अ॒पान्त्वेम॑न्त्सादयाम्य॒पान्त्वोद्म॑न्त्सादयाम्य॒पान्त्वा॒ भस्म॑न्त्सादयाम्य॒पान्त्वा॒ ज्योति॑षि सादयाम्य॒पान्त्वाय॑ने सादयाम्यर्ण॒वे सद॑ने सीद समु॒द्रे सद॑ने सीद सलि॒ले सद॑ने सीदा॒पाङ्क्षये॑ सीदा॒पाँ सधि॑षि सीदा॒पान्त्वा॒ सद॑ने सादयाम्य॒पान्त्वा॑ स॒धस्थे॑ सादयाम्य॒पान्त्वा॒ पुरी॑षे सादयाम्य॒पान्त्वा॒ योनौ॑ सादयाम्य॒पान्त्वा॒ पाथ॑सि सादयामि गाय॒त्री छन्द॑स्त्रि॒ष्टुप्छन्दो॒ जग॑ती॒ छन्दो॑ऽनु॒ष्टुप्छन्दᳶ॑ प॒ङ्क्तिश्छन्दः॑ ॥ [1]
अ॒यम्पु॒रो भुव॒स्तस्य॑ प्रा॒णो भौ॑वाय॒नो व॑स॒न्तᳶ प्रा॑णाय॒नो गा॑य॒त्री वा॑स॒न्ती गा॑यत्रि॒यै गा॑य॒त्रङ्गा॑य॒त्रादु॑पाँ॒शुरु॑पाँ॒शोस्त्रि॒वृत्त्रि॒वृतो॑ रथन्त॒रँ र॑थन्त॒राद्वसि॑ष्ठ॒ ऋषिᳶ॑ प्र॒जाप॑तिगृहीतया॒ त्वया॑ प्रा॒णङ्गृ॑ह्णामि प्र॒जाभ्यो॒ऽयन्द॑क्षि॒णा वि॒श्वक॑र्मा॒ तस्य॒ मनो॑ वैश्वकर्म॒णङ्ग्री॒ष्मो मा॑न॒सस्त्रि॒ष्टुग्ग्रै॒ष्मी त्रि॒ष्टुभ॑ ऐ॒डमै॒डाद॑न्तर्या॒मो॑ऽन्तर्या॒मात्प॑ञ्चद॒शᳶ प॑ञ्चद॒शाद्बृ॒हद्बृ॑ह॒तो भ॒रद्वा॑ज॒ ऋषिᳶ॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ मनः॑ [2]
गृ॒ह्णा॒मि॒ प्र॒जाभ्यो॒ऽयम्प॒श्चाद्वि॒श्वव्य॑चा॒स्तस्य॒ चक्षु॑र्वैश्वव्यच॒सव्ँव॒र्षाणि॑ चाक्षु॒षाणि॒ जग॑ती वा॒र्षी जग॑त्या॒ ऋक्ष॑म॒मृक्ष॑माच्छु॒क्रश्शु॒क्रात्स॑प्तद॒शस्स॑प्तद॒शाद्वै॑रू॒पव्ँ वै॑रू॒पाद्वि॒श्वामि॑त्र॒ ऋषिᳶ॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ चक्षु॑र्गृह्णामि प्र॒जाभ्य॑ इ॒दमु॑त्त॒रात्सुव॒स्तस्य॒ श्रोत्रँ॑ सौ॒वँ श॒रच्छ्रौ॒त्र्य॑नु॒ष्टुप्छा॑र॒द्य॑नु॒ष्टुभ॑स्स्वा॒रँ स्वा॒रान्म॒न्थी म॒न्थिन॑ एकविँ॒श ए॑कविँ॒शाद्वै॑रा॒जव्ँ वै॑रा॒जाज्ज॒मद॑ग्नि॒र्ऋषिᳶ॑ प्र॒जाप॑तिगृहीतया [3]
त्वया॒ श्रोत्र॑ङ्गृह्णामि प्र॒जाभ्य॑ इ॒यमु॒परि॑ म॒तिस्तस्यै॒ वाङ्मा॒ती हे॑म॒न्तो वा॑च्याय॒नᳶ प॒ङ्क्तिर्है॑म॒न्ती प॒ङ्क्त्यै नि॒धन॑वन्नि॒धन॑वत आग्रय॒ण आ॑ग्रय॒णात्त्रि॑णवत्रयस्त्रिँ॒शौ त्रि॑णवत्रयस्त्रिँ॒शाभ्याँ॑ शाक्वररैव॒ते शा॑क्वररैव॒ताभ्याव्ँ॑वि॒श्वक॒र्मर्षिᳶ॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ वाच॑ङ्गृह्णामि प्रजाभ्यः ॥ [4]
प्राची॑ दि॒शाव्ँव॑स॒न्त ऋ॑तू॒नाम॒ग्निर्दे॒वता॒ ब्रह्म॒ द्रवि॑णन्त्रि॒वृत्स्तोम॒स्स उ॑ पञ्चद॒शव॑र्तनि॒स्त्र्यवि॒र्वय॑ᳵ कृ॒तमया॑नाम्पुरोवा॒तो वात॒स्सान॑ग॒ ऋषि॑र्दक्षि॒णा दि॒शाङ्ग्री॒ष्म ऋ॑तू॒नामिन्द्रो॑ दे॒वता॑ क्ष॒त्रन्द्रवि॑णम्पञ्चद॒शस्स्तोम॒स्स उ॑ सप्तद॒शव॑र्तनिर्दित्य॒वाड्वय॒स्त्रेताया॑नान्दक्षिणाद्वा॒तो वात॑स्सना॒तन॒ ऋषिᳶ॑ प्र॒तीची॑ दि॒शाव्ँव॒र्षा ऋ॑तू॒नाव्ँविश्वे॑ दे॒वा दे॒वता॒ विट् [5]
द्रवि॑णँ सप्तद॒शस्स्तोम॒स्स उ॑वेकविँ॒शव॑र्तनिस्त्रिव॒त्सो वयो॑ द्वाप॒रोऽया॑नाम्पश्चाद्वा॒तो वातो॑ऽह॒भून॒ ऋषि॒रुदी॑ची दि॒शाँ श॒रदृ॑तू॒नाम्मि॒त्रावरु॑णौ दे॒वता॑ पु॒ष्टन्द्रवि॑णमेकविँ॒शस्स्तोम॒स्स उ॑ त्रिण॒वव॑र्तनिस्तुर्य॒वाड्वय॑ आस्क॒न्दोऽया॑नामुत्तराद्वा॒तो वातᳶ॑ प्र॒त्न ऋषि॑रू॒र्ध्वा दि॒शाँ हे॑मन्तशिशि॒रावृ॑तू॒नाम्बृह॒स्पति॑र्दे॒वता॒ वर्चो॒ द्रवि॑णन्त्रिण॒वस्स्तोम॒स्स उ॑ त्रयस्त्रिँ॒शव॑र्तनिᳶ पष्ठ॒वाद्वयो॑ऽभि॒भूरया॑नाव्ँविष्वग्वा॒तो वात॑स्सुप॒र्ण ऋषिᳶ॑ पि॒तरᳶ॑ पिताम॒हाᳶ परेऽव॑रे॒ ते नᳶ॑ पान्तु॒ ते नो॑ऽवन्त्व॒स्मिन्ब्रह्म॑न्न॒स्मिन्क्ष॒त्रे॑ऽस्यामा॒शिष्य॒स्याम्पु॑रो॒धाया॑म॒स्मिन्कर्म॑न्न॒स्यान्दे॒वहू॑त्याम् ॥ [6]
द्ध्रु॒वक्षि॑तिर्द्ध्रु॒वयो॑निर्द्ध्रु॒वासि॑ द्ध्रु॒वाय्ँयोनि॒मा सी॑द सा॒ध्या । उख्य॑स्य के॒तुम्प्र॑थ॒मम्पु॒रस्ता॑द॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ । स्वे दक्षे॒ दक्ष॑पिते॒ह सी॑द देव॒त्रा पृ॑थि॒वी बृ॑ह॒ती ररा॑णा । स्वा॒स॒स्था त॒नुवा॒ सव्ँवि॑शस्व पि॒तेवै॑धि सू॒नव॒ आ सु॒शेवा॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ । कु॒ला॒यिनी॒ वसु॑मती वयो॒धा र॒यिन्नो॑ वर्ध बहु॒लँ सु॒वीर॑म् । [7]
अपा॑मतिन्दुर्म॒तिम्बाध॑माना रा॒यस्पोषे॑ य॒ज्ञप॑तिमा॒भज॑न्ती॒ सुव॑र्धेहि॒ यज॑मानाय॒ पोष॑म॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ । अ॒ग्नेᳶ पुरी॑षमसि देव॒यानी॒ तान्त्वा॒ विश्वे॑ अ॒भि गृ॑णन्तु दे॒वाः । स्तोम॑पृष्ठा घृ॒तव॑ती॒ह सी॑द प्र॒जाव॑द॒स्मे द्रवि॒णा य॑जस्वा॒श्विना॑द्ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ । दि॒वो मू॒र्धासि॑ पृथि॒व्या नाभि॑र्वि॒ष्टम्भ॑नी दि॒शामधि॑पत्नी॒ भुव॑नानाम् । [8]
ऊ॒र्मिर्द्र॒प्सो अ॒पाम॑सि वि॒श्वक॑र्मा त॒ ऋषि॑र॒श्विना॑द्ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ । स॒जूर्ऋ॒तुभि॑स्स॒जूर्वि॒धाभि॑स्स॒जूर्वसु॑भिस्स॒जू रु॒द्रैस्स॒जूरा॑दि॒त्यैस्स॒जूर्विश्वै॑र्दे॒वैस्स॒जूर्दे॒वैस्स॒जूर्दे॒वैर्व॑योना॒धैर॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑द्ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ । प्रा॒णम्मे॑ पाह्यपा॒नम्मे॑ पाहि व्या॒नम्मे॑ पाहि॒ चक्षु॑र्म उ॒र्व्या वि भा॑हि॒ श्रोत्र॑म्मे श्लोकया॒पस्पि॒न्वौष॑धीर्जिन्व द्वि॒पात्पा॑हि॒ चतु॑ष्पादव दि॒वो वृष्टि॒मेर॑य ॥ [9]
त्र्यवि॒र्वय॑स्त्रि॒ष्टुप्छन्दो॑ दित्य॒वाड्वयो॑ वि॒राट्छन्द॒ᳶ पञ्चा॑वि॒र्वयो॑ गाय॒त्री छन्द॑स्त्रिव॒त्सो वय॑ उ॒ष्णिहा॒ छन्द॑स्तुर्य॒वाड्वयो॑ऽनु॒ष्टुप्छन्दᳶ॑ पष्ठ॒वाद्वयो॑ बृह॒ती छन्द॑ उ॒क्षा वय॑स्स॒तोबृ॑हती॒ छन्द॑ ऋष॒भो वय॑ᳵ क॒कुच्छन्दो॑ धे॒नुर्वयो॒ जग॑ती॒ छन्दो॑ऽन॒ड्वान्‌वयᳶ॑ प॒ङ्क्तिश्छन्दो॑ ब॒स्तो वयो॑ विव॒लञ्छन्दो॑ वृ॒ष्णिर्वयो॑ विशा॒लञ्छन्द॒ᳶ पुरु॑षो॒ वय॑स्त॒न्द्रञ्छन्दो॑ व्या॒घ्रो वयोऽना॑धृष्ट॒ञ्छन्द॑स्सिँ॒हो वय॑श्छ॒दिश्छन्दो॑ विष्ट॒म्भो वयोऽधि॑पति॒श्छन्दः॑ क्ष॒त्रव्ँवयो॒ मय॑न्द॒ञ्छन्दो॑ वि॒श्वक॑र्मा॒ वयᳶ॑ परमे॒ष्ठी छन्दो मू॒र्धा वयᳶ॑ प्र॒जाप॑ति॒श्छन्दः॑ ॥ [10]
इन्द्रा॑ग्नी॒ अव्य॑थमाना॒मिष्ट॑कान्दृँहतय्ँयु॒वम् । पृ॒ष्ठेन॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षञ्च॒ वि बा॑धताम् ॥ वि॒श्वक॑र्मा त्वा सादयत्व॒न्तरि॑क्षस्य पृ॒ष्ठे व्यच॑स्वती॒म्प्रथ॑स्वती॒म्भास्व॑तीँ सूरि॒मती॒मा या द्याम्भास्या पृ॑थि॒वीमोर्व॑न्तरि॑क्षम॒न्तरि॑क्षय्ँयच्छा॒न्तरि॑क्षन्दृँहा॒न्तरि॑क्ष॒म्मा हिँ॑सी॒र्विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्रा॑य वा॒युस्त्वा॒भि पा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॑ [11]
शन्त॑मेन॒ तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॑द । राज्ञ्य॑सि॒ प्राची॒ दिग्वि॒राड॑सि दक्षि॒णा दिक्स॒म्राड॑सि प्र॒तीची॒ दिक्स्व॒राड॒स्युदी॑ची॒ दिगधि॑पत्न्यसि बृह॒ती दिगायु॑र्मे पाहि प्रा॒णम्मे॑ पाह्यपा॒नम्मे॑ पाहि व्या॒नम्मे॑ पाहि॒ चक्षु॑र्मे पाहि॒ श्रोत्र॑म्मे पाहि॒ मनो॑ मे जिन्व॒ वाच॑म्मे पिन्वा॒त्मान॑म्मे पाहि॒ ज्योति॑र्मे यच्छ ॥ [12]
मा छन्दᳶ॑ प्र॒मा छन्दᳶ॑ प्रति॒मा छन्दो॑ऽस्री॒विश्छन्दᳶ॑ प॒ङ्क्तिश्छन्द॑ उ॒ष्णिहा॒ छन्दो॑ बृह॒ती छन्दो॑ऽनु॒ष्टुफ्छन्दो॑ वि॒राट्छन्दो॑ गाय॒त्री छन्द॑स्त्रि॒ष्टुफ्छन्दो॒ जग॑ती॒ छन्दᳶ॑ पृथि॒वी छन्दो॒ऽन्तरि॑क्ष॒ञ्छन्दो॒ द्यौश्छन्द॒स्समा॒श्छन्दो॒ नक्ष॑त्राणि॒ छन्दो॒ मन॒श्छन्दो॒ वाक्छन्द॑ᳵ कृ॒षिश्छन्दो॒ हिर॑ण्य॒ञ्छन्दो॒ गौश्छन्दो॒ऽजा छन्दोऽश्व॒श्छन्दः॑ । अ॒ग्निर्दे॒वता॑ [13]
वातो॑ दे॒वता॒ सूर्यो॑ दे॒वता॑ च॒न्द्रमा॑ दे॒वता॒ वस॑वो दे॒वता॑ रु॒द्रा दे॒वता॑दि॒त्या दे॒वता॒ विश्वे॑ दे॒वा दे॒वता॑ म॒रुतो॑ दे॒वता॒ बृह॒स्पति॑र्दे॒वतेन्द्रो॑ दे॒वता॒ वरु॑णो दे॒वता॑ मू॒र्धासि॒ राड्ध्रु॒वासि॑ ध॒रुणा॑ य॒न्त्र्य॑सि॒ यमि॑त्री॒षे त्वो॒र्जे त्वा॑ कृ॒ष्यै त्वा॒ क्षेमा॑य त्वा॒ यन्त्री॒ राड्ध्रु॒वासि॒ धर॑णी ध॒र्त्र्य॑सि॒ धरि॒त्र्यायु॑षे त्वा॒ वर्च॑से॒ त्वौज॑से त्वा॒ बला॑य त्वा ॥ [14]
आ॒शुस्त्रि॒वृद्भा॒न्तᳶ प॑ञ्चद॒शो व्यो॑म सप्तद॒शᳶ प्रतू॑र्तिरष्टाद॒शस्तपो॑ नवद॒शो॑ऽभिव॒र्तस्स॑विँ॒शो ध॒रुण॑ एकविँ॒शो वर्चो॑ द्वाविँ॒शस्स॒म्भर॑णस्त्रयोविँ॒शो योनि॑श्चतुर्विँ॒शो गर्भाः॑ पञ्चविँ॒श ओज॑स्त्रिण॒वᳵ क्रतु॑रेकत्रिँ॒शᳶ प्र॑ति॒ष्ठा त्र॑यस्त्रिँ॒शो ब्र॒ध्नस्य॑ वि॒ष्टप॑ञ्चतुस्त्रिँ॒शो नाक॑ष्षट्त्रिँ॒शो वि॑व॒र्तो॑ऽष्टाचत्वारिँ॒शो ध॒र्त्रश्च॑तुष्टो॒मः ॥ [15]
अ॒ग्नेर्भा॒गो॑ऽसि दी॒क्षाया॒ आधि॑पत्य॒म्ब्रह्म॑ स्पृ॒तन्त्रि॒वृत्स्तोम॒ इन्द्र॑स्य भा॒गो॑ऽसि॒ विष्णो॒राधि॑पत्यङ्क्ष॒त्रँ स्पृ॒तम्प॑ञ्चद॒शस्स्तोमो॑ नृ॒चक्ष॑साम्भा॒गो॑ऽसि धा॒तुराधि॑पत्यञ्ज॒नित्रँ॑ स्पृ॒तँ स॑प्तद॒शस्स्तोमो॑ मि॒त्रस्य॑ भा॒गो॑ऽसि॒ वरु॑ण॒स्याधि॑पत्यन्दि॒वो वृ॒ष्टिर्वाताः॑ स्पृ॒ता ए॑कविँ॒शस्स्तोमोऽदि॑त्यै भा॒गो॑ऽसि पू॒ष्ण आधि॑पत्य॒मोज॑स्स्पृ॒तन्त्रि॑ण॒वस्स्तोमो॒ वसू॑नाम्भा॒गो॑ऽसि [16]
रु॒द्राणा॒माधि॑पत्य॒ञ्चतु॑ष्पात्स्पृ॒तञ्च॑तुर्विँ॒शस्स्तोम॑ आदि॒त्याना॑म्भा॒गो॑ऽसि म॒रुता॒माधि॑पत्य॒ङ्गर्भाः॑ स्पृ॒ताᳶ प॑ञ्चविँ॒शस्स्तोमो॑ दे॒वस्य॑ सवि॒तुर्भा॒गो॑ऽसि॒ बृह॒स्पते॒राधि॑पत्यँ स॒मीची॒र्दिश॑स्स्पृ॒ताश्च॑तुष्टो॒मस्स्तोमो॒ यावा॑नाम्भा॒गो॑ऽस्यया॑वाना॒माधि॑पत्यम्प्र॒जास्स्पृ॒ताश्च॑तुश्चत्वारिँ॒शस्स्तोम॑ ऋभू॒णाम्भा॒गो॑ऽसि॒ विश्वे॑षान्दे॒वाना॒माधि॑पत्यम्भू॒तन्निशा॑न्तँ स्पृ॒तन्त्र॑यस्त्रिँ॒शस्स्तोमः॑ ॥ [17]
एक॑यास्तुवत प्र॒जा अ॑धीयन्त प्र॒जाप॑ति॒रधि॑पतिरासीत्ति॒सृभि॑रस्तुवत॒ ब्रह्मा॑सृज्यत॒ ब्रह्म॑ण॒स्पति॒रधि॑पतिरासीत्प॒ञ्चभि॑रस्तुवत भू॒तान्य॑सृज्यन्त भू॒ताना॒म्पति॒रधि॑पतिरासीत्स॒प्तभि॑रस्तुवत सप्त॒र्षयो॑ऽसृज्यन्त धा॒ताधि॑पतिरासीन्न॒वभि॑रस्तुवत पि॒तरो॑ऽसृज्य॒न्तादि॑ति॒रधि॑पत्न्यासीदेकाद॒शभि॑रस्तुवत॒र्तवो॑ऽसृज्यन्तार्त॒वोऽधि॑पतिरासीत्त्रयोद॒शभि॑रस्तुवत॒ मासा॑ असृज्यन्त सव्ँवत्स॒रोऽधि॑पतिः [18]
आ॒सी॒त्प॒ञ्च॒द॒शभि॑रस्तुवत क्ष॒त्रम॑सृज्य॒तेन्द्रोऽधि॑पतिरासीत्सप्तद॒शभि॑रस्तुवत प॒शवो॑ऽसृज्यन्त॒ बृह॒स्पति॒रधि॑पतिरासीन्नवद॒शभि॑रस्तुवत शूद्रा॒र्याव॑सृज्येतामहोरा॒त्रे अधि॑पत्नी आस्ता॒मेक॑विँशत्यास्तुव॒तैक॑शफाᳶ प॒शवो॑ऽसृज्यन्त॒ वरु॒णोऽधि॑पतिरासी॒त्त्रयो॑विँशत्यास्तुवत क्षु॒द्राᳶ प॒शवो॑ऽसृज्यन्त पू॒षाधि॑पतिरासी॒त्पञ्च॑विँशत्यास्तुवतार॒ण्याᳶ प॒शवो॑ऽसृज्यन्त वा॒युरधि॑पतिरासीत्स॒प्तविँ॑शत्यास्तुवत॒ द्यावा॑पृथि॒वी वि [19]
ऐ॒ताव्ँ॒वस॑वो रु॒द्रा आ॑दि॒त्या अनु॒ व्या॑य॒न्तेषा॒माधि॑पत्यमासी॒न्नव॑विँशत्यास्तुवत॒ वन॒स्पत॑योऽसृज्यन्त॒ सोमोऽधि॑पतिरासी॒देक॑त्रिँशतास्तुवत प्र॒जा अ॑सृज्यन्त॒ यावा॑ना॒ञ्चाया॑वाना॒ञ्चाधि॑पत्यमासी॒त्त्रय॑स्त्रिँशतास्तुवत भू॒तान्य॑शाम्यन्प्र॒जाप॑तिᳶ परमे॒ष्ठ्यधि॑पतिरासीत् ॥ [20]
इ॒यमे॒व सा या प्र॑थ॒मा व्यौच्छ॑द॒न्तर॒स्याञ्च॑रति॒ प्रवि॑ष्टा । व॒धूर्ज॑जान नव॒गज्जनि॑त्री॒ त्रय॑ एनाम्महि॒मान॑स्सचन्ते ॥ छन्द॑स्वती उ॒षसा॒ पेपि॑शाने समा॒नय्ँयोनि॒मनु॑ स॒ञ्चर॑न्ती । सूर्य॑पत्नी॒ वि च॑रतᳶ प्रजान॒ती के॒तुङ्कृ॑ण्वा॒ने अ॒जरे॒ भूरि॑रेतसा ॥ ऋ॒तस्य॒ पन्था॒मनु॑ ति॒स्र आगु॒स्त्रयो॑ घ॒र्मासो॒ अनु॒ ज्योति॒षागुः॑ । प्र॒जामेका॒ रक्ष॒त्यूर्ज॒मेका॑ [21]
व्र॒तमेका॑ रक्षति देवयू॒नाम् ॥ च॒तु॒ष्टो॒मो अ॑भव॒द्या तु॒रीया॑ य॒ज्ञस्य॑ प॒क्षावृ॑षयो॒ भव॑न्ती । गा॒य॒त्रीन्त्रि॒ष्टुभ॒ञ्जग॑तीमनु॒ष्टुभ॑म्बृ॒हद॒र्कय्ँयु॑ञ्जा॒नास्सुव॒राभ॑रन्नि॒दम् ॥ प॒ञ्चभि॑र्धा॒ता वि द॑धावि॒दय्ँयत्तासाँ॒ स्वसॄ॑रजनय॒त्पञ्च॑पञ्च । तासा॑मु यन्ति प्रय॒वेण॒ पञ्च॒ नाना॑ रू॒पाणि॒ क्रत॑वो॒ वसा॑नाः ॥ त्रिँ॒शत्स्वसा॑र॒ उप॑ यन्ति निष्कृ॒तँ स॑मा॒नङ्के॒तुम्प्र॑तिमु॒ञ्चमा॑नाः । [22]
ऋ॒तूँस्त॑न्वते क॒वयᳶ॑ प्रजान॒तीर्मध्ये॑छन्दस॒ᳶ परि॑ यन्ति॒ भास्व॑तीः । ज्योति॑ष्मती॒ प्रति॑ मुञ्चते॒ नभो॒ रात्री॑ दे॒वी सूर्य॑स्य व्र॒तानि॑ । वि प॑श्यन्ति प॒शवो॒ जाय॑माना॒ नाना॑रूपा मा॒तुर॒स्या उ॒पस्थे॑ । ए॒का॒ष्ट॒का तप॑सा॒ तप्य॑माना ज॒जान॒ गर्भ॑म्महि॒मान॒मिन्द्र॑म् । तेन॒ दस्यू॒न्व्य॑सहन्त दे॒वा ह॒न्तासु॑राणामभव॒च्छची॑भिः । अना॑नुजामनु॒जाम्माम॑कर्त स॒त्यव्ँवद॒न्त्यन्वि॑च्छ ए॒तत् । भू॒यास॑म् [23]
अ॒स्य॒ सु॒म॒तौ यथा॑ यू॒यम॒न्या वो॑ अ॒न्यामति॒ मा प्र यु॑क्त । अभू॒न्मम॑ सुम॒तौ वि॒श्ववे॑दा॒ आष्ट॑ प्रति॒ष्ठामवि॑द॒द्धि गा॒धम् । भू॒यास॑मस्य सुम॒तौ यथा॑ यू॒यम॒न्या वो॑ अ॒न्यामति॒ मा प्र यु॑क्त । पञ्च॒ व्यु॑ष्टी॒रनु॒ पञ्च॒ दोहा॒ गाम्पञ्च॑नाम्नीमृ॒तवोऽनु॒ पञ्च॑ । पञ्च॒ दिशᳶ॑ पञ्चद॒शेन॑ कॢ॒प्तास्स॑मा॒नमू॑र्ध्नीर॒भि लो॒कमेक॑म् ॥ [24]
ऋ॒तस्य॒ गर्भᳶ॑ प्रथ॒मा व्यू॒षुष्य॒पामेका॑ महि॒मान॑म्बिभर्ति । सूर्य॒स्यैका॒ चर॑ति निष्कृ॒तेषु॑ घ॒र्मस्यैका॑ सवि॒तैका॒न्नि य॑च्छति । या प्र॑थ॒मा व्यौच्छ॒त्सा धे॒नुर॑भवद्य॒मे । सा न॒ᳶ पय॑स्वती धु॒क्ष्वोत्त॑रामुत्तराँ॒ समा॑म् । शु॒क्रर्ष॑भा॒ नभ॑सा॒ ज्योति॒षागा॑द्वि॒श्वरू॑पा शब॒लीर॒ग्निके॑तुः । स॒मा॒नमर्थँ॑ स्वप॒स्यमा॑ना॒ बिभ्र॑ती ज॒राम॑जर उष॒ आगाः॑ । ऋ॒तू॒नाम्पत्नी॑ प्रथ॒मेयमागा॒दह्ना॑न्ने॒त्री ज॑नि॒त्री प्र॒जाना॑म् । एका॑ स॒ती ब॑हु॒धोषो॒ व्यु॑च्छ॒स्यजी॑र्णा॒ त्वञ्ज॑रयसि॒ सर्व॑म॒न्यत् ॥ [25]
अग्ने॑ जा॒तान्प्र णु॑दा नस्स॒पत्ना॒न्प्रत्यजा॑ताञ्जातवेदो नुदस्व । अ॒स्मे दी॑दिहि सु॒मना॒ अहे॑ड॒न्तव॑ स्याँ॒ शर्म॑न्त्रि॒वरू॑थ उ॒द्भित् । सह॑सा जा॒तान्प्र णु॑दा नस्स॒पत्ना॒न्प्रत्यजा॑ताञ्जातवेदो नुदस्व । अधि॑ नो ब्रूहि सुमन॒स्यमा॑नो व॒यँ स्या॑म॒ प्र णु॑दा नस्स॒पत्ना॑न् । च॒तु॒श्च॒त्वा॒रिँ॒शस्स्तोमो॒ वर्चो॒ द्रवि॑णँ षोड॒शस्स्तोम॒ ओजो॒ द्रवि॑णम्पृथि॒व्याᳶ पुरी॑षमसि [26]
अप्सो॒ नाम॑ । एव॒श्छन्दो॒ वरि॑व॒श्छन्द॑श्श॒म्भूश्छन्दᳶ॑ परि॒भूश्छन्द॑ आ॒च्छच्छन्दो॒ मन॒श्छन्दो॒ व्यच॒श्छन्द॒स्सिन्धु॒श्छन्द॑स्समु॒द्रञ्छन्द॑स्सलि॒लञ्छन्द॑स्सय्ँ॒यच्छन्दो॑ वि॒यच्छन्दो॑ बृ॒हच्छन्दो॑ रथन्त॒रञ्छन्दो॑ निका॒यश्छन्दो॑ विव॒धश्छन्दो॒ गिर॒श्छन्दो॒ भ्रज॒श्छन्द॑स्स॒ष्टुप्छन्दो॑ऽनु॒ष्टुप्छन्द॑ᳵ क॒कुच्छन्द॑स्त्रिक॒कुच्छन्द॑ᳵ का॒व्यञ्छन्दो॑ऽङ्कु॒पञ्छन्दः॑ [27]
प॒दप॑ङ्क्ति॒श्छन्दो॒ऽक्षर॑पङ्क्ति॒श्छन्दो॑ विष्टा॒रप॑ङ्क्ति॒श्छन्दः॑ क्षु॒रो भृज्वा॒ञ्छन्दᳶ॑ प्र॒च्छच्छन्दᳶ॑ प॒क्षश्छन्द॒ एव॒श्छन्दो॒ वरि॑व॒श्छन्दो॒ वय॒श्छन्दो॑ वय॒स्कृच्छन्दो॑ विशा॒लञ्छन्दो॒ विष्प॑र्धा॒श्छन्द॑श्छ॒दिश्छन्दो॑ दूरोह॒णञ्छन्द॑स्त॒न्द्रञ्छन्दो॑ऽङ्का॒ङ्कञ्छन्दः॑ ॥ [28]
अ॒ग्निर्वृ॒त्राणि॑ जङ्घनद्द्रविण॒स्युर्वि॑प॒न्यया॑ । समि॑द्धश्शु॒क्र आहु॑तः ॥ त्वँ सो॑मासि॒ सत्प॑ति॒स्त्वँ राजो॒त वृ॑त्र॒हा । त्वम्भ॒द्रो अ॑सि॒ क्रतुः॑ ॥ भ॒द्रा ते॑ अग्ने स्वनीक स॒न्दृग्घो॒रस्य॑ स॒तो विषु॑णस्य॒ चारुः॑ । न यत्ते॑ शो॒चिस्तम॑सा॒ वर॑न्त॒ न ध्व॒स्मान॑स्त॒नुवि॒ रेप॒ आ धुः॑ ॥ भ॒द्रन्ते॑ अग्ने सहसि॒न्ननी॑कमुपा॒क आ रो॑चते॒ सूर्य॑स्य । [29]
रुश॑द्दृ॒शे द॑दृशे नक्त॒या चि॒दरू॑क्षितन्दृ॒श आ रू॒पे अन्न॑म् । सैनानी॑केन सुवि॒दत्रो॑ अ॒स्मे यष्टा॑ दे॒वाँ आय॑जिष्ठस्स्व॒स्ति । अद॑ब्धो गो॒पा उ॒त नᳶ॑ पर॒स्पा अग्ने॑ द्यु॒मदु॒त रे॒वद्दि॑दीहि । स्व॒स्ति नो॑ दि॒वो अ॑ग्ने पृथि॒व्या वि॒श्वायु॑र्धेहि य॒जथा॑य देव । यत्सी॒महि॑ दिविजात॒ प्रश॑स्त॒न्तद॒स्मासु॒ द्रवि॑णन्धेहि चि॒त्रम् । यथा॑ होत॒र्मनु॑षः [30]
दे॒वता॑ता य॒ज्ञेभि॑स्सूनो सहसो॒ यजा॑सि । ए॒वा नो॑ अ॒द्य स॑म॒ना स॑मा॒नानु॒शन्न॑ग्न उश॒तो य॑क्षि दे॒वान् ॥ अ॒ग्निमी॑डे पु॒रोहि॑तय्ँ य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् । होता॑रँ रत्न॒धात॑मम् ॥ वृषा॑ सोम द्यु॒माँ अ॑सि॒ वृषा॑ देव॒ वृष॑व्रतः । वृषा॒ धर्मा॑णि दधिषे ॥ सान्त॑पना इ॒दँ ह॒विर्मरु॑त॒स्तज्जु॑जुष्टन । यु॒ष्माको॒ती रि॑शादसः ॥ यो नो॒ मर्तो॑ वसवो दुर्हृणा॒युस्ति॒रस्स॒त्यानि॑ मरुतः [31]
जिघाँ॑सात् । द्रु॒हᳶ पाश॒म्प्रति॒ स मु॑चीष्ट॒ तपि॑ष्ठेन॒ तप॑सा हन्तना॒ तम् । सव्ँ॒व॒त्स॒रीणा॑ म॒रुत॑स्स्व॒र्का उ॑रु॒क्षया॒स्सग॑णा॒ मानु॑षेषु । ते॑ऽस्मत्पाशा॒न्प्र मु॑ञ्च॒न्त्वँह॑सस्सान्तप॒ना म॑दि॒रा मा॑दयि॒ष्णवः॑ । पि॒प्री॒हि दे॒वाँ उ॑श॒तो य॑विष्ठ वि॒द्वाँ ऋ॒तूँर्ऋ॑तुपते यजे॒ह । ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने॒ त्वँ होतॄ॑णाम॒स्याय॑जिष्ठः । अग्ने॒ यद॒द्य वि॒शो अ॑ध्वरस्य होत॒ᳶ पाव॑क [32]
शो॒चे॒ वेष्ट्वँ हि यज्वा॑ । ऋ॒ता य॑जासि महि॒ना वि यद्भूर्ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य । अ॒ग्निना॑ र॒यिम॑श्ञव॒त्पोष॑मे॒व दि॒वेदि॑वे । य॒शसव्ँ॑वी॒रव॑त्तमम् ॥ ग॒य॒स्फानो॑ अमीव॒हा व॑सु॒वित्पु॑ष्टि॒वर्ध॑नः । सु॒मि॒त्रस्सो॑म नो भव । गृह॑मेधास॒ आ ग॑त॒ मरु॑तो॒ माप॑ भूतन । प्र॒मु॒ञ्चन्तो॑ नो॒ अँह॑सः । पू॒र्वीभि॒र्हि द॑दाशि॒म श॒रद्भि॑र्मरुतो व॒यम् । महो॑भिः [33]
च॒र्ष॒णी॒नाम् । प्र बु॒ध्निया॑ ईरते वो॒ महाँ॑सि॒ प्र णामा॑नि प्रयज्यवस्तिरध्वम् । स॒ह॒स्रिय॒न्दम्य॑म्भा॒गमे॒तङ्गृ॑हमे॒धीय॑म्मरुतो जुषध्वम् । उप॒ यमेति॑ युव॒तिस्सु॒दक्ष॑न्दो॒षा वस्तो॑र्ह॒विष्म॑ती घृ॒ताची॑ । उप॒ स्वैन॑म॒रम॑तिर्वसू॒युः । इ॒मो अ॑ग्ने वी॒तत॑मानि ह॒व्याज॑स्रो वक्षि दे॒वता॑ति॒मच्छ॑ । प्रति॑ न ईँ सुर॒भीणि॑ वियन्तु । क्री॒डव्ँव॒श्शर्धो॒ मारु॑तमन॒र्वाणँ॑ रथे॒शुभ॑म् । [34]
कण्वा॑ अ॒भि प्र गा॑यत । अत्या॑सो॒ न ये म॒रुत॒स्स्वञ्चो॑ यक्ष॒दृशो॒ न शु॒भय॑न्त॒ मर्याः॑ । ते ह॑र्म्ये॒ष्ठाश्शिश॑वो॒ न शु॒भ्रा व॒त्सासो॒ न प्र॑क्री॒डिनᳶ॑ पयो॒धाः । प्रैषा॒मज्मे॑षु विथु॒रेव॑ रेजते॒ भूमि॒र्यामे॑षु॒ यद्ध॑ यु॒ञ्जते॑ शु॒भे । ते क्री॒डयो॒ धुन॑यो॒ भ्राज॑दृष्टयस्स्व॒यम्म॑हि॒त्वम्प॑नयन्त॒ धूत॑यः । उ॒प॒ह्व॒रेषु॒ यदचि॑ध्वय्ँय॒यिव्ँवय॑ इव मरुत॒ᳵ केन॑ [35]
चि॒त्प॒था । श्चोत॑न्ति॒ कोशा॒ उप॑ वो॒ रथे॒ष्वा घृ॒तमु॑क्षता॒ मधु॑वर्ण॒मर्च॑ते । अ॒ग्निम॑ग्निँ॒ हवी॑मभि॒स्सदा॑ हवन्त वि॒श्पति॑म् । ह॒व्य॒वाह॑म्पुरुप्रि॒यम् । तँ हि शश्व॑न्त॒ ईड॑ते स्रु॒चा दे॒वङ्घृ॑त॒श्चुता॑ । अ॒ग्निँ ह॒व्याय॒ वोढ॑वे । इन्द्रा॑ग्नी रोच॒ना दि॒वश्श्ञथ॑द्वृ॒त्रमिन्द्रव्ँ॑वो वि॒श्वत॒स्परीन्द्र॒न्नरो॒ विश्व॑कर्मन्‌ह॒विषा॑ वावृधा॒नो विश्व॑कर्मन्‌ह॒विषा॒ वर्ध॑नेन ॥ [36]