अश्म॒न्नूर्ज॒म्पर्व॑ते शिश्रिया॒णाव्ँवाते॑ प॒र्जन्ये॒ वरु॑णस्य॒ शुष्मे॑ । अ॒द्भ्य ओष॑धीभ्यो॒ वन॒स्पति॒भ्योऽधि॒ सम्भृ॑ता॒न्तान्न॒ इष॒मूर्ज॑न्धत्त मरुतस्सँररा॒णाः । अश्मँ॑स्ते॒ क्षुद॒मुन्ते॒ शुगृ॑च्छतु॒ यन्द्वि॒ष्मः । स॒मु॒द्रस्य॑ त्वा॒ऽवाक॒याग्ने॒ परि॑ व्ययामसि । पाव॒को अ॒स्मभ्यँ॑ शि॒वो भ॑व । हि॒मस्य॑ त्वा ज॒रायु॒णाग्ने॒ परि॑ व्ययामसि । पा॒व॒को अ॒स्मभ्यँ॑ शि॒वो भ॑व । उप॑ [1]
ज्मन्नुप॑ वेत॒सेऽव॑त्तरन्न॒दीष्वा । अग्ने॑ पि॒त्तम॒पाम॑सि । मण्डू॑कि॒ ताभि॒रा ग॑हि॒ सेमन्नो॑ य॒ज्ञम् । पा॒व॒कव॑र्णँ शि॒वङ्कृ॑धि । पा॒व॒क आ चि॒तय॑न्त्या कृ॒पा । क्षाम॑न्रुरु॒च उ॒षसो॒ न भा॒नुना॑ । तूर्व॒न्न याम॒न्नेत॑शस्य॒ नू रण॒ आ यो घृ॒णे । न त॑तृषा॒णो अ॒जरः॑ । अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया॑ । आ दे॒वान् [2]
व॒क्षि॒ यक्षि॑ च । स नᳶ॑ पावक दीदि॒वोऽग्ने॑ दे॒वाँ इ॒हा व॑ह । उप॑ य॒ज्ञँ ह॒विश्च॑ नः । अ॒पामि॒दन्न्यय॑नँ समु॒द्रस्य॑ नि॒वेश॑नम् । अ॒न्यन्ते॑ अ॒स्मत्त॑पन्तु हे॒तयᳶ॑ पाव॒को अ॒स्मभ्यँ॑ शि॒वो भ॑व । नम॑स्ते॒ हर॑से शो॒चिषे॒ नम॑स्ते अस्त्व॒र्चिषे॑ । अ॒न्यन्ते॑ अ॒स्मत्त॑पन्तु हे॒तयᳶ॑ पाव॒को अ॒स्मभ्यँ॑ शि॒वो भ॑व । नृ॒षदे॒ वट् [3]
अ॒प्सु॒षदे॒ वड्व॑न॒सदे॒ वड्ब॑र्हि॒षदे॒ वट्त्सु॑व॒र्विदे॒ वट् । ये दे॒वा दे॒वानाय्ँ॑ य॒ज्ञिया॑ य॒ज्ञिया॑नाँ सव्ँवत्स॒रीण॒मुप॑ भा॒गमास॑ते । अ॒हु॒तादो॑ ह॒विषो॑ य॒ज्ञे अ॒स्मिन्त्स्व॒यञ्जु॑हुध्व॒म्मधु॑नो घृ॒तस्य॑ । ये दे॒वा दे॒वेष्वधि॑ देव॒त्वमाय॒न्‌ये ब्रह्म॑णᳶ पुरए॒तारो॑ अ॒स्य । येभ्यो॒ नर्ते पव॑ते॒ धाम॒ किञ्च॒न न ते दि॒वो न पृ॑थि॒व्या अधि॒ स्नुषु॑ । प्रा॒ण॒दाः [4]
अ॒पा॒न॒दा व्या॑न॒दाश्च॑क्षु॒र्दा व॑र्चो॒दा व॑रिवो॒दाः । अ॒न्यन्ते॑ अ॒स्मत्त॑पन्तु हे॒तयᳶ॑ पाव॒को अ॒स्मभ्यँ॑ शि॒वो भ॑व । अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॒ यँस॒द्विश्व॒न्न्य॑त्रिण॑म् । अ॒ग्निर्नो॑ वँसते र॒यिम् । सैनानी॑केन सुवि॒दत्रो॑ अ॒स्मे यष्टा॑ दे॒वाँ आय॑जिष्ठस्स्व॒स्ति । अद॑ब्धो गो॒पा उ॒त नᳶ॑ पर॒स्पा अग्ने॑ द्यु॒मदु॒त रे॒वद्दि॑दीहि ॥ [5]
य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्होता॑ निष॒सादा॑ पि॒ता नः॑ । स आ॒शिषा॒ द्रवि॑णमि॒च्छमा॑नᳶ परम॒च्छदो॒ वर॒ आ वि॑वेश । वि॒श्वक॑र्मा॒ मन॑सा॒ यद्विहा॑या धा॒ता वि॑धा॒ता प॑र॒मोत स॒न्दृक् । तेषा॑मि॒ष्टानि॒ समि॒षा म॑दन्ति॒ यत्र॑ सप्त॒र्षीन्प॒र एक॑मा॒हुः । यो नᳶ॑ पि॒ता ज॑नि॒ता यो वि॑धा॒ता यो न॑स्स॒तो अ॒भ्या सज्ज॒जान॑ । [6]
यो दे॒वाना॑न्नाम॒धा एक॑ ए॒व तँ स॑म्प्र॒श्ञम्भुव॑ना यन्त्य॒न्या । त आय॑जन्त॒ द्रवि॑णँ॒ सम॑स्मा॒ ऋष॑य॒ᳶ पूर्वे॑ जरि॒तारो॒ न भू॒ना । अ॒सूर्ता॒ सूर्ता॒ रज॑सो वि॒माने॒ ये भू॒तानि॑ स॒मकृ॑ण्वन्नि॒मानि॑ । न तव्ँवि॑दाथ॒ य इ॒दञ्ज॒जाना॒न्यद्यु॒ष्माक॒मन्त॑रम्भवाति । नी॒हा॒रेण॒ प्रावृ॑ता॒ जल्प्या॑ चासु॒तृप॑ उक्थ॒शास॑श्चरन्ति । प॒रो दि॒वा प॒र ए॒ना [7]
पृ॒थि॒व्या प॒रो दे॒वेभि॒रसु॑रै॒र्गुहा॒ यत् । कँ स्वि॒द्गर्भ॑म्प्रथ॒मन्द॑ध्र॒ आपो॒ यत्र॑ दे॒वास्स॒मग॑च्छन्त॒ विश्वे॑ । तमिद्गर्भ॑म्प्रथ॒मन्द॑ध्र॒ आपो॒ यत्र॑ दे॒वास्स॒मग॑च्छन्त॒ विश्वे॑ । अ॒जस्य॒ नाभा॒वध्येक॒मर्पि॑तय्ँ॒यस्मि॑न्नि॒दव्ँविश्व॒म्भुव॑न॒मधि॑ श्रि॒तम् । वि॒श्वक॑र्मा॒ ह्यज॑निष्ट दे॒व आदिद्ग॑न्ध॒र्वो अ॑भवद्द्वि॒तीयः॑ । तृ॒तीयᳶ॑ पि॒ता ज॑नि॒तौष॑धीनाम् [8]
अ॒पाङ्गर्भ॒व्व्ँय॑दधात्पुरु॒त्रा । चक्षु॑षᳶ पि॒ता मन॑सा॒ हि धीरो॑ घृ॒तमे॑ने अजन॒न्नन्न॑माने । य॒देदन्ता॒ अद॑दृँहन्त॒ पूर्व॒ आदिद्द्यावा॑पृथि॒वी अ॑प्रथेताम् । वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑हस्त उ॒त वि॒श्वत॑स्पात् । सम्बा॒हुभ्या॒न्नम॑ति॒ सम्पत॑त्रै॒र्द्यावा॑पृथि॒वी ज॒नय॑न्दे॒व एकः॑ । किँ स्वि॑दासीदधि॒ष्ठान॑मा॒रम्भ॑णङ्कत॒मत्स्वि॒त्किमा॑सीत् । यदी॒ भूमि॑ञ्ज॒नय॑न् [9]
वि॒श्वक॑र्मा॒ वि द्यामौर्णो॑न्महि॒ना वि॒श्वच॑क्षाः । किँ स्वि॒द्वन॒ङ्क उ॒ स वृ॒क्ष आ॑सी॒द्यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रय॑न् । या ते॒ धामा॑नि पर॒माणि॒ याऽव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा । शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावस्स्व॒यय्ँय॑जस्व त॒नुव॑ञ्जुषा॒णः । वा॒चस्पतिव्ँ॑वि॒श्वक॑र्माणमू॒तये॑ [10]
म॒नो॒युजव्ँ॒वाजे॑ अ॒द्या हु॑वेम । स नो॒ नेदि॑ष्ठा॒ हव॑नानि जोषते वि॒श्वश॑म्भू॒रव॑से सा॒धुक॑र्मा । विश्व॑कर्मन्‌ह॒विषा॑ वावृधा॒नस्स्व॒यय्ँय॑जस्व त॒नुव॑ञ्जुषा॒णः । मुह्य॑न्त्व॒न्ये अ॒भित॑स्स॒पत्ना॑ इ॒हास्माक॑म्म॒घवा॑ सू॒रिर॑स्तु । विश्व॑कर्मन्‌ह॒विषा॒ वर्ध॑नेन त्रा॒तार॒मिन्द्र॑मकृणोरव॒ध्यम् । तस्मै॒ विश॒स्सम॑नमन्त पू॒र्वीर॒यमु॒ग्रो वि॑ह॒व्यो॑ यथाऽस॑त् । स॒मु॒द्राय॑ व॒युना॑य॒ सिन्धू॑ना॒म्पत॑ये॒ नमः॑ । न॒दीनाँ॒ सर्वा॑साम्पि॒त्रे जु॑हु॒ता वि॒श्वक॑र्मणे॒ विश्वाहाम॑र्त्यँ ह॒विः ॥ [11]
उदे॑नमुत्त॒रान्न॒याग्ने॑ घृतेनाहुत । रा॒यस्पोषे॑ण॒ सँ सृ॑ज प्र॒जया॑ च॒ धने॑न च । इन्द्रे॒मम्प्र॑त॒राङ्कृ॑धि सजा॒ताना॑मसद्व॒शी । समे॑नव्ँ॒वर्च॑सा सृज दे॒वेभ्यो॑ भाग॒धा अ॑सत् । यस्य॑ कु॒र्मो ह॒विर्गृ॒हे तम॑ग्ने वर्धया॒ त्वम् । तस्मै॑ दे॒वा अधि॑ ब्रवन्न॒यञ्च॒ ब्रह्म॑ण॒स्पतिः॑ । उदु॑ त्वा॒ विश्वे॑ दे॒वाः [12]
अग्ने॒ भर॑न्तु॒ चित्ति॑भिः । स नो॑ भव शि॒वत॑मस्सु॒प्रती॑को वि॒भाव॑सुः । पञ्च॒ दिशो॒ दैवी॑र्य॒ज्ञम॑वन्तु दे॒वीरपाम॑तिन्दुर्म॒तिम्बाध॑मानाः । रा॒यस्पोषे॑ य॒ज्ञप॑तिमा॒भज॑न्तीः । रा॒यस्पोषे॒ अधि॑ य॒ज्ञो अ॑स्था॒त्समि॑द्धे अ॒ग्नावधि॑ मामहा॒नः । उ॒क्थप॑त्त्र॒ ईड्यो॑ गृभी॒तस्त॒प्तङ्घ॒र्मम्प॑रि॒गृह्या॑यजन्त । ऊ॒र्जा यद्य॒ज्ञमश॑मन्त दे॒वा दैव्या॑य ध॒र्त्रे जोष्ट्रे॑ । दे॒व॒श्रीश्श्रीम॑णाश्श॒तप॑याः [13]
प॒रि॒गृह्य॑ दे॒वा य॒ज्ञमा॑यन् । सूर्य॑रश्मि॒र्हरि॑केशᳶ पु॒रस्ता॑त्सवि॒ता ज्योति॒रुद॑याँ॒ अज॑स्रम् । तस्य॑ पू॒षा प्र॑स॒वय्ँया॑ति दे॒वस्स॒म्पश्य॒न्विश्वा॒ भुव॑नानि गो॒पाः । दे॒वा दे॒वेभ्यो॑ अध्व॒र्यन्तो॑ अस्थुर्वी॒तँ श॑मि॒त्रे श॑मि॒ता य॒जध्यै॑ । तु॒रीयो॑ य॒ज्ञो यत्र॑ ह॒व्यमेति॒ ततᳶ॑ पाव॒का आ॒शिषो॑ नो जुषन्ताम् । वि॒मान॑ ए॒ष दि॒वो मध्य॑ आस्त आपप्रि॒वान्रोद॑सी अ॒न्तरि॑क्षम् । स वि॒श्वाची॑र॒भि [14]
च॒ष्टे॒ घृ॒ताची॑रन्त॒रा पूर्व॒मप॑रञ्च के॒तुम् । उ॒क्षा स॑मु॒द्रो अ॑रु॒णस्सु॑प॒र्णᳶ पूर्व॑स्य॒ योनि॑म्पि॒तुरा वि॑वेश । मध्ये॑ दि॒वो निहि॑त॒ᳶ पृश्ञि॒रश्मा॒ वि च॑क्रमे॒ रज॑सᳶ पा॒त्यन्तौ॑ । इन्द्रव्ँ॒विश्वा॑ अवीवृधन्त्समु॒द्रव्य॑चस॒ङ्गिरः॑ । र॒थीत॑मँ रथी॒नाव्ँवाजा॑नाँ॒ सत्प॑ति॒म्पति॑म् । सु॒म्न॒हूर्य॒ज्ञो दे॒वाँ आ च॑ वक्ष॒द्यक्ष॑द॒ग्निर्दे॒वो दे॒वाँ आ च॑ वक्षत् । वाज॑स्य मा प्रस॒वेनो॑द्ग्रा॒भेणोद॑ग्रभीत् । अथा॑ स॒पत्नाँ॒ इन्द्रो॑ मे निग्रा॒भेणाध॑राँ अकः । उ॒द्ग्रा॒भञ्च॑ निग्रा॒भञ्च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन् । अथा॑ स॒पत्ना॑निन्द्रा॒ग्नी मे॑ विषू॒चीना॒न्व्य॑स्यताम् ॥ [15]
आ॒शुश्शिशा॑नो वृष॒भो न यु॒ध्मो घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नाम् । स॒ङ्क्रन्द॑नोऽनिमि॒ष ए॑कवी॒रश्श॒तँ सेना॑ अजयत्सा॒कमिन्द्रः॑ । स॒ङ्क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना॑ । तदिन्द्रे॑ण जयत॒ तत्स॑हध्वय्ँ॒युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा॑ । स इषु॑हस्तै॒स्स नि॑ष॒ङ्गिभि॑र्व॒शी सँस्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑ । सँ॒सृ॒ष्ट॒जित्सो॑म॒पा बा॑हुश॒र्ध्यू॑र्ध्वध॑न्वा॒ प्रति॑हिताभि॒रस्ता॑ । बृह॑स्पते॒ परि॑ दीय [16]
रथे॑न रक्षो॒हामित्राँ॑ अप॒बाध॑मानः । प्र॒भ॒ञ्जन्त्सेनाः॑ प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑मेध्यवि॒ता रथा॑नाम् । गो॒त्र॒भिद॑ङ्गो॒विदव्ँ॒वज्र॑बाहु॒ञ्जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा । इ॒मँ स॑जाता॒ अनु॑ वीरयध्व॒मिन्द्रँ॑ सखा॒योऽनु॒ सँ र॑भध्वम् । ब॒ल॒वि॒ज्ञा॒यस्स्थवि॑र॒ᳶ प्रवी॑र॒स्सह॑स्वान्‌वा॒जी सह॑मान उ॒ग्रः । अ॒भिवी॑रो अ॒भिस॑त्वा सहो॒जा जैत्र॑मिन्द्र॒ रथ॒मा ति॑ष्ठ गो॒वित् । अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽदा॒यः [17]
वी॒रश्श॒तम॑न्यु॒रिन्द्रः॑ । दु॒श्च्य॒व॒नᳶ पृ॑तना॒षाड॑यु॒ध्यो॑ऽस्माकँ॒ सेना॑ अवतु॒ प्र यु॒त्सु । इन्द्र॑ आसान्ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञᳶ पु॒र ए॑तु॒ सोमः॑ । दे॒व॒से॒नाना॑मभिभञ्जती॒नाञ्जय॑न्तीनाम्म॒रुतो॑ य॒न्त्वग्रे॑ । इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्याना॑म्म॒रुताँ॒ शर्ध॑ उ॒ग्रम् । म॒हाम॑नसाम्भुवनच्य॒वाना॒ङ्घोषो॑ दे॒वाना॒ञ्जय॑ता॒मुद॑स्थात् । अ॒स्माक॒मिन्द्र॒स्समृ॑तेषु ध्व॒जेष्व॒स्माकय्ँ॒या इष॑व॒स्ता ज॑यन्तु । [18]
अ॒स्माकव्ँ॑वी॒रा उत्त॑रे भवन्त्व॒स्मानु॑ देवा अवता॒ हवे॑षु । उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युत्सत्व॑नाम्माम॒काना॒म्महाँ॑सि । उद्वृ॑त्रहन्वा॒जिनाव्ँ॒वाजि॑ना॒न्युद्रथा॑ना॒ञ्जय॑तामेतु॒ घोषः॑ । उप॒ प्रेत॒ जय॑ता नरस्स्थि॒रा व॑स्सन्तु बा॒हवः॑ । इन्द्रो॑ व॒श्शर्म॑ यच्छत्वनाधृ॒ष्या यथाऽस॑थ । अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑सँशिता । गच्छा॒मित्रा॒न्प्र [19]
वि॒श॒ मैषा॒ङ्कञ्च॒नोच्छि॑षः । मर्मा॑णि ते॒ वर्म॑भिश्छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॑ना॒भि व॑स्ताम् । उ॒रोर्वरी॑यो॒ वरि॑वस्ते अस्तु॒ जय॑न्त॒न्त्वामनु॑ मदन्तु दे॒वाः । यत्र॑ बा॒णास्स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व । इन्द्रो॑ न॒स्तत्र॑ वृत्र॒हा वि॑श्वा॒हा शर्म॑ यच्छतु ॥ [20]
प्राची॒मनु॑ प्र॒दिश॒म्प्रेहि॑ वि॒द्वान॒ग्नेर॑ग्ने पु॒रो अ॑ग्निर्भवे॒ह । विश्वा॒ आशा॒ दीद्या॑नो॒ वि भा॒ह्यूर्ज॑न्नो धेहि द्वि॒पदे॒ चतु॑ष्पदे । क्रम॑ध्वम॒ग्निना॒ नाक॒मुख्यँ॒ हस्ते॑षु॒ बिभ्र॑तः । दि॒वᳶ पृ॒ष्ठँ सुव॑र्ग॒त्वा मि॒श्रा दे॒वेभि॑राद्ध्वम् । पृ॒थि॒व्या अ॒हमुद॒न्तरि॑क्ष॒मारु॑हम॒न्तरि॑क्षा॒द्दिव॒मारु॑हम् । दि॒वो नाक॑स्य पृ॒ष्ठात्सुव॒र्ज्योति॑रगाम् [21]
अ॒हम् । सुव॒र्यन्तो॒ नापे॑क्षन्त॒ आ द्याँ रो॑हन्ति॒ रोद॑सी । य॒ज्ञय्ँये वि॒श्वतो॑धारँ॒ सुवि॑द्वाँसो वितेनि॒रे । अग्ने॒ प्रेहि॑ प्रथ॒मो दे॑वय॒ताञ्चक्षु॑र्दे॒वाना॑मु॒त मर्त्या॑नाम् । इय॑क्षमाणा॒ भृगु॑भिस्स॒जोषा॒स्सुव॑र्यन्तु॒ यज॑मानास्स्व॒स्ति । नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒मेकँ॑ समी॒ची । द्यावा॒ क्षामा॑ रु॒क्मो अ॒न्तर्वि भा॑ति दे॒वा अ॒ग्निन्धा॑रयन्द्रविणो॒दाः । अग्ने॑ सहस्राक्ष [22]
श॒त॒मू॒र्ध॒ञ्छ॒तन्ते॑ प्रा॒णास्स॒हस्र॑मपा॒नाः । त्वँ सा॑ह॒स्रस्य॑ रा॒य ई॑शिषे॒ तस्मै॑ ते विधेम॒ वाजा॑य॒ स्वाहा॑ । सु॒प॒र्णो॑ऽसि ग॒रुत्मा॑न्पृथि॒व्याँ सी॑द पृ॒ष्ठे पृ॑थि॒व्यास्सी॑द भा॒साऽन्तरि॑क्ष॒मा पृ॑ण॒ ज्योति॑षा॒ दिव॒मुत्त॑भान॒ तेज॑सा॒ दिश॒ उद्दृँ॑ह । आ॒जुह्वा॑नस्सु॒प्रती॑कᳶ पु॒रस्ता॒दग्ने॒ स्वाय्ँयोनि॒मा सी॑द सा॒ध्या । अ॒स्मिन्त्स॒धस्थे॒ अध्युत्त॑रस्मि॒न्विश्वे॑ देवाः [23]
यज॑मानश्च सीदत । प्रेद्धो॑ अग्ने दीदिहि पु॒रो नोऽज॑स्रया सू॒र्म्या॑ यविष्ठ । त्वाँ शश्व॑न्त॒ उप॑ यन्ति॒ वाजाः॑ । वि॒धेम॑ ते पर॒मे जन्म॑न्नग्ने वि॒धेम॒ स्तोमै॒रव॑रे स॒धस्थे॑ । यस्मा॒द्योने॑रु॒दारि॑था॒ यजे॒ तम्प्र त्वे ह॒वीँषि॑ जुहुरे॒ समि॑द्धे । ताँ स॑वि॒तुर्वरे॑ण्यस्य चि॒त्रामाहव्ँवृ॑णे सुम॒तिव्ँवि॒श्वज॑न्याम् । याम॑स्य॒ कण्वो॒ अदु॑ह॒त्प्रपी॑नाँ स॒हस्र॑धाराम् [24]
पय॑सा म॒हीङ्गाम् । स॒प्त ते॑ अग्ने स॒मिध॑स्स॒प्त जि॒ह्वास्स॒प्तर्ष॑यस्स॒प्त धाम॑ प्रि॒याणि॑ । स॒प्त होत्राः॑ सप्त॒धा त्वा॑ यजन्ति स॒प्त योनी॒रा पृ॑णस्वा घृ॒तेन॑ । ई॒दृङ्चा॑न्या॒दृङ्चै॑ता॒दृङ्च॑ प्रति॒दृङ्च॑ मि॒तश्च॒ सम्मि॑तश्च॒ सभ॑राः । शु॒क्रज्यो॑तिश्च चि॒त्रज्यो॑तिश्च स॒त्यज्यो॑तिश्च॒ ज्योति॑ष्माँश्च स॒त्यश्च॑र्त॒पाश्चात्यँ॑हाः । [25]
ऋ॒त॒जिच्च॑ सत्य॒जिच्च॑ सेन॒जिच्च॑ सु॒षेण॒श्चान्त्य॑मित्रश्च दू॒रेअ॑मित्रश्च ग॒णः । ऋ॒तश्च॑ स॒त्यश्च॑ ध्रु॒वश्च॑ ध॒रुण॑श्च ध॒र्ता च॑ विध॒र्ता च॑ विधार॒यः । ई॒दृक्षा॑स एता॒दृक्षा॑स ऊ॒ षु ण॑स्स॒दृक्षा॑स॒ᳶ प्रति॑सदृक्षास॒ एत॑न । मि॒तास॑श्च॒ सम्मि॑तासश्च न ऊ॒तये॒ सभ॑रसो मरुतो य॒ज्ञे अ॒स्मिन्निन्द्र॒न्दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मानो॒ यथेन्द्र॒न्दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मान ए॒वमि॒मय्ँयज॑मान॒न्दैवी॑श्च॒ विशो॒ मानु॑षी॒श्चानु॑वर्त्मानो भवन्तु ॥ [26]
जी॒मूत॑स्येव भवति॒ प्रती॑कय्ँ॒यद्व॒र्मी याति॑ स॒मदा॑मु॒पस्थे॑ । अना॑विद्धया त॒नुवा॑ जय॒ त्वँ स त्वा॒ वर्म॑णो महि॒मा पि॑पर्तु । धन्व॑ना॒ गा धन्व॑ना॒जिञ्ज॑येम॒ धन्व॑ना ती॒व्रास्स॒मदो॑ जयेम । धनु॒श्शत्रो॑रपका॒मङ्कृ॑णोति॒ धन्व॑ना॒ सर्वाः॑ प्र॒दिशो॑ जयेम । व॒क्ष्यन्ती॒वेदा ग॑नीगन्ति॒ कर्ण॑म्प्रि॒यँ सखा॑यम्परिषस्वजा॒ना । योषे॑व शिङ्क्ते॒ वित॒ताधि॒ धन्व॑न् [27]
ज्या इ॒यँ सम॑ने पा॒रय॑न्ती । ते आ॒चर॑न्ती॒ सम॑नेव॒ योषा॑ मा॒तेव॑ पु॒त्रम्बि॑भृतामु॒पस्थे॑ । अप॒ शत्रू॑न् विध्यताँ सव्ँविदा॒ने आर्त्नी॑ इ॒मे वि॑ष्फु॒रन्ती॑ अ॒मित्रा॑न् । ब॒ह्वी॒नाम्पि॒ता ब॒हुर॑स्य पु॒त्रश्चि॒श्चा कृ॑णोति॒ सम॑नाव॒गत्य॑ । इ॒षु॒धिस्सङ्का॒ᳶ पृत॑नाश्च॒ सर्वाः॑ पृ॒ष्ठे निन॑द्धो जयति॒ प्रसू॑तः । रथे॒ तिष्ठ॑न्नयति वा॒जिनᳶ॑ पु॒रो यत्र॑यत्र का॒मय॑ते सुषार॒थिः । अ॒भीशू॑नाम्महि॒मान॑म् [28]
प॒ना॒य॒त॒ मनᳶ॑ प॒श्चादनु॑ यच्छन्ति र॒श्मयः॑ । ती॒व्रान्घोषा॑न्कृण्वते॒ वृष॑पाण॒योऽश्वा॒ रथे॑भिस्स॒ह वा॒जय॑न्तः । अ॒व॒क्राम॑न्त॒ᳶ प्रप॑दैर॒मित्रा॑न्क्षि॒णन्ति॒ शत्रूँ॒रन॑पव्ययन्तः । र॒थ॒वाह॑नँ ह॒विर॑स्य॒ नाम॒ यत्रायु॑ध॒न्निहि॑तमस्य॒ वर्म॑ । तत्रा॒ रथ॒मुप॑ श॒ग्मँ स॑देम वि॒श्वाहा॑ व॒यँ सु॑मन॒स्यमा॑नाः । स्वा॒दु॒षँ॒सदᳶ॑ पि॒तरो॑ वयो॒धाᳵ कृ॑च्छ्रे॒श्रित॒श्शक्ती॑वन्तो गभी॒राः । चि॒त्रसे॑ना॒ इषु॑बला॒ अमृ॑ध्रास्स॒तोवी॑रा उ॒रवो॑ व्रातसा॒हाः । ब्राह्म॑णासः [29]
पित॑र॒स्सोम्या॑सश्शि॒वे नो॒ द्यावा॑पृथि॒वी अ॑ने॒हसा॑ । पू॒षा नᳶ॑ पातु दुरि॒तादृ॑तावृधो॒ रक्षा॒ माकि॑र्नो अ॒घशँ॑स ईशत । सु॒प॒र्णव्ँव॑स्ते मृ॒गो अ॑स्या॒ दन्तो॒ गोभि॒स्सन्न॑द्धा पतति॒ प्रसू॑ता । यत्रा॒ नर॒स्सञ्च॒ वि च॒ द्रव॑न्ति॒ तत्रा॒स्मभ्य॒मिष॑व॒श्शर्म॑ यँसन् । ऋजी॑ते॒ परि॑ वृङ्ग्धि॒ नोऽश्मा॑ भवतु नस्त॒नूः । सोमो॒ अधि॑ ब्रवीतु॒ नोऽदि॑तिः [30]
शर्म॑ यच्छतु । आ ज॑ङ्घन्ति॒ सान्वे॑षाञ्ज॒घनाँ॒ उप॑ जिघ्नते । अश्वा॑जनि॒ प्रचे॑त॒सोऽश्वा॑न्त्स॒मत्सु॑ चोदय । अहि॑रिव भो॒गैᳶ पर्ये॑ति बा॒हुञ्ज्याया॑ हे॒तिम्प॑रि॒बाध॑मानः । ह॒स्त॒घ्नो विश्वा॑ व॒युना॑नि वि॒द्वान्पुमा॒न्पुमाँ॑स॒म्परि॑ पातु वि॒श्वतः॑ । वन॑स्पते वी॒ड्व॑ङ्गो॒ हि भू॒या अ॒स्मत्स॑खा प्र॒तर॑णस्सु॒वीरः॑ । गोभि॒स्सन्न॑द्धो असि वी॒डय॑स्वास्था॒ता ते॑ जयतु॒ जेत्वा॑नि । दि॒वᳶ पृ॑थि॒व्याᳶ परि॑ [31]
ओज॒ उद्भृ॑तव्ँ॒वन॒स्पति॑भ्य॒ᳶ पर्याभृ॑तँ॒ सहः॑ । अ॒पामो॒ज्मान॒म्परि॒ गोभि॒रावृ॑त॒मिन्द्र॑स्य॒ वज्रँ॑ ह॒विषा॒ रथय्ँ॑यज । इन्द्र॑स्य॒ वज्रो॑ म॒रुता॒मनी॑कम्मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभिः॑ । सेमान्नो॑ ह॒व्यदा॑तिञ्जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय । उप॑ श्वासय पृथि॒वीमु॒त द्याम्पु॑रु॒त्रा ते॑ मनुताव्ँ॒विष्ठि॑त॒ञ्जग॑त् । स दु॑न्दुभे स॒जूरिन्द्रे॑ण दे॒वैर्दू॒रात् [32]
दवी॑यो॒ अप॑ सेध॒ शत्रू॑न् । आ क्र॑न्दय॒ बल॒मोजो॑ न॒ आ धा॒ नि ष्ट॑निहि दुरि॒ता बाध॑मानः । अप॑ प्रोथ दुन्दुभे दु॒च्छुनाँ॑ इ॒त इन्द्र॑स्य मु॒ष्टिर॑सि वी॒डय॑स्व । आमूर॑ज प्र॒त्याव॑र्तये॒माᳵ के॑तु॒मद्दु॑न्दु॒भिर्वा॑वदीति । समश्व॑पर्णा॒श्चर॑न्ति नो॒ नरो॒ऽस्माक॑मिन्द्र र॒थिनो॑ जयन्तु ॥ [33]
यदक्र॑न्दᳶ प्रथ॒मञ्जाय॑मान उ॒द्यन्त्स॑मु॒द्रादु॒त वा॒ पुरी॑षात् । श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उ॑प॒स्तुत्य॒म्महि॑ जा॒तन्ते॑ अर्वन् । य॒मेन॑ द॒त्तन्त्रि॒त ए॑नमायुन॒गिन्द्र॑ एणम्प्रथ॒मो अध्य॑तिष्ठत् । ग॒न्ध॒र्वो अ॑स्य रश॒नाम॑गृभ्णा॒त्सूरा॒दश्वव्ँ॑वसवो॒ निर॑तष्ट । असि॑ य॒मो अस्या॑दि॒त्यो अ॑र्व॒न्नसि॑ त्रि॒तो गुह्ये॑न व्र॒तेन॑ । असि॒ सोमे॑न स॒मया॒ विपृ॑क्तः [34]
आ॒हुस्ते॒ त्रीणि॑ दि॒वि बन्ध॑नानि । त्रीणि॑ त आहुर्दि॒वि बन्ध॑नानि॒ त्रीण्य॒प्सु त्रीण्य॒न्तस्स॑मु॒द्रे । उ॒तेव॑ मे॒ वरु॑णश्छन्त्स्यर्व॒न्‌यत्रा॑ त आ॒हुᳶ प॑र॒मञ्ज॒नित्र॑म् । इ॒मा ते॑ वाजिन्नव॒मार्ज॑नानी॒मा श॒फानाँ॑ सनि॒तुर्नि॒धाना॑ । अत्रा॑ ते भ॒द्रा र॑श॒ना अ॑पश्यमृ॒तस्य॒ या अ॑भि॒रक्ष॑न्ति गो॒पाः । आ॒त्मान॑न्ते॒ मन॑सा॒राद॑जानाम॒वो दि॒वा [35]
प॒तय॑न्तम्पत॒ङ्गम् । शिरो॑ अपश्यम्प॒थिभि॑स्सु॒गेभि॑ररे॒णुभि॒र्जेह॑मानम्पत॒त्रि । अत्रा॑ ते रू॒पमु॑त्त॒मम॑पश्य॒ञ्जिगी॑षमाणमि॒ष आ प॒दे गोः । य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒डादिद्ग्रसि॑ष्ठ॒ ओष॑धीरजीगः । अनु॑ त्वा॒ रथो॒ अनु॒ मर्यो॑ अर्व॒न्ननु॒ गावोऽनु॒ भग॑ᳵ क॒नीना॑म् । अनु॒ व्राता॑स॒स्तव॑ स॒ख्यमी॑यु॒रनु॑ दे॒वा म॑मिरे वी॒र्य॑म् [36]
ते॒ । हिर॑ण्यशृ॒ङ्गोऽयो॑ अस्य॒ पादा॒ मनो॑जवा॒ अव॑र॒ इन्द्र॑ आसीत् । दे॒वा इद॑स्य हवि॒रद्य॑माय॒न्‌यो अर्व॑न्तम्प्रथ॒मो अ॒ध्यति॑ष्ठत् । ई॒र्मान्ता॑स॒स्सिलि॑कमध्यमास॒स्सँ शूर॑णासो दि॒व्यासो॒ अत्याः॑ । हँ॒सा इ॑व श्रेणि॒शो य॑तन्ते॒ यदाक्षि॑षुर्दि॒व्यमज्म॒मश्वाः॑ । तव॒ शरी॑रम्पतयि॒ष्ण्व॑र्व॒न्तव॑ चि॒त्तव्ँवात॑ इव॒ ध्रजी॑मान् । तव॒ शृङ्गा॑णि॒ विष्ठि॑ता पुरु॒त्रार॑ण्येषु॒ जर्भु॑राणा चरन्ति । उप॑ [37]
प्रागा॒च्छस॑नव्ँवा॒ज्यर्वा॑ देव॒द्रीचा॒ मन॑सा॒ दीध्या॑नः । अ॒जᳶ पु॒रो नी॑यते॒ नाभि॑र॒स्यानु॑ प॒श्चात्क॒वयो॑ यन्ति रे॒भाः । उप॒ प्रागा॑त्पर॒मय्ँयत्स॒धस्थ॒मर्वाँ॒ अच्छा॑ पि॒तर॑म्मा॒तर॑ञ्च । अ॒द्या दे॒वाञ्जुष्ट॑तमो॒ हि ग॒म्या अथा शा॑स्ते दा॒शुषे॒ वार्या॑णि ॥ [38]
मा नो॑ मि॒त्रो वरु॑णो अर्य॒मायुरिन्द्र॑ ऋभु॒क्षा म॒रुत॒ᳶ परि॑ ख्यन् । यद्वा॒जिनो॑ दे॒वजा॑तस्य॒ सप्तेः॑ प्रव॒क्ष्यामो॑ वि॒दथे॑ वी॒र्या॑णि । यन्नि॒र्णिजा॒ रेक्ण॑सा॒ प्रावृ॑तस्य रा॒तिङ्गृ॑भी॒ताम्मु॑ख॒तो नय॑न्ति । सुप्रा॑ङ॒जो मेम्य॑द्वि॒श्वरू॑प इन्द्रापू॒ष्णोᳶ प्रि॒यमप्ये॑ति॒ पाथः॑ । ए॒ष च्छागᳶ॑ पु॒रो अश्वे॑न वा॒जिना॑ पू॒ष्णो भा॒गो नी॑यते वि॒श्वदे॑व्यः । अ॒भि॒प्रियय्ँ॒यत्पु॑रो॒डाश॒मर्व॑ता॒ त्वष्टेत् [39]
ए॒नँ॒ सौ॒श्र॒व॒साय॑ जिन्वति । यद्ध॒विष्य॑मृतु॒शो दे॑व॒यान॒न्त्रिर्मानु॑षा॒ᳶ पर्यश्व॒न्नय॑न्ति । अत्रा॑ पू॒ष्णᳶ प्र॑थ॒मो भा॒ग ए॑ति य॒ज्ञन्दे॒वेभ्यᳶ॑ प्रतिवे॒दय॑न्न॒जः । होता॑ध्व॒र्युराव॑या अग्निमि॒न्धो ग्रा॑वग्रा॒भ उ॒त शँस्ता॒ सुवि॑प्रः । तेन॑ य॒ज्ञेन॑ स्व॑रङ्कृतेन॒ स्वि॑ष्टेन व॒क्षणा॒ आ पृ॑णध्वम् । यू॒प॒व्र॒स्का उ॒त ये यू॑पवा॒हाश्च॒षालय्ँ॒ये अ॑श्वयू॒पाय॒ तक्ष॑ति । ये चार्व॑ते॒ पच॑नँ स॒म्भर॑न्त्यु॒तो [40]
तेषा॑म॒भिगू॑र्तिर्न इन्वतु । उप॒ प्रागा॑त्सु॒मन्मे॑ऽधायि॒ मन्म॑ दे॒वाना॒माशा॒ उप॑ वी॒तपृ॑ष्ठः । अन्वे॑नव्ँ॒विप्रा॒ ऋष॑यो मदन्ति दे॒वाना॑म्पु॒ष्टे च॑कृमा सु॒बन्धु॑म् । यद्वा॒जिनो॒ दाम॑ स॒न्दान॒मर्व॑तो॒ या शी॑र्ष॒ण्या॑ रश॒ना रज्जु॑रस्य । यद्वा॑ घास्य॒ प्रभृ॑तमा॒स्ये॑ तृणँ॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु । यदश्व॑स्य क्र॒विषः॑ [41]
मक्षि॒काऽऽश॒ यद्वा॒ स्वरौ॒ स्वधि॑तौ रि॒प्तमस्ति॑ । यद्धस्त॑योश्शमि॒तुर्यन्न॒खेषु॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु । यदूव॑ध्यमु॒दर॑स्याप॒वाति॒ य आ॒मस्य॑ क्र॒विषो॑ ग॒न्धो अस्ति॑ । सु॒कृ॒ता तच्छ॑मि॒तार॑ᳵ कृण्वन्तू॒त मेधँ॑ शृत॒पाक॑म्पचन्तु । यत्ते॒ गात्रा॑द॒ग्निना॑ प॒च्यमा॑नाद॒भि शूल॒न्निह॑तस्याव॒धाव॑ति । मा तद्भूम्या॒मा श्रि॑ष॒न्मा तृणे॑षु दे॒वेभ्य॒स्तदु॒शद्भ्यो॑ रा॒तम॑स्तु ॥ [42]
ये वा॒जिन॑म्परि॒पश्य॑न्ति प॒क्वय्ँय ई॑मा॒हुस्सु॑र॒भिर्निर्ह॒रेति॑ । ये चार्व॑तो माँसभि॒क्षामु॒पास॑त उ॒तो तेषा॑म॒भिगू॑र्तिर्न इन्वतु । यन्नीक्ष॑णम्माँ॒स्पच॑न्या उ॒खाया॒ या पात्रा॑णि यू॒ष्ण आ॒सेच॑नानि । ऊ॒ष्म॒ण्या॑पि॒धाना॑ चरू॒णाम॒ङ्कास्सू॒नाᳶ परि॑ भूष॒न्त्यश्व॑म् । नि॒क्रम॑णन्नि॒षद॑नव्ँवि॒वर्त॑नय्ँ॒यच्च॒ पड्बी॑श॒मर्व॑तः । यच्च॑ प॒पौ यच्च॑ घा॒सिम् [43]
ज॒घास॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु । मा त्वा॒ग्निर्ध्व॑नयिद्धू॒मग॑न्धि॒र्मोखा भ्राज॑न्त्य॒भि वि॑क्त॒ जघ्रिः॑ । इ॒ष्टव्ँवी॒तम॒भिगू॑र्तव्ँ॒वष॑ट्कृत॒न्तन्दे॒वास॒ᳶ प्रति॑ गृभ्ण॒न्त्यश्व॑म् । यदश्वा॑य॒ वास॑ उपस्तृ॒णन्त्य॑धीवा॒सय्ँया हिर॑ण्यान्यस्मै । स॒न्दान॒मर्व॑न्त॒म्पड्बी॑शम्प्रि॒या दे॒वेष्वा या॑मयन्ति । यत्ते॑ सा॒दे मह॑सा॒ शूकृ॑तस्य॒ पार्ष्णि॑या वा॒ कश॑या [44]
वा॒ तु॒तोद॑ । स्रु॒चेव॒ ता ह॒विषो॑ अध्व॒रेषु॒ सर्वा॒ ता ते॒ ब्रह्म॑णा सूदयामि । चतु॑स्त्रिँशद्वा॒जिनो॑ दे॒वब॑न्धो॒र्वङ्क्री॒रश्व॑स्य॒ स्वधि॑ति॒स्समे॑ति । अच्छि॑द्रा॒ गात्रा॑ व॒युना॑ कृणोत॒ परु॑ष्परुरनु॒घुष्या॒ वि श॑स्त । एक॒स्त्वष्टु॒रश्व॑स्या विश॒स्ता द्वा य॒न्तारा॑ भवत॒स्तथ॒र्तुः । या ते॒ गात्रा॑णामृतु॒था कृ॒णोमि॒ ताता॒ पिण्डा॑ना॒म्प्र जु॑होम्य॒ग्नौ । मा त्वा॑ तपत् [45]
प्रि॒य आ॒त्मापि॒यन्त॒म्मा स्वधि॑तिस्त॒नुव॒ आ ति॑ष्ठिपत्ते । मा ते॑ गृ॒ध्नुर॑विश॒स्ताति॒हाय॑ छि॒द्रा गात्रा॑ण्य॒सिना॒ मिथू॑ कः । न वा उ॑ वे॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाँ इदे॑षि प॒थिभि॑स्सु॒गेभिः॑ । हरी॑ ते॒ युञ्जा॒ पृष॑ती अभूता॒मुपा॑स्थाद्वा॒जी धु॒रि रास॑भस्य । सु॒गव्य॑न्नो वा॒जी स्वश्वि॑यम्पुँ॒सᳶ पु॒त्राँ उ॒त वि॑श्वा॒पुषँ॑ र॒यिम् । अ॒ना॒गा॒स्त्वन्नो॒ अदि॑तिᳵ कृणोतु क्ष॒त्रन्नो॒ अश्वो॑ वनताँ ह॒विष्मा॑न् ॥ [46]