यो वै पव॑मानानामन्वारो॒हान्वि॒द्वान्यज॒तेऽनु॒ पव॑माना॒ना रो॑हति॒ न पव॑माने॒भ्योऽव॑च्छिद्यते श्ये॒नो॑ऽसि गाय॒त्रछ॑न्दा॒ अनु॒ त्वा र॑भे स्व॒स्ति मा॒ सम्पा॑रय सुप॒र्णो॑ऽसि त्रि॒ष्टुप्छ॑न्दा॒ अनु॒ त्वा र॑भे स्व॒स्ति मा॒ सम्पा॑रय॒ सघा॑सि॒ जग॑तीछन्दा॒ अनु॒ त्वा र॑भे स्व॒स्ति मा॒ सम्पा॑र॒येत्या॑है॒ते [1]
वै पव॑मानानामन्वारो॒हास्तान्य ए॒वव्ँवि॒द्वान्यज॒तेऽनु॒ पव॑माना॒ना रो॑हति॒ न पव॑माने॒भ्योऽव॑च्छिद्यते॒ यो वै पव॑मानस्य॒ सन्त॑तिव्ँ॒वेद॒ सर्व॒मायु॑रेति॒ न पु॒रायु॑ष॒ᳶ प्र मी॑यते पशु॒मान्भ॑वति वि॒न्दते॑ प्र॒जाम्पव॑मानस्य॒ ग्रहा॑ गृह्य॒न्तेऽथ॒ वा अ॑स्यै॒तेऽगृ॑हीता द्रोणकल॒श आ॑धव॒नीयᳶ॑ पूत॒भृत्तान्यदगृ॑हीत्वोपाकु॒र्यात्पव॑मानव्ँ॒वि [2]
छि॒न्द्या॒त्तव्ँवि॒च्छिद्य॑मानमध्व॒र्योᳶ प्रा॒णोऽनु॒ विच्छि॑द्येतोपया॒मगृ॑हीतोऽसि प्र॒जाप॑तये॒ त्वेति॑ द्रोणकल॒शम॒भि मृ॑शे॒दिन्द्रा॑य॒ त्वेत्या॑धव॒नीयव्ँ॒विश्वे॑भ्यस्त्वा दे॒वेभ्य॒ इति॑ पूत॒भृत॒म्पव॑मानमे॒व तत्सन्त॑नोति॒ सर्व॒मायु॑रेति॒ न पु॒रायु॑ष॒ᳶ प्र मी॑यते पशु॒मान्भ॑वति वि॒न्दते॑ प्र॒जाम् ॥ [3]
त्रीणि॒ वाव सव॑ना॒न्यथ॑ तृ॒तीयँ॒ सव॑न॒मव॑ लुम्पन्त्यनँ॒शु कु॒र्वन्त॑ उपाँ॒शुँ हु॒त्वोपाँ॑शुपा॒त्रेऽँ॑शुम॒वास्य॒ तन्तृ॑तीयसव॒ने॑ऽपि॒सृज्या॒भि षु॑णुया॒द्यदा॑प्या॒यय॑ति॒ तेनाँ॑शु॒मद्यद॑भिषु॒णोति॒ तेन॑र्जी॒षि सर्वा॑ण्ये॒व तत्सव॑नान्यँशु॒मन्ति॑ शु॒क्रव॑न्ति स॒माव॑द्वीर्याणि करोति॒ द्वौ स॑मु॒द्रौ वित॑तावजू॒र्यौ प॒र्याव॑र्तेते ज॒ठरे॑व॒ पादाः॑ । तयो॒ᳶ पश्य॑न्तो॒ अति॑ यन्त्य॒न्यमप॑श्यन्तः [4]
सेतु॒नाति॑ यन्त्य॒न्यम् । द्वे द्रध॑सी स॒तती॑ वस्त॒ एक॑ᳵ के॒शी विश्वा॒ भुव॑नानि वि॒द्वान् । ति॒रो॒धायै॒त्यसि॑तव्ँ॒वसा॑नश्शु॒क्रमा द॑त्ते अनु॒हाय॑ जा॒र्यै । दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒तम्म॑हाय॒ज्ञम॑पश्य॒न्तम॑तन्वताऽग्निहो॒त्रव्व्ँर॒तम॑कुर्वत॒ तस्मा॒द्द्विव्र॑तस्स्या॒द्द्विर्ह्य॑ग्निहो॒त्रञ्जुह्व॑ति पौर्णमा॒सय्ँ य॒ज्ञम॑ग्नीषो॒मीय॑म् [5]
प॒शुम॑कुर्वत दा॒र्श्यय्ँ य॒ज्ञमा॑ग्ने॒यम्प॒शुम॑कुर्वत वैश्वदे॒वम्प्रा॑तस्सव॒नम॑कुर्वत वरुणप्रघा॒सान्माध्य॑न्दिनँ॒ सव॑नँ साकमे॒धान्पि॑तृय॒ज्ञन्त्र्य॑म्बकाँस्तृतीयसव॒नम॑कुर्वत॒ तमे॑षा॒मसु॑रा य॒ज्ञम॒न्ववा॑जिगाँस॒न्तन्नान्ववा॑य॒न्ते॑ऽब्रुवन्नध्वर्त॒व्या वा इ॒मे दे॒वा अ॑भूव॒न्निति॒ तद॑ध्व॒रस्या॑ध्वर॒त्वन्ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ य ए॒वव्ँवि॒द्वान्त्सोमे॑न॒ यज॑ते॒ भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति ॥ [6]
प॒रि॒भूर॒ग्निम्प॑रि॒भूरिन्द्र॑म्परि॒भूर्विश्वा॑न्दे॒वान्प॑रि॒भूर्माँ स॒ह ब्र॑ह्मवर्च॒सेन॒ स नᳶ॑ पवस्व॒ शङ्गवे॒ शञ्जना॑य॒ शमर्व॑ते॒ शँ रा॑ज॒न्नोष॑धी॒भ्योऽच्छि॑न्नस्य ते रयिपते सु॒वीर्य॑स्य रा॒यस्पोष॑स्य ददि॒तार॑स्स्याम । तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे । प्रा॒णाय॑ मे वर्चो॒दा वर्च॑से पवस्वापा॒नाय॑ व्या॒नाय॑ वा॒चे [7]
द॒क्ष॒क्र॒तुभ्या॒ञ्चक्षु॑र्भ्याम्मे वर्चो॒दौ वर्च॑से पवेथाँ॒ श्रोत्रा॑या॒त्मनेऽङ्गे॑भ्य॒ आयु॑षे वी॒र्या॑य॒ विष्णो॒रिन्द्र॑स्य॒ विश्वे॑षान्दे॒वाना॑ञ्ज॒ठर॑मसि वर्चो॒दा मे॒ वर्च॑से पवस्व॒ को॑ऽसि॒ को नाम॒ कस्मै॑ त्वा॒ काय॑ त्वा॒ यन्त्वा॒ सोमे॒नाती॑तृपय्ँ॒यन्त्वा॒ सोमे॒नामी॑मदँ सुप्र॒जाᳶ प्र॒जया॑ भूयासँ सु॒वीरो॑ वी॒रैस्सु॒वर्चा॒ वर्च॑सा सु॒पोष॒ᳶ पोषै॒र्विश्वे॑भ्यो मे रू॒पेभ्यो॑ वर्चो॒दाः [8]
वर्च॑से पवस्व॒ तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे । बुभू॑ष॒न्नवे॑क्षेतै॒ष वै पात्रि॑यᳶ प्र॒जाप॑तिर्य॒ज्ञᳶ प्र॒जाप॑ति॒स्तमे॒व त॑र्पयति॒ स ए॑नन्तृ॒प्तो भूत्या॒ऽभि प॑वते ब्रह्मवर्च॒सका॒मोऽवे॑क्षेतै॒ष वै पात्रि॑यᳶ प्र॒जाप॑तिर्य॒ज्ञᳶ प्र॒जाप॑ति॒स्तमे॒व त॑र्पयति॒ स ए॑नन्तृ॒प्तो ब्र॑ह्मवर्च॒सेना॒भि प॑वत आमया॒वी [9]
अवे॑क्षेतै॒ष वै पात्रि॑यᳶ प्र॒जाप॑तिर्य॒ज्ञᳶ प्र॒जाप॑ति॒स्तमे॒व त॑र्पयति॒ स ए॑नन्तृ॒प्त आयु॑षा॒भि प॑वतेऽभि॒चर॒न्नवे॑क्षेतै॒ष वै पात्रि॑यᳶ प्र॒जाप॑तिर्य॒ज्ञᳶ प्र॒जाप॑ति॒स्तमे॒व त॑र्पयति॒ स ए॑नन्तृ॒प्तᳶ प्रा॑णापा॒नाभ्याव्ँ॑ वा॒चो द॑क्षक्र॒तुभ्या॒ञ्चक्षु॑र्भ्याँ॒ श्रोत्रा॑भ्यामा॒त्मनोऽङ्गे॑भ्य॒ आयु॑षो॒ऽन्तरे॑ति ता॒जक्प्र ध॑न्वति ॥ [10]
स्फ्यस्स्व॒स्तिर्वि॑घ॒नस्स्व॒स्तिᳶ पर्शु॒र्वेदिᳶ॑ पर॒शुर्न॑स्स्व॒स्तिः । य॒ज्ञिया॑ यज्ञ॒कृत॑स्स्थ॒ ते मा॒स्मिन्य॒ज्ञ उप॑ ह्वयध्व॒मुप॑ मा॒ द्यावा॑पृथि॒वी ह्व॑येता॒मुपा॑स्ता॒वᳵ क॒लश॒स्सोमो॑ अ॒ग्निरुप॑ दे॒वा उप॑ य॒ज्ञ उप॑ मा॒ होत्रा॑ उपह॒वे ह्व॑यन्ता॒न्नमो॒ऽग्नये॑ मख॒घ्ने म॒खस्य॑ मा॒ यशो॑ऽर्या॒दित्या॑हव॒नीय॒मुप॑ तिष्ठते य॒ज्ञो वै म॒खः [11]
य॒ज्ञव्ँ वाव स तद॑ह॒न्तस्मा॑ ए॒व न॑म॒स्कृत्य॒ सद॒ᳶ प्र स॑र्पत्या॒त्मनोऽना॑र्त्यै॒ नमो॑ रु॒द्राय॑ मख॒घ्ने नम॑स्कृत्या मा पा॒हीत्याग्नी॑द्ध्र॒न्तस्मा॑ ए॒व न॑म॒स्कृत्य॒ सद॒ᳶ प्र स॑र्पत्या॒त्मनोऽना॑र्त्यै नम॒ इन्द्रा॑य मख॒घ्न इ॑न्द्रि॒यम्मे॑ वी॒र्य॑म्मा निर्व॑धी॒रिति॑ हो॒त्रीय॑मा॒शिष॑मे॒वैतामा शा॑स्त इन्द्रि॒यस्य॑ वी॒र्य॑स्यानि॑र्घाताय॒ या वै [12]
दे॒वता॒स्सद॒स्यार्ति॑मा॒र्पय॑न्ति॒ यस्ता वि॒द्वान्प्र॒सर्प॑ति॒ न सद॒स्यार्ति॒मार्च्छ॑ति॒ नमो॒ऽग्नये॑ मख॒घ्न इत्या॑है॒ता वै दे॒वता॒स्सद॒स्यार्ति॒मार्प॑यन्ति॒ ता य ए॒वव्ँवि॒द्वान्प्र॒सर्प॑ति॒ न सद॒स्यार्ति॒मार्च्छ॑ति दृ॒ढे स्थ॑श्शिथि॒रे स॒मीची॒ माँह॑सस्पातँ॒ सूर्यो॑ मा दे॒वो दि॒व्यादँह॑सस्पातु वा॒युर॒न्तरि॑क्षात् [13]
अ॒ग्निᳶ पृ॑थि॒व्या य॒मᳶ पि॒तृभ्य॒स्सर॑स्वती मनु॒ष्ये॑भ्यो॒ देवी॑ द्वारौ॒ मा मा॒ सन्ता॑प्त॒न्नम॒स्सद॑से॒ नम॒स्सद॑स॒स्पत॑ये॒ नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चक्षु॑षे॒ नमो॑ दि॒वे नमᳶ॑ पृथि॒व्या अहे॑ दैधिष॒व्योदत॑स्तिष्ठा॒न्यस्य॒ सद॑ने सीद॒ यो॑ऽस्मत्पाक॑तर॒ उन्नि॒वत॒ उदु॒द्वत॑श्च गेषम्पा॒तम्मा॑ द्यावापृथिवी अ॒द्याह्न॒स्सदो॒ वै प्र॒सर्प॑न्तम् [14]
पि॒तरोऽनु॒ प्र स॑र्पन्ति॒ त ए॑नमीश्व॒रा हिँसि॑तो॒स्सदᳶ॑ प्र॒सृप्य॑ दक्षिणा॒र्धम्परे॑क्षे॒ताग॑न्त पितरᳶ पितृ॒मान॒हय्ँयु॒ष्माभि॑र्भूयासँ सुप्र॒जसो॒ मया॑ यू॒यम्भू॑या॒स्तेति॒ तेभ्य॑ ए॒व न॑म॒स्कृत्य॒ सद॒ᳶ प्र स॑र्पत्या॒त्मनोऽना॑र्त्यै ॥ [15]
भक्षेहि॒ मा वि॑श दीर्घायु॒त्वाय॑ शन्तनु॒त्वाय॑ रा॒यस्पोषा॑य॒ वर्च॑से सुप्रजा॒स्त्वायेहि॑ वसो पुरोवसो प्रि॒यो मे॑ हृ॒दो॑ऽस्य॒श्विनो॑स्त्वा बा॒हुभ्याँ॑ सघ्यासन्नृ॒चक्ष॑सन्त्वा देव सोम सु॒चक्षा॒ अव॑ ख्येषम्म॒न्द्राभिभू॑तिᳵ के॒तुर्य॒ज्ञानाव्ँ॒वाग्जु॑षा॒णा सोम॑स्य तृप्यतु म॒न्द्रा स्व॑र्वा॒च्यदि॑ति॒रना॑हतशीर्ष्णी॒ वाग्जु॑षा॒णा सोम॑स्य तृप्य॒त्वेहि॑ विश्वचर्षणे [16]
श॒म्भूर्म॑यो॒भूस्स्व॒स्ति मा॑ हरिवर्ण॒ प्र च॑र॒ क्रत्वे॒ दक्षा॑य रा॒यस्पोषा॑य सुवी॒रता॑यै॒ मा मा॑ राज॒न्वि बी॑भिषो॒ मा मे॒ हार्दि॑ त्वि॒षा व॑धीः । वृष॑णे॒ शुष्मा॒यायु॑षे॒ वर्च॑से ॥ वसु॑मद्गणस्य सोम देव ते मति॒विदᳶ॑ प्रातस्सव॒नस्य॑ गाय॒त्रछ॑न्दस॒ इन्द्र॑पीतस्य॒ नरा॒शँस॑पीतस्य पि॒तृपी॑तस्य॒ मधु॑मत॒ उप॑हूत॒स्योप॑हूतो भक्षयामि रु॒द्रव॑द्गणस्य सोम देव ते मति॒विदो॒ माध्य॑न्दिनस्य॒ सव॑नस्य त्रि॒ष्टुप्छ॑न्दस॒ इन्द्र॑पीतस्य॒ नरा॒शँस॑पीतस्य [17]
पि॒तृपी॑तस्य॒ मधु॑मत॒ उप॑हूत॒स्योप॑हूतो भक्षयाम्यादि॒त्यव॑द्गणस्य सोम देव ते मति॒विद॑स्तृ॒तीय॑स्य॒ सव॑नस्य॒ जग॑तीछन्दस॒ इन्द्र॑पीतस्य॒ नरा॒शँस॑पीतस्य पि॒तृपी॑तस्य॒ मधु॑मत॒ उप॑हूत॒स्योप॑हूतो भक्षयामि । आ प्या॑यस्व॒ समे॑तु ते वि॒श्वत॑स्सोम॒ वृष्णि॑यम् । भवा॒ वाज॑स्य सङ्ग॒थे । हिन्व॑ मे॒ गात्रा॑ हरिवो ग॒णान्मे॒ मा वि ती॑तृषः । शि॒वो मे॑ सप्त॒र्षीनुप॑ तिष्ठस्व॒ मा मेऽवा॒ङ्नाभि॒मति॑ [18]
गाः॒ । अपा॑म॒ सोम॑म॒मृता॑ अभू॒माद॑र्श्म॒ ज्योति॒रवि॑दाम दे॒वान् । किम॒स्मान्कृ॑णव॒दरा॑ति॒ᳵ किमु॑ धू॒र्तिर॑मृत॒ मर्त्य॑स्य । यन्म॑ आ॒त्मनो॑ मि॒न्दाभू॑द॒ग्निस्तत्पुन॒राहा॑र्जा॒तवे॑दा॒ विच॑र्षणिः । पुन॑र॒ग्निश्चक्षु॑रदा॒त्पुन॒रिन्द्रो॒ बृह॒स्पतिः॑ । पुन॑र्मे अश्विना यु॒वञ्चक्षु॒रा ध॑त्तम॒क्ष्योः । इ॒ष्टय॑जुषस्ते देव सोम स्तु॒तस्तो॑मस्य [19]
श॒स्तोक्थ॑स्य॒ हरि॑वत॒ इन्द्र॑पीतस्य॒ मधु॑मत॒ उप॑हूत॒स्योप॑हूतो भक्षयामि । आ॒पूर्या॒स्स्था मा॑ पूरयत प्र॒जया॑ च॒ धने॑न च । ए॒तत्ते॑ तत॒ ये च॒ त्वामन्वे॒तत्ते॑ पितामह प्रपितामह॒ ये च॒ त्वामन्वत्र॑ पितरो यथाभा॒गम्म॑न्दध्व॒न्नमो॑ वᳶ पितरो॒ रसा॑य॒ नमो॑ वᳶ पितर॒श्शुष्मा॑य॒ नमो॑ वᳶ पितरो जी॒वाय॒ नमो॑ वᳶ पितरः [20]
स्व॒धायै॒ नमो॑ वᳶ पितरो म॒न्यवे॒ नमो॑ वᳶ पितरो घो॒राय॒ पित॑रो॒ नमो॑ वो॒ य ए॒तस्मिल्ँ॑ लो॒के स्थ यु॒ष्माँस्तेऽनु॒ ये॑ऽस्मिल्लोँ॒के मान्तेऽनु॒ य ए॒तस्मिल्ँ॑ लो॒के स्थ यू॒यन्तेषाव्ँ॒वसि॑ष्ठा भूयास्त॒ ये॑ऽस्मिल्लोँ॒के॑ऽहन्तेषाव्ँ॒वसि॑ष्ठो भूयास॒म्प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ॥ [21]
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् । दे॒वकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि मनु॒ष्य॑कृत॒स्यैन॑सोऽव॒यज॑नमसि पि॒तृकृ॑त॒स्यैन॑सोऽव॒यज॑नमस्य॒प्सु धौ॒तस्य॑ सोम देव ते॒ नृभि॑स्सु॒तस्ये॒ष्टय॑जुषस्स्तु॒तस्तो॑मस्य श॒स्तोक्थ॑स्य॒ यो भ॒क्षो अ॑श्व॒सनि॒र्यो गो॒सनि॒स्तस्य॑ ते पि॒तृभि॑र्भ॒क्षङ्कृ॑त॒स्योप॑हूत॒स्योप॑हूतो भक्षयामि ॥ [22]
म॒ही॒नाम्पयो॑ऽसि॒ विश्वे॑षान्दे॒वाना॑न्त॒नूर्ऋ॒ध्यास॑म॒द्य पृ॑षतीना॒ङ्ग्रह॒म्पृष॑तीना॒ङ्ग्रहो॑ऽसि॒ विष्णो॒र्हृद॑यम॒स्येक॑मिष॒ विष्णु॒स्त्वानु॒ वि च॑क्रमे भू॒तिर्द॒ध्ना घृ॒तेन॑ वर्धता॒न्तस्य॑ मे॒ष्टस्य॑ वी॒तस्य॒ द्रवि॑ण॒मा ग॑म्या॒ज्ज्योति॑रसि वैश्वान॒रम्पृश्ञि॑यै दु॒ग्धय्ँयाव॑ती॒ द्यावा॑पृथि॒वी म॑हि॒त्वा याव॑च्च स॒प्त सिन्ध॑वो वित॒स्थुः । ताव॑न्तमिन्द्र ते [23]
ग्रहँ॑ स॒होर्जा गृ॑ह्णा॒म्यस्तृ॑तम् । यत्कृ॑ष्णशकु॒नᳶ पृ॑षदा॒ज्यम॑वमृ॒शेच्छू॒द्रा अ॑स्य प्र॒मायु॑कास्स्यु॒र्यच्छ्वाऽव॑मृ॒शेच्चतु॑ष्पादोऽस्य प॒शवᳶ॑ प्र॒मायु॑कास्स्यु॒र्यत्स्कन्दे॒द्यज॑मानᳶ प्र॒मायु॑कस्स्यात्प॒शवो॒ वै पृ॑षदा॒ज्यम्प॒शवो॒ वा ए॒तस्य॑ स्कन्दन्ति॒ यस्य॑ पृषदा॒ज्यँ स्कन्द॑ति॒ यत्पृ॑षदा॒ज्यम्पुन॑र्गृ॒ह्णाति॑ प॒शूने॒वास्मै॒ पुन॑र्गृह्णाति प्रा॒णो वै पृ॑षदा॒ज्यम्प्रा॒णो वै [24]
ए॒तस्य॑ स्कन्दति॒ यस्य॑ पृषदा॒ज्यँ स्कन्द॑ति॒ यत्पृ॑षदा॒ज्यम्पुन॑र्गृ॒ह्णाति॑ प्रा॒णमे॒वास्मै॒ पुन॑र्गृह्णाति॒ हिर॑ण्यमव॒धाय॑ गृह्णात्य॒मृतव्ँ॒ वै हिर॑ण्यम्प्रा॒णᳶ पृ॑षदा॒ज्यम॒मृत॑मे॒वास्य॑ प्रा॒णे द॑धाति श॒तमा॑नम्भवति श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठ॒त्यश्व॒मव॑ घ्रापयति प्राजाप॒त्यो वा अश्वᳶ॑ प्राजाप॒त्यᳶ प्रा॒णस्स्वादे॒वास्मै॒ योनेः॑ प्रा॒णन्निर्मि॑मीते॒ वि वा ए॒तस्य॑ य॒ज्ञश्छि॑द्यते॒ यस्य॑ पृषदा॒ज्यँ स्कन्द॑ति वैष्ण॒व्यर्चा पुन॑र्गृह्णाति य॒ज्ञो वै विष्णु॑र्य॒ज्ञेनै॒व य॒ज्ञँ सन्त॑नोति ॥ [25]
देव॑ सवितरे॒तत्ते॒ प्राह॒ तत्प्र च॑ सु॒व प्र च॑ यज॒ बृह॒स्पति॑र्ब्र॒ह्मायु॑ष्मत्या ऋ॒चो मा गा॑त तनू॒पात्साम्न॑स्स॒त्या व॑ आ॒शिष॑स्सन्तु स॒त्या आकू॑तय ऋ॒तञ्च॑ स॒त्यञ्च॑ वदत स्तु॒त दे॒वस्य॑ सवि॒तुᳶ प्र॑स॒वे स्तु॒तस्य॑ स्तु॒तम॒स्यूर्ज॒म्मह्यँ॑ स्तु॒तन्दु॑हा॒मा मा॑ स्तु॒तस्य॑ स्तु॒तङ्ग॑म्याच्छ॒स्त्रस्य॑ श॒स्त्रम् [26]
अ॒स्यूर्ज॒म्मह्यँ॑ श॒स्त्रन्दु॑हा॒मा मा॑ श॒स्त्रस्य॑ श॒स्त्रङ्ग॑म्यादिन्द्रि॒याव॑न्तो वनामहे धुक्षी॒महि॑ प्र॒जामिष॑म् । सा मे॑ स॒त्याशीर्दे॒वेषु॑ भूयाद्ब्रह्मवर्च॒सम्मा ग॑म्यात् । य॒ज्ञो ब॑भूव॒ स आ ब॑भूव॒ स प्र ज॑ज्ञे॒ स वा॑वृधे । स दे॒वाना॒मधि॑पतिर्बभूव॒ सो अ॒स्माँ अधि॑पतीन्करोतु व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् । य॒ज्ञो वा॒ वै [27]
य॒ज्ञप॑तिन्दु॒हे य॒ज्ञप॑तिर्वा य॒ज्ञन्दु॑हे॒ स यस्स्तु॑तश॒स्त्रयो॒र्दोह॒मवि॑द्वा॒न्यज॑ते॒ तय्ँ य॒ज्ञो दु॑हे स इ॒ष्ट्वा पापी॑यान्भवति॒ य ए॑नयो॒र्दोहव्ँ॑वि॒द्वान्यज॑ते॒ स य॒ज्ञन्दु॑हे॒ स इ॒ष्ट्वा वसी॑यान्भवति स्तु॒तस्य॑ स्तु॒तम॒स्यूर्ज॒म्मह्यँ॑ स्तु॒तन्दु॑हा॒मा मा॑ स्तु॒तस्य॑ स्तु॒तङ्ग॑म्याच्छ॒स्त्रस्य॑ श॒स्त्रम॒स्यूर्ज॒म्मह्यँ॑ श॒स्त्रन्दु॑हा॒मा मा॑ श॒स्त्रस्य॑ श॒स्त्रङ्ग॑म्या॒दित्या॑है॒ष वै स्तु॑तश॒स्त्रयो॒र्दोह॒स्तय्ँ॒य ए॒वव्ँवि॒द्वान्यज॑ते दु॒ह ए॒व य॒ज्ञमि॒ष्ट्वा वसी॑यान्भवति ॥ [28]
श्ये॒नाय॒ पत्व॑ने॒ स्वाहा॒ वट्त्स्व॒यम॑भिगूर्ताय॒ नमो॑ विष्ट॒म्भाय॒ धर्म॑णे॒ स्वाहा॒ वट्त्स्व॒यम॑भिगूर्ताय॒ नमᳶ॑ परि॒धये॑ जन॒प्रथ॑नाय॒ स्वाहा॒ वट्त्स्व॒यम॑भिगूर्ताय॒ नम॑ ऊ॒र्जे होत्रा॑णाँ॒ स्वाहा॒ वट्त्स्व॒यम॑भिगूर्ताय॒ नम॒ᳶ पय॑से॒ होत्रा॑णाँ॒ स्वाहा॒ वट्त्स्व॒यम॑भिगूर्ताय॒ नमᳶ॑ प्र॒जाप॑तये॒ मन॑वे॒ स्वाहा॒ वट्त्स्व॒यम॑भिगूर्ताय॒ नम॑ ऋ॒तमृ॑तपास्सुवर्वा॒ट्त्स्वाहा॒ वट्त्स्व॒यम॑भिगूर्ताय॒ नम॑स्तृ॒म्पन्ताँ॒ होत्रा॒ मधो॑र्घृ॒तस्य॑ य॒ज्ञप॑ति॒मृष॑य॒ एन॑सा [29]
आ॒हुः॒ । प्र॒जा निर्भ॑क्ता अनुत॒प्यमा॑ना मध॒व्यौ॑ स्तो॒कावप॒ तौ र॑राध । सन्न॒स्ताभ्याँ॑ सृजतु वि॒श्वक॑र्मा घो॒रा ऋष॑यो॒ नमो॑ अस्त्वेभ्यः । चक्षु॑ष एषा॒म्मन॑सश्च स॒न्धौ बृह॒स्पत॑ये॒ महि॒ षद्द्यु॒मन्नमः॑ । नमो॑ वि॒श्वक॑र्मणे॒ स उ॑ पात्व॒स्मान॑न॒न्यान्त्सो॑म॒पान्मन्य॑मानः । प्रा॒णस्य॑ वि॒द्वान्त्स॑म॒रे न धीर॒ एन॑श्चकृ॒वान्महि॑ ब॒द्ध ए॑षाम् । तव्ँवि॑श्वकर्मन्न् [30]
प्र मु॑ञ्चा स्व॒स्तये॒ ये भ॒क्षय॑न्तो॒ न वसू॑न्यानृ॒हुः । यान॒ग्नयो॒ऽन्वत॑प्यन्त॒ धिष्णि॑या इ॒यन्तेषा॑मव॒या दुरि॑ष्ट्यै॒ स्वि॑ष्टिन्न॒स्ताङ्कृ॑णोतु वि॒श्वक॑र्मा । नमᳶ॑ पि॒तृभ्यो॑ अ॒भि ये नो॒ अख्य॑न्यज्ञ॒कृतो॑ य॒ज्ञका॑मास्सुदे॒वा अ॑का॒मा वो॒ दक्षि॑णा॒न्न नी॑निम॒ मा न॒स्तस्मा॒देन॑सᳶ पापयिष्ट । याव॑न्तो॒ वै स॑द॒स्या॑स्ते॒ सर्वे॑ दक्षि॒ण्या॑स्तेभ्यो॒ यो दक्षि॑णा॒न्न [31]
नये॒दैभ्यो॑ वृश्च्येत॒ यद्वै॑श्वकर्म॒णानि॑ जु॒होति॑ सद॒स्या॑ने॒व तत्प्री॑णात्य॒स्मे दे॑वासो॒ वपु॑षे चिकित्सत॒ यमा॒शिरा॒ दम्प॑ती वा॒मम॑श्ञु॒तः । पुमा॑न्पु॒त्रो जा॑यते वि॒न्दते॒ वस्वथ॒ विश्वे॑ अर॒पा ए॑धते गृ॒हः । आ॒शी॒र्दा॒या दम्प॑ती वा॒मम॑श्ञुता॒मरि॑ष्टो॒ राय॑स्सचताँ॒ समो॑कसा । य आसि॑च॒त्सन्दु॑ग्धङ्कु॒म्भ्या स॒हेष्टेन॒ याम॒न्नम॑तिञ्जहातु॒ सः । स॒र्पि॒र्ग्री॒वी [32]
पीव॑र्यस्य जा॒या पीवा॑नᳶ पु॒त्रा अकृ॑शासो अस्य । स॒हजा॑नि॒र्यस्सु॑मख॒स्यमा॑न॒ इन्द्रा॑या॒शिरँ॑ स॒ह कु॒म्भ्यादा॑त् । आ॒शीर्म॒ ऊर्ज॑मु॒त सु॑प्रजा॒स्त्वमिष॑न्दधातु॒ द्रवि॑णँ॒ सव॑र्चसम् । स॒ञ्जय॒न्क्षेत्रा॑णि॒ सह॑सा॒हमि॑न्द्र कृण्वा॒नो अ॒न्याँ अध॑रान्त्स॒पत्ना॑न् । भू॒तम॑सि भू॒ते मा॑ धा॒ मुख॑मसि॒ मुख॑म्भूयास॒म्द्यावा॑पृथि॒वीभ्या॑न्त्वा॒ परि॑ गृह्णामि॒ विश्वे॑ त्वा दे॒वा वै॑श्वान॒राः [33]
प्र च्या॑वयन्तु दि॒वि दे॒वान्दृँ॑हा॒न्तरि॑क्षे॒ वयाँ॑सि पृथि॒व्याम्पार्थि॑वान्ध्रु॒वन्ध्रु॒वेण॑ ह॒विषाव॒ सोम॑न्नयामसि । यथा॑ न॒स्सर्व॒मिज्जग॑दय॒क्ष्मँ सु॒मना॒ अस॑त् । यथा॑ न॒ इन्द्र॒ इद्विश॒ᳵ केव॑ली॒स्सर्वा॒स्सम॑नस॒ᳵ कर॑त् । यथा॑ न॒स्सर्वा॒ इद्दिशो॒ऽस्माक॒ङ्केव॑लीरस॑न् ॥ [34]
यद्वै होता॑ध्व॒र्युम॑भ्या॒ह्वय॑ते॒ वज्र॑मेनम॒भि प्र व॑र्तय॒त्युक्थ॑शा॒ इत्या॑ह प्रातस्सव॒नम्प्र॑ति॒गीर्य॒ त्रीण्ये॒तान्य॒क्षरा॑णि त्रि॒पदा॑ गाय॒त्री गा॑य॒त्रम्प्रा॑तस्सव॒नङ्गा॑यत्रि॒यैव प्रा॑तस्सव॒ने वज्र॑म॒न्तर्ध॑त्त उ॒क्थव्ँवा॒चीत्या॑ह॒ माध्य॑न्दिनँ॒ सव॑नम्प्रति॒गीर्य॑ च॒त्वार्ये॒तान्य॒क्षरा॑णि॒ चतु॑ष्पदा त्रि॒ष्टुप्त्रैष्टु॑भ॒म्माध्य॑न्दिनँ॒ सव॑नन्त्रि॒ष्टुभै॒व माध्य॑न्दिने॒ सव॑ने॒ वज्र॑म॒न्तर्ध॑त्ते [35]
उ॒क्थव्ँवा॒चीन्द्रा॒येत्या॑ह तृतीयसव॒नम्प्र॑ति॒गीर्य॑ स॒प्तैतान्य॒क्षरा॑णि स॒प्तप॑दा॒ शक्व॑री शाक्व॒रो वज्रो॒ वज्रे॑णै॒व तृ॑तीयसव॒ने वज्र॑म॒न्तर्ध॑त्ते ब्रह्मवा॒दिनो॑ वदन्ति स त्वा अ॑ध्व॒र्युस्स्या॒द्यो य॑थासव॒नम्प्र॑तिग॒रे छन्दाँ॑सि सम्पा॒दये॒त्तेजᳶ॑ प्रातस्सव॒न आ॒त्मन्दधी॑तेन्द्रि॒यम्माध्य॑न्दिने॒ सव॑ने प॒शूँस्तृ॑तीयसव॒न इत्युक्थ॑शा॒ इत्या॑ह प्रातस्सव॒नम्प्र॑ति॒गीर्य॒ त्रीण्ये॒तान्य॒क्षरा॑णि [36]
त्रि॒पदा॑ गाय॒त्री गा॑य॒त्रम्प्रा॑तस्सव॒नम्प्रा॑तस्सव॒न ए॒व प्र॑तिग॒रे छन्दाँ॑सि॒ सम्पा॑दय॒त्यथो॒ तेजो॒ वै गा॑य॒त्री तेजᳶ॑ प्रातस्सव॒नन्तेज॑ ए॒व प्रा॑तस्सव॒न आ॒त्मन्ध॑त्त उ॒क्थव्ँवा॒चीत्या॑ह॒ माध्य॑न्दिनँ॒ सव॑नम्प्रति॒गीर्य॑ च॒त्वार्ये॒तान्य॒क्षरा॑णि॒ चतु॑ष्पदा त्रि॒ष्टुप्त्रैष्टु॑भ॒म्माध्य॑न्दिनँ॒ सव॑न॒म्माध्य॑न्दिन ए॒व सव॑ने प्रतिग॒रे छन्दाँ॑सि॒ सम्पा॑दय॒त्यथो॑ इन्द्रि॒यव्ँ वै त्रि॒ष्टुगि॑न्द्रि॒यम्माध्य॑न्दिनँ॒ सव॑नम् [37]
इ॒न्द्रि॒यमे॒व माध्य॑न्दिने॒ सव॑न आ॒त्मन्ध॑त्त उ॒क्थव्ँवा॒चीन्द्रा॒येत्या॑ह तृतीयसव॒नम्प्र॑ति॒गीर्य॑ स॒प्तैतान्य॒क्षरा॑णि स॒प्तप॑दा॒ शक्व॑री शाक्व॒राᳶ प॒शवो॒ जाग॑तन्तृतीयसव॒नन्तृ॑तीयसव॒न ए॒व प्र॑तिग॒रे छन्दाँ॑सि॒ सम्पा॑दय॒त्यथो॑ प॒शवो॒ वै जग॑ती प॒शव॑स्तृतीयसव॒नम्प॒शूने॒व तृ॑तीयसव॒न आ॒त्मन्ध॑त्ते॒ यद्वै होता॑ध्व॒र्युम॑भ्या॒ह्वय॑त आ॒व्य॑मस्मिन्दधाति॒ तद्यन्न [38]
अ॒प॒हनी॑त पु॒रास्य॑ सव्ँवत्स॒राद्गृ॒ह आ वे॑वीर॒ञ्छोँसा॒ मोद॑ इ॒वेति॑ प्र॒त्याह्व॑यते॒ तेनै॒व तदप॑ हते॒ यथा॒ वा आय॑ताम्प्र॒तीक्ष॑त ए॒वम॑ध्व॒र्युᳶ प्र॑तिग॒रम्प्रती॑क्षते॒ यद॑भिप्रतिगृणी॒याद्यथाय॑तया समृ॒च्छते॑ ता॒दृगे॒व तद्यद॑र्ध॒र्चाल्लुप्ये॑त॒ यथा॒ धाव॑द्भ्यो॒ हीय॑ते ता॒दृगे॒व तत्प्र॒बाहु॒ग्वा ऋ॒त्विजा॑मुद्गी॒था उ॑द्गी॒थ ए॒वोद्गा॑तृ॒णाम् [39]
ऋ॒चᳶ प्र॑ण॒व उ॑क्थशँ॒सिना॑म्प्रतिग॒रो॑ऽध्वर्यू॒णाय्ँय ए॒वव्ँवि॒द्वान्प्र॑तिगृ॒णात्य॑न्ना॒द ए॒व भ॑व॒त्यास्य॑ प्र॒जायाव्ँ॑ वा॒जी जा॑यत इ॒यव्ँ वै होता॒साव॑ध्व॒र्युर्यदासी॑न॒श्शँस॑त्य॒स्या ए॒व तद्धोता॒ नैत्यास्त॑ इव॒ हीयमथो॑ इ॒मामे॒व तेन॒ यज॑मानो दुहे॒ यत्तिष्ठ॑न्प्रतिगृ॒णात्य॒मुष्या॑ ए॒व तद॑ध्व॒र्युर्नैति॑ [40]
तिष्ठ॑तीव॒ ह्य॑सावथो॑ अ॒मूमे॒व तेन॒ यज॑मानो दुहे॒ यदासी॑न॒श्शँस॑ति॒ तस्मा॑दि॒तᳶप्र॑दानन्दे॒वा उप॑ जीवन्ति॒ यत्तिष्ठ॑न्प्रतिगृ॒णाति॒ तस्मा॑द॒मुतᳶ॑प्रदानम्मनु॒ष्या॑ उप॑ जीवन्ति॒ यत्प्राङासी॑न॒श्शँस॑ति प्र॒त्यङ्तिष्ठ॑न्प्रतिगृ॒णाति॒ तस्मा॑त्प्रा॒चीनँ॒ रेतो॑ धीयते प्र॒तीचीः॑ प्र॒जा जा॑यन्ते॒ यद्वै होता॑ध्व॒र्युम॑भ्या॒ह्वय॑ते॒ वज्र॑मेनम॒भि प्र व॑र्तयति॒ परा॒ङा व॑र्तते॒ वज्र॑मे॒व तन्नि क॑रोति ॥ [41]
उ॒प॒या॒मगृ॑हीतोऽसि वाक्ष॒सद॑सि वा॒क्पाभ्या॑न्त्वा क्रतु॒पाभ्या॑म॒स्य य॒ज्ञस्य॑ ध्रु॒वस्याध्य॑क्षाभ्याङ्गृह्णाम्युपया॒मगृ॑हीतोऽस्यृत॒सद॑सि चक्षु॒ष्पाभ्या॑न्त्वा क्रतु॒पाभ्या॑म॒स्य य॒ज्ञस्य॑ ध्रु॒वस्याध्य॑क्षाभ्याङ्गृह्णाम्युपया॒मगृ॑हीतोऽसि श्रुत॒सद॑सि श्रोत्र॒पाभ्या॑न्त्वा क्रतु॒पाभ्या॑म॒स्य य॒ज्ञस्य॑ ध्रु॒वस्याध्य॑क्षाभ्याङ्गृह्णामि दे॒वेभ्य॑स्त्वा वि॒श्वदे॑वेभ्यस्त्वा॒ विश्वे॑भ्यस्त्वा दे॒वेभ्यो॒ विष्ण॑वुरुक्रमै॒ष ते॒ सोम॒स्तँ र॑क्षस्व [42]
तन्ते॑ दु॒श्चक्षा॒ माव॑ ख्य॒त्मयि॒ वसुᳶ॑ पुरो॒वसु॑र्वा॒क्पा वाच॑म्मे पाहि॒ मयि॒ वसु॑र्वि॒दद्व॑सुश्चक्षु॒ष्पाश्चक्षु॑र्मे पाहि॒ मयि॒ वसु॑स्सय्ँ॒यद्व॑सुश्श्रोत्र॒पाश्श्रोत्र॑म्मे पाहि॒ भूर॑सि॒ श्रेष्ठो॑ रश्मी॒नाम्प्रा॑ण॒पाᳶ प्रा॒णम्मे॑ पाहि॒ धूर॑सि॒ श्रेष्ठो॑ रश्मी॒नाम॑पान॒पा अ॑पा॒नम्मे॑ पाहि॒ यो न॑ इन्द्रवायू मित्रावरुणावश्विनावभि॒दास॑ति॒ भ्रातृ॑व्य उ॒त्पिपी॑ते शुभस्पती इ॒दम॒हन्तमध॑रम्पादयामि॒ यथे॑न्द्रा॒हमु॑त्त॒मश्चे॒तया॑नि ॥ [43]
प्र सो अ॑ग्ने॒ तवो॒तिभि॑स्सु॒वीरा॑भिस्तरति॒ वाज॑कर्मभिः । यस्य॒ त्वँ स॒ख्यमावि॑थ । प्र होत्रे॑ पू॒र्व्यव्ँवचो॒ऽग्नये॑ भरता बृ॒हत् । वि॒पाञ्ज्योतीँ॑षि॒ बिभ्र॑ते॒ न वे॒धसे॑ । अग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्था॑ ति॒स्रस्ते॑ जि॒ह्वा ऋ॑तजात पू॒र्वीः । ति॒स्र उ॑ ते त॒नुवो॑ दे॒ववा॑ता॒स्ताभि॑र्नᳶ पाहि॒ गिरो॒ अप्र॑युच्छन् । सव्ँवा॒ङ्कर्म॑णा॒ समि॒षा [44]
हि॒नो॒मीन्द्रा॑विष्णू॒ अप॑सस्पा॒रे अ॒स्य । जु॒षेथा॑य्यँ॒ज्ञन्द्रवि॑णञ्च धत्त॒मरि॑ष्टैर्नᳶ प॒थिभिᳶ॑ पा॒रय॑न्ता । उ॒भा जि॑ग्यथु॒र्न परा॑ जयेथे॒ न परा॑ जिग्ये कत॒रश्च॒नैनोः॑ । इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथान्त्रे॒धा स॒हस्रव्ँ॒वि तदै॑रयेथाम् । त्रीण्यायूँ॑षि॒ तव॑ जातवेदस्ति॒स्र आ॒जानी॑रु॒षस॑स्ते अग्ने । ताभि॑र्दे॒वाना॒मवो॑ यक्षि वि॒द्वानथ॑ [45]
भ॒व॒ यज॑मानाय॒ शय्ँयोः । अ॒ग्निस्त्रीणि॑ त्रि॒धातू॒न्या क्षे॑ति वि॒दथा॑ क॒विः । स त्रीँ॑रेकाद॒शाँ इ॒ह । यक्ष॑च्च पि॒प्रय॑च्च नो॒ विप्रो॑ दू॒तᳶ परि॑ष्कृतः । नभ॑न्तामन्य॒के स॑मे । इन्द्रा॑विष्णू दृँहि॒ताश्शम्ब॑रस्य॒ नव॒ पुरो॑ नव॒तिञ्च॑ श्ञथिष्टम् । श॒तव्ँव॒र्चिन॑स्स॒हस्र॑ञ्च सा॒कँ ह॒थो अ॑प्र॒त्यसु॑रस्य वी॒रान् । उ॒त मा॒ता म॑हि॒षमन्व॑वेनद॒मी त्वा॑ जहति पुत्र दे॒वाः । अथा॑ब्रवीद्वृ॒त्रमिन्द्रो॑ हनि॒ष्यन्त्सखे॑ विष्णो वित॒रव्ँवि क्र॑मस्व ॥ [46]