पू॒र्णा प॒श्चादु॒त पू॒र्णा पु॒रस्ता॒दुन्म॑ध्य॒तᳶ पौ॑र्णमा॒सी जि॑गाय । तस्या॑न्दे॒वा अधि॑ सव्ँ॒वस॑न्त उत्त॒मे नाक॑ इ॒ह मा॑दयन्ताम् । यत्ते॑ दे॒वा अद॑धुर्भाग॒धेय॒ममा॑वास्ये सव्ँ॒वस॑न्तो महि॒त्वा । सा नो॑ य॒ज्ञम्पि॑पृहि विश्ववारे र॒यिन्नो॑ धेहि सुभगे सु॒वीर॑म् । नि॒वेश॑नी स॒ङ्गम॑नी॒ वसू॑नाव्ँ॒विश्वा॑ रू॒पाणि॒ वसू॑न्यावे॒शय॑न्ती । स॒ह॒स्र॒पो॒षँ सु॒भगा॒ ररा॑णा॒ सा न॒ आ ग॒न्वर्च॑सा [1]
सव्ँ॒वि॒दा॒ना । अग्नी॑षोमौ प्रथ॒मौ वी॒र्ये॑ण॒ वसू॑न्रु॒द्राना॑दि॒त्यानि॒ह जि॑न्वतम् । मा॒ध्यँ हि पौ॑र्णमा॒सञ्जु॒षेथा॒म्ब्रह्म॑णा वृ॒द्धौ सु॑कृ॒तेन॑ सा॒तावथा॒स्मभ्यँ॑ स॒हवी॑राँ र॒यिन्नि य॑च्छतम् । आ॒दि॒त्याश्चाङ्गि॑रसश्चा॒ग्नीनाद॑धत॒ ते द॑र्शपूर्णमा॒सौ प्रैप्स॒न्तेषा॒मङ्गि॑रसा॒न्निरु॑प्तँ ह॒विरासी॒दथा॑दि॒त्या ए॒तौ होमा॑वपश्य॒न्ताव॑जुहवु॒स्ततो॒ वै ते द॑र्शपूर्णमा॒सौ [2]
पूर्व॒ आल॑भन्त दर्शपूर्णमा॒सावा॒लभ॑मान ए॒तौ होमौ॑ पु॒रस्ता॑ज्जुहुयात्सा॒क्षादे॒व द॑र्शपूर्णमा॒सावा ल॑भते ब्रह्मवा॒दिनो॑ वदन्ति॒ स त्वै द॑र्शपूर्णमा॒सावा ल॑भेत॒ य ए॑नयोरनुलो॒मञ्च॑ प्रतिलो॒मञ्च॑ वि॒द्यादित्य॑मावा॒स्या॑या ऊ॒र्ध्वन्तद॑नुलो॒मम्पौ॑र्णमा॒स्यै प्र॑ती॒चीन॒न्तत्प्र॑तिलो॒मय्यँत्पौ॑र्णमा॒सीम्पूर्वा॑मा॒लभे॑त प्रतिलो॒ममे॑ना॒वा ल॑भेता॒मुम॑प॒क्षीय॑माण॒मन्वप॑ [3]
क्षी॒ये॒त॒ सा॒र॒स्व॒तौ होमौ॑ पु॒रस्ता॑ज्जुहुयादमावा॒स्या॑ वै सर॑स्वत्यनुलो॒ममे॒वैना॒वा ल॑भते॒ऽमुमा॒प्याय॑मान॒मन्वा प्या॑यत आग्नावैष्ण॒वमेका॑दशकपालम्पु॒रस्ता॒न्निर्व॑पे॒त्सर॑स्वत्यै च॒रुँ सर॑स्वते॒ द्वाद॑शकपालय्ँ॒यदा॑ग्ने॒यो भव॑त्य॒ग्निर्वै य॑ज्ञमु॒खय्ँय॑ज्ञमु॒खमे॒वर्द्धि॑म्पु॒रस्ता॑द्धत्ते॒ यद्वै॑ष्ण॒वो भव॑ति य॒ज्ञो वै विष्णु॑र्य॒ज्ञमे॒वारभ्य॒ प्र त॑नुते॒ सर॑स्वत्यै च॒रुर्भ॑वति॒ सर॑स्वते॒ द्वाद॑शकपालोऽमावा॒स्या॑ वै सर॑स्वती पू॒र्णमा॑स॒स्सर॑स्वा॒न्तावे॒व सा॒क्षादा र॑भत ऋ॒ध्नोत्या॑भ्या॒न्द्वाद॑शकपाल॒स्सर॑स्वते भवति मिथुन॒त्वाय॒ प्रजा॑त्यै मिथु॒नौ गावौ॒ दक्षि॑णा॒ समृ॑द्ध्यै ॥ [4]
ऋष॑यो॒ वा इन्द्र॑म्प्र॒त्यक्ष॒न्नाप॑श्य॒न्तव्ँवसि॑ष्ठᳶ प्र॒त्यक्ष॑म्पश्य॒त्सो॑ऽब्रवी॒द्ब्राह्म॑णन्ते वक्ष्यामि॒ यथा॒ त्वत्पु॑रोहिताᳶ प्र॒जाᳶ प्र॑जनि॒ष्यन्तेऽथ॒ मेत॑रेभ्य॒ ऋषि॑भ्यो॒ मा प्र वो॑च॒ इति॒ तस्मा॑ ए॒तान्त्स्तोम॑भागानब्रवी॒त्ततो॒ वसि॑ष्ठपुरोहिताᳶ प्र॒जाᳶ प्राजा॑यन्त॒ तस्मा॑द्वासि॒ष्ठो ब्र॒ह्मा का॒र्यᳶ॑ प्रैव जा॑यते र॒श्मिर॑सि॒ क्षया॑य त्वा॒ क्षय॑ञ्जि॒न्वेति॑ [5]
आ॒ह॒ दे॒वा वै क्षयो॑ दे॒वेभ्य॑ ए॒व य॒ज्ञम्प्राह॒ प्रेति॑रसि॒ धर्मा॑य त्वा॒ धर्म॑ञ्जि॒न्वेत्या॑ह मनु॒ष्या॑ वै धर्मो॑ मनु॒ष्ये॑भ्य ए॒व य॒ज्ञम्प्राहान्वि॑तिरसि दि॒वे त्वा॒ दिव॑ञ्जि॒न्वेत्या॑है॒भ्य ए॒व लो॒केभ्यो॑ य॒ज्ञम्प्राह॑ विष्ट॒म्भो॑ऽसि॒ वृष्ट्यै॑ त्वा॒ वृष्टि॑ञ्जि॒न्वेत्या॑ह॒ वृष्टि॑मे॒वाव॑ [6]
रु॒न्द्धे॒ प्र॒वास्य॑नु॒वासीत्या॑ह मिथुन॒त्वायो॒शिग॑सि॒ वसु॑भ्यस्त्वा॒ वसू॑ञ्जि॒न्वेत्या॑हा॒ष्टौ वस॑व॒ एका॑दश रु॒द्रा द्वाद॑शादि॒त्या ए॒ताव॑न्तो॒ वै दे॒वास्तेभ्य॑ ए॒व य॒ज्ञम्प्राहौजो॑ऽसि पि॒तृभ्य॑स्त्वा पि॒तॄञ्जि॒न्वेत्या॑ह दे॒वाने॒व पि॒तॄननु॒ सन्त॑नोति॒ तन्तु॑रसि प्र॒जाभ्य॑स्त्वा प्र॒जा जि॑न्व [7]
इत्या॑ह पि॒तॄने॒व प्र॒जा अनु॒ सन्त॑नोति पृतना॒षाड॑सि प॒शुभ्य॑स्त्वा प॒शूञ्जि॒न्वेत्या॑ह प्र॒जा ए॒व प॒शूननु॒ सन्त॑नोति रे॒वद॒स्योष॑धीभ्य॒स्त्वौष॑धीर्जि॒न्वेत्या॒हौष॑धीष्वे॒व प॒शून्प्रति॑ ष्ठापयत्यभि॒जिद॑सि यु॒क्तग्रा॒वेन्द्रा॑य॒ त्वेन्द्र॑ञ्जि॒न्वेत्या॑हा॒भिजि॑त्या॒ अधि॑पतिरसि प्रा॒णाय॑ त्वा प्रा॒णम् [8]
जि॒न्वेत्या॑ह प्र॒जास्वे॒व प्रा॒णान्द॑धाति त्रि॒वृद॑सि प्र॒वृद॒सीत्या॑ह मिथुन॒त्वाय॑ सँरो॒हो॑ऽसि नीरो॒हो॑ऽसीत्या॑ह॒ प्रजा॑त्यै वसु॒को॑ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिर॒सीत्या॑ह॒ प्रति॑ष्ठित्यै ॥ [9]
अ॒ग्निना॑ दे॒वेन॒ पृत॑ना जयामि गाय॒त्रेण॒ छन्द॑सा त्रि॒वृता॒ स्तोमे॑न रथन्त॒रेण॒ साम्ना॑ वषट्का॒रेण॒ वज्रे॑ण पूर्व॒जान्भ्रातृ॑व्या॒नध॑रान्पादया॒म्यवै॑नान्बाधे॒ प्रत्ये॑नान्नुदे॒ऽस्मिन्क्षये॒ऽस्मिन्भू॑मिलो॒के यो॑ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्मो विष्णो॒ᳵ क्रमे॒णात्ये॑नान्क्रामा॒मीन्द्रे॑ण दे॒वेन॒ पृत॑ना जयामि॒ त्रैष्टु॑भेन॒ छन्द॑सा पञ्चद॒शेन॒ स्तोमे॑न बृह॒ता साम्ना॑ वषट्का॒रेण॒ वज्रे॑ण [10]
स॒ह॒जान्विश्वे॑भिर्दे॒वेभि॒ᳶ पृत॑ना जयामि॒ जाग॑तेन॒ छन्द॑सा सप्तद॒शेन॒ स्तोमे॑न वामदे॒व्येन॒ साम्ना॑ वषट्का॒रेण॒ वज्रे॑णापर॒जानिन्द्रे॑ण स॒युजो॑ व॒यँ सा॑स॒ह्याम॑ पृतन्य॒तः । घ्नन्तो॑ वृ॒त्राण्य॑प्र॒ति । यत्ते॑ अग्ने॒ तेज॒स्तेना॒हन्ते॑ज॒स्वी भू॑यासय्ँ॒यत्ते॑ अग्ने॒ वर्च॒स्तेना॒हव्ँव॑च॒स्वी भू॑यासय्ँ॒यत्ते॑ अग्ने॒ हर॒स्तेना॒हँ ह॑र॒स्वी भू॑यासम् ॥ [11]
ये दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒मुषᳶ॑ पृथि॒व्यामध्यास॑ते । अ॒ग्निर्मा॒ तेभ्यो॑ रक्षतु॒ गच्छे॑म सु॒कृतो॑ व॒यम् । आग॑न्म मित्रावरुणा वरेण्या॒ रात्री॑णाम्भा॒गो यु॒वयो॒र्यो अस्ति॑ । नाक॑ङ्गृह्णा॒नास्सु॑कृ॒तस्य॑ लो॒के तृ॒तीये॑ पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः । ये दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒मुषो॒ऽन्तरि॒क्षेऽध्यास॑ते । वा॒युर्मा॒ तेभ्यो॑ रक्षतु॒ गच्छे॑म सु॒कृतो॑ व॒यम् । यास्ते॒ रात्रीः॑ सवितः [12]
दे॒व॒यानी॑रन्त॒रा द्यावा॑पृथि॒वी वि॒यन्ति॑ । गृ॒हैश्च॒ सर्वैः॑ प्र॒जया॒ न्वग्रे॒ सुवो॒ रुहा॑णास्तरता॒ रजाँ॑सि । ये दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒मुषो॑ दि॒व्यध्यास॑ते । सूर्यो॑ मा॒ तेभ्यो॑ रक्षतु॒ गच्छे॑म सु॒कृतो॑ व॒यम् । येनेन्द्रा॑य स॒मभ॑र॒ᳶ पयाँ॑स्युत्त॒मेन॑ ह॒विषा॑ जातवेदः । तेना॑ग्ने॒ त्वमु॒त व॑र्धये॒मँ स॑जा॒तानाँ॒ श्रैष्ठ्य॒ आ धे॑ह्येनम् । य॒ज्ञ॒हनो॒ वै दे॒वा य॑ज्ञ॒मुषः॑ [13]
स॒न्ति॒ त ए॒षु लो॒केष्वा॑सत आ॒ददा॑ना विमथ्ना॒ना यो ददा॑ति॒ यो यज॑ते॒ तस्य॑ । ये दे॒वा य॑ज्ञ॒हनᳶ॑ पृथि॒व्यामध्यास॑ते॒ ये अ॒न्तरि॑क्षे॒ ये दि॒वीत्या॑हे॒माने॒व लो॒काँस्ती॒र्त्वा सगृ॑ह॒स्सप॑शुस्सुव॒र्गल्ँ लो॒कमे॒त्यप॒ वै सोमे॑नेजा॒नाद्दे॒वता॑श्च य॒ज्ञश्च॑ क्रामन्त्याग्ने॒यम्पञ्च॑कपालमुदवसा॒नीय॒न्निर्व॑पेद॒ग्निस्सर्वा॑ दे॒वताः॑ [14]
पाङ्क्तो॑ य॒ज्ञो दे॒वता॑श्चै॒व य॒ज्ञञ्चाव॑ रुन्द्धे गाय॒त्रो वा अ॒ग्निर्गा॑य॒त्रछ॑न्दा॒स्तञ्छन्द॑सा॒ व्य॑र्धयति॒ यत्पञ्च॑कपालङ्क॒रोत्य॒ष्टाक॑पालᳵ का॒र्यो॑ऽष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रो॑ऽग्निर्गा॑य॒त्रछ॑न्दा॒स्स्वेनै॒वैन॒ञ्छन्द॑सा॒ सम॑र्धयति प॒ङ्क्त्यौ॑ याज्यानुवा॒क्ये॑ भवत॒ᳶ पाङ्क्तो॑ य॒ज्ञस्तेनै॒व य॒ज्ञान्नैति॑ ॥ [15]
सूर्यो॑ मा दे॒वो दे॒वेभ्यᳶ॑ पातु वा॒युर॒न्तरि॑क्षा॒द्यज॑मानो॒ऽग्निर्मा॑ पातु॒ चक्षु॑षः । सक्ष॒ शूष॒ सवि॑त॒र्विश्व॑चर्षण ए॒तेभि॑स्सोम॒ नाम॑भिर्विधेम ते॒ तेभि॑स्सोम॒ नाम॑भिर्विधेम ते । अ॒हम्प॒रस्ता॑द॒हम॒वस्ता॑द॒हञ्ज्योति॑षा॒ वि तमो॑ ववार । यद॒न्तरि॑क्ष॒न्तदु॑ मे पि॒ताभू॑द॒हँ सूर्य॑मुभ॒यतो॑ ददर्शा॒हम्भू॑यासमुत्त॒मस्स॑मा॒नाना॑म् [16]
आ स॑मु॒द्रादाऽन्तरि॑क्षात्प्र॒जाप॑तिरुद॒धिञ्च्या॑वया॒तीन्द्र॒ᳶ प्र स्नौ॑तु म॒रुतो॑ वर्षय॒न्तून्न॑म्भय पृथि॒वीम्भि॒न्द्धीदन्दि॒व्यन्नभः॑ । उ॒द्नो दि॒व्यस्य॑ नो दे॒हीशा॑नो॒ वि सृ॑जा॒ दृति॑म् । प॒शवो॒ वा ए॒ते यदा॑दि॒त्य ए॒ष रु॒द्रो यद॒ग्निरोष॑धी॒ᳶ प्रास्या॒ग्नावा॑दि॒त्यञ्जु॑होति रु॒द्रादे॒व प॒शून॒न्तर्द॑धा॒त्यथो॒ ओष॑धीष्वे॒व प॒शून् [17]
प्रति॑ ष्ठापयति क॒विर्य॒ज्ञस्य॒ वि त॑नोति॒ पन्था॒न्नाक॑स्य पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः । येन॑ ह॒व्यव्ँवह॑सि॒ यासि॑ दू॒त इ॒तᳶ प्रचे॑ता अ॒मुत॒स्सनी॑यान् । यास्ते॒ विश्वाः॑ स॒मिध॒स्सन्त्य॑ग्ने॒ याᳶ पृ॑थि॒व्याम्ब॒र्हिषि॒ सूर्ये॒ याः । तास्ते॑ गच्छ॒न्त्वाहु॑तिङ्घृ॒तस्य॑ देवाय॒ते यज॑मानाय॒ शर्म॑ । आ॒शासा॑नस्सु॒वीर्यँ॑ रा॒यस्पोषँ॒ स्वश्वि॑यम् । बृह॒स्पति॑ना रा॒या स्व॒गाकृ॑तो॒ मह्यय्ँ॒यज॑मानाय तिष्ठ ॥ [18]
सन्त्वा॑ नह्यामि॒ पय॑सा घृ॒तेन॒ सन्त्वा॑ नह्याम्य॒प ओष॑धीभिः । सन्त्वा॑ नह्यामि प्र॒जया॒हम॒द्य सा दी॑क्षि॒ता स॑नवो॒ वाज॑म॒स्मे । प्रैतु॒ ब्रह्म॑ण॒स्पत्नी॒ वेदिव्ँ॒वर्णे॑न सीदतु । अथा॒हम॑नुका॒मिनी॒ स्वे लो॒के वि॒शा इ॒ह । सु॒प्र॒जस॑स्त्वा व॒यँ सु॒पत्नी॒रुप॑ सेदिम । अग्ने॑ सपत्न॒दम्भ॑न॒मद॑ब्धासो॒ अदा॑भ्यम् । इ॒मव्ँवि ष्या॑मि॒ वरु॑णस्य॒ पाश॑म् [19]
यमब॑ध्नीत सवि॒ता सु॒केतः॑ । धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒के स्यो॒नम्मे॑ स॒ह पत्या॑ करोमि । प्रेह्यु॒देह्यृ॒तस्य॑ वा॒मीरन्व॒ग्निस्तेऽग्र॑न्नय॒त्वदि॑ति॒र्मध्य॑न्ददताँ रु॒द्राव॑सृष्टासि यु॒वा नाम॒ मा मा॑ हिँसी॒र्वसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्यो॒ विश्वे॑भ्यो वो दे॒वेभ्यᳶ॑ प॒न्नेज॑नीर्गृह्णामि य॒ज्ञाय॑ वᳶ प॒न्नेज॑नीस्सादयामि॒ विश्व॑स्य ते॒ विश्वा॑वतो॒ वृष्णि॑यावतः [20]
तवा॑ग्ने वा॒मीरनु॑ स॒न्दृशि॒ विश्वा॒ रेताँ॑सि धिषी॒याग॑न्दे॒वान्य॒ज्ञो नि दे॒वीर्दे॒वेभ्यो॑ य॒ज्ञम॑शिषन्न॒स्मिन्त्सु॑न्व॒ति यज॑मान आ॒शिष॒स्स्वाहा॑कृतास्समुद्रे॒ष्ठा ग॑न्ध॒र्वमा ति॑ष्ठ॒ताऽनु॑ । वात॑स्य॒ पत्म॑न्नि॒ड ई॑डि॒ताः ॥ [21]
व॒ष॒ट्का॒रो वै गा॑यत्रि॒यै शिरो॑ऽच्छिन॒त्तस्यै॒ रस॒ᳶ परा॑पत॒त्स पृ॑थि॒वीम्प्रावि॑श॒त्स ख॑दि॒रो॑ऽभव॒द्यस्य॑ खादि॒रस्स्रु॒वो भव॑ति॒ छन्द॑सामे॒व रसे॒नाव॑ द्यति॒ सर॑सा अ॒स्याहु॑तयो भवन्ति तृ॒तीय॑स्यामि॒तो दि॒वि सोम॑ आसी॒त्तङ्गा॑य॒त्र्याह॑र॒त्तस्य॑ प॒र्णम॑च्छिद्यत॒ तत्प॒र्णो॑ऽभव॒त्तत्प॒र्णस्य॑ पर्ण॒त्वय्ँयस्य॑ पर्ण॒मयी॑ जु॒हूः [22]
भव॑ति सौ॒म्या अ॒स्याहु॑तयो भवन्ति जु॒षन्ते॑ऽस्य दे॒वा आहु॑तीर्दे॒वा वै ब्रह्म॑न्नवदन्त॒ तत्प॒र्ण उपा॑शृणोत्सु॒श्रवा॒ वै नाम॒ यस्य॑ पर्ण॒मयी॑ जु॒हूर्भव॑ति॒ न पा॒पँ श्लोकँ॑ शृणोति॒ ब्रह्म॒ वै प॒र्णो विण्म॒रुतोऽन्नव्ँ॒विण्मा॑रु॒तो॑ऽश्व॒त्थो यस्य॑ पर्ण॒मयी॑ जु॒हूर्भव॒त्याश्व॑त्थ्युप॒भृद्ब्रह्म॑णै॒वान्न॒मव॑ रु॒न्द्धेऽथो॒ ब्रह्म॑ [23]
ए॒व वि॒श्यध्यू॑हति रा॒ष्ट्रव्ँ वै प॒र्णो विड॑श्व॒त्थो यत्प॑र्ण॒मयी॑ जु॒हूर्भव॒त्याश्व॑त्थ्युप॒भृद्रा॒ष्ट्रमे॒व वि॒श्यध्यू॑हति प्र॒जाप॑ति॒र्वा अ॑जुहो॒त्सा यत्राहु॑तिᳶ प्र॒त्यति॑ष्ठ॒त्ततो॒ विक॑ङ्कत॒ उद॑तिष्ठ॒त्ततᳶ॑ प्र॒जा अ॑सृजत॒ यस्य॒ वैक॑ङ्कती ध्रु॒वा भव॑ति॒ प्रत्ये॒वास्याहु॑तयस्तिष्ठ॒न्त्यथो॒ प्रैव जा॑यत ए॒तद्वै स्रु॒चाँ रू॒पय्ँयस्यै॒वँरू॑पा॒स्स्रुचो॒ भव॑न्ति॒ सर्वा॑ण्ये॒वैनँ॑ रू॒पाणि॑ पशू॒नामुप॑ तिष्ठन्ते॒ नास्याप॑रूपमा॒त्मञ्जा॑यते ॥ [24]
उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तङ्गृह्णामि॒ दक्षा॑य दक्ष॒वृधे॑ रा॒तन्दे॒वेभ्यो॑ऽग्निजि॒ह्वेभ्य॑स्त्वर्ता॒युभ्य॒ इन्द्र॑ज्येष्ठेभ्यो॒ वरु॑णराजभ्यो॒ वाता॑पिभ्यᳶ प॒र्जन्या॑त्मभ्यो दि॒वे त्वा॒न्तरि॑क्षाय त्वा पृथि॒व्यै त्वापे॑न्द्र द्विष॒तो मनोऽप॒ जिज्या॑सतो ज॒ह्यप॒ यो नो॑ऽराती॒यति॒ तञ्ज॑हि प्रा॒णाय॑ त्वापा॒नाय॑ त्वा व्या॒नाय॑ त्वा स॒ते त्वास॑ते त्वा॒द्भ्यस्त्वौष॑धीभ्यो॒ विश्वे॑भ्यस्त्वा भू॒तेभ्यो॒ यतᳶ॑ प्र॒जा अक्खि॑द्रा॒ अजा॑यन्त॒ तस्मै॑ त्वा प्र॒जाप॑तये विभू॒दाव्ने॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तञ्जुहोमि ॥ [25]
याव्ँ वा अ॑ध्व॒र्युश्च॒ यज॑मानश्च दे॒वता॑मन्तरि॒तस्तस्या॒ आ वृ॑श्च्येते प्राजाप॒त्यन्द॑धिग्र॒हङ्गृ॑ह्णीयात्प्र॒जाप॑ति॒स्सर्वा॑ दे॒वता॑ दे॒वता॑भ्य ए॒व नि ह्नु॑वाते ज्ये॒ष्ठो वा ए॒ष ग्रहा॑णाय्ँ॒यस्यै॒ष गृ॒ह्यते॒ ज्यैष्ठ्य॑मे॒व ग॑च्छति॒ सर्वा॑साव्ँ॒वा ए॒तद्दे॒वता॑नाँ रू॒पय्ँयदे॒ष ग्रहो॒ यस्यै॒ष गृ॒ह्यते॒ सर्वा॑ण्ये॒वैनँ॑ रू॒पाणि॑ पशू॒नामुप॑ तिष्ठन्त उपया॒मगृ॑हीतः [26]
अ॒सि॒ प्र॒जाप॑तये त्वा॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तङ्गृह्णा॒मीत्या॑ह॒ ज्योति॑रे॒वैनँ॑ समा॒नाना॑ङ्करोत्यग्निजि॒ह्वेभ्य॑स्त्वर्ता॒युभ्य॒ इत्या॑है॒ताव॑ती॒र्वै दे॒वता॒स्ताभ्य॑ ए॒वैनँ॒ सर्वा॑भ्यो गृह्णा॒त्यपे॑न्द्र द्विष॒तो मन॒ इत्या॑ह॒ भ्रातृ॑व्यापनुत्त्यै प्रा॒णाय॑ त्वापा॒नाय॒ त्वेत्या॑ह प्रा॒णाने॒व यज॑माने दधाति॒ तस्मै॑ त्वा प्र॒जाप॑तये विभू॒दाव्ने॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तञ्जुहोमि [27]
इत्या॑ह प्र॒जाप॑ति॒स्सर्वा॑ दे॒वता॒स्सर्वा॑भ्य ए॒वैन॑न्दे॒वता॑भ्यो जुहोत्याज्यग्र॒हङ्गृ॑ह्णीया॒त्तेज॑स्कामस्य॒ तेजो॒ वा आज्य॑न्तेज॒स्व्ये॑व भ॑वति सोमग्र॒हङ्गृ॑ह्णीयाद्ब्रह्मवर्च॒सका॑मस्य ब्रह्मवर्च॒सव्ँ वै सोमो॑ ब्रह्मवर्च॒स्ये॑व भ॑वति दधिग्र॒हङ्गृ॑ह्णीयात्प॒शुका॑म॒स्योर्ग्वै दध्यूर्क्प॒शव॑ ऊ॒र्जैवास्मा॒ ऊर्ज॑म्प॒शूनव॑ रुन्द्धे ॥ [28]
त्वे क्रतु॒मपि॑ वृञ्जन्ति॒ विश्वे॒ द्विर्यदे॒ते त्रिर्भव॒न्त्यूमाः॑ । स्वा॒दोस्स्वादी॑यस्स्वा॒दुना॑ सृजा॒ समत॑ ऊ॒ षु मधु॒ मधु॑ना॒भि यो॑धि । उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्ट॑ङ्गृह्णाम्ये॒ष ते॒ योनिᳶ॑ प्र॒जाप॑तये त्वा । प्रा॒ण॒ग्र॒हान्गृ॑ह्णात्ये॒ताव॒द्वा अ॑स्ति॒ याव॑दे॒ते ग्रहा॒स्स्तोमा॒श्छन्दाँ॑सि पृ॒ष्ठानि॒ दिशो॒ याव॑दे॒वास्ति॒ तत् [29]
अव॑ रुन्द्धे ज्ये॒ष्ठा वा ए॒तान्ब्रा॑ह्म॒णाᳶ पु॒रा वि॒द्वाम॑क्र॒न्तस्मा॒त्तेषाँ॒ सर्वा॒ दिशो॒ऽभिजि॑ता अभूव॒न्यस्यै॒ते गृ॒ह्यन्ते॒ ज्यैष्ठ्य॑मे॒व ग॑च्छत्य॒भि दिशो॑ जयति॒ पञ्च॑ गृह्यन्ते॒ पञ्च॒ दिश॒स्सर्वा॑स्वे॒व दि॒क्ष्वृ॑ध्नुवन्ति॒ नव॑नव गृह्यन्ते॒ नव॒ वै पुरु॑षे प्रा॒णाᳶ प्रा॒णाने॒व यज॑मानेषु दधति प्राय॒णीये॑ चोदय॒नीये॑ च गृह्यन्ते प्रा॒णा वै प्रा॑णग्र॒हाः [30]
प्रा॒णैरे॒व प्र॒यन्ति॑ प्रा॒णैरुद्य॑न्ति दश॒मेऽह॑न्गृह्यन्ते प्रा॒णा वै प्रा॑णग्र॒हाᳶ प्रा॒णेभ्य॒ᳵ खलु॒ वा ए॒तत्प्र॒जा य॑न्ति॒ यद्वा॑मदे॒व्यय्ँयोने॒श्च्यव॑ते दश॒मेऽह॑न्वामदे॒व्यय्ँयोने॑श्च्यवते॒ यद्द॑श॒मेऽह॑न्गृ॒ह्यन्ते॑ प्रा॒णेभ्य॑ ए॒व तत्प्र॒जा न य॑न्ति ॥ [31]
प्र दे॒वन्दे॒व्या धि॒या भर॑ता जा॒तवे॑दसम् । ह॒व्या नो॑ वक्षदानु॒षक् । अ॒यमु॒ ष्य प्र दे॑व॒युर्होता॑ य॒ज्ञाय॑ नीयते । रथो॒ न योर॒भीवृ॑तो॒ घृणी॑वाञ्चेतति॒ त्मना॑ । अ॒यम॒ग्निरु॑रुष्यत्य॒मृता॑दिव॒ जन्म॑नः । सह॑सश्चि॒त्सही॑यान्दे॒वो जी॒वात॑वे कृ॒तः । इडा॑यास्त्वा प॒दे व॒यन्नाभा॑ पृथि॒व्या अधि॑ । जात॑वेदो॒ नि धी॑म॒ह्यग्ने॑ ह॒व्याय॒ वोढ॑वे । [32]
अग्ने॒ विश्वे॑भिस्स्वनीक दे॒वैरूर्णा॑वन्तम्प्रथ॒मस्सी॑द॒ योनि॑म् । कु॒ला॒यिन॑ङ्घृ॒तव॑न्तँ सवि॒त्रे य॒ज्ञन्न॑य॒ यज॑मानाय सा॒धु । सीद॑ होत॒स्स्व उ॑ लो॒के चि॑कि॒त्वान्त्सा॒दया॑ य॒ज्ञँ सु॑कृ॒तस्य॒ योनौ॑ । दे॒वा॒वीर्दे॒वान्ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒हद्यज॑माने॒ वयो॑ धाः । नि होता॑ होतृ॒षद॑ने॒ विदा॑नस्त्वे॒षो दी॑दि॒वाँ अ॑सदत्सु॒दक्षः॑ । अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठस्सहस्रम्भ॒रश्शुचि॑जिह्वो अ॒ग्निः । त्वन्दू॒तस्त्वम् [33]
उ॒ न॒ᳶ प॒र॒स्पास्त्वव्ँवस्य॒ आ वृ॑षभ प्रणे॒ता । अग्ने॑ तो॒कस्य॑ न॒स्तने॑ त॒नूना॒मप्र॑युच्छ॒न्दीद्य॑द्बोधि गो॒पाः । अ॒भि त्वा॑ देव सवित॒रीशा॑नव्ँ॒वार्या॑णाम् । सदा॑वन्भा॒गमी॑महे । म॒ही द्यौᳶ पृ॑थि॒वी च॑ न इ॒मय्ँ य॒ज्ञम्मि॑मिक्षताम् । पि॒पृ॒तान्नो॒ भरी॑मभिः । त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत । मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ । तमु॑ [34]
त्वा॒ द॒ध्यङ्ङृषिᳶ॑ पु॒त्र ई॑धे॒ अथ॑र्वणः । वृ॒त्र॒हण॑म्पुरन्द॒रम् । तमु॑ त्वा पा॒थ्यो वृषा॒ समी॑धे दस्यु॒हन्त॑मम् । ध॒न॒ञ्ज॒यँ रणे॑रणे । उ॒त ब्रु॑वन्तु ज॒न्तव॒ उद॒ग्निर्वृ॑त्र॒हाज॑नि । ध॒न॒ञ्ज॒यो रणे॑रणे । आ यँ हस्ते॒ न खा॒दिनँ॒ शिशु॑ञ्जा॒तन्न बिभ्र॑ति । वि॒शाम॒ग्निँ स्व॑ध्व॒रम् । प्र दे॒वन्दे॒ववी॑तये॒ भर॑ता वसु॒वित्त॑मम् । आ स्वे योनौ॒ नि षी॑दतु । आ [35]
जा॒तञ्जा॒तवे॑दसि प्रि॒यँ शि॑शी॒ताति॑थिम् । स्यो॒न आ गृ॒हप॑तिम् । अ॒ग्निना॒ग्निस्समि॑ध्यते क॒विर्गृ॒हप॑ति॒र्युवा॑ । ह॒व्य॒वाड्जु॒ह्वा॑स्यः । त्वँ ह्य॑ग्ने अ॒ग्निना॒ विप्रो॒ विप्रे॑ण॒ सन्त्स॒ता । सखा॒ सख्या॑ समि॒ध्यसे॑ । तम्म॑र्जयन्त सु॒क्रतु॑म्पुरो॒यावा॑नमा॒जिषु॑ । स्वेषु॒ क्षये॑षु वा॒जिन॑म् । य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् । ते ह॒ नाक॑म्महि॒मान॑स्सचन्ते॒ यत्र॒ पूर्वे॑ सा॒ध्यास्सन्ति॑ दे॒वाः ॥ [36]