अग्ना॑विष्णू स॒जोष॑से॒मा व॑र्धन्तु वा॒ङ्गिरः॑ । द्यु॒म्नैर्वाजे॑भि॒राग॑तम् । वाज॑श्च मे प्रस॒वश्च॑ मे॒ प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे धी॒तिश्च॑ मे॒ क्रतु॑श्च मे॒ स्वर॑श्च मे॒ श्लोक॑श्च मे श्रा॒वश्च॑ मे॒ श्रुति॑श्च मे॒ ज्योति॑श्च मे॒ सुव॑श्च मे प्रा॒णश्च॑ मेऽपा॒नः [1]
च॒ मे॒ व्या॒नश्च॒ मेऽसु॑श्च मे चि॒त्तञ्च॑ म॒ आधी॑तञ्च मे॒ वाक्च॑ मे॒ मन॑श्च मे॒ चक्षु॑श्च मे॒ श्रोत्र॑ञ्च मे॒ दक्ष॑श्च मे॒ बल॑ञ्च म॒ ओज॑श्च मे॒ सह॑श्च म॒ आयु॑श्च मे ज॒रा च॑ म आ॒त्मा च॑ मे त॒नूश्च॑ मे॒ शर्म॑ च मे॒ वर्म॑ च॒ मेऽङ्गा॑नि च मे॒ऽस्थानि॑ च मे॒ परूँ॑षि च मे॒ शरी॑राणि च मे ॥ [2]
ज्यैष्ठ्य॑ञ्च म॒ आधि॑पत्यञ्च मे म॒न्युश्च॑ मे॒ भाम॑श्च॒ मेऽम॑श्च॒ मेऽम्भ॑श्च मे जे॒मा च॑ मे महि॒मा च॑ मे वरि॒मा च॑ मे प्रथि॒मा च॑ मे व॒र्ष्मा च॑ मे द्राघु॒या च॑ मे वृ॒द्धञ्च॑ मे॒ वृद्धि॑श्च मे स॒त्यञ्च॑ मे श्र॒द्धा च॑ मे॒ जग॑च्च [3]
मे॒ धन॑ञ्च मे॒ वश॑श्च मे॒ त्विषि॑श्च मे क्री॒डा च॑ मे॒ मोद॑श्च मे जा॒तञ्च॑ मे जनि॒ष्यमा॑णञ्च मे सू॒क्तञ्च॑ मे सुकृ॒तञ्च॑ मे वि॒त्तञ्च॑ मे॒ वेद्य॑ञ्च मे भू॒तञ्च॑ मे भवि॒ष्यच्च॑ मे सु॒गञ्च॑ मे सु॒पथ॑ञ्च म ऋ॒द्धञ्च॑ म॒ ऋद्धि॑श्च मे कॢ॒प्तञ्च॑ मे॒ कॢप्ति॑श्च मे म॒तिश्च॑ मे सुम॒तिश्च॑ मे ॥ [4]
शञ्च॑ मे॒ मय॑श्च मे प्रि॒यञ्च॑ मेऽनुका॒मश्च॑ मे॒ काम॑श्च मे सौमन॒सश्च॑ मे भ॒द्रञ्च॑ मे॒ श्रेय॑श्च मे॒ वस्य॑श्च मे॒ यश॑श्च मे॒ भग॑श्च मे॒ द्रवि॑णञ्च मे य॒न्ता च॑ मे ध॒र्ता च॑ मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्व॑ञ्च [5]
मे॒ मह॑श्च मे सव्ँ॒विच्च॑ मे॒ ज्ञात्र॑ञ्च मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीर॑ञ्च मे ल॒यश्च॑ म ऋ॒तञ्च॑ मे॒ऽमृत॑ञ्च मेऽय॒क्ष्मञ्च॒ मेऽना॑मयच्च मे जी॒वातु॑श्च मे दीर्घायु॒त्वञ्च॑ मेऽनमि॒त्रञ्च॒ मेऽभ॑यञ्च मे सु॒गञ्च॑ मे॒ शय॑नञ्च मे सू॒षा च॑ मे सु॒दिन॑ञ्च मे ॥ [6]
ऊर्क्च॑ मे सू॒नृता॑ च मे॒ पय॑श्च मे॒ रस॑श्च मे घृ॒तञ्च॑ मे॒ मधु॑ च मे॒ सग्धि॑श्च मे॒ सपी॑तिश्च मे कृ॒षिश्च॑ मे॒ वृष्टि॑श्च मे॒ जैत्र॑ञ्च म॒ औद्भि॑द्यञ्च मे र॒यिश्च॑ मे॒ राय॑श्च मे पु॒ष्टञ्च॑ मे॒ पुष्टि॑श्च मे वि॒भु च॑ [7]
मे॒ प्र॒भु च॑ मे ब॒हु च॑ मे॒ भूय॑श्च मे पू॒र्णञ्च॑ मे पू॒र्णत॑रञ्च॒ मेऽक्षि॑तिश्च मे॒ कूय॑वाश्च॒ मेऽन्न॑ञ्च॒ मेऽक्षु॑च्च मे व्री॒हय॑श्च मे॒ यवा॑श्च मे॒ माषा॑श्च मे॒ तिला॑श्च मे मु॒द्गाश्च॑ मे ख॒ल्वा॑श्च मे गो॒धूमा॑श्च मे म॒सुरा॑श्च मे प्रि॒यङ्ग॑वश्च॒ मेऽण॑वश्च मे श्या॒माका॑श्च मे नी॒वारा॑श्च मे ॥ [8]
अश्मा॑ च मे॒ मृत्ति॑का च मे गि॒रय॑श्च मे॒ पर्व॑ताश्च मे॒ सिक॑ताश्च मे॒ वन॒स्पत॑यश्च मे॒ हिर॑ण्यञ्च॒ मेऽय॑श्च मे॒ सीस॑ञ्च मे॒ त्रपु॑श्च मे श्या॒मञ्च॑ मे लो॒हञ्च॑ मे॒ऽग्निश्च॑ म॒ आप॑श्च मे वी॒रुध॑श्च म॒ ओष॑धयश्च मे कृष्टप॒च्यञ्च॑ [9]
मे॒ऽकृ॒ष्ट॒प॒च्यञ्च॑ मे ग्रा॒म्याश्च॑ मे प॒शव॑ आर॒ण्याश्च॑ य॒ज्ञेन॑ कल्पन्ताव्ँ वि॒त्तञ्च॑ मे॒ वित्ति॑श्च मे भू॒तञ्च॑ मे॒ भूति॑श्च मे॒ वसु॑ च मे वस॒तिश्च॑ मे॒ कर्म॑ च मे॒ शक्ति॑श्च॒ मेऽर्थ॑श्च म॒ एम॑श्च म॒ इति॑श्च मे॒ गति॑श्च मे ॥ [10]
अ॒ग्निश्च॑ म॒ इन्द्र॑श्च मे॒ सोम॑श्च म॒ इन्द्र॑श्च मे सवि॒ता च॑ म॒ इन्द्र॑श्च मे॒ सर॑स्वती च म॒ इन्द्र॑श्च मे पू॒षा च॑ म॒ इन्द्र॑श्च मे॒ बृह॒स्पति॑श्च म॒ इन्द्र॑श्च मे मि॒त्रश्च॑ म॒ इन्द्र॑श्च मे॒ वरु॑णश्च म॒ इन्द्र॑श्च मे॒ त्वष्टा॑ च [11]
म॒ इन्द्र॑श्च मे धा॒ता च॑ म॒ इन्द्र॑श्च मे॒ विष्णु॑श्च म॒ इन्द्र॑श्च मे॒ऽश्विनौ॑ च म॒ इन्द्र॑श्च मे म॒रुत॑श्च म॒ इन्द्र॑श्च मे॒ विश्वे॑ च मे दे॒वा इन्द्र॑श्च मे पृथि॒वी च॑ म॒ इन्द्र॑श्च मे॒ऽन्तरि॑क्षञ्च म॒ इन्द्र॑श्च मे॒ द्यौश्च॑ म॒ इन्द्र॑श्च मे॒ दिश॑श्च म॒ इन्द्र॑श्च मे मू॒र्धा च॑ म॒ इन्द्र॑श्च मे प्र॒जाप॑तिश्च म॒ इन्द्र॑श्च मे ॥ [12]
अँ॒शुश्च॑ मे र॒श्मिश्च॒ मेऽदा॑भ्यश्च॒ मेऽधि॑पतिश्च म उपाँ॒शुश्च॑ मेऽन्तर्या॒मश्च॑ म ऐन्द्रवाय॒वश्च॑ मे मैत्रावरु॒णश्च॑ म आश्वि॒नश्च॑ मे प्रतिप्र॒स्थान॑श्च मे शु॒क्रश्च॑ मे म॒न्थी च॑ म आग्रय॒णश्च॑ मे वैश्वदे॒वश्च॑ मे ध्रु॒वश्च॑ मे वैश्वान॒रश्च॑ म ऋतुग्र॒हाश्च॑ [13]
मे॒ऽति॒ग्रा॒ह्या॑श्च म ऐन्द्रा॒ग्नश्च॑ मे वैश्वदे॒वश्च॑ मे मरुत्व॒तीया॑श्च मे माहे॒न्द्रश्च॑ म आदि॒त्यश्च॑ मे सावि॒त्रश्च॑ मे सारस्व॒तश्च॑ मे पौ॒ष्णश्च॑ मे पात्नीव॒तश्च॑ मे हारियोज॒नश्च॑ मे ॥ [14]
इ॒ध्मश्च॑ मे ब॒र्हिश्च॑ मे॒ वेदि॑श्च मे॒ धिष्णि॑याश्च मे॒ स्रुच॑श्च मे चम॒साश्च॑ मे॒ ग्रावा॑णश्च मे॒ स्वर॑वश्च म उपर॒वाश्च॑ मेऽधि॒षव॑णे च मे द्रोणकल॒शश्च॑ मे वाय॒व्या॑नि च मे पूत॒भृच्च॑ म आधव॒नीय॑श्च म॒ आग्नी॑ध्रञ्च मे हवि॒र्धान॑ञ्च मे गृ॒हाश्च॑ मे॒ सद॑श्च मे पुरो॒डाशा॑श्च मे पच॒ताश्च॑ मेऽवभृ॒थश्च॑ मे स्वगाका॒रश्च॑ मे ॥ [15]
अ॒ग्निश्च॑ मे घ॒र्मश्च॑ मे॒ऽर्कश्च॑ मे॒ सूर्य॑श्च मे प्रा॒णश्च॑ मेऽश्वमे॒धश्च॑ मे पृथि॒वी च॒ मेऽदि॑तिश्च मे॒ दिति॑श्च मे॒ द्यौश्च॑ मे॒ शक्व॑रीर॒ङ्गुल॑यो॒ दिश॑श्च मे य॒ज्ञेन॑ कल्पन्ता॒मृक्च॑ मे॒ साम॑ च मे॒ स्तोम॑श्च मे॒ यजु॑श्च मे दी॒क्षा च॑ मे॒ तप॑श्च म ऋ॒तुश्च॑ मे व्र॒तञ्च॑ मेऽहोरा॒त्रयो॑र्वृ॒ष्ट्या बृ॑हद्रथन्त॒रे च॑ मे य॒ज्ञेन॑ कल्पेताम् ॥ [16]
गर्भा॑श्च मे व॒त्साश्च॑ मे॒ त्र्यवि॑श्च मे त्र्य॒वी च॑ मे दित्य॒वाट्च॑ मे दित्यौ॒ही च॑ मे॒ पञ्चा॑विश्च मे पञ्चा॒वी च॑ मे त्रिव॒त्सश्च॑ मे त्रिव॒त्सा च॑ मे तुर्य॒वाट्च॑ मे तुर्यौ॒ही च॑ मे पष्ठ॒वाच्च॑ मे पष्ठौ॒ही च॑ म उ॒क्षा च॑ मे व॒शा च॑ म ऋष॒भश्च॑ [17]
मे॒ वे॒हच्चमेऽन॒ड्वाञ्च॑ मे धे॒नुश्च॑ म॒ आयु॑र्य॒ज्ञेन॑ कल्पताम्प्रा॒णो य॒ज्ञेन॑ कल्पतामपा॒नो य॒ज्ञेन॑ कल्पताव्व्ँया॒नो य॒ज्ञेन॑ कल्पता॒ञ्चक्षु॑र्य॒ज्ञेन॑ कल्पताँ॒ श्रोत्रय्ँ॑ य॒ज्ञेन॑ कल्पता॒म्मनो॑ य॒ज्ञेन॑ कल्पताव्ँ॒वाग्य॒ज्ञेन॑ कल्पतामा॒त्मा य॒ज्ञेन॑ कल्पताय्यँ॒ज्ञो य॒ज्ञेन॑ कल्पताम् ॥ [18]
एका॑ च मे ति॒स्रश्च॑ मे॒ पञ्च॑ च मे स॒प्त च॑ मे॒ नव॑ च म॒ एका॑दश च मे॒ त्रयो॑दश च मे॒ पञ्च॑दश च मे स॒प्तद॑श च मे॒ नव॑दश च म॒ एक॑विँशतिश्च मे॒ त्रयो॑विँशतिश्च मे॒ पञ्च॑विँशतिश्च मे स॒प्तविँ॑शतिश्च मे॒ नव॑विँशतिश्च म॒ एक॑त्रिँशच्च मे॒ त्रय॑स्त्रिँशच्च [19]
मे॒ चत॑स्रश्च मे॒ऽष्टौ च॑ मे॒ द्वाद॑श च मे॒ षोड॑श च मे विँश॒तिश्च॑ मे॒ चतु॑र्विँशतिश्च मे॒ऽष्टाविँ॑शतिश्च मे॒ द्वात्रिँ॑शच्च मे॒ षट्त्रिँ॑शच्च मे चत्वारिँ॒शच्च॑ मे॒ चतु॑श्चत्वारिँशच्च मे॒ऽष्टाच॑त्वारिँशच्च मे॒ वाज॑श्च प्रस॒वश्चा॑पि॒जश्च॒ क्रतु॑श्च॒ सुव॑श्च मू॒र्धा च॒ व्यश्ञि॑यश्चान्त्याय॒नश्चान्त्य॑श्च भौव॒नश्च॒ भुव॑न॒श्चाधि॑पतिश्च ॥ [20]
वाजो॑ नस्स॒प्त प्र॒दिश॒श्चत॑स्रो वा परा॒वतः॑ । वाजो॑ नो॒ विश्वै॑र्दे॒वैर्धन॑सातावि॒हाव॑तु । विश्वे॑ अ॒द्य म॒रुतो॒ विश्व॑ ऊ॒ती विश्वे॑ भवन्त्व॒ग्नय॒स्समि॑द्धाः । विश्वे॑ नो दे॒वा अव॒सा ग॑मन्तु॒ विश्व॑मस्तु॒ द्रवि॑णव्ँ॒वाजो॑ अ॒स्मे । वाज॑स्य प्रस॒वन्दे॑वा॒ रथै॑र्याता हिर॒ण्ययैः॑ । अ॒ग्निरिन्द्रो॒ बृह॒स्पति॑र्म॒रुत॒स्सोम॑पीतये । वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु [21]
वि॒प्रा॒ अ॒मृ॒ता॒ ऋ॒त॒ज्ञाः॒ । अ॒स्य मध्वᳶ॑ पिबत मा॒दय॑ध्वन्तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः॑ । वाजᳶ॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नो॒ वाजो॑ दे॒वाँ ऋ॒तुभि॑ᳵ कल्पयाति । वाज॑स्य॒ हि प्र॑स॒वो नन्न॑मीति॒ विश्वा॒ आशा॒ वाज॑पतिर्भवेयम् । पयᳶ॑ पृथि॒व्याम्पय॒ ओष॑धीषु॒ पयो॑ दि॒व्य॑न्तरि॑क्षे॒ पयो॑ धाम् । पय॑स्वतीᳶ प्र॒दिश॑स्सन्तु॒ मह्य॑म् । सम्मा॑ सृजामि॒ पय॑सा घृ॒तेन॒ सम्मा॑ सृजाम्य॒पः [22]
ओष॑धीभिः । सो॑ऽहव्ँवाजँ॑ सनेयमग्ने । नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒मेकँ॑ समी॒ची । द्यावा॒ क्षामा॑ रु॒क्मो अ॒न्तर्वि भा॑ति दे॒वा अ॒ग्निन्धा॑रयन्द्रविणो॒दाः । स॒मु॒द्रो॑ऽसि॒ नभ॑स्वाना॒र्द्रदा॑नुश्श॒म्भूर्म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा॑ मारु॒तो॑ऽसि म॒रुता॑ङ्ग॒णश्श॒म्भूर्म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा॑ऽव॒स्युर॑सि॒ दुव॑स्वाञ्छ॒म्भूर्म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा॑ ॥ [23]
अ॒ग्निय्ँयु॑नज्मि॒ शव॑सा घृ॒तेन॑ दि॒व्यँ सु॑प॒र्णव्ँवय॑सा बृ॒हन्त॑म् । तेन॑ व॒यम्प॑तेम ब्र॒ध्नस्य॑ वि॒ष्टपँ॒ सुवो॒ रुहा॑णा॒ अधि॒ नाक॑ उत्त॒मे । इ॒मौ ते॑ प॒क्षाव॒जरौ॑ पत॒त्रिणो॒ याभ्याँ॒ रक्षाँ॑स्यप॒हँस्य॑ग्ने । ताभ्या॑म्पतेम सु॒कृता॑मु लो॒कय्ँयत्रर्ष॑यᳶ प्रथम॒जा ये पु॑रा॒णाः । चिद॑सि समु॒द्रयो॑नि॒रिन्दु॒र्दक्ष॑श्श्ये॒न ऋ॒तावा॑ । हिर॑ण्यपक्षश्शकु॒नो भु॑र॒ण्युर्म॒हान्त्स॒धस्थे॑ ध्रु॒वः [24]
आ निष॑त्तः । नम॑स्ते अस्तु॒ मा मा॑ हिँसी॒र्विश्व॑स्य मू॒र्धन्नधि॑ तिष्ठसि श्रि॒तः । स॒मु॒द्रे ते॒ हृद॑यम॒न्तरायु॒र्द्यावा॑पृथि॒वी भुव॑ने॒ष्वर्पि॑ते । उ॒द्नो द॑त्तोद॒धिम्भि॑न्त दि॒वᳶ प॒र्जन्या॑द॒न्तरि॑क्षात्पृथि॒व्यास्ततो॑ नो॒ वृष्ट्या॑वत । दि॒वो मू॒र्धासि॑ पृथि॒व्या नाभि॒रूर्ग॒पामोष॑धीनाम् । वि॒श्वायु॒श्शर्म॑ स॒प्रथा॒ नम॑स्प॒थे । येनर्ष॑य॒स्तप॑सा स॒त्त्रम् [25]
आस॒तेन्धा॑ना अ॒ग्निँ सुव॑रा॒भर॑न्तः । तस्मि॑न्न॒हन्नि द॑धे॒ नाके॑ अ॒ग्निमे॒तय्ँयमा॒हुर्मन॑वस्स्ती॒र्णब॑र्हिषम् । तम्पत्नी॑भि॒रनु॑ गच्छेम देवाᳶ पु॒त्रैर्भ्रातृ॑भिरु॒त वा॒ हिर॑ण्यैः । नाक॑ङ्गृह्णा॒नास्सु॑कृ॒तस्य॑ लो॒के तृ॒तीये॑ पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः । आ वा॒चो मध्य॑मरुहद्भुर॒ण्युर॒यम॒ग्निस्सत्प॑ति॒श्चेकि॑तानः । पृ॒ष्ठे पृ॑थि॒व्या निहि॑तो॒ दवि॑द्युतदधस्प॒दङ्कृ॑णुते [26]
ये पृ॑त॒न्यवः॑ । अ॒यम॒ग्निर्वी॒रत॑मो वयो॒धास्स॑ह॒स्रियो॑ दीप्यता॒मप्र॑युच्छन् । वि॒भ्राज॑मानस्सरि॒रस्य॒ मध्य॒ उप॒ प्र या॑त दि॒व्यानि॒ धाम॑ । सम्प्र च्य॑वध्व॒मनु॒ सम्प्र या॒ताग्ने॑ प॒थो दे॑व॒याना॑न्कृणुध्वम् । अ॒स्मिन्त्स॒धस्थे॒ अध्युत्त॑रस्मि॒न्विश्वे॑ देवा॒ यज॑मानश्च सीदत । येना॑ स॒हस्रव्ँ॒वह॑सि॒ येना॑ग्ने सर्ववेद॒सम् । तेने॒मय्ँ य॒ज्ञन्नो॑ वह देव॒यानो॒ यः [27]
उ॒त्त॒मः । उद्बु॑ध्यस्वाग्ने॒ प्रति॑ जागृह्येनमिष्टापू॒र्ते सँसृ॑जेथाम॒यञ्च॑ । पुन॑ᳵ कृ॒ण्वँस्त्वा॑ पि॒तरय्ँ॒युवा॑नम॒न्वाताँ॑सी॒त्त्वयि॒ तन्तु॑मे॒तम् । अ॒यन्ते॒ योनि॑र्ऋ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः । तञ्जा॒नन्न॑ग्न॒ आ रो॒हाथा॑ नो वर्धया र॒यिम् ॥ [28]
ममा॑ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु व॒यन्त्वेन्धा॑नास्त॒नुव॑म्पुषेम । मह्य॑न्नमन्ताम्प्र॒दिश॒श्चत॑स्र॒स्त्वयाध्य॑क्षेण॒ पृत॑ना जयेम । मम॑ दे॒वा वि॑ह॒वे स॑न्तु॒ सर्व॒ इन्द्रा॑वन्तो म॒रुतो॒ विष्णु॑र॒ग्निः । ममा॒न्तरि॑क्षमु॒रु गो॒पम॑स्तु॒ मह्यव्ँ॒वातᳶ॑ पवता॒ङ्कामे॑ अ॒स्मिन् । मयि॑ दे॒वा द्रवि॑ण॒मा य॑जन्ता॒म्मय्या॒शीर॑स्तु॒ मयि॑ दे॒वहू॑तिः । दैव्या॒ होता॑रा वनिषन्त [29]
पूर्वेऽरि॑ष्टास्स्याम त॒नुवा॑ सु॒वीराः॑ । मह्यय्ँ॑यजन्तु॒ मम॒ यानि॑ ह॒व्याकू॑तिस्स॒त्या मन॑सो मे अस्तु । एनो॒ मा नि गा॑ङ्कत॒मच्च॒नाहव्ँविश्वे॑ देवासो॒ अधि॑ वोचता मे । देवीः॑ षडुर्वीरु॒रु ण॑ᳵ कृणोत॒ विश्वे॑ देवास इ॒ह वी॑रयध्वम् । मा हा॑स्महि प्र॒जया॒ मा त॒नूभि॒र्मा र॑धाम द्विष॒ते सो॑म राजन् । अ॒ग्निर्म॒न्युम्प्र॑तिनु॒दन्पु॒रस्ता॑त् [30]
अद॑ब्धो गो॒पाᳶ परि॑ पाहि न॒स्त्वम् । प्र॒त्यञ्चो॑ यन्तु नि॒गुत॒ᳶ पुन॒स्ते॑ऽमैषा॑ञ्चि॒त्तम्प्र॒बुधा॒ वि ने॑शत् । धा॒ता धा॑तृ॒णाम्भुव॑नस्य॒ यस्पति॑र्दे॒वँ स॑वि॒तार॑मभिमाति॒षाह॑म् । इ॒मय्ँ य॒ज्ञम॒श्विनो॒भा बृह॒स्पति॑र्दे॒वाᳶ पा॑न्तु॒ यज॑मानन्न्य॒र्थात् । उ॒रु॒व्यचा॑ नो महि॒षश्शर्म॑ यँसद॒स्मिन्‌हवे॑ पुरुहू॒तᳶ पु॑रु॒क्षु । स नᳶ॑ प्र॒जायै॑ हर्यश्व मृड॒येन्द्र॒ मा [31]
नो॒ री॒रि॒षो॒ मा परा॑ दाः । ये न॑स्स॒पत्ना॒ अप॒ ते भ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑ बाधामहे॒ तान् । वस॑वो रु॒द्रा आ॑दि॒त्या उ॑परि॒स्पृश॑म्मो॒ग्रञ्चेत्ता॑रमधिरा॒जम॑क्रन् । अ॒र्वाञ्च॒मिन्द्र॑म॒मुतो॑ हवामहे॒ यो गो॒जिद्ध॑न॒जिद॑श्व॒जिद्यः । इ॒मन्नो॑ य॒ज्ञव्ँवि॑ह॒वे जु॑षस्वा॒स्य कु॑र्मो हरिवो मे॒दिन॑न्त्वा ॥ [32]
अ॒ग्नेर्म॑न्वे प्रथ॒मस्य॒ प्रचे॑तसो॒ यम्पाञ्च॑जन्यम्ब॒हव॑स्समि॒न्धते॑ । विश्व॑स्याव्ँवि॒शि प्र॑विविशि॒वाँस॑मीमहे॒ स नो॑ मुञ्च॒त्वँह॑सः । यस्ये॒दम्प्रा॒णन्नि॑मि॒षद्यदेज॑ति॒ यस्य॑ जा॒तञ्जन॑मानञ्च॒ केव॑लम् । स्तौम्य॒ग्निन्ना॑थि॒तो जो॑हवीमि॒ स नो॑ मुञ्च॒त्वँह॑सः । इन्द्र॑स्य मन्ये प्रथ॒मस्य॒ प्रचे॑तसो वृत्र॒घ्नस्स्तोमा॒ उप॒ मामु॒पागुः॑ । यो दा॒शुष॑स्सु॒कृतो॒ हव॒मुप॒ गन्ता॑ [33]
स नो॑ मुञ्च॒त्वँह॑सः । यस्स॑ङ्ग्रा॒मन्नय॑ति॒ सव्ँव॒शी यु॒धे यᳶ पु॒ष्टानि॑ सँसृ॒जति॑ त्र॒याणि॑ । स्तौमीन्द्र॑न्नाथि॒तो जो॑हवीमि॒ स नो॑ मुञ्च॒त्वँह॑सः । म॒न्वे वा॑म्मित्रावरुणा॒ तस्य॑ वित्तँ॒ सत्यौ॑जसा दृँहणा॒ यन्नु॒देथे॑ । या राजा॑नँ स॒रथय्ँ॑या॒थ उ॑ग्रा॒ ता नो॑ मुञ्चत॒माग॑सः । यो वाँ॒ रथ॑ ऋ॒जुर॑श्मिस्स॒त्यध॑र्मा॒ मिथु॒श्चर॑न्तमुप॒याति॑ दू॒षय॑न् । स्तौमि॑ [34]
मि॒त्रावरु॑णा नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒माग॑सः । वा॒योस्स॑वि॒तुर्वि॒दथा॑नि मन्महे॒ यावा॑त्म॒न्वद्बि॑भृ॒तो यौ च॒ रक्ष॑तः । यौ विश्व॑स्य परि॒भू ब॑भू॒वतु॒स्तौ नो॑ मुञ्चत॒माग॑सः । उप॒ श्रेष्ठा॑ न आ॒शिषो॑ दे॒वयो॒र्धर्मे॑ अस्थिरन् । स्तौमि॑ वा॒युँ स॑वि॒तार॑न्नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒माग॑सः । र॒थीत॑मौ रथी॒नाम॑ह्व ऊ॒तये॒ शुभ॒ङ्गमि॑ष्ठौ सु॒यमे॑भि॒रश्वैः॑ । ययोः॑ [35]
वा॒न्दे॒वौ॒ दे॒वेष्वनि॑शित॒मोज॒स्तौ नो॑ मुञ्चत॒माग॑सः । यदया॑तव्ँवह॒तुँ सू॒र्याया॑स्त्रिच॒क्रेण॑ सँ॒सद॑मि॒च्छमा॑नौ । स्तौमि॑ दे॒वाव॒श्विनौ॑ नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒माग॑सः । म॒रुता॑म्मन्वे॒ अधि॑ नो ब्रुवन्तु॒ प्रेमाव्ँवाचव्ँ॒विश्वा॑मवन्तु॒ विश्वे॑ । आ॒शून्‌हु॑वे सु॒यमा॑नू॒तये॒ ते नो॑ मुञ्च॒न्त्वेन॑सः । ति॒ग्ममायु॑धव्ँवीडि॒तँ सह॑स्वद्दि॒व्यँ शर्धः॑ [36]
पृत॑नासु जि॒ष्णु । स्तौमि॑ दे॒वान्म॒रुतो॑ नाथि॒तो जो॑हवीमि॒ ते नो॑ मुञ्च॒न्त्वेन॑सः । दे॒वाना॑म्मन्वे॒ अधि॑ नो ब्रुवन्तु॒ प्रेमाव्ँवाचव्ँ॒विश्वा॑मवन्तु॒ विश्वे॑ । आ॒शून्‌हु॑वे सु॒यमा॑नू॒तये॒ ते नो॑ मुञ्च॒न्त्वेन॑सः । यदि॒दम्मा॑ऽभि॒शोच॑ति॒ पौरु॑षेयेण॒ दैव्ये॑न । स्तौमि॒ विश्वा॑न्दे॒वान्ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्च॒न्त्वेन॑सः । अनु॑ नो॒ऽद्यानु॑मति॒रनु॑ [37]
इद॑नुमते॒ त्वव्ँ वै॑श्वान॒रो न॑ ऊ॒त्या पृ॒ष्टो दि॒वि । ये अप्र॑थेता॒ममि॑तेभि॒रोजो॑भि॒र्ये प्र॑ति॒ष्ठे अभ॑वताव्ँ॒वसू॑नाम् । स्तौमि॒ द्यावा॑पृथि॒वी ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्चत॒मँह॑सः । उर्वी॑ रोदसी॒ वरि॑वᳵ कृणोत॒ङ्क्षेत्र॑स्य पत्नी॒ अधि॑ नो ब्रूयातम् । स्तौमि॒ द्यावा॑पृथि॒वी ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्चत॒मँह॑सः । यत्ते॑ व॒यम्पु॑रुष॒त्रा य॑वि॒ष्ठावि॑द्वाँसश्चकृ॒मा कच्च॒न [38]
आगः॑ । कृ॒धी स्व॑स्माँ अदि॑ते॒रना॑गा॒ व्येनाँ॑सि शिश्रथो॒ विष्व॑गग्ने । यथा॑ ह॒ तद्व॑सवो गौ॒र्य॑ञ्चित्प॒दि षि॒ताममु॑ञ्चता यजत्राः । ए॒वा त्वम॒स्मत्प्र मु॑ञ्चा॒ व्यँह॒ᳶ प्राता॑र्यग्ने प्रत॒रान्न॒ आयुः॑ ॥ [39]