॒मित्या॑ह [5]
योगे॑योग ए॒वैनय्ँ॑युङ्क्ते॒ वाजे॑वाजे हवामह॒ इत्या॒हान्नव्ँ॒ वै वाजोऽन्न॑मे॒वाव॑ रुन्द्धे॒ सखा॑य॒ इन्द्र॑मू॒तय॒ इत्या॑हेन्द्रि॒यमे॒वाव॑ रुन्द्धे॒ऽग्निर्दे॒वेभ्यो॒ निला॑यत॒ तम्प्र॒जाप॑ति॒रन्व॑विन्दत्प्राजाप॒त्योऽश्वोऽश्वे॑न॒ सम्भ॑र॒त्यनु॑वित्त्यै पापवस्य॒सव्ँवा ए॒तत्क्रि॑यते॒ यच्छ्रेय॑सा च॒ पापी॑यसा च समा॒नङ्कर्म॑ कु॒र्वन्ति॒ पापी॑यान् [6]
ह्यश्वा॑द्गर्द॒भोऽश्व॒म्पूर्व॑न्नयन्ति पापवस्य॒सस्य॒ व्यावृ॑त्त्यै॒ तस्मा॒च्छ्रेयाँ॑स॒म्पापी॑यान्प॒श्चादन्वे॑ति ब॒हुर्वै भव॑तो॒ भ्रातृ॑व्यो॒ भव॑तीव॒ खलु॒ वा ए॒ष यो॑ऽग्निञ्चि॑नु॒ते व॒ज्र्यश्वᳶ॑ प्र॒तूर्व॒न्नेह्य॑व॒क्राम॒न्नश॑स्ती॒रित्या॑ह॒ वज्रे॑णै॒व पा॒प्मान॒म्भ्रातृ॑व्य॒मव॑ क्रामति रु॒द्रस्य॒ गाण॑पत्या॒दित्या॑ह रौ॒द्रा वै प॒शवो॑ रु॒द्रादे॒व [7]
प॒शून्नि॒र्याच्या॒त्मने॒ कर्म॑ कुरुते पू॒ष्णा स॒युजा॑ स॒हेत्या॑ह पू॒षा वा अध्व॑नाँ सन्ने॒ता सम॑ष्ट्यै॒ पुरी॑षायतनो॒ वा ए॒ष यद॒ग्निरङ्गि॑रसो॒ वा ए॒तमग्रे॑ दे॒वता॑नाँ॒ सम॑भरन्पृथि॒व्यास्स॒धस्था॑द॒ग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वदच्छे॒हीत्या॑ह॒ साय॑तनमे॒वैन॑न्दे॒वता॑भि॒स्सम्भ॑रत्य॒ग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वदच्छे॑म॒ इत्या॑ह येन॑ [8]
स॒ङ्गच्छ॑ते॒ वाज॑मे॒वास्य॑ वृङ्क्ते प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्निस्स॒म्भृत्य॒ इत्या॑हुरि॒यव्ँ वै प्र॒जाप॑ति॒स्तस्या॑ ए॒तच्छ्रोत्रय्ँ॒यद्व॒ल्मीको॒ऽग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वद्भ॑रिष्याम॒ इति॑ वल्मीकव॒पामुप॑ तिष्ठते सा॒क्षादे॒व प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्निँ सम्भ॑रत्य॒ग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वद्भ॑राम॒ इत्या॑ह॒ येन॑ स॒ङ्गच्छ॑ते॒ वाज॑मे॒वास्य॑ वृ॒ङ्क्तेऽन्व॒ग्निरु॒षसा॒मग्र॑म् [9]
अ॒ख्य॒दित्या॒हानु॑ख्यात्या आ॒गत्य॑ वा॒ज्यध्व॑न आ॒क्रम्य॑ वाजिन्पृथि॒वीमित्या॑हे॒च्छत्ये॒वैन॒म्पूर्व॑या वि॒न्दत्युत्त॑रया॒ द्वाभ्या॒मा क्र॑मयति॒ प्रति॑ष्ठित्या॒ अनु॑रूपाभ्या॒न्तस्मा॒दनु॑रूपाᳶ प॒शव॒ᳶ प्र जा॑यन्ते॒ द्यौस्ते॑ पृ॒ष्ठम्पृ॑थि॒वी स॒धस्थ॒मित्या॑है॒भ्यो वा ए॒तल्ँ लो॒केभ्यᳶ॑ प्र॒जाप॑ति॒स्समै॑रयद्रू॒पमे॒वास्यै॒तन्म॑हि॒मानव्ँ॒व्याच॑ष्टे व॒ज्री वा ए॒ष यदश्वो॑ द॒द्भिर॒न्यतो॑दद्भ्यो॒ भूयाल्ँ॒लोम॑भिरुभ॒याद॑द्भ्यो॒ यन्द्वि॒ष्यात्तम॑धस्प॒दन्ध्या॑ये॒द्वज्रे॑णै॒वैनँ॑ स्तृणुते ॥10॥
उत्क्रा॒मोद॑क्रमी॒दिति॒ द्वाभ्या॒मुत्क्र॑मयति॒ प्रति॑ष्ठित्या॒ अनु॑रूपाभ्या॒न्तस्मा॒दनु॑रूपाᳶ प॒शव॒ᳶ प्र जा॑यन्ते॒ऽप उप॑ सृजति॒ यत्र॒ वा आप॑ उप॒गच्छ॑न्ति॒ तदोष॑धय॒ᳶ प्रति॑ तिष्ठ॒न्त्योष॑धीᳶ प्रति॒तिष्ठ॑न्तीᳶ प॒शवोऽनु॒ प्रति॑ तिष्ठन्ति प॒शून्‌य॒ज्ञो य॒ज्ञय्ँयज॑मानो॒ यज॑मानम्प्र॒जास्तस्मा॑द॒प उप॑ सृजति॒ प्रति॑ष्ठित्यै॒ यद॑ध्व॒र्युर॑न॒ग्नावाहु॑तिञ्जुहु॒याद॒न्धो॑ऽध्व॒र्युः [11]
स्या॒द्रक्षाँ॑सि य॒ज्ञँ ह॑न्यु॒र्हिर॑ण्यमु॒पास्य॑ जुहोत्यग्नि॒वत्ये॒व जु॑होति॒ नान्धो॑ऽध्व॒र्युर्भव॑ति॒ न य॒ज्ञँ रक्षाँ॑सि घ्नन्ति॒ जिघ॑र्म्य॒ग्निम्मन॑सा घृ॒तेनेत्या॑ह॒ मन॑सा॒ हि पुरु॑षो य॒ज्ञम॑भि॒गच्छ॑ति प्रति॒क्ष्यन्त॒म्भुव॑नानि॒ विश्वेत्या॑ह॒ सर्वँ॒ ह्ये॑ष प्र॒त्यङ्क्षेति॑ पृ॒थुन्ति॑र॒श्चा वय॑सा बृ॒हन्त॒मित्या॒हाल्पो॒ ह्ये॑ष जा॒तो म॒हान् [12]
भव॑ति॒ व्यचि॑ष्ठ॒मन्नँ॑ रभ॒सव्ँविदा॑न॒मित्या॒हान्न॑मे॒वास्मै॑ स्वदयति॒ सर्व॑मस्मै स्वदते॒ य ए॒वव्ँ वेदा त्वा॑ जिघर्मि॒ वच॑सा घृ॒तेनेत्या॑ह॒ तस्मा॒द्यत्पुरु॑षो॒ मन॑साभि॒गच्छ॑ति॒ तद्वा॒चा व॑दत्यर॒क्षसेत्या॑ह॒ रक्ष॑सा॒मप॑हत्यै॒ मर्य॑श्रीस्स्पृह॒यद्व॑र्णो अ॒ग्निरित्या॒हाप॑चितिमे॒वास्मि॑न्दधा॒त्यप॑चितिमान्भवति॒ य ए॒वं [13]
वेद॒ मन॑सा॒ त्वै तामाप्तु॑मर्हति॒ याम॑ध्व॒र्युर॑न॒ग्नावाहु॑तिञ्जु॒होति॒ मन॑स्वतीभ्याञ्जुहो॒त्याहु॑त्यो॒राप्त्यै॒ द्वाभ्या॒म्प्रति॑ष्ठित्यै यज्ञमु॒खेय॑ज्ञमुखे॒ वै क्रि॒यमा॑णे य॒ज्ञँ रक्षाँ॑सि जिघाँसन्त्ये॒तर्हि॒ खलु॒ वा ए॒तद्य॑ज्ञमु॒खय्ँयर्ह्ये॑न॒दाहु॑तिरश्ञु॒ते परि॑ लिखति॒ रक्ष॑सा॒मप॑हत्यै ति॒सृभि॒ᳶ परि॑ लिखति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वाग्निस्तस्मा॒द्रक्षाँ॒स्यप॑ हन्ति [14]
गा॒य॒त्रि॒या परि॑ लिखति॒ तेजो॒ वै गा॑य॒त्री तेज॑सै॒वैन॒म्परि॑ गृह्णाति त्रि॒ष्टुभा॒ परि॑ लिखतीन्द्रि॒यव्ँ वै त्रि॒ष्टुगि॑न्द्रि॒येणै॒वैन॒म्परि॑ गृह्णात्यनु॒ष्टुभा॒ परि॑ लिखत्यनु॒ष्टुप्सर्वा॑णि॒ छन्दाँ॑सि परि॒भूᳶ पर्या॑प्त्यै मध्य॒तो॑ऽनु॒ष्टुभा॒ वाग्वा अ॑नु॒ष्टुप्तस्मा॑न्मध्य॒तो वा॒चा व॑दामो गायत्रि॒या प्र॑थ॒मया॒ परि॑ लिख॒त्यथा॑नु॒ष्टुभाथ॑ त्रि॒ष्टुभा॒ तेजो॒ वै गा॑य॒त्री य॒ज्ञो॑ऽनु॒ष्टुगि॑न्द्रि॒यन्त्रि॒ष्टुप्तेज॑सा चै॒वेन्द्रि॒येण॑ चोभ॒यतो॑ य॒ज्ञम्परि॑ गृह्णाति ॥ [15]
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इति॑ खनति॒ प्रसू॑त्या॒ अथो॑ धू॒ममे॒वैतेन॑ जनयति॒ ज्योति॑ष्मन्तन्त्वाग्ने सु॒प्रती॑क॒मित्या॑ह॒ ज्योति॑रे॒वैतेन॑ जनयति॒ सो॑ऽग्निर्जा॒तᳶ प्र॒जाश्शु॒चार्प॑य॒त्तन्दे॒वा अ॑र्ध॒र्चेना॑शमयञ्छि॒वम्प्र॒जाभ्योऽहिँ॑सन्त॒मित्या॑ह प्र॒जाभ्य॑ ए॒वैनँ॑ शमयति॒ द्वाभ्या॑ङ्खनति॒ प्रति॑ष्ठित्या अ॒पाम्पृ॒ष्ठम॒सीति॑ पुष्करप॒र्णमा [16]
ह॒र॒त्य॒पाव्ँवा ए॒तत्पृ॒ष्ठय्ँयत्पु॑ष्करप॒र्णँ रू॒पेणै॒वैन॒दा ह॑रति पुष्करप॒र्णेन॒ सम्भ॑रति॒ योनि॒र्वा अ॒ग्नेᳶ पु॑ष्करप॒र्णँ सयो॑निमे॒वाग्निँ सम्भ॑रति कृष्णाजि॒नेन॒ सम्भ॑रति य॒ज्ञो वै कृ॑ष्णाजि॒नय्ँ य॒ज्ञेनै॒व य॒ज्ञँ सम्भ॑रति॒ यद्ग्रा॒म्याणा॑म्पशू॒नाञ्चर्म॑णा स॒म्भरे॑द्ग्रा॒म्यान्प॒शूञ्छु॒चार्प॑येत्कृष्णाजि॒नेन॒ सम्भ॑रत्यार॒ण्याने॒व प॒शून् [17]
शु॒चार्प॑यति॒ तस्मा॑त्स॒माव॑त्पशू॒नाम्प्र॒जाय॑मानानामार॒ण्याᳶ प॒शव॒ᳵ कनी॑याँसश्शु॒चा ह्यृ॑ता लो॑म॒तस्सम्भ॑र॒त्यतो॒ ह्य॑स्य॒ मेध्य॑ङ्कृष्णाजि॒नञ्च॑ पुष्करप॒र्णञ्च॒ सँ स्तृ॑णाती॒यव्ँ वै कृ॑ष्णाजि॒नम॒सौ पु॑ष्करप॒र्णमा॒भ्यामे॒वैन॑मुभ॒यत॒ᳶ परि॑ गृह्णात्य॒ग्निर्दे॒वेभ्यो॒ निला॑यत॒ तमथ॒र्वान्व॑पश्य॒दथ॑र्वा त्वा प्रथ॒मो निर॑मन्थदग्न॒ इति॑ [18]
आ॒ह॒ य ए॒वैन॑म॒न्वप॑श्य॒त्तेनै॒वैनँ॒ सम्भ॑रति॒ त्वाम॑ग्ने॒ पुष्क॑रा॒दधीत्या॑ह पुष्करप॒र्णे ह्ये॑न॒मुप॑श्रित॒मवि॑न्द॒त्तमु॑ त्वा द॒ध्यङ्ङृषि॒रित्या॑ह द॒ध्यङ्वा आ॑थर्व॒णस्ते॑ज॒स्व्या॑सी॒त्तेज॑ ए॒वास्मि॑न्दधाति॒ तमु॑ त्वा पा॒थ्यो वृषेत्या॑ह॒ पूर्व॑मे॒वोदि॒तमुत्त॑रेणा॒भि गृ॑णाति [19]
च॒त॒सृभि॒स्सम्भ॑रति च॒त्वारि॒ छन्दाँ॑सि॒ छन्दो॑भिरे॒व गा॑य॒त्रीभि॑र्ब्राह्म॒णस्य॑ गाय॒त्रो हि ब्रा॑ह्म॒णस्त्रि॒ष्टुग्भी॑ राज॒न्य॑स्य॒ त्रैष्टु॑भो॒ हि रा॑ज॒न्यो॑ यङ्का॒मये॑त॒ वसी॑यान्त्स्या॒दित्यु॒भयी॑भि॒स्तस्य॒ सम्भ॑रे॒त्तेज॑श्चै॒वास्मा॑ इन्द्रि॒यञ्च॑ स॒मीची॑ दधात्यष्टा॒भिस्सम्भ॑रत्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रो॑ऽग्निर्यावा॑ने॒वाग्निस्तँ सम्भ॑रति॒ सीद॑ होत॒रित्या॑ह दे॒वता॑ ए॒वास्मै॒ सँ सा॑दयति॒ नि होतेति॑ मनु॒ष्या॑न्त्सँ सी॑द॒स्वेति॒ वयाँ॑सि॒ जनि॑ष्वा॒ हि जेन्यो॒ अग्रे॒ अह्ना॒मित्या॑ह देवमनु॒ष्याने॒वास्मै॒ सँस॑न्ना॒न्प्र ज॑नयति ॥ [20]
क्रू॒रमि॑व॒ वा अ॑स्या ए॒तत्क॑रोति॒ यत्खन॑त्य॒प उप॑ सृज॒त्यापो॒ वै शा॒न्ताश्शा॒न्ताभि॑रे॒वास्यै॒ शुचँ॑ शमयति॒ सन्ते॑ वा॒युर्मा॑त॒रिश्वा॑ दधा॒त्वित्या॑ह प्रा॒णो वै वा॒युᳶ प्रा॒णेनै॒वास्यै॑ प्रा॒णँ सन्द॑धाति॒ सन्ते॑ वा॒युरित्या॑ह॒ तस्मा॑द्वा॒युप्र॑च्युता दि॒वो वृष्टि॑रीर्ते॒ तस्मै॑ च देवि॒ वष॑डस्तु [21]
तुभ्य॒मित्या॑ह॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व वृष्टि॑न्दधाति॒ तस्मा॒त्सर्वा॑नृ॒तून्‌व॑र्षति॒ यद्व॑षट्कु॒र्याद्या॒तया॑माऽस्य वषट्का॒रस्स्या॒द्यन्न व॑षट्कु॒र्याद्रक्षाँ॑सि य॒ज्ञँ ह॑न्यु॒र्वडित्या॑ह प॒रोक्ष॑मे॒व वष॑ट्करोति॒ नास्य॑ या॒तया॑मा वषट्का॒रो भव॑ति॒ न य॒ज्ञँ रक्षाँ॑सि घ्नन्ति॒ सुजा॑तो॒ ज्योति॑षा स॒हेत्य॑नु॒ष्टुभोप॑ नह्यत्यनु॒ष्टुप् [22]
सर्वा॑णि॒ छन्दाँ॑सि॒ छन्दाँ॑सि॒ खलु॒ वा अ॒ग्नेᳶ प्रि॒या त॒नूᳶ प्रि॒ययै॒वैन॑न्त॒नुवा॒ परि॑ दधाति॒ वेदु॑को॒ वासो॑ भवति॒ य ए॒वव्ँ वेद॑ वारु॒णो वा अ॒ग्निरुप॑नद्ध॒ उदु॑ तिष्ठ स्वध्वरो॒र्ध्व ऊ॒ षु ण॑ ऊ॒तय॒ इति॑ सावि॒त्रीभ्या॒मुत्ति॑ष्ठति सवि॒तृप्र॑सूत ए॒वास्यो॒र्ध्वाव्ँव॑रुणमे॒निमुत्सृ॑जति॒ द्वाभ्या॒म्प्रति॑ष्ठित्यै॒ स जा॒तो गर्भो॑ असि [23]
रोद॑स्यो॒रित्या॑हे॒मे वै रोद॑सी॒ तयो॑रे॒ष गर्भो॒ यद॒ग्निस्तस्मा॑दे॒वमा॒हाग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धी॒ष्वित्या॑ह य॒दा ह्ये॑तव्ँवि॒भर॒न्त्यथ॒ चारु॑तरो॒ भव॑ति॒ प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रदद्गा॒ इत्या॒हौष॑धयो॒ वा अ॑स्य मा॒तर॒स्ताभ्य॑ ए॒वैन॒म्प्र च्या॑वयति स्थि॒रो भ॑व वी॒ड्व॑ङ्ग॒ इति॑ गर्द॒भ आ सा॑दयति [24]
सन्न॑ह्यत्ये॒वैन॑मे॒तया॑ स्थे॒म्ने ग॑र्द॒भेन॒ सम्भ॑रति॒ तस्मा॑द्गर्द॒भᳶ प॑शू॒नाम्भा॑रभा॒रित॑मो गर्द॒भेन॒ सम्भ॑रति॒ तस्मा॑द्गर्द॒भोऽप्य॑नाले॒शेत्य॒न्यान्प॒शून्मे॑द्य॒त्यन्नँ॒ ह्ये॑नेना॒र्कँ स॒म्भर॑न्ति गर्द॒भेन॒ सम्भ॑रति॒ तस्मा॑द्गर्द॒भो द्वि॒रेता॒स्सन्कनि॑ष्ठम्पशू॒नाम्प्र जा॑यते॒ऽग्निर्ह्य॑स्य॒ योनि॑न्नि॒र्दह॑ति प्र॒जासु॒ वा ए॒ष ए॒तर्ह्यारू॑ढः [25]
स ई॑श्व॒रᳶ प्र॒जाश्शु॒चा प्र॒दह॑श्शि॒वो भ॑व प्र॒जाभ्य॒ इत्या॑ह प्र॒जाभ्य॑ ए॒वैनँ॑ शमयति॒ मानु॑षीभ्य॒स्त्वम॑ङ्गिर॒ इत्या॑ह मान॒व्यो॑ हि प्र॒जा मा द्यावा॑पृथि॒वी अ॒भि शू॑शुचो॒ मान्तरि॑क्ष॒म्मा वन॒स्पती॒नित्या॑है॒भ्य ए॒वैनल्ँ॑ लो॒केभ्य॑श्शमयति॒ प्रैतु॑ वा॒जी कनि॑क्रद॒दित्या॑ह वा॒जी ह्ये॑ष नान॑द॒द्रास॑भ॒ᳶ पत्वेति॑ [26]
आ॒ह॒ रास॑भ॒ इति॒ ह्ये॑तमृष॒योऽव॑द॒न्भर॑न्न॒ग्निम्पु॑री॒ष्य॑मित्या॑हा॒ग्निँ ह्ये॑ष भर॑ति॒ मा पा॒द्यायु॑षᳶ पु॒रेत्या॒हायु॑रे॒वास्मि॑न्दधाति॒ तस्मा॑द्गर्द॒भस्सर्व॒मायु॑रेति॒ तस्मा॑द्गर्द॒भे पु॒रायु॑ष॒ᳶ प्रमी॑ते बिभ्यति॒ वृषा॒ग्निव्ँवृष॑ण॒म्भर॒न्नित्या॑ह वृषा॒ ह्ये॑ष वृषा॒ग्निर॒पाङ्गर्भ॑म् [27]
स॒मु॒द्रिय॒मित्या॑हा॒पाँ ह्ये॑ष गर्भो॒ यद॒ग्निरग्न॒ आ या॑हि वी॒तय॒ इति॒ वा इ॒मौ लो॒कौ व्यै॑ता॒मग्न॒ आ या॑हि वी॒तय॒ इति॒ यदाहा॒नयो॑र्लो॒कयो॒र्वीत्यै॒ प्रच्यु॑तो॒ वा ए॒ष आ॒यत॑ना॒दग॑तᳶ प्रति॒ष्ठाँ स ए॒तर्ह्य॑ध्व॒र्युञ्च॒ यज॑मानञ्च ध्यायत्यृ॒तँ स॒त्यमित्या॑हे॒यव्ँवा ऋ॒तम॒सौ [28]
स॒त्यम॒नयो॑रे॒वैन॒म्प्रति॑ ष्ठापयति॒ नार्ति॒मार्च्छ॑त्यध्व॒र्युर्न यज॑मानो॒ वरु॑णो॒ वा ए॒ष यज॑मानम॒भ्यैति॒ यद॒ग्निरुप॑नद्ध॒ ओष॑धय॒ᳶ प्रति॑ गृह्णीता॒ग्निमे॒तमित्या॑ह॒ शान्त्यै॒ व्यस्य॒न्विश्वा॒ अम॑ती॒ररा॑ती॒रित्या॑ह॒ रक्ष॑सा॒मप॑हत्यै नि॒षीद॑न्नो॒ अप॑ दुर्म॒तिँ ह॑न॒दित्या॑ह॒ प्रति॑ष्ठित्या॒ ओष॑धय॒ᳶ प्रति॑ मोदध्वम् [29]
ए॒न॒मित्या॒हौष॑धयो॒ वा अ॒ग्नेर्भा॑ग॒धेय॒न्ताभि॑रे॒वैनँ॒ सम॑र्धयति॒ पुष्पा॑वतीस्सुपिप्प॒ला इत्या॑ह॒ तस्मा॒दोष॑धय॒ᳶ फल॑ङ्गृह्णन्त्य॒यव्ँवो॒ गर्भ॑ ऋ॒त्वियᳶ॑ प्र॒त्नँ स॒धस्थ॒मास॑द॒दित्या॑ह॒ याभ्य॑ ए॒वैन॑म्प्रच्या॒वय॑ति॒ तास्वे॒वैन॒म्प्रति॑ ष्ठापयति॒ द्वाभ्या॑मु॒पाव॑हरति॒ प्रति॑ष्ठित्यै ॥ [30]
वा॒रु॒णो वा अ॒ग्निरुप॑नद्धो॒ वि पाज॒सेति॒ वि स्रँ॑सयति सवि॒तृप्र॑सूत ए॒वास्य॒ विषू॑चीव्ँवरुणमे॒निव्ँवि सृ॑जत्य॒प उप॑ सृज॒त्यापो॒ वै शा॒न्ताश्शा॒न्ताभि॑रे॒वास्य॒ शुचँ॑ शमयति ति॒सृभि॒रुप॑ सृजति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वाग्निस्तस्य॒ शुचँ॑ शमयति मि॒त्रस्सँ॒सृज्य॑ पृथि॒वीमित्या॑ह मि॒त्रो वै शि॒वो दे॒वाना॒न्तेनै॒व [31]
ए॒नँ॒ सँ सृ॑जति॒ शान्त्यै॒ यद्ग्रा॒म्याणा॒म्पात्रा॑णाङ्क॒पालैः॑ सँसृ॒जेद्ग्रा॒म्याणि॒ पात्रा॑णि शु॒चार्प॑येदर्मकपा॒लैस्सँ सृ॑जत्ये॒तानि॒ वा अ॑नुपजीवनी॒यानि॒ तान्ये॒व शु॒चार्प॑यति॒ शर्क॑राभि॒स्सँ सृ॑जति॒ धृत्या॒ अथो॑ श॒न्त्वाया॑जलो॒मैस्सँ सृ॑जत्ये॒षा वा अ॒ग्नेᳶ प्रि॒या त॒नूर्यद॒जा प्रि॒ययै॒वैन॑न्त॒नुवा॒ सँ सृ॑ज॒त्यथो॒ तेज॑सा कृष्णाजि॒नस्य॒ लोम॑भि॒स्सम् [32]
सृ॒ज॒ति॒ य॒ज्ञो वै कृ॑ष्णाजि॒नय्यँ॒ज्ञेनै॒व य॒ज्ञँ सँ सृ॑जति रु॒द्रास्स॒म्भृत्य॑ पृथि॒वीमित्या॑है॒ता वा ए॒तन्दे॒वता॒ अग्रे॒ सम॑भर॒न्ताभि॑रे॒वैनँ॒ सम्भ॑रति म॒खस्य॒ शिरो॒ऽसीत्या॑ह य॒ज्ञो वै म॒खस्तस्यै॒तच्छिरो॒ यदु॒खा तस्मा॑दे॒वमा॑ह य॒ज्ञस्य॑ प॒दे स्थ॒ इत्या॑ह य॒ज्ञस्य॒ ह्ये॑ते [33]
प॒दे अथो॒ प्रति॑ष्ठित्यै॒ प्रान्याभि॒र्यच्छ॒त्यन्व॒न्यैर्म॑न्त्रयते मिथुन॒त्वाय॒ त्र्यु॑द्धिङ्करोति॒ त्रय॑ इ॒मे लो॒का ए॒षाल्ँ लो॒काना॒माप्त्यै॒ छन्दो॑भिᳵ करोति वी॒र्यव्ँ॑ वै छन्दाँ॑सि वी॒र्ये॑णै॒वैना॑ङ्करोति॒ यजु॑षा॒ बिल॑ङ्करोति॒ व्यावृ॑त्त्या॒ इय॑तीङ्करोति प्र॒जाप॑तिना यज्ञमु॒खेन॒ सम्मि॑तान्द्विस्त॒नाङ्क॑रोति॒ द्यावा॑पृथि॒व्योर्दोहा॑य॒ चतु॑स्स्तनाङ्करोति पशू॒नान्दोहा॑या॒ष्टास्त॑नाङ्करोति॒ छन्द॑सा॒न्दोहा॑य॒ नवा॑श्रिमभि॒चर॑तᳵ कुर्यात्त्रि॒वृत॑मे॒व वज्रँ॑ स॒म्भृत्य॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒ स्तृत्यै॑ कृ॒त्वाय॒ सा म॒हीमु॒खामिति॒ नि द॑धाति दे॒वता॑स्वे॒वैना॒म्प्रति॑ ष्ठापयति ॥ [34]
स॒प्तभि॑र्धूपयति स॒प्त वै शी॑र्ष॒ण्याः॑ प्रा॒णाश्शिर॑ ए॒तद्य॒ज्ञस्य॒ यदु॒खा शी॒र्षन्ने॒व य॒ज्ञस्य॑ प्रा॒णान्द॑धाति॒ तस्मा॑त्स॒प्त शी॒र्षन्प्रा॒णा अ॑श्वश॒केन॑ धूपयति प्राजाप॒त्यो वा अश्व॑स्सयोनि॒त्वायादि॑ति॒स्त्वेत्या॑हे॒यव्ँ वा अदि॑ति॒रदि॑त्यै॒वादि॑त्याङ्खनत्य॒स्या अक्रू॑रङ्काराय॒ न हि स्वस्स्वँ हि॒नस्ति॑ दे॒वाना॑न्त्वा॒ पत्नी॒रित्या॑ह दे॒वाना॑म् [35]
वा ए॒ताम्पत्न॒योऽग्रे॑ऽकुर्व॒न्ताभि॑रे॒वैना॑न्दधाति धि॒षणा॒स्त्वेत्या॑ह वि॒द्या वै धि॒षणा॑ वि॒द्याभि॑रे॒वैना॑म॒भीन्द्धे॒ ग्नास्त्वेत्या॑ह॒ छन्दाँ॑सि॒ वै ग्नाश्छन्दो॑भिरे॒वैनाँ॑ श्रपयति॒ वरू॑त्रय॒स्त्वेत्या॑ह॒ होत्रा॒ वै वरू॑त्रयो॒ होत्रा॑भिरे॒वैना॑म्पचति॒ जन॑य॒स्त्वेत्या॑ह दे॒वानाव्ँ॒ वै पत्नीः॑ [36]
जन॑य॒स्ताभि॑रे॒वैना॑म्पचति ष॒ड्भिᳶ प॑चति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैना॑म्पचति॒ द्विᳶ पच॒न्त्वित्या॑ह॒ तस्मा॒द्द्विस्सव्ँ॑वत्स॒रस्य॑ स॒स्यम्प॑च्यते वारु॒ण्यु॑खाभीद्धा॑ मै॒त्रियोपै॑ति॒ शान्त्यै॑ दे॒वस्त्वा॑ सवि॒तोद्व॑प॒त्वित्या॑ह सवि॒तृप्र॑सूत ए॒वैना॒म्ब्रह्म॑णा दे॒वता॑भि॒रुद्व॑प॒त्यप॑द्यमाना पृथि॒व्याशा॒ दिश॒ आ पृ॑ण [37]
इत्या॑ह॒ तस्मा॑द॒ग्निस्सर्वा॒ दिशोऽनु॒ वि भा॒त्युत्ति॑ष्ठ बृह॒ती भ॑वो॒र्ध्वा ति॑ष्ठ ध्रु॒वा त्वमित्या॑ह॒ प्रति॑ष्ठित्या असु॒र्य॑म्पात्र॒मना॑च्छृण्ण॒मा च्छृ॑णत्ति देव॒त्राक॑रजक्षी॒रेणा च्छृ॑णत्ति पर॒मव्ँवा ए॒तत्पयो॒ यद॑जक्षी॒रम्प॑र॒मेणै॒वैना॒म्पय॒सा च्छृ॑णत्ति॒ यजु॑षा॒ व्यावृ॑त्त्यै॒ छन्दो॑भि॒रा च्छृ॑णत्ति॒ छन्दो॑भि॒र्वा ए॒षा क्रि॑यते॒ छन्दो॑भिरे॒व छन्दाँ॒स्या च्छृ॑णत्ति ॥ [38]
एक॑विँशत्या॒ माषैः॑ पुरुषशी॒र्षमच्छै॑त्यमे॒ध्या वै माषा॑ अमे॒ध्यम्पु॑रुषशी॒र्षम॑मे॒ध्यैरे॒वास्या॑मे॒ध्यन्नि॑रव॒दाय॒ मेध्य॑ङ्कृ॒त्वा ह॑र॒त्येक॑विँशतिर्भवन्त्येकविँ॒शो वै पुरु॑ष॒ᳶ पुरु॑ष॒स्याप्त्यै॒ व्यृ॑द्धव्ँ॒वा ए॒तत्प्रा॒णैर॑मे॒ध्यय्ँयत्पु॑रुषशी॒र्षँ स॑प्त॒धा वितृ॑ण्णाव्ँवल्मीकव॒पाम्प्रति॒ नि द॑धाति स॒प्त वै शी॑र्ष॒ण्याः॑ प्रा॒णाᳶ प्रा॒णैरे॒वैन॒त्सम॑र्धयति मेध्य॒त्वाय॒ याव॑न्तः [39]
वै मृ॒त्युब॑न्धव॒स्तेषाय्ँ॑य॒म आधि॑पत्य॒म्परी॑याय यमगा॒थाभि॒ᳶ परि॑ गायति य॒मादे॒वैन॑द्वृङ्क्ते ति॒सृभि॒ᳶ परि॑ गायति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒वैन॑ल्लो॒केभ्यो॑ वृङ्क्ते॒ तस्मा॒द्गाय॑ते॒ न देय॒ङ्गाथा॒ हि तद्वृ॒ङ्क्ते॑ऽग्निभ्यᳶ॑ प॒शूना ल॑भते॒ कामा॒ वा अ॒ग्नय॒ᳵ कामा॑ने॒वाव॑ रुन्द्धे॒ यत्प॒शून्नालभे॒तान॑वरुद्धा अस्य [40]
प॒शव॑स्स्यु॒र्यत्पर्य॑ग्निकृतानुत्सृ॒जेद्य॑ज्ञवेश॒सङ्कु॑र्या॒द्यत्सँ॑स्था॒पये॑द्या॒तया॑मानि शी॒र्षाणि॑ स्यु॒र्यत्प॒शूना॒लभ॑ते॒ तेनै॒व प॒शूनव॑ रुन्द्धे॒ यत्पर्य॑ग्निकृतानुत्सृ॒जति॑ शी॒र्ष्णामया॑तयामत्वाय प्राजाप॒त्येन॒ सँ स्था॑पयति य॒ज्ञो वै प्र॒जाप॑तिर्य॒ज्ञ ए॒व य॒ज्ञम्प्रति॑ ष्ठापयति प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत॒ स रि॑रिचा॒नो॑ऽमन्यत॒ स ए॒ता आ॒प्रीर॑पश्य॒त्ताभि॒र्वै स मु॑ख॒तः [41]
आ॒त्मान॒माप्री॑णीत॒ यदे॒ता आ॒प्रियो॒ भव॑न्ति य॒ज्ञो वै प्र॒जाप॑तिर्य॒ज्ञमे॒वैताभि॑र्मुख॒त आ प्री॑णा॒त्यप॑रिमितछन्दसो भव॒न्त्यप॑रिमितᳶ प्र॒जाप॑तिᳶ प्र॒जाप॑ते॒राप्त्या॑ ऊनातिरि॒क्ता मि॑थु॒नाᳶ प्रजा॑त्यै लोम॒शव्ँ वै नामै॒तच्छन्दᳶ॑ प्र॒जाप॑तेᳶ प॒शवो॑ लोम॒शाᳶ प॒शूने॒वाव॑ रुन्द्धे॒ सर्वा॑णि॒ वा ए॒ता रू॒पाणि॒ सर्वा॑णि रू॒पाण्य॒ग्नौ चित्ये॑ क्रियन्ते॒ तस्मा॑दे॒ता अ॒ग्नेश्चित्य॑स्य [42]
भ॒व॒न्त्येक॑विँशतिँ सामिधे॒नीरन्वा॑ह॒ रुग्वा ए॑कविँ॒शो रुच॑मे॒व ग॑च्छ॒त्यथो॑ प्रति॒ष्ठामे॒व प्र॑ति॒ष्ठा ह्ये॑कविँ॒शश्चतु॑र्विँशति॒मन्वा॑ह॒ चतु॑र्विँशतिरर्धमा॒सास्सव्ँ॑वत्स॒रस्सव्ँ॑वत्स॒रो॑ऽग्निर्वै॑श्वान॒रस्सा॒क्षादे॒व वै॑श्वान॒रमव॑ रुन्द्धे॒ परा॑ची॒रन्वा॑ह॒ परा॑ङिव॒ हि सु॑व॒र्गो लो॒कस्समा॑स्त्वाग्न ऋ॒तवो॑ वर्धय॒न्त्वित्या॑ह॒ समा॑भिरे॒वाग्निव्ँव॑र्धयति [43]
ऋ॒तुभि॑स्सव्ँवत्स॒रव्ँ विश्वा॒ आ भा॑हि प्र॒दिशᳶ॑ पृथि॒व्या इत्या॑ह॒ तस्मा॑द॒ग्निस्सर्वा॒ दिशोऽनु॒ वि भा॑ति॒ प्रत्यौ॑हताम॒श्विना॑ मृ॒त्युम॑स्मा॒दित्या॑ह मृ॒त्युमे॒वास्मा॒दप॑ नुद॒त्युद्व॒यन्तम॑स॒स्परीत्या॑ह पा॒प्मा वै तमᳶ॑ पा॒प्मान॑मे॒वास्मा॒दप॑ ह॒न्त्यग॑न्म॒ ज्योति॑रुत्त॒ममित्या॑हा॒सौ वा आ॑दि॒त्यो ज्योति॑रुत्त॒ममा॑दि॒त्यस्यै॒व सायु॑ज्यङ्गच्छति॒ न सव्ँ॑वत्स॒रस्ति॑ष्ठति॒ नास्य॒ श्रीस्ति॑ष्ठति॒ यस्यै॒ताᳵ क्रि॒यन्ते॒ ज्योति॑ष्मतीमुत्त॒मामन्वा॑ह॒ ज्योति॑रे॒वास्मा॑ उ॒परि॑ष्टाद्दधाति सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै ॥ [44]
ष॒ड्भिर्दी॑क्षयति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैन॑न्दीक्षयति स॒प्तभि॑र्दीक्षयति स॒प्त छन्दाँ॑सि॒ छन्दो॑भिरे॒वैन॑न्दीक्षयति॒ विश्वे॑ दे॒वस्य॑ ने॒तुरित्य॑नु॒ष्टुभो॑त्त॒मया॑ जुहोति॒ वाग्वा अ॑नु॒ष्टुप्तस्मा॑त्प्रा॒णानाव्ँ॒वागु॑त्त॒मैक॑स्माद॒क्षरा॒दना॑प्तम्प्रथ॒मम्प॒दन्तस्मा॒द्यद्वा॒चोऽना॑प्त॒न्तन्म॑नु॒ष्या॑ उप॑ जीवन्ति पू॒र्णया॑ जुहोति पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिः [45]
प्र॒जाप॑ते॒राप्त्यै॒ न्यू॑नया जुहोति॒ न्यू॑ना॒द्धि प्र॒जाप॑तिᳶ प्र॒जा असृ॑जत प्र॒जानाँ॒ सृष्ट्यै॒ यद॒र्चिषि॑ प्रवृ॒ञ्ज्याद्भू॒तमव॑ रुन्धीत॒ यदङ्गा॑रेषु भवि॒ष्यदङ्गा॑रेषु॒ प्र वृ॑णक्ति भवि॒ष्यदे॒वाव॑ रुन्द्धे भवि॒ष्यद्धि भूयो॑ भू॒ताद्द्वाभ्या॒म्प्र वृ॑णक्ति द्वि॒पाद्यज॑मान॒ᳶ प्रति॑ष्ठित्यै॒ ब्रह्म॑णा॒ वा ए॒षा यजु॑षा॒ सम्भृ॑ता॒ यदु॒खा सा यद्भिद्ये॒तार्ति॒मार्च्छे॑त् [46]
यज॑मानो ह॒न्येता॑स्य य॒ज्ञो मित्रै॒तामु॒खान्त॒पेत्या॑ह॒ ब्रह्म॒ वै मि॒त्रो ब्रह्म॑न्ने॒वैना॒म्प्रति॑ ष्ठापयति॒ नार्ति॒मार्च्छ॑ति॒ यज॑मानो॒ नास्य॑ य॒ज्ञो ह॑न्यते॒ यदि॒ भिद्ये॑त॒ तैरे॒व क॒पालै॒स्सँ सृ॑जे॒त्सैव तत॒ᳶ प्राय॑श्चित्ति॒र्यो ग॒तश्री॒स्स्यान्म॑थि॒त्वा तस्याव॑ दध्याद्भू॒तो वा ए॒ष स स्वां [47]
दे॒वता॒मुपै॑ति॒ यो भूति॑काम॒स्स्याद्य उ॒खायै॑ स॒म्भवे॒त्स ए॒व तस्य॑ स्या॒दतो॒ ह्ये॑ष स॒म्भव॑त्ये॒ष वै स्व॑य॒म्भूर्नाम॒ भव॑त्ये॒व यङ्का॒मये॑त॒ भ्रातृ॑व्यमस्मै जनयेय॒मित्य॒न्यत॒स्तस्या॒हृत्याव॑ दध्यात्सा॒क्षादे॒वास्मै॒ भ्रातृ॑व्यञ्जनयत्यम्ब॒रीषा॒दन्न॑काम॒स्याव॑ दध्यादम्ब॒रीषे॒ वा अन्न॑म्भ्रियते॒ सयो॑न्ये॒वान्न॑म् [48]
अव॑ रुन्द्धे॒ मुञ्जा॒नव॑ दधा॒त्यूर्ग्वै मुञ्जा॒ ऊर्ज॑मे॒वास्मा॒ अपि॑ दधात्य॒ग्निर्दे॒वेभ्यो॒ निला॑यत॒ स क्रु॑मु॒कम्प्रावि॑शत्क्रुमु॒कमव॑ दधाति॒ यदे॒वास्य॒ तत्र॒ न्य॑क्त॒न्तदे॒वाव॑ रुन्द्ध॒ आज्ये॑न॒ सय्ँयौ॑त्ये॒तद्वा अ॒ग्नेᳶ प्रि॒यन्धाम॒ यदाज्य॑म्प्रि॒येणै॒वैन॒न्धाम्ना॒ सम॑र्धय॒त्यथो॒ तेज॑सा [49]
वैक॑ङ्कती॒मा द॑धाति॒ भा ए॒वाव॑ रुन्द्धे शमी॒मयी॒मा द॑धाति॒ शान्त्यै॒ सीद॒ त्वम्मा॒तुर॒स्या उ॒पस्थ॒ इति॑ ति॒सृभि॑र्जा॒तमुप॑ तिष्ठते॒ त्रय॑ इ॒मे लो॒का ए॒ष्वे॑व लो॒केष्वा॒विद॑ङ्गच्छ॒त्यथो॑ प्रा॒णाने॒वात्मन्ध॑त्ते ॥ [50]
न ह॑ स्म॒ वै पु॒राग्निरप॑रशुवृक्णन्दहति॒ तद॑स्मै प्रयो॒ग ए॒वर्षि॑रस्वदय॒द्यद॑ग्ने॒ यानि॒ कानि॒ चेति॑ स॒मिध॒मा द॑धा॒त्यप॑रशुवृक्णमे॒वास्मै॑ स्वदयति॒ सर्व॑मस्मै स्वदते॒ य ए॒वव्ँ वेदौदु॑म्बरी॒मा द॑धा॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्ज॑मे॒वास्मा॒ अपि॑ दधाति प्र॒जाप॑तिर॒ग्निम॑सृजत॒ तँ सृ॒ष्टँ रक्षाँ॑सि [51]
अ॒जि॒घाँ॒स॒न्त्स ए॒तद्रा॑क्षो॒घ्नम॑पश्य॒त्तेन॒ वै स रक्षाँ॒स्यपा॑हत॒ यद्रा॑क्षो॒घ्नम्भव॑त्य॒ग्नेरे॒व तेन॑ जा॒ताद्रक्षाँ॒स्यप॑ ह॒न्त्याश्व॑त्थी॒मा द॑धात्यश्व॒त्थो वै वन॒स्पती॑नाँ सपत्नसा॒हो विजि॑त्यै॒ वैक॑ङ्कती॒मा द॑धाति॒ भा ए॒वाव॑ रुन्द्धे शमी॒मयी॒मा द॑धाति॒ शान्त्यै॒ सँ॑शितम्मे॒ ब्रह्मोदे॑षाम्बा॒हू अ॑तिर॒मित्यु॑त्त॒मे औदु॑म्बरी [52]
वा॒च॒य॒ति॒ ब्रह्म॑णै॒व क्ष॒त्रँ सँ श्य॑ति क्ष॒त्रेण॒ ब्रह्म॒ तस्मा॑द्ब्राह्म॒णो रा॑ज॒न्य॑वा॒नत्य॒न्यम्ब्रा॑ह्म॒णन्तस्मा॑द्राज॒न्यो॑ ब्राह्म॒णवा॒नत्य॒न्यँ रा॑ज॒न्य॑म्मृ॒त्युर्वा ए॒ष यद॒ग्निर॒मृतँ॒ हिर॑ण्यँ रु॒क्ममन्त॑र॒म्प्रति॑ मुञ्चते॒ऽमृत॑मे॒व मृ॒त्योर॒न्तर्ध॑त्त॒ एक॑विँशतिनिर्बाधो भव॒त्येक॑विँशति॒र्वै दे॑वलो॒का द्वाद॑श॒ मासा॒ᳶ पञ्च॒र्तव॒स्त्रय॑ इ॒मे लो॒का अ॒सावा॑दि॒त्यः [53]
ए॒क॒विँ॒श ए॒ताव॑न्तो॒ वै दे॑वलो॒कास्तेभ्य॑ ए॒व भ्रातृ॑व्यम॒न्तरे॑ति निर्बा॒धैर्वै दे॒वा असु॑रान्निर्बा॒धे॑ऽकुर्वत॒ तन्नि॑र्बा॒धाना॑न्निर्बाध॒त्वन्नि॑र्बा॒धी भ॑वति॒ भ्रातृ॑व्याने॒व नि॑र्बा॒धे कु॑रुते सावित्रि॒या प्रति॑ मुञ्चते॒ प्रसू॑त्यै॒ नक्तो॒षासेत्युत्त॑रयाहोरा॒त्राभ्या॑मे॒वैन॒मुद्य॑च्छते दे॒वा अ॒ग्निन्धा॑रयन्द्रविणो॒दा इत्या॑ह प्रा॒णा वै दे॒वा द्र॑विणो॒दा अ॑होरा॒त्राभ्या॑मे॒वैन॑मु॒द्यत्य॑ [54]
प्रा॒णैर्दा॑धा॒रासी॑न॒ᳶ प्रति॑ मुञ्चते॒ तस्मा॒दासी॑नाᳶ प्र॒जाᳶ प्र जा॑यन्ते कृष्णाजि॒नमुत्त॑र॒न्तेजो॒ वै हिर॑ण्य॒म्ब्रह्म॑ कृष्णाजि॒नन्तेज॑सा चै॒वैन॒म्ब्रह्म॑णा चोभ॒यत॒ᳶ परि॑ गृह्णाति॒ षडु॑द्यामँ शि॒क्य॑म्भवति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैन॒मुद्य॑च्छते॒ यद्द्वाद॑शोद्यामँ सव्ँवत्स॒रेणै॒व मौ॒ञ्जम्भ॑व॒त्यूर्ग्वै मुञ्जा॑ ऊ॒र्जैवैनँ॒ सम॑र्धयति सुप॒र्णो॑ऽसि ग॒रुत्मा॒नित्यवे॑क्षते रू॒पमे॒वास्यै॒तन्म॑हि॒मानव्ँ॒व्याच॑ष्टे॒ दिव॑ङ्गच्छ॒ सुवᳶ॑ प॒तेत्या॑ह सुव॒र्गमे॒वैनल्ँ॑ लो॒कङ्ग॑मयति ॥ [55]
समि॑द्धो अ॒ञ्जन्कृद॑रम्मती॒नाङ्घृ॒तम॑ग्ने॒ मधु॑म॒त्पिन्व॑मानः । वा॒जी वह॑न्वा॒जिन॑ञ्जातवेदो दे॒वानाव्ँ॑वक्षि प्रि॒यमा स॒धस्थ॑म् । घृ॒तेना॒ञ्जन्त्सम्प॒थो दे॑व॒याना॑न्प्रजा॒नन्वा॒ज्यप्ये॑तु दे॒वान् । अनु॑ त्वा सप्ते प्र॒दिश॑स्सचन्ताँ स्व॒धाम॒स्मै यज॑मानाय धेहि । ईड्य॒श्चासि॒ वन्द्य॑श्च वाजिन्ना॒शुश्चासि॒ मेध्य॑श्च सप्ते । अ॒ग्निष्ट्वा॑ [56]
दे॒वैर्वसु॑भिस्स॒जोषाः॑ प्री॒तव्ँवह्निव्ँ॑वहतु जा॒तवे॑दाः । स्ती॒र्णम्ब॒र्हिस्सु॒ष्टरी॑मा जुषा॒णोरु पृ॒थु प्रथ॑मानम्पृथि॒व्याम् । दे॒वेभि॑र्यु॒क्तमदि॑तिस्स॒जोषाः॑ स्यो॒नङ्कृ॑ण्वा॒ना सु॑वि॒ते द॑धातु । ए॒ता उ॑ वस्सु॒भगा॑ वि॒श्वरू॑पा॒ वि पक्षो॑भि॒श्श्रय॑माणा॒ उदातैः॑ । ऋ॒ष्वास्स॒तीᳵ क॒वष॒श्शुम्भ॑माना॒ द्वारो॑ दे॒वीस्सु॑प्राय॒णा भ॑वन्तु । अ॒न्त॒रा मि॒त्रावरु॑णा॒ चर॑न्ती॒ मुखय्ँ॑ य॒ज्ञाना॑म॒भि सव्ँ॑विदा॒ने । उ॒षासा॑ वाम् [57]
सु॒हि॒र॒ण्ये सु॑शि॒ल्पे ऋ॒तस्य॒ योना॑वि॒ह सा॑दयामि । प्र॒थ॒मा वाँ॑ सर॒थिना॑ सु॒वर्णा॑ दे॒वौ पश्य॑न्तौ॒ भुव॑नानि॒ विश्वा॑ । अपि॑प्रय॒ञ्चोद॑ना वा॒म्मिमा॑ना॒ होता॑रा॒ ज्योतिᳶ॑ प्र॒दिशा॑ दि॒शन्ता॑ । आ॒दि॒त्यैर्नो॒ भार॑ती वष्टु य॒ज्ञँ सर॑स्वती स॒ह रु॒द्रैर्न॑ आवीत् । इडोप॑हूता॒ वसु॑भिस्स॒जोषा॑ य॒ज्ञन्नो॑ देवीर॒मृते॑षु धत्त । त्वष्टा॑ वी॒रन्दे॒वका॑मञ्जजान॒ त्वष्टु॒रर्वा॑ जायत आ॒शुरश्वः॑ । [58]
त्वष्टे॒दव्ँविश्व॒म्भुव॑नञ्जजान ब॒होᳵ क॒र्तार॑मि॒ह य॑क्षि होतः । अश्वो॑ घृ॒तेन॒ त्मन्या॒ सम॑क्त॒ उप॑ दे॒वाँ ऋ॑तु॒शᳶ पाथ॑ एतु । वन॒स्पति॑र्देवलो॒कम्प्र॑जा॒नन्न॒ग्निना॑ ह॒व्या स्व॑दि॒तानि॑ वक्षत् । प्र॒जाप॑ते॒स्तप॑सा वावृधा॒नस्स॒द्यो जा॒तो द॑धिषे य॒ज्ञम॑ग्ने । स्वाहा॑कृतेन ह॒विषा॑ पुरोगा या॒हि सा॒ध्या ह॒विर॑दन्तु दे॒वाः ॥ [59]