विष्णो॒ᳵ क्रमो॑ऽस्यभिमाति॒हा गा॑य॒त्रञ्छन्द॒ आ रो॑ह पृथि॒वीमनु॒ वि क्र॑मस्व॒ निर्भ॑क्त॒स्स यन्द्वि॒ष्मो विष्णो॒ᳵ क्रमो॑ऽस्यभिशस्ति॒हा त्रैष्टु॑भ॒ञ्छन्द॒ आ रो॑हा॒न्तरि॑क्ष॒मनु॒ वि क्र॑मस्व॒ निर्भ॑क्त॒स्स यन्द्वि॒ष्मो विष्णो॒ᳵ क्रमो॑ऽस्यरातीय॒तो ह॒न्ता जाग॑त॒ञ्छन्द॒ आ रो॑ह॒ दिव॒मनु॒ वि क्र॑मस्व॒ निर्भ॑क्त॒स्स यन्द्वि॒ष्मो विष्णोः॑ [1]
क्रमो॑ऽसि शत्रूय॒तो ह॒न्तानु॑ष्टुभ॒ञ्छन्द॒ आ रो॑ह॒ दिशोऽनु॒ वि क्र॑मस्व॒ निर्भ॑क्त॒स्स यन्द्वि॒ष्मः । अक्र॑न्दद॒ग्निस्स्त॒नय॑न्निव॒ द्यौः क्षामा॒ रेरि॑हद्वी॒रुध॑स्सम॒ञ्जन् । स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः । अग्ने॑ऽभ्यावर्तिन्न॒भि न॒ आ व॑र्त॒स्वायु॑षा॒ वर्च॑सा स॒न्या मे॒धया॑ प्र॒जया॒ धने॑न । अग्ने॑ [2]
अ॒ङ्गि॒र॒श्श॒तन्ते॑ सन्त्वा॒वृत॑स्स॒हस्र॑न्त उपा॒वृतः॑ । तासा॒म्पोष॑स्य॒ पोषे॑ण॒ पुन॑र्नो न॒ष्टमा कृ॑धि॒ पुन॑र्नो र॒यिमा कृ॑धि । पुन॑रू॒र्जा नि व॑र्तस्व॒ पुन॑रग्न इ॒षायु॑षा । पुन॑र्नᳶ पाहि वि॒श्वतः॑ । स॒ह र॒य्या नि व॑र्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या । वि॒श्वप्स्नि॑या वि॒श्वत॒स्परि॑ । उदु॑त्त॒मव्ँव॑रुण॒ पाश॑म॒स्मदवा॑ध॒मम् [3]
वि म॑ध्य॒मँ श्र॑थाय । अथा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम । आ त्वा॑हार्षम॒न्तर॑भूर्द्ध्रु॒वस्ति॒ष्ठावि॑चाचलिः । विश॑स्त्वा॒ सर्वा॑ वाञ्छन्त्व॒स्मिन्रा॒ष्ट्रमधि॑ श्रय । अग्रे॑ बृ॒हन्नु॒षसा॑मू॒र्ध्वो अ॑स्थान्निर्जग्मि॒वान्तम॑सो॒ ज्योति॒षागा॑त् । अ॒ग्निर्भा॒नुना॒ रुश॑ता॒ स्वङ्ग॒ आ जा॒तो विश्वा॒ सद्मा॑न्यप्राः । सीद॒ त्वम्मा॒तुर॒स्याः [4]
उ॒पस्थे॒ विश्वा॑न्यग्ने व॒युना॑नि वि॒द्वान् । मैना॑म॒र्चिषा॒ मा तप॑सा॒भि शू॑शुचो॒ऽन्तर॑स्याँ शु॒क्रज्यो॑ति॒र्वि भा॑हि । अ॒न्तर॑ग्ने रु॒चा त्वमु॒खायै॒ सद॑ने॒ स्वे । तस्या॒स्त्वँ हर॑सा॒ तप॒ञ्जात॑वेदश्शि॒वो भ॑व । शि॒वो भू॒त्वा मह्य॑म॒ग्नेऽथो॑ सीद शि॒वस्त्वम् । शि॒वाᳵ कृ॒त्वा दिश॒स्सर्वा॒स्स्वाय्ँयोनि॑मि॒हास॑दः । हँ॒सश्शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् । नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तम्बृ॒हत् ॥ [5]
दि॒वस्परि॑ प्रथ॒मञ्ज॑ज्ञे अ॒ग्निर॒स्मद्द्वि॒तीय॒म्परि॑ जा॒तवे॑दाः । तृ॒तीय॑म॒प्सु नृ॒मणा॒ अज॑स्र॒मिन्धा॑न एनञ्जरते स्वा॒धीः । वि॒द्मा ते॑ अग्ने त्रे॒धा त्र॒याणि॑ वि॒द्मा ते॒ सद्म॒ विभृ॑तम्पुरु॒त्रा । वि॒द्मा ते॒ नाम॑ पर॒मङ्गुहा॒ यद्वि॒द्मा तमुत्सय्ँ॒यत॑ आज॒गन्थ॑ । स॒मु॒द्रे त्वा॑ नृ॒मणा॑ अ॒प्स्व॑न्तर्नृ॒चक्षा॑ ईधे दि॒वो अ॑ग्न॒ ऊध॑न् । तृ॒तीये॑ त्वा [6]
रज॑सि तस्थि॒वाँस॑मृ॒तस्य॒ योनौ॑ महि॒षा अ॑हिन्वन् । अक्र॑न्दद॒ग्निस्स्त॒नय॑न्निव॒ द्यौः क्षामा॒ रेरि॑हद्वी॒रुध॑स्सम॒ञ्जन् । स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः । उ॒शिक्पा॑व॒को अ॑र॒तिस्सु॑मे॒धा मर्ते॑ष्व॒ग्निर॒मृतो॒ निधा॑यि । इय॑र्ति धू॒मम॑रु॒षम्भरि॑भ्र॒दुच्छु॒क्रेण॑ शो॒चिषा॒ द्यामिन॑क्षत् । विश्व॑स्य के॒तुर्भुव॑नस्य॒ गर्भ॒ आ [7]
रोद॑सी अपृणा॒ज्जाय॑मानः । वी॒डुञ्चि॒दद्रि॑मभिनत्परा॒यञ्जना॒ यद॒ग्निमय॑जन्त॒ पञ्च॑ । श्री॒णामु॑दा॒रो ध॒रुणो॑ रयी॒णाम्म॑नी॒षाणा॒म्प्रार्प॑ण॒स्सोम॑गोपाः । वसोः॑ सू॒नुस्सह॑सो अ॒प्सु राजा॒ वि भा॒त्यग्र॑ उ॒षसा॑मिधा॒नः । यस्ते॑ अ॒द्य कृ॒णव॑द्भद्रशोचेऽपू॒पन्दे॑व घृ॒तव॑न्तमग्ने । प्र तन्न॑य प्रत॒राव्ँवस्यो॒ अच्छा॒भि द्यु॒म्नन्दे॒वभ॑क्तय्ँयविष्ठ । आ [8]
तम्भ॑ज सौश्रव॒सेष्व॑ग्न उ॒क्थउ॑क्थ॒ आ भ॑ज श॒स्यमा॑ने । प्रि॒यस्सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वा॒त्युज्जा॒तेन॑ भि॒नद॒दुज्जनि॑त्वैः । त्वाम॑ग्ने॒ यज॑माना॒ अनु॒ द्यून् विश्वा॒ वसू॑नि दधिरे॒ वार्या॑णि । त्वया॑ स॒ह द्रवि॑णमि॒च्छमा॑ना व्र॒जङ्गोम॑न्तमु॒शिजो॒ वि व॑व्रुः । दृ॒शा॒नो रु॒क्म उ॒र्व्या व्य॑द्यौद्दु॒र्मर्ष॒मायु॑श्श्रि॒ये रु॑चा॒नः । अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भि॒र्यदे॑न॒न्द्यौरज॑नयत्सु॒रेताः॑ ॥ [9]
अन्न॑प॒तेऽन्न॑स्य नो देह्यनमी॒वस्य॑ शु॒ष्मिणः॑ । प्रप्र॑ दा॒तार॑न्तारिष॒ ऊर्ज॑न्नो धेहि द्वि॒पदे॒ चतु॑ष्पदे । उदु॑ त्वा॒ विश्वे॑ दे॒वा अग्ने॒ भर॑न्तु॒ चित्ति॑भिः । स नो॑ भव शि॒वत॑मस्सु॒प्रती॑को वि॒भाव॑सुः । प्रेद॑ग्ने॒ ज्योति॑ष्मान् याहि शि॒वेभि॑र॒र्चिभि॒स्त्वम् । बृ॒हद्भि॑र्भा॒नुभि॒र्भास॒न्मा हिँ॑सीस्त॒नुवा॑ प्र॒जाः । स॒मिधा॒ग्निन्दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिम् । आ [10]
अ॒स्मि॒न्ह॒व्या जु॑होतन । प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि यत्सूर्यो॒ न रोच॑ते बृ॒हद्भाः । अ॒भि यᳶ पू॒रुम्पृत॑नासु त॒स्थौ दी॒दाय॒ दैव्यो॒ अति॑थिश्शि॒वो नः॑ । आपो॑ देवी॒ᳶ प्रति॑ गृह्णीत॒ भस्मै॒तत्स्यो॒ने कृ॑णुध्वँ सुर॒भावु॑ लो॒के । तस्मै॑ नमन्ता॒ञ्जन॑यस्सु॒पत्नी॑र्मा॒तेव॑ पु॒त्रम्बि॑भृ॒ता स्वे॑नम् । अ॒प्स्व॑ग्ने॒ सधि॒ष्टव॑ [11]
सौष॑धी॒रनु॑ रुध्यसे । गर्भे॒ सञ्जा॑यसे॒ पुनः॑ । गर्भो॑ अ॒स्योष॑धीना॒ङ्गर्भो॒ वन॒स्पती॑नाम् । गर्भो॒ विश्व॑स्य भू॒तस्याग्ने॒ गर्भो॑ अ॒पाम॑सि । प्र॒सद्य॒ भस्म॑ना॒ योनि॑म॒पश्च॑ पृथि॒वीम॑ग्ने । सँ॒सृज्य॑ मा॒तृभि॒स्त्वञ्ज्योति॑ष्मा॒न्पुन॒रास॑दः । पुन॑रा॒सद्य॒ सद॑नम॒पश्च॑ पृथि॒वीम॑ग्ने । शेषे॑ मा॒तुर्यथो॒पस्थे॒ऽन्तर॒स्याँ शि॒वत॑मः । पुन॑रू॒र्जा [12]
नि व॑र्तस्व॒ पुन॑रग्न इ॒षायु॑षा । पुन॑र्नᳶ पाहि वि॒श्वतः॑ । स॒ह र॒य्या नि व॑र्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या । वि॒श्वप्स्नि॑या वि॒श्वत॒स्परि॑ । पुन॑स्त्वादि॒त्या रु॒द्रा वस॑व॒स्समि॑न्धता॒म्पुन॑र्ब्र॒ह्माणो॑ वसुनीथ य॒ज्ञैः । घृ॒तेन॒ त्वन्त॒नुवो॑ वर्धयस्व स॒त्यास्स॑न्तु॒ यज॑मानस्य॒ कामाः॑ । बोधा॑ नो अ॒स्य वच॑सो यविष्ठ॒ मँहि॑ष्ठस्य॒ प्रभृ॑तस्य स्वधावः । पीय॑ति त्वो॒ अनु॑ त्वो गृणाति व॒न्दारु॑स्ते त॒नुवव्ँ॑वन्दे अग्ने । स बो॑धि सू॒रिर्म॒घवा॑ वसु॒दावा॒ वसु॑पतिः । यु॒यो॒ध्य॑स्मद्द्वेषाँ॑सि ॥ [13]
अपे॑त॒ वीत॒ वि च॑ सर्प॒तातो॒ येऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः । अदा॑दि॒दय्ँय॒मो॑ऽव॒सान॑म्पृथि॒व्या अक्र॑न्नि॒मम्पि॒तरो॑ लो॒कम॑स्मै । अ॒ग्नेर्भस्मा॑स्य॒ग्नेᳶ पुरी॑षमसि सं॒ज्ञान॑मसि काम॒धर॑ण॒म्मयि॑ ते काम॒धर॑णम्भूयात् । सय्ँया वᳶ॑ प्रि॒यास्त॒नुव॒स्सम्प्रि॒या हृ॑दयानि वः । आ॒त्मा वो॑ अस्तु [14]
सम्प्रि॑य॒स्सम्प्रि॑यास्त॒नुवो॒ मम॑ । अ॒यँ सो अ॒ग्निर्यस्मि॒न्त्सोम॒मिन्द्र॑स्सु॒तन्द॒धे ज॒ठरे॑ वावशा॒नः । स॒ह॒स्रियव्ँ॒वाज॒मत्य॒न्न सप्तिँ॑ सस॒वान्त्सन्त्स्तू॑यसे जातवेदः । अग्ने॑ दि॒वो अर्ण॒मच्छा॑ जिगा॒स्यच्छा॑ दे॒वाँ ऊ॑चिषे॒ धिष्णि॑या॒ ये । याᳶ प॒रस्ता॑द्रोच॒ने सूर्य॑स्य॒ याश्चा॒वस्ता॑दुप॒तिष्ठ॑न्त॒ आपः॑ । अग्ने॒ यत्ते॑ दि॒वि वर्चᳶ॑ पृथि॒व्याय्ँयदोष॑धीषु [15]
अ॒प्सु वा॑ यजत्र । येना॒न्तरि॑क्षमु॒र्वा॑त॒तन्थ॑ त्वे॒षस्स भा॒नुर॑र्ण॒वो नृ॒चक्षाः॑ । पु॒री॒ष्या॑सो अ॒ग्नयᳶ॑ प्राव॒णेभि॑स्स॒जोष॑सः । जु॒षन्ताँ॑ ह॒व्यमाहु॑तमनमी॒वा इषो॑ म॒हीः । इडा॑मग्ने पुरु॒दँसँ॑ स॒निङ्गोश्श॑श्वत्त॒मँ हव॑मानाय साध । स्यान्न॑स्सु॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे । अ॒यन्ते॒ योनि॑र्ऋ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः । तञ्जा॒नन्न् [16]
अ॒ग्न॒ आ रो॒हाथा॑ नो वर्धया र॒यिम् । चिद॑सि॒ तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॑द परि॒चिद॑सि॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द लो॒कम्पृ॑ण छि॒द्रम्पृ॒णाथो॑ सीद शि॒वा त्वम् । इ॒न्द्रा॒ग्नी त्वा॒ बृह॒स्पति॑र॒स्मिन् योना॑वसीषदन् । ता अ॑स्य॒ सूद॑दोहस॒स्सोमँ॑ श्रीणन्ति॒ पृश्ञ॑यः । जन्म॑न्दे॒वानाव्ँ॒विश॑स्त्रि॒ष्वा रो॑च॒ने दि॒वः ॥ [17]
समि॑तँ॒ सङ्क॑ल्पेथाँ॒ सम्प्रि॑यौ रोचि॒ष्णू सु॑मन॒स्यमा॑नौ । इष॒मूर्ज॑म॒भि सव्ँ॒वसा॑नौ॒ सव्ँवा॒म्मनाँ॑सि॒ सव्व्ँर॒ता समु॑ चि॒त्तान्याक॑रम् । अग्ने॑ पुरीष्याधि॒पा भ॑वा॒ त्वन्नः॑ । इष॒मूर्जय्ँ॒यज॑मानाय धेहि । पु॒री॒ष्य॑स्त्वम॑ग्ने रयि॒मान्पु॑ष्टि॒माँ अ॑सि । शि॒वाᳵ कृ॒त्वा दिश॒स्सर्वा॒स्स्वाय्ँयोनि॑मि॒हास॑दः । भव॑तन्न॒स्सम॑नसौ॒ समो॑कसौ [18]
अ॒रे॒पसौ॑ । मा य॒ज्ञँ हिँ॑सिष्ट॒म्मा य॒ज्ञप॑तिञ्जातवेदसौ शि॒वौ भ॑वतम॒द्य नः॑ । मा॒तेव॑ पु॒त्रम्पृ॑थि॒वी पु॑री॒ष्य॑म॒ग्निँ स्वे योना॑वभारु॒खा । ताव्ँविश्वै॑र्दे॒वैर्ऋ॒तुभि॑स्सव्ँविदा॒नᳶ प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ वि मु॑ञ्चतु । यद॒स्य पा॒रे रज॑सश्शु॒क्रञ्ज्योति॒रजा॑यत । तन्नᳶ॑ पर्ष॒दति॒ द्विषोऽग्ने॑ वैश्वानर॒ स्वाहा॑ । नम॒स्सु ते॑ निर्ऋते विश्वरूपे [19]
अ॒य॒स्मयव्ँ॒वि चृ॑ता ब॒न्धमे॒तम् । य॒मेन॒ त्वय्ँय॒म्या॑ सव्ँविदा॒नोत्त॒मन्नाक॒मधि॑ रोहये॒मम् । यत्ते॑ दे॒वी निर्ऋ॑तिरा ब॒बन्ध॒ दाम॑ ग्री॒वास्व॑विच॒र्त्यम् । इ॒दन्ते॒ तद्वि ष्या॒म्यायु॑षो॒ न मध्या॒दथा॑ जी॒वᳶ पि॒तुम॑द्धि॒ प्रमु॑क्तः । यस्या॑स्ते अ॒स्याᳵ क्रू॒र आ॒सञ्जु॒होम्ये॒षाम्ब॒न्धाना॑मव॒सर्ज॑नाय । भूमि॒रिति॑ त्वा॒ जना॑ वि॒दुर्निर्ऋ॑तिः [20]
इति॑ त्वा॒हम्परि॑ वेद वि॒श्वतः॑ । असु॑न्वन्त॒मय॑जमानमिच्छ स्ते॒नस्ये॒त्यान्तस्क॑र॒स्यान्वे॑षि । अ॒न्यम॒स्मदि॑च्छ॒ सा त॑ इ॒त्या नमो॑ देवि निर्ऋते॒ तुभ्य॑मस्तु । दे॒वीम॒हन्निर्ऋ॑तिव्ँ॒वन्द॑मानᳶ पि॒तेव॑ पु॒त्रन्द॑सये॒ वचो॑भिः । विश्व॑स्य॒ या जाय॑मानस्य॒ वेद॒ शिर॑श्शिर॒ᳶ प्रति॑ सू॒री वि च॑ष्टे । नि॒वेश॑नस्स॒ङ्गम॑नो॒ वसू॑नाव्ँ॒विश्वा॑ रू॒पाभि च॑ष्टे [21]
शची॑भिः । दे॒व इ॑व सवि॒ता स॒त्यध॒र्मेन्द्रो॒ न त॑स्थौ सम॒रे प॑थी॒नाम् । सव्ँव॑र॒त्रा द॑धातन॒ निरा॑हा॒वान्कृ॑णोतन । सि॒ञ्चाम॑हा अव॒टमु॒द्रिणव्ँ॑व॒यव्ँविश्वाहाद॑स्त॒मक्षि॑तम् । निष्कृ॑ताहावमव॒टँ सु॑वर॒त्रँ सु॑षेच॒नम् । उ॒द्रिणँ॑ सिञ्चे॒ अक्षि॑तम् । सीरा॑ युञ्जन्ति क॒वयो॑ यु॒गा वि त॑न्वते॒ पृथ॑क् । धीरा॑ दे॒वेषु॑ सुम्न॒या । यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नोत कृ॒ते योनौ॑ वपते॒ह [22]
बीज॑म् । गि॒रा च॑ श्रु॒ष्टिस्सभ॑रा॒ अस॑न्नो॒ नेदी॑य॒ इत्सृ॒ण्या॑ प॒क्वमाय॑त् । लाङ्ग॑ल॒म्पवी॑रवँ सु॒शेवँ॑ सुम॒तित्स॑रु । उदित्कृ॑षति॒ गामवि॑म्प्रफ॒र्व्य॑ञ्च॒ पीव॑रीम् । प्र॒स्थाव॑द्रथ॒वाह॑नम् । शु॒नन्न॒ᳶ फाला॒ वि तु॑दन्तु॒ भूमिँ॑ शु॒नङ्की॒नाशा॑ अ॒भि य॑न्तु वा॒हान् । शु॒नम्प॒र्जन्यो॒ मधु॑ना॒ पयो॑भि॒श्शुना॑सीरा शु॒नम॒स्मासु॑ धत्तम् । काम॑ङ्कामदुघे धुक्ष्व मि॒त्राय॒ वरु॑णाय च । इन्द्रा॑या॒ग्नये॑ पू॒ष्ण ओष॑धीभ्यᳶ प्र॒जाभ्यः॑ । घृ॒तेन॒ सीता॒ मधु॑ना॒ सम॑क्ता॒ विश्वै॑र्दे॒वैरनु॑मता म॒रुद्भिः॑ । ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒स्मान्त्सी॑ते॒ पय॑सा॒भ्याव॑वृत्स्व ॥ [23]
या जा॒ता ओष॑धयो दे॒वेभ्य॑स्त्रियु॒गम्पु॒रा । मन्दा॑मि ब॒भ्रूणा॑महँ श॒तन्धामा॑नि स॒प्त च॑ । श॒तव्ँवो॑ अम्ब॒ धामा॑नि स॒हस्र॑मु॒त वो॒ रुहः॑ । अथा॑ शतक्रत्वो यू॒यमि॒मम्मे॑ अग॒दङ्कृ॑त । पुष्पा॑वतीᳶ प्र॒सूव॑तीᳶ फ॒लिनी॑रफ॒ला उ॒त । अश्वा॑ इव स॒जित्व॑रीर्वी॒रुधᳶ॑ पारयि॒ष्णवः॑ । ओष॑धी॒रिति॑ मातर॒स्तद्वो॑ देवी॒रुप॑ ब्रुवे । रपाँ॑सि विघ्न॒तीरि॑त॒ रपः॑ [24]
चा॒तय॑मानाः । अ॒श्व॒त्थे वो॑ नि॒षद॑नम्प॒र्णे वो॑ वस॒तिᳵ कृ॒ता । गो॒भाज॒ इत्किला॑सथ॒ यत्स॒नव॑थ॒ पूरु॑षम् । यद॒हव्ँवा॒जय॑न्नि॒मा ओष॑धी॒र्हस्त॑ आद॒धे । आ॒त्मा यक्ष्म॑स्य नश्यति पु॒रा जी॑व॒गृभो॑ यथा । यदोष॑धयस्स॒ङ्गच्छ॑न्ते॒ राजा॑न॒स्समि॑ताविव । विप्र॒स्स उ॑च्यते भि॒षग्र॑क्षो॒हामी॑व॒चात॑नः । निष्कृ॑ति॒र्नाम॑ वो मा॒ताथा॑ यू॒यँ स्थ॒ सङ्कृ॑तीः । स॒राᳶ प॑त॒त्रिणीः॑ [25]
स्थ॒न॒ यदा॒मय॑ति॒ निष्कृ॑त । अ॒न्या वो॑ अ॒न्याम॑वत्व॒न्यान्यस्या॒ उपा॑वत । तास्सर्वा॒ ओष॑धयस्सव्ँविदा॒ना इ॒दम्मे॒ प्राव॑ता॒ वचः॑ । उच्छुष्मा॒ ओष॑धीना॒ङ्गावो॑ गो॒ष्ठादि॑वेरते । धनँ॑ सनि॒ष्यन्ती॑नामा॒त्मान॒न्तव॑ पूरुष । अति॒ विश्वाः॑ परि॒ष्ठास्स्ते॒न इ॑व व्र॒जम॑क्रमुः । ओष॑धय॒ᳶ प्राचु॑च्यवु॒र्यत्किञ्च॑ त॒नुवाँ॒ रपः॑ । याः [26]
त॒ आ॒त॒स्थुरा॒त्मानय्ँ॒या आ॑विवि॒शुᳶ परुᳶ॑परुः । तास्ते॒ यक्ष्मव्ँ॒वि बा॑धन्तामु॒ग्रो म॑ध्यम॒शीरि॑व । सा॒कय्ँय॑क्ष्म॒ प्र प॑त श्ये॒नेन॑ किकिदी॒विना॑ । सा॒कव्ँवात॑स्य॒ ध्राज्या॑ सा॒कन्न॑श्य नि॒हाक॑या । अ॒श्वा॒व॒तीँ सो॑मव॒तीमू॒र्जय॑न्ती॒मुदो॑जसम् । आ वि॑त्सि॒ सर्वा॒ ओष॑धीर॒स्मा अ॑रि॒ष्टता॑तये । याᳶ फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणीः॑ । बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒न्त्वँह॑सः । याः [27]
ओष॑धय॒स्सोम॑राज्ञी॒ᳶ प्रवि॑ष्टाᳶ पृथि॒वीमनु॑ । तासा॒न्त्वम॑स्युत्त॒मा प्र णो॑ जी॒वात॑वे सुव । अ॒व॒पत॑न्तीरवदन्दि॒व ओष॑धय॒ᳶ परि॑ । यञ्जी॒वम॒श्ञवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः । याश्चे॒दमु॑पशृ॒ण्वन्ति॒ याश्च॑ दू॒रम्परा॑गताः । इ॒ह स॒ङ्गत्य॒ तास्सर्वा॑ अस्मै॒ सन्द॑त्त भेष॒जम् । मा वो॑ रिषत्खनि॒ता यस्मै॑ चा॒हङ्खना॑मि वः । द्वि॒पच्चतु॑ष्पद॒स्माकँ॒ सर्व॑म॒स्त्वना॑तुरम् । ओष॑धय॒स्सव्ँव॑दन्ते॒ सोमे॑न स॒ह राज्ञा॑ । यस्मै॑ क॒रोति॑ ब्राह्म॒णस्तँ रा॑जन्पारयामसि ॥ [28]
मा नो॑ हिँसीज्जनि॒ता यᳶ पृ॑थि॒व्या यो वा॒ दिवँ॑ स॒त्यध॑र्मा ज॒जान॑ । यश्चा॒पश्च॒न्द्रा बृ॑ह॒तीर्ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम । अ॒भ्याव॑र्तस्व पृथिवि य॒ज्ञेन॒ पय॑सा स॒ह । व॒पान्ते॑ अ॒ग्निरि॑षि॒तोऽव॑ सर्पतु । अग्ने॒ यत्ते॑ शु॒क्रय्ँयच्च॒न्द्रय्ँयत्पू॒तय्ँयद्य॒ज्ञिय॑म् । तद्दे॒वेभ्यो॑ भरामसि । इष॒मूर्ज॑म॒हमि॒त आ [29]
द॒द॒ ऋ॒तस्य॒ धाम्नो॑ अ॒मृत॑स्य॒ योनेः॑ । आ नो॒ गोषु॑ विश॒त्वौष॑धीषु॒ जहा॑मि से॒दिमनि॑रा॒ममी॑वाम् । अग्ने॒ तव॒ श्रवो॒ वयो॒ महि॑ भ्राजन्त्य॒र्चयो॑ विभावसो । बृह॑द्भानो॒ शव॑सा॒ वाज॑मु॒क्थ्य॑न्दधा॑सि दा॒शुषे॑ कवे । इ॒र॒ज्यन्न॑ग्ने प्रथयस्व ज॒न्तुभि॑र॒स्मे रायो॑ अमर्त्य । स द॑र्श॒तस्य॒ वपु॑षो॒ वि रा॑जसि पृ॒णक्षि॑ सान॒सिँ र॒यिम् । ऊर्जो॑ नपा॒ज्जात॑वेदस्सुश॒स्तिभि॒र्मन्द॑स्व [30]
धी॒तिभि॑र्हि॒तः । त्वे इष॒स्सन्द॑धु॒र्भूरि॑रेतसश्चि॒त्रोत॑यो वा॒मजा॑ताः । पा॒व॒कव॑र्चाश्शु॒क्रव॑र्चा॒ अनू॑नवर्चा॒ उदि॑यर्षि भा॒नुना॑ । पु॒त्रᳶ पि॒तरा॑ वि॒चर॒न्नुपा॑वस्यु॒भे पृ॑णक्षि॒ रोद॑सी । ऋ॒तावा॑नम्महि॒षव्ँवि॒श्वच॑र्षणिम॒ग्निँ सु॒म्नाय॑ दधिरे पु॒रो जनाः॑ । श्रुत्क॑र्णँ स॒प्रथ॑स्तमन्त्वा गि॒रा दैव्य॒म्मानु॑षा यु॒गा । नि॒ष्क॒र्तार॑मध्व॒रस्य॒ प्रचे॑तस॒ङ्क्षय॑न्तँ॒ राध॑से म॒हे । रा॒तिम्भृगू॑णामु॒शिज॑ङ्क॒विक्र॑तुम्पृ॒णक्षि॑ सान॒सिम् [31]
र॒यिम् । चित॑स्स्थ परि॒चित॑ ऊर्ध्व॒चित॑श्श्रयध्व॒न्तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वास्सी॑दत । आ प्या॑यस्व॒ समे॑तु ते वि॒श्वत॑स्सोम॒ वृष्णि॑यम् । भवा॒ वाज॑स्य सङ्ग॒थे । सन्ते॒ पयाँ॑सि॒ समु॑ यन्तु॒ वाजा॒स्सव्ँवृष्णि॑यान्यभिमाति॒षाहः॑ । आ॒प्याय॑मानो अ॒मृता॑य सोम दि॒वि श्रवाँ॑स्युत्त॒मानि॑ धिष्व ॥ [32]
अ॒भ्य॑स्था॒द्विश्वा॒ᳶ पृत॑ना॒ अरा॑ती॒स्तद॒ग्निरा॑ह॒ तदु॒ सोम॑ आह । बृह॒स्पति॑स्सवि॒ता तन्म॑ आह पु॒षा मा॑धात्सुकृ॒तस्य॑ लो॒के । यदक्र॑न्दᳶ प्रथ॒मञ्जाय॑मान उ॒द्यन्त्स॑मु॒द्रादुत वा॒ पुरी॑षात् । श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उप॑स्तुत॒ञ्जनि॑म॒ तत्ते॑ अर्वन् । अ॒पाम्पृ॒ष्ठम॑सि॒ योनि॑र॒ग्नेस्स॑मु॒द्रम॒भित॒ᳶ पिन्व॑मानम् । वर्ध॑मानम्म॒हः [33]
आ च॒ पुष्क॑रन्दि॒वो मात्र॑या व॒रिणा प्र॑थस्व । ब्रह्म॑ जज्ञा॒नम्प्र॑थ॒मम्पु॒रस्ता॒द्वि सी॑म॒तस्सु॒रुचो॑ वे॒न आ॑वः । स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठास्स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑ । हि॒र॒ण्य॒ग॒र्भस्सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तᳶ पति॒रेक॑ आसीत् । स दा॑धार पृथि॒वीन्द्यामु॒तेमाङ्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम । द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॑ [34]
द्यामि॒मञ्च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ । तृ॒तीयय्ँ॒योनि॒मनु॑ स॒ञ्चर॑न्तन्द्र॒प्सञ्जु॑हो॒म्यनु॑ स॒प्त होत्राः॑ । नमो॑ अस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वीमनु॑ । ये अ॒न्तरि॑क्षे॒ ये दि॒वि तेभ्य॑स्स॒र्पेभ्यो॒ नमः॑ । ये॑ऽदो रो॑च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑ । येषा॑म॒प्सु सद॑ᳵ कृ॒तन्तेभ्य॑स्स॒र्पेभ्यो॒ नमः॑ । या इष॑वो यातु॒धाना॑नाय्ँ॒ये वा॒ वन॒स्पतीँ॒ रनु॑ । ये वा॑व॒टेषु॒ शेर॑ते॒ तेभ्य॑स्स॒र्पेभ्यो॒ नमः॑ ॥ [35]
द्ध्रु॒वासि॑ ध॒रुणास्तृ॑ता वि॒श्वक॑र्मणा॒ सुकृ॑ता । मा त्वा॑ समु॒द्र उद्व॑धी॒न्मा सु॑प॒र्णोऽव्य॑थमाना पृथि॒वीन्दृँ॑ह । प्र॒जाप॑तिस्त्वा सादयतु पृथि॒व्याᳶ पृ॒ष्ठे व्यच॑स्वती॒म्प्रथ॑स्वती॒म्प्रथो॑ऽसि पृथि॒व्य॑सि॒ भूर॑सि॒ भूमि॑र॒स्यदि॑तिरसि वि॒श्वधा॑या॒ विश्व॑स्य॒ भुव॑नस्य ध॒र्त्री पृ॑थि॒वीय्ँय॑च्छ पृथि॒वीन्दृँ॑ह पृथि॒वीम्मा हिँ॑सी॒र्विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ [36]
च॒रित्रा॑या॒ग्निस्त्वा॒भि पा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शन्त॑मेन॒ तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॑द । काण्डा॑त्काण्डात्प्र॒रोह॑न्ती॒ परु॑षᳶपरुष॒ᳶ परि॑ । ए॒वा नो॑ दूर्वे॒ प्र त॑नु स॒हस्रे॑ण श॒तेन॑ च । या श॒तेन॑ प्रत॒नोषि॑ स॒हस्रे॑ण वि॒रोह॑सि । तस्या॑स्ते देवीष्टके वि॒धेम॑ ह॒विषा॑ व॒यम् । अषा॑ढासि॒ सह॑माना॒ सह॒स्वारा॑ती॒स्सह॑स्वारातीय॒तस्सह॑स्व॒ पृत॑ना॒स्सह॑स्व पृतन्य॒तः । स॒हस्र॑वीर्या [37]
अ॒सि॒ सा मा॑ जिन्व । मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः । माध्वी॑र्नस्स॒न्त्वोष॑धीः । मधु॒ नक्त॑मु॒तोषसि॒ मधु॑म॒त्पार्थि॑वँ॒ रजः॑। मधु॒ द्यौर॑स्तु नᳶ पि॒ता । मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ अस्तु॒ सूर्यः॑ । माध्वी॒र्गावो॑ भवन्तु नः । म॒ही द्यौᳶ पृ॑थि॒वी च॑ न इ॒मय्ँ य॒ज्ञम्मि॑मिक्षताम् । पि॒पृ॒तान्नो॒ भरी॑मभिः । तद्विष्णोः॑ पर॒मम् [38]
प॒दँ सदा॑ पश्यन्ति सू॒रयः॑ । दि॒वीव॒ चक्षु॒रात॑तम् । ध्रु॒वासि॑ पृथिवि॒ सह॑स्व पृतन्य॒तः । स्यू॒ता दे॒वेभि॑र॒मृते॒नागाः॑ । यास्ते॑ अग्ने॒ सूर्ये॒ रुच॑ उद्य॒तो दिव॑मात॒न्वन्ति॑ र॒श्मिभिः॑ । ताभि॒स्सर्वा॑भी रु॒चे जना॑य नस्कृधि । या वो॑ देवा॒स्सूर्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुचः॑ । इन्द्रा॑ग्नी॒ ताभि॒स्सर्वा॑भी॒ रुच॑न्नो धत्त बृहस्पते । वि॒राट् [39]
ज्योति॑रधारयत्स॒म्राड्ज्योति॑रधारयत्स्व॒राड्ज्योति॑रधारयत् । अग्ने॑ यु॒क्ष्वा हि ये तवाश्वा॑सो देव सा॒धवः॑ । अरव्ँ॒वह॑न्त्या॒शवः॑ । यु॒क्ष्वा हि दे॑व॒हूत॑माँ॒ अश्वाँ॑ अग्ने र॒थीरि॑व । नि होता॑ पू॒र्व्यस्स॑दः । द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मञ्च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ । तृ॒तीयय्ँ॒योनि॒मनु॑ स॒ञ्चर॑न्तन्द्र॒प्सञ्जु॑हो॒म्यनु॑ स॒प्त [40]
होत्राः॑ । अभू॑दि॒दव्ँविश्व॑स्य॒ भुव॑नस्य॒ वाजि॑नम॒ग्नेर्वै॑श्वान॒रस्य॑ च । अ॒ग्निर्ज्योति॑षा॒ ज्योति॑ष्मान्रु॒क्मो वर्च॑सा॒ वर्च॑स्वान् । ऋ॒चे त्वा॑ रु॒चे त्वा॒ समित्स्र॑वन्ति स॒रितो॒ न धेनाः॑ । अ॒न्तर्हृ॒दा मन॑सा पू॒यमा॑नाः । घृ॒तस्य॒ धारा॑ अ॒भि चा॑कशीमि । हि॒र॒ण्ययो॑ वेत॒सो मध्य॑ आसाम् । तस्मि॑न्त्सुप॒र्णो म॑धु॒कृत्कु॑ला॒यी भज॑न्नास्ते॒ मधु॑ दे॒वता॑भ्यः । तस्या॑सते॒ हर॑यस्स॒प्त तीरे॑ स्व॒धान्दुहा॑ना अ॒मृत॑स्य॒ धारा॑म् ॥ [41]
आ॒दि॒त्यङ्गर्भ॒म्पय॑सा सम॒ञ्जन्त्स॒हस्र॑स्य प्रति॒माव्ँवि॒श्वरू॑पम् । परि॑ वृङ्ग्धि॒ हर॑सा॒ माभि मृ॑क्षश्श॒तायु॑षङ्कृणुहि ची॒यमा॑नः । इ॒मम्मा हिँसीर्द्वि॒पाद॑म्पशू॒नाँ सह॑स्राक्ष॒ मेध॒ आ ची॒यमा॑नः । म॒युमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒नुवो॒ नि षी॑द । वात॑स्य॒ ध्राजिव्ँ॒वरु॑णस्य॒ नाभि॒मश्व॑ञ्जज्ञा॒नँ स॑रि॒रस्य॒ मध्ये॑ । शिशु॑न्न॒दीनाँ॒ हरि॒मद्रि॑बुद्ध॒मग्ने॒ मा हिँ॑सीः [42]
प॒र॒मे व्यो॑मन् । इ॒मम्मा हिँ॑सी॒रेक॑शफम्पशू॒नाङ्क॑निक्र॒दव्ँवा॒जिनव्ँ॒वाजि॑नेषु । गौ॒रमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒नुवो॒ नि षी॑द । अज॑स्र॒मिन्दु॑मरु॒षम्भु॑र॒ण्युम॒ग्निमी॑डे पू॒र्वचि॑त्तौ॒ नमो॑भिः । स पर्व॑भिर्ऋतु॒शᳵ कल्प॑मानो॒ गाम्मा हिँ॑सी॒रदि॑तिव्ँवि॒राज॑म् । इ॒मँ स॑मु॒द्रँ श॒तधा॑र॒मुत्स॑व्व्ँय॒च्यमा॑न॒म्भुव॑नस्य॒ मध्ये॑ । घृ॒तन्दुहा॑ना॒मदि॑ति॒ञ्जना॒याग्ने॒ मा [43]
हिँ॒सी॒ᳶ प॒र॒मे व्यो॑मन् । ग॒व॒यमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒नुवो॒ नि षी॑द । वरू॑त्रि॒न्त्वष्टु॒र्वरु॑णस्य॒ नाभि॒मवि॑ञ्जज्ञा॒नाँ रज॑स॒ᳶ पर॑स्मात् । म॒हीँ सा॑ह॒स्रीमसु॑रस्य मा॒यामग्ने॒ मा हिँ॑सी॒ᳶ पर॒मे व्यो॑मन् । इ॒मामू॑र्णा॒युव्ँवरु॑णस्य मा॒यान्त्वच॑म्पशू॒नान्द्वि॒पदा॒ञ्चतु॑ष्पदाम् । त्वष्टुᳶ॑ प्र॒जाना॑म्प्रथ॒मञ्ज॒नित्र॒मग्ने॒ मा हिँ॑सीᳶ पर॒मे व्यो॑मन् । उष्ट्र॑मार॒ण्यमनु॑ [44]
ते॒ दि॒शा॒मि॒ तेन॑ चिन्वा॒नस्त॒नुवो॒ नि षी॑द । यो अ॒ग्निर॒ग्नेस्तप॒सोऽधि॑ जा॒तश्शोचा॑त्पृथि॒व्या उ॒त वा॑ दि॒वस्परि॑ । येन॑ प्र॒जा वि॒श्वक॑र्मा॒ व्यान॒ट्तम॑ग्ने॒ हेड॒ᳶ परि॑ ते वृणक्तु । अ॒जा ह्य॑ग्नेरज॑निष्ट॒ गर्भा॒त्सा वा अ॑पश्यज्जनि॒तार॒मग्रे॑ । तया॒ रोह॑माय॒न्नुप॒ मेध्या॑स॒स्तया॑ दे॒वा दे॒वता॒मग्र॑ आयन् । श॒र॒भमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒नुवो॒ नि षी॑द ॥ [45]
इन्द्रा॑ग्नी रोच॒ना दि॒वᳶ परि॒ वाजे॑षु भूषथः । तद्वा॑ञ्चेति॒ प्र वी॒र्य॑म् । श्ञथ॑द्वृ॒त्रमु॒त स॑नोति॒ वाज॒मिन्द्रा॒ यो अ॒ग्नी सहु॑री सप॒र्यात् । इ॒र॒ज्यन्ता॑ वस॒व्य॑स्य॒ भूरे॒स्सह॑स्तमा॒ सह॑सा वाज॒यन्ता॑ । प्र च॑र्ष॒णिभ्यᳶ॑ पृतना॒ हवे॑षु॒ प्र पृ॑थि॒व्या रि॑रिचाथे दि॒वश्च॑ । प्र सिन्धु॑भ्य॒ᳶ प्र गि॒रिभ्यो॑ महि॒त्वा प्रेन्द्रा॑ग्नी॒ विश्वा॒ भुव॒नात्य॒न्या । मरु॑तो॒ यस्य॒ हि [46]
क्षये॑ पा॒था दि॒वो वि॑महसः । स सु॑गो॒पात॑मो॒ जनः॑ । य॒ज्ञैर्वा॑ यज्ञवाहसो॒ विप्र॑स्य वा मती॒नाम् । मरु॑तश्शृणु॒ता हव॑म् । श्रि॒यसे॒ कम्भा॒नुभि॒स्सम्मि॑मिक्षिरे॒ ते र॒श्मिभि॒स्त ऋक्व॑भिस्सुखा॒दयः॑ । ते वाशी॑मन्त इ॒ष्मिणो॒ अभी॑रवो वि॒द्रे प्रि॒यस्य॒ मारु॑तस्य॒ धाम्नः॑ । अव॑ ते॒ हेड॒ उदु॑त्त॒मम् । कया॑ नश्चि॒त्र आ भु॑वदू॒ती स॒दावृ॑ध॒स्सखा॑ । कया॒ शचि॑ष्ठया वृ॒ता । [47]
को अ॒द्य यु॑ङ्क्ते धु॒रि गा ऋ॒तस्य॒ शिमी॑वतो भा॒मिनो॑ दुर्हृणा॒यून् । आ॒सन्नि॑षून्हृ॒त्स्वसो॑ मयो॒भून्य ए॑षाम्भृ॒त्यामृ॒णध॒त्स जी॑वात् । अग्ने॒ नया दे॒वानाँ॒ शन्नो॑ भवन्तु॒ वाजे॑वाजे । अ॒प्स्व॑ग्ने॒ सधि॒ष्टव॒ सौष॑धी॒रनु॑ रुध्यसे । गर्भे॒ सञ्जा॑यसे॒ पुनः॑ । वृषा॑ सोम द्यु॒माँ अ॑सि॒ वृषा॑ देव॒ वृष॑व्रतः । वृषा॒ धर्मा॑णि दधिषे । इ॒मम्मे॑ वरुण तत्त्वा॑ यामि॒ त्वन्नो॑ अग्ने॒ स त्वन्नो॑ अग्ने ॥ [48]