प्र॒जाप॑तिरकामयत प्र॒जास्सृ॑जे॒येति॒ स तपो॑ऽतप्यत॒ स स॒र्पान॑सृजत॒ सो॑ऽकामयत प्र॒जास्सृ॑जे॒येति॒ स द्वि॒तीय॑मतप्यत॒ स वयाँ॑स्यसृजत॒ सो॑ऽकामयत प्र॒जास्सृ॑जे॒येति॒ स तृ॒तीय॑मतप्यत॒ स ए॒तन्दी॑क्षितवा॒दम॑पश्य॒त्तम॑वद॒त्ततो॒ वै स प्र॒जा अ॑सृजत॒ यत्तप॑स्त॒प्त्वा दी॑क्षितवा॒दव्ँवद॑ति प्र॒जा ए॒व तद्यज॑मानः [1]
सृ॒ज॒ते॒ यद्वै दी॑क्षि॒तो॑ऽमे॒ध्यम्पश्य॒त्यपा॑स्माद्दी॒क्षा क्रा॑मति॒ नील॑मस्य॒ हरो॒ व्ये॑त्यब॑द्ध॒म्मनो॑ द॒रिद्र॒ञ्चक्षु॒स्सूर्यो॒ ज्योति॑षाँ॒ श्रेष्ठो॒ दीक्षे॒ मा मा॑ हासी॒रित्या॑ह॒ नास्मा॑द्दी॒क्षाऽप॑ क्रामति॒ नास्य॒ नील॒न्न हरो॒ व्ये॑ति॒ यद्वै दी॑क्षि॒तम॑भि॒वर्ष॑ति दि॒व्या आपोऽशा॑न्ता॒ ओजो॒ बल॑न्दी॒क्षाम् [2]
तपो॑ऽस्य॒ निर्घ्न॑न्त्युन्द॒तीर्बल॑न्ध॒त्तौजो॑ धत्त॒ बल॑न्धत्त॒ मा मे॑ दी॒क्षाम्मा तपो॒ निर्व॑धि॒ष्टेत्या॑है॒तदे॒व सर्व॑मा॒त्मन्ध॑त्ते॒ नास्यौजो॒ बल॒न्न दी॒क्षान्न तपो॒ निर्घ्न॑न्त्य॒ग्निर्वै दी॑क्षि॒तस्य॑ दे॒वता॒ सो॑ऽस्मादे॒तर्हि॑ ति॒र इ॑व॒ यर्हि॒ याति॒ तमी॑श्व॒रँ रक्षाँ॑सि॒ हन्तोः॑ [3]
भ॒द्राद॒भि श्रेय॒ᳶ प्रेहि॒ बृह॒स्पतिᳶ॑ पुरए॒ता ते॑ अ॒स्त्वित्या॑ह॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒स्तमे॒वान्वार॑भते॒ स ए॑नँ॒ सम्पा॑रय॒त्येदम॑गन्म देव॒यज॑नम्पृथि॒व्या इत्या॑ह देव॒यज॑नँ॒ ह्ये॑ष पृ॑थि॒व्या आ॒गच्छ॑ति॒ यो यज॑ते॒ विश्वे॑ दे॒वा यदजु॑षन्त॒ पूर्व॒ इत्या॑ह॒ विश्वे॒ ह्ये॑तद्दे॒वा जो॒षय॑न्ते॒ यद्ब्रा॑ह्म॒णा ऋ॑क्सा॒माभ्याय्ँ॒यजु॑षा स॒न्तर॑न्त॒ इत्या॑हर्क्सा॒माभ्याँ॒ ह्ये॑ष यजु॑षा स॒न्तर॑ति॒ यो यज॑ते रा॒यस्पोषे॑ण॒ समि॒षा म॑दे॒मेत्या॑हा॒शिष॑मे॒वैतामा शा॑स्ते ॥ [4]
ए॒ष ते॑ गाय॒त्रो भा॒ग इति॑ मे॒ सोमा॑य ब्रूतादे॒ष ते॒ त्रैष्टु॑भो॒ जाग॑तो भा॒ग इति॑ मे॒ सोमा॑य ब्रूताच्छन्दो॒मानाँ॒ साम्रा॑ज्यङ्ग॒च्छेति॑ मे॒ सोमा॑य ब्रूता॒द्यो वै सोमँ॒ राजा॑नँ॒ साम्रा॑ज्यल्ँ लो॒कङ्ग॑मयि॒त्वा क्री॒णाति॒ गच्छ॑ति॒ स्वानाँ॒ साम्रा॑ज्य॒ञ्छन्दाँ॑सि॒ खलु॒ वै सोम॑स्य॒ राज्ञ॒स्साम्रा॑ज्यो लो॒कᳶ पु॒रस्ता॒त्सोम॑स्य क्र॒यादे॒वम॒भि म॑न्त्रयेत॒ साम्रा॑ज्यमे॒व [5]
ए॒नल्ँ॒ लो॒कङ्ग॑मयि॒त्वा क्री॑णाति॒ गच्छ॑ति॒ स्वानाँ॒ साम्रा॑ज्यय्ँ॒यो वै ता॑नून॒प्त्रस्य॑ प्रति॒ष्ठाव्ँवेद॒ प्रत्ये॒व ति॑ष्ठति ब्रह्मवा॒दिनो॑ वदन्ति॒ न प्रा॒श्ञन्ति॒ न जु॑ह्व॒त्यथ॒ क्व॑ तानून॒प्त्रम्प्रति॑ तिष्ठ॒तीति॑ प्र॒जाप॑तौ॒ मन॒सीति॑ ब्रूया॒त्त्रिरव॑ जिघ्रेत्प्र॒जाप॑तौ त्वा॒ मन॑सि जुहो॒मीत्ये॒षा वै ता॑नून॒प्त्रस्य॑ प्रति॒ष्ठा य ए॒वव्ँ वेद॒ प्रत्ये॒व ति॑ष्ठति॒ यः [6]
वा अ॑ध्व॒र्योᳶ प्र॑ति॒ष्ठाव्ँवेद॒ प्रत्ये॒व ति॑ष्ठति॒ यतो॒ मन्ये॒तान॑भिक्रम्य होष्या॒मीति॒ तत्तिष्ठ॒न्ना श्रा॑वयेदे॒षा वा अ॑ध्व॒र्योᳶ प्र॑ति॒ष्ठा य ए॒वव्ँ वेद॒ प्रत्ये॒व ति॑ष्ठति॒ यद॑भि॒क्रम्य॑ जुहु॒यात्प्र॑ति॒ष्ठाया॑ इया॒त्तस्मा॑त्समा॒नत्र॒ तिष्ठ॑ता होत॒व्य॑म्प्रति॑ष्ठित्यै॒ यो वा अ॑ध्व॒र्योस्स्वव्ँवेद॒ स्ववा॑ने॒व भ॑वति॒ स्रुग्वा अ॑स्य॒ स्वव्ँवा॑य॒व्य॑मस्य [7]
स्वञ्च॑म॒सो॑ऽस्य॒ स्वय्ँयद्वा॑य॒व्यव्ँ॑वा चम॒सव्ँवाऽन॑न्वारभ्याश्रा॒वये॒त्स्वादि॑या॒त्तस्मा॑दन्वा॒रभ्या॒श्राव्यँ॒ स्वादे॒व नैति॒ यो वै सोम॒मप्र॑तिष्ठाप्य स्तो॒त्रमु॑पाक॒रोत्यप्र॑तिष्ठित॒स्सोमो॒ भव॒त्यप्र॑तिष्ठित॒स्स्तोमोऽप्र॑तिष्ठितान्यु॒क्थान्यप्र॑तिष्ठितो॒ यज॑मा॒नोऽप्र॑तिष्ठितोऽध्व॒र्युर्वा॑य॒व्यव्ँ॑ वै सोम॑स्य प्रति॒ष्ठा च॑म॒सो॑ऽस्य प्रति॒ष्ठा सोम॒स्स्तोम॑स्य॒ स्तोम॑ उ॒क्थाना॒ङ्ग्रहव्ँ॑वा गृही॒त्वा च॑म॒सव्ँवो॒न्नीय॑ स्तो॒त्रमु॒पाकु॑र्या॒त्प्रत्ये॒व सोमँ॑ स्था॒पय॑ति॒ प्रति॒ स्तोम॒म्प्रत्यु॒क्थानि॒ प्रति॒ यज॑मान॒स्तिष्ठ॑ति॒ प्रत्य॑ध्व॒र्युः ॥ [8]
य॒ज्ञव्ँ वा ए॒तत्सम्भ॑रन्ति॒ यत्सो॑म॒क्रय॑ण्यै प॒दय्यँ॑ज्ञमु॒खँ ह॑वि॒र्धाने॒ यर्हि॑ हवि॒र्धाने॒ प्राची॑ प्रव॒र्तये॑यु॒स्तर्हि॒ तेनाक्ष॒मुपा॑ञ्ज्याद्यज्ञमु॒ख ए॒व य॒ज्ञमनु॒ सन्त॑नोति॒ प्राञ्च॑म॒ग्निम्प्र ह॑र॒न्त्युत्पत्नी॒मा न॑य॒न्त्यन्वनाँ॑सि॒ प्र व॑र्तय॒न्त्यथ॒ वा अ॑स्यै॒ष धिष्णि॑यो हीयते॒ सोऽनु॑ ध्यायति॒ स ई॑श्व॒रो रु॒द्रो भू॒त्वा [9]
प्र॒जाम्प॒शून्यज॑मानस्य॒ शम॑यितो॒र्यर्हि॑ प॒शुमाप्री॑त॒मुद॑ञ्च॒न्नय॑न्ति॒ तर्हि॒ तस्य॑ पशु॒श्रप॑णँ हरे॒त्तेनै॒वैन॑म्भा॒गिन॑ङ्करोति॒ यज॑मानो॒ वा आ॑हव॒नीयो॒ यज॑मानव्ँ॒वा ए॒तद्वि क॑र्षन्ते॒ यदा॑हव॒नीया॑त्पशु॒श्रप॑णँ॒ हर॑न्ति॒ स वै॒व स्यान्नि॑र्म॒न्थ्यव्ँ॑वा कुर्या॒द्यज॑मानस्य सात्म॒त्वाय॒ यदि॑ प॒शोर॑व॒दान॒न्नश्ये॒दाज्य॑स्य प्रत्या॒ख्याय॒मव॑ द्ये॒त्सैव तत॒ᳶ प्राय॑श्चित्ति॒र्ये प॒शुव्ँवि॑मथ्नी॒रन्यस्तान्का॒मये॒तार्ति॒मार्च्छे॑यु॒रिति॑ कु॒विद॒ङ्गेति॒ नमो॑वृक्तिवत्य॒र्चाग्नी॑ध्रे जुहुया॒न्नमो॑वृक्तिमे॒वैषाव्ँ॑वृङ्क्ते ता॒जगार्ति॒मार्च्छ॑न्ति ॥ [10]
प्र॒जाप॑ते॒र्जाय॑मानाᳶ प्र॒जा जा॒ताश्च॒ या इ॒माः । तस्मै॒ प्रति॒ प्र वे॑दय चिकि॒त्वाँ अनु॑ मन्यताम् । इ॒मम्प॒शुम्प॑शुपते ते अ॒द्य ब॒ध्नाम्य॑ग्ने सुकृ॒तस्य॒ मध्ये॑ । अनु॑ मन्यस्व सु॒यजा॑ यजाम॒ जुष्ट॑न्दे॒वाना॑मि॒दम॑स्तु ह॒व्यम् । प्र॒जा॒नन्त॒ᳶ प्रति॑ गृह्णन्ति॒ पूर्वे॑ प्रा॒णमङ्गे॑भ्य॒ᳶ पर्या॒चर॑न्तम् । सु॒व॒र्गय्ँया॑हि प॒थिभि॑र्देव॒यानै॒रोष॑धीषु॒ प्रति॑ तिष्ठा॒ शरी॑रैः । येषा॒मीशे॑ [11]
प॒शु॒पतिᳶ॑ पशू॒नाञ्चतु॑ष्पदामु॒त च॑ द्वि॒पदा॑म् । निष्क्री॑तो॒ऽयय्ँ य॒ज्ञिय॑म्भा॒गमे॑तु रा॒यस्पोषा॒ यज॑मानस्य सन्तु । ये ब॒ध्यमा॑न॒मनु॑ ब॒ध्यमा॑ना अ॒भ्यैक्ष॑न्त॒ मन॑सा॒ चक्षु॑षा च । अ॒ग्निस्ताँ अग्रे॒ प्र मु॑मोक्तु दे॒वᳶ प्र॒जाप॑तिᳶ प्र॒जया॑ सव्ँविदा॒नः । य आ॑र॒ण्याᳶ प॒शवो॑ वि॒श्वरू॑पा॒ विरू॑पा॒स्सन्तो॑ बहु॒धैक॑रूपाः । वा॒युस्ताँ अग्रे॒ प्र मु॑मोक्तु दे॒वᳶ प्र॒जाप॑तिᳶ प्र॒जया॑ सव्ँविदा॒नः । प्र॒मु॒ञ्चमा॑नाः [12]
भुव॑नस्य॒ रेतो॑ गा॒तुन्ध॑त्त॒ यज॑मानाय देवाः । उ॒पाकृ॑तँ शशमा॒नय्ँयदस्था॑ज्जी॒वन्दे॒वाना॒मप्ये॑तु॒ पाथः॑ । नाना॑ प्रा॒णो यज॑मानस्य प॒शुना॑ य॒ज्ञो दे॒वेभि॑स्स॒ह दे॑व॒यानः॑ । जी॒वन्दे॒वाना॒मप्ये॑तु॒ पाथ॑स्स॒त्यास्स॑न्तु॒ यज॑मानस्य॒ कामाः॑ । यत्प॒शुर्मा॒युमकृ॒तोरो॑ वा प॒द्भिरा॑ह॒ते । अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ विश्वा॑न्मुञ्च॒त्वँह॑सः । शमि॑तार उ॒पेत॑न य॒ज्ञम् [13]
दे॒वेभि॑रिन्वि॒तम् । पाशा॑त्प॒शुम्प्र मु॑ञ्चत ब॒न्धाद्य॒ज्ञप॑ति॒म्परि॑ । अदि॑ति॒ᳶ पाश॒म्प्र मु॑मोक्त्वे॒तन्नमᳶ॑ प॒शुभ्यᳶ॑ पशु॒पत॑ये करोमि । अ॒रा॒ती॒यन्त॒मध॑रङ्कृणोमि॒ यन्द्वि॒ष्मस्तस्मि॒न्प्रति॑ मुञ्चामि॒ पाश॑म् । त्वामु॒ ते द॑धिरे हव्य॒वाहँ॑ शृतङ्क॒र्तार॑मु॒त य॒ज्ञिय॑ञ्च । अग्ने॒ सद॑क्ष॒स्सत॑नु॒र्हि भू॒त्वाऽथ॑ ह॒व्या जा॑तवेदो जुषस्व । जात॑वेदो व॒पया॑ गच्छ दे॒वान्त्वँ हि होता॑ प्रथ॒मो ब॒भूथ॑ । घृ॒तेन॒ त्वन्त॒नुवो॑ वर्धयस्व॒ स्वाहा॑कृतँ ह॒विर॑दन्तु दे॒वाः । स्वाहा॑ दे॒वेभ्यो॑ दे॒वेभ्य॒स्स्वाहा॑ ॥ [14]
प्रा॒जा॒प॒त्या वै प॒शव॒स्तेषाँ॑ रु॒द्रोऽधि॑पति॒र्यदे॒ताभ्या॑मुपाक॒रोति॒ ताभ्या॑मे॒वैन॑म्प्रति॒प्रोच्या ल॑भत आ॒त्मनोऽना॑व्रस्काय॒ द्वाभ्या॑मु॒पाक॑रोति द्वि॒पाद्यज॑मान॒ᳶ प्रति॑ष्ठित्या उपा॒कृत्य॒ पञ्च॑ जुहोति॒ पाङ्क्ताः॑ प॒शवᳶ॑ प॒शूने॒वाव॑ रुन्द्धे मृ॒त्यवे॒ वा ए॒ष नी॑यते॒ यत्प॒शुस्तय्ँयद॑न्वा॒रभे॑त प्र॒मायु॑को॒ यज॑मानस्स्या॒न्नाना॑ प्रा॒णो यज॑मानस्य प॒शुनेत्या॑ह॒ व्यावृ॑त्त्यै [15]
यत्प॒शुर्मा॒युमकृ॒तेति॑ जुहोति॒ शान्त्यै॒ शमि॑तार उ॒पेत॒नेत्या॑ह यथाय॒जुरे॒वैतद्व॒पायाव्ँ॒वा आ॑ह्रि॒यमा॑णायाम॒ग्नेर्मेधोऽप॑ क्रामति॒ त्वामु॒ ते द॑धिरे हव्य॒वाह॒मिति॑ व॒पाम॒भि जु॑होत्य॒ग्नेरे॒व मेध॒मव॑ रु॒न्द्धेऽथो॑ शृत॒त्वाय॑ पु॒रस्ता॑त्स्वाहाकृतयो॒ वा अ॒न्ये दे॒वा उ॒परि॑ष्टात्स्वाहाकृतयो॒ऽन्ये स्वाहा॑ दे॒वेभ्यो॑ दे॒वेभ्य॒स्स्वाहेत्य॒भितो॑ व॒पाञ्जु॑होति॒ ताने॒वोभया॑न्प्रीणाति ॥ [16]
यो वा अय॑थादेवतय्ँ य॒ज्ञमु॑प॒चर॒त्या दे॒वता॑भ्यो वृश्च्यते॒ पापी॑यान्भवति॒ यो य॑थादेव॒तन्न दे॒वता॑भ्य॒ आ वृ॑श्च्यते॒ वसी॑यान्भवत्याग्ने॒य्यर्चाग्नी॑ध्रम॒भि मृ॑शेद्वैष्ण॒व्या ह॑वि॒र्धान॑माग्ने॒य्या स्रुचो॑ वाय॒व्य॑या वाय॒व्या॑न्यैन्द्रि॒या सदो॑ यथादेव॒तमे॒व य॒ज्ञमुप॑ चरति॒ न दे॒वता॑भ्य॒ आ वृ॑श्च्यते॒ वसी॑यान्भवति यु॒नज्मि॑ ते पृथि॒वीञ्ज्योति॑षा स॒ह यु॒नज्मि॑ वा॒युम॒न्तरि॑क्षेण [17]
ते॒ स॒ह यु॒नज्मि॒ वाचँ॑ स॒ह सूर्ये॑ण ते यु॒नज्मि॑ ति॒स्रो वि॒पृच॒स्सूर्य॑स्य ते । अ॒ग्निर्दे॒वता॑ गाय॒त्री छन्द॑ उपाँ॒शोᳶ पात्र॑मसि॒ सोमो॑ दे॒वता॑ त्रि॒ष्टुप्छन्दो॑ऽन्तर्या॒मस्य॒ पात्र॑म॒सीन्द्रो॑ दे॒वता॒ जग॑ती॒ छन्द॑ इन्द्रवायु॒वोᳶ पात्र॑मसि॒ बृह॒स्पति॑र्दे॒वता॑ऽनु॒ष्टुप्छन्दो॑ मि॒त्रावरु॑णयो॒ᳶ पात्र॑मस्य॒श्विनौ॑ दे॒वता॑ प॒ङ्क्तिश्छन्दो॒ऽश्विनो॒ᳶ पात्र॑मसि॒ सूर्यो॑ दे॒वता॑ बृह॒ती [18]
छन्द॑श्शु॒क्रस्य॒ पात्र॑मसि च॒न्द्रमा॑ दे॒वता॑ स॒तोबृ॑हती॒ छन्दो॑ म॒न्थिन॒ᳶ पात्र॑मसि॒ विश्वे॑ दे॒वा दे॒वतो॒ष्णिहा॒ छन्द॑ आग्रय॒णस्य॒ पात्र॑म॒सीन्द्रो॑ दे॒वता॑ क॒कुच्छन्द॑ उ॒क्थाना॒म्पात्र॑मसि पृथि॒वी दे॒वता॑ वि॒राट्छन्दो॑ ध्रु॒वस्य॒ पात्र॑मसि ॥ [19]
इ॒ष्टर्गो॒ वा अ॑ध्व॒र्युर्यज॑मानस्ये॒ष्टर्ग॒ᳵ खलु॒ वै पूर्वो॒ऽर्ष्टुः क्षी॑यत आस॒न्या॑न्मा॒ मन्त्रा॑त्पाहि॒ कस्या॑श्चिद॒भिश॑स्त्या॒ इति॑ पु॒रा प्रा॑तरनुवा॒काज्जु॑हुयादा॒त्मन॑ एव॒ तद॑ध्व॒र्युᳶ पु॒रस्ता॒च्छर्म॑ नह्य॒तेऽना॑र्त्यै सव्ँवे॒शाय॑ त्वोपवे॒शाय॑ त्वा गायत्रि॒यास्त्रि॒ष्टुभो॒ जग॑त्या अ॒भिभू॑त्यै॒ स्वाहा॒ प्राणा॑पानौ मृ॒त्योर्मा॑ पात॒म्प्राणा॑पानौ॒ मा मा॑ हासिष्टन्दे॒वता॑सु॒ वा ए॒ते प्रा॑णापा॒नयोः॑ [20]
व्याय॑च्छन्ते॒ येषाँ॒ सोम॑स्समृ॒च्छते॑ सव्ँवे॒शाय॑ त्वोपवे॒शाय॒ त्वेत्या॑ह॒ छन्दाँ॑सि॒ वै सव्ँ॑वे॒श उ॑पवे॒शश्छन्दो॑भिरे॒वास्य॒ छन्दाँ॑सि वृङ्क्ते॒ प्रेति॑व॒न्त्याज्या॑नि भवन्त्य॒भिजि॑त्यै म॒रुत्व॑तीᳶ प्रति॒पदो॒ विजि॑त्या उ॒भे बृ॑हद्रथन्त॒रे भ॑वत इ॒यव्ँ वाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒वैन॑म॒न्तरे॑त्य॒द्य वाव र॑थन्त॒रँ श्वो बृ॒हद॑द्या॒श्वादे॒वैन॑म॒न्तरे॑ति भू॒तम् [21]
वाव र॑थन्त॒रम्भ॑वि॒ष्यद्बृ॒हद्भू॒ताच्चै॒वैन॑म्भविष्य॒तश्चा॒न्तरे॑ति॒ परि॑मितव्ँ॒ वाव र॑थन्त॒रमप॑रिमितम्बृ॒हत्परि॑मिताच्चै॒वैन॒मप॑रिमिताच्चा॒न्तरे॑ति विश्वामित्रजमद॒ग्नी वसि॑ष्ठेनास्पर्धेताँ॒ स ए॒तज्ज॒मद॑ग्निर्विह॒व्य॑मपश्य॒त्तेन॒ वै स वसि॑ष्ठस्येन्द्रि॒यव्ँवी॒र्य॑मवृङ्क्त॒ यद्वि॑ह॒व्यँ॑ श॒स्यत॑ इन्द्रि॒यमे॒व तद्वी॒र्यय्ँ॑यज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते॒ यस्य॒ भूयाँ॑सो यज्ञक्र॒तव॒ इत्या॑हु॒स्स दे॒वता॑ वृङ्क्त॒ इति॒ यद्य॑ग्निष्टो॒मस्सोमᳶ॑ प॒रस्ता॒त्स्यादु॒क्थ्य॑ङ्कुर्वीत॒ यद्यु॒क्थ्य॑स्स्याद॑तिरा॒त्रङ्कु॑र्वीत यज्ञक्र॒तुभि॑रे॒वास्य॑ दे॒वता॑ वृङ्क्ते॒ वसी॑यान्भवति ॥ [22]
नि॒ग्रा॒भ्याः॑ स्थ देव॒श्रुत॒ आयु॑र्मे तर्पयत प्रा॒णम्मे॑ तर्पयतापा॒नम्मे॑ तर्पयत व्या॒नम्मे॑ तर्पयत॒ चक्षु॑र्मे तर्पयत॒ श्रोत्र॑म्मे तर्पयत॒ मनो॑ मे तर्पयत॒ वाच॑म्मे तर्पयता॒त्मान॑म्मे तर्पय॒ताङ्गा॑नि मे तर्पयत प्र॒जाम्मे॑ तर्पयत प॒शून्मे॑ तर्पयत गृ॒हान्मे॑ तर्पयत ग॒णान्मे॑ तर्पयत स॒र्वग॑णम्मा तर्पयत त॒र्पय॑त मा [23]
ग॒णा मे॒ मा वि तृ॑ष॒न्नोष॑धयो॒ वै सोम॑स्य॒ विशो॒ विश॒ᳵ खलु॒ वै राज्ञ॒ᳶ प्रदा॑तोरीश्व॒रा ऐ॒न्द्रस्सोमोऽवी॑वृधव्ँवो॒ मन॑सा सुजाता॒ ऋत॑प्रजाता॒ भग॒ इद्व॑स्स्याम । इन्द्रे॑ण दे॒वीर्वी॒रुध॑स्सव्ँविदा॒ना अनु॑ मन्यन्ताँ॒ सव॑नाय॒ सोम॒मित्या॒हौष॑धीभ्य ए॒वैनँ॒ स्वायै॑ वि॒शस्स्वायै॑ दे॒वता॑यै नि॒र्याच्या॒भि षु॑णोति॒ यो वै सोम॑स्याभिषू॒यमा॑णस्य [24]
प्र॒थ॒मोऽँ॑शुस्स्कन्द॑ति॒ स ई॑श्व॒र इ॑न्द्रि॒यव्ँवी॒र्य॑म्प्र॒जाम्प॒शून्यज॑मानस्य॒ निर्ह॑न्तो॒स्तम॒भि म॑न्त्रये॒ता मा॑स्कान्त्स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॑णेन्द्रि॒यम्मे॑ वी॒र्य॑म्मा निर्व॑धी॒रित्या॒शिष॑मे॒वैतामा शा॑स्त इन्द्रि॒यस्य॑ वी॒र्य॑स्य प्र॒जायै॑ पशू॒नामनि॑र्घाताय द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मञ्च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ । तृ॒तीयय्ँ॒योनि॒मनु॑ स॒ञ्चर॑न्तन्द्र॒प्सञ्जु॑हो॒म्यनु॑ स॒प्त होत्राः॑ ॥ [25]
यो वै दे॒वान्दे॑वयश॒सेना॒र्पय॑ति मनु॒ष्या॑न्मनुष्ययश॒सेन॑ देवयश॒स्ये॑व दे॒वेषु॒ भव॑ति मनुष्ययश॒सी म॑नु॒ष्ये॑षु॒ यान्प्रा॒चीन॑माग्रय॒णाद्ग्रहा॑न्गृह्णी॒यात्तानु॑पाँ॒शु गृ॑ह्णीया॒द्यानू॒र्ध्वाँस्तानु॑पब्दि॒मतो॑ दे॒वाने॒व तद्दे॑वयश॒सेना॑र्पयति मनु॒ष्या॑न्मनुष्ययश॒सेन॑ देवयश॒स्ये॑व दे॒वेषु॑ भवति मनुष्ययश॒सी म॑नु॒ष्ये॑ष्व॒ग्निᳶ प्रा॑तस्सव॒ने पा॑त्व॒स्मान्वै॑श्वान॒रो म॑हि॒ना वि॒श्वश॑म्भूः । स नᳶ॑ पाव॒को द्रवि॑णन्दधातु [26]
आयु॑ष्मन्तस्स॒हभ॑क्षास्स्याम । विश्वे॑ दे॒वा म॒रुत॒ इन्द्रो॑ अ॒स्मान॒स्मिन्द्वि॒तीये॒ सव॑ने॒ न ज॑ह्युः । आयु॑ष्मन्तᳶ प्रि॒यमे॑षाव्ँ॒वद॑न्तो व॒यन्दे॒वानाँ॑ सुम॒तौ स्या॑म । इ॒दन्तृ॒तीयँ॒ सव॑नङ्कवी॒नामृ॒तेन॒ ये च॑म॒समैर॑यन्त । ते सौ॑धन्व॒नास्सुव॑रानशा॒नास्स्वि॑ष्टिन्नो अ॒भि वसी॑यो नयन्तु । आ॒यत॑नवती॒र्वा अ॒न्या आहु॑तयो हू॒यन्ते॑ऽनायत॒ना अ॒न्या या आ॑घा॒रव॑ती॒स्ता आ॒यत॑नवती॒र्याः [27]
सौ॒म्यास्ता अ॑नायत॒ना ऐ॑न्द्रवाय॒वमा॒दाया॑घा॒रमा घा॑रयेदध्व॒रो य॒ज्ञो॑ऽयम॑स्तु देवा॒ ओष॑धीभ्यᳶ प॒शवे॑ नो॒ जना॑य॒ विश्व॑स्मै भू॒ताया॑ध्व॒रो॑ऽसि॒ स पि॑न्वस्व घृत॒व॑द्देव सो॒मेति॑ सौ॒म्या ए॒व तदाहु॑तीरा॒यत॑नवतीᳵ करोत्या॒यत॑नवान्भवति॒ य ए॒वव्ँ वेदाथो॒ द्यावा॑पृथि॒वी ए॒व घृ॒तेन॒ व्यु॑नत्ति॒ ते व्यु॑त्ते उपजीव॒नीये॑ भवत उपजीव॒नीयो॑ भवति [28]
य ए॒वव्ँ वेदै॒ष ते॑ रुद्र भा॒गो यन्नि॒रया॑चथा॒स्तञ्जु॑षस्व वि॒देर्गौ॑प॒त्यँ रा॒यस्पोषँ॑ सु॒वीर्यँ॑ सव्ँवत्स॒रीणाँ॑ स्व॒स्तिम् । मनुᳶ॑ पु॒त्रेभ्यो॑ दा॒यव्व्ँय॑भज॒त्स नाभा॒नेदि॑ष्ठम्ब्रह्म॒चर्यव्ँ॒वस॑न्त॒न्निर॑भज॒त्स आग॑च्छ॒त्सो॑ऽब्रवीत्क॒था मा॒ निर॑भा॒गिति॒ न त्वा॒ निर॑भाक्ष॒मित्य॑ब्रवी॒दङ्गि॑रस इ॒मे स॒त्तमा॑सते॒ ते [29]
सु॒व॒र्गल्ँ लो॒कन्न प्र जा॑नन्ति॒ तेभ्य॑ इ॒दम्ब्राह्म॑णम्ब्रूहि॒ ते सु॑व॒र्गल्ँ लो॒कय्यँन्तो॒ य ए॑षाम्प॒शव॒स्ताँस्ते॑ दास्य॒न्तीति॒ तदे॑भ्योऽब्रवी॒त्ते सु॑व॒र्गल्ँ लो॒कय्यँन्तो॒ य ए॑षाम्प॒शव॒ आस॒न्तान॑स्मा अददु॒स्तम्प॒शुभि॒श्चर॑न्तय्ँ यज्ञवा॒स्तौ रु॒द्र आग॑च्छ॒त्सो॑ऽब्रवी॒न्मम॒ वा इ॒मे प॒शव॒ इत्यदु॒र्वै [30]
मह्य॑मि॒मानित्य॑ब्रवी॒न्न वै तस्य॒ त ई॑शत॒ इत्य॑ब्रवी॒द्यद्य॑ज्ञवा॒स्तौ हीय॑ते॒ मम॒ वै तदिति॒ तस्मा॑द्यज्ञवा॒स्तु नाभ्य॒वेत्यँ॒ सो॑ऽब्रवीद्य॒ज्ञे मा भ॒जाथ॑ ते प॒शून्नाभि मँ॑स्य॒ इति॒ तस्मा॑ ए॒तम्म॒न्थिन॑स्सँस्रा॒वम॑जुहो॒त्ततो॒ वै तस्य॑ रु॒द्रᳶ प॒शून्नाभ्य॑मन्यत॒ यत्रै॒तमे॒वव्ँवि॒द्वान्म॒न्थिन॑स्सँस्रा॒वञ्जु॒होति॒ न तत्र॑ रु॒द्रᳶ प॒शून॒भि म॑न्यते ॥ [31]
जुष्टो॑ वा॒चो भू॑यास॒ञ्जुष्टो॑ वा॒चस्पत॑ये॒ देवि॑ वाक् । यद्वा॒चो मधु॑म॒त्तस्मि॑न्मा धा॒स्स्वाहा॒ सर॑स्वत्यै । ऋ॒चा स्तोमँ॒ सम॑र्धय गाय॒त्रेण॑ रथन्त॒रम् । बृ॒हद्गा॑य॒त्रव॑र्तनि । यस्ते॑ द्र॒प्सस्स्कन्द॑ति॒ यस्ते॑ अँ॒शुर्बा॒हुच्यु॑तो धि॒षण॑योरु॒पस्था॑त् । अ॒ध्व॒र्योर्वा॒ परि॒ यस्ते॑ प॒वित्रा॒त्स्वाहा॑कृत॒मिन्द्रा॑य॒ तञ्जु॑होमि । यो द्र॒प्सो अँ॒शुᳶ प॑ति॒तᳶ पृ॑थि॒व्याम्प॑रिवा॒पात् [32]
पु॒रो॒डाशा॑त्कर॒म्भात् । धा॒ना॒सो॒मान्म॒न्थिन॑ इन्द्र शु॒क्रात्स्वाहा॑कृत॒मिन्द्रा॑य॒ तञ्जु॑होमि । यस्ते॑ द्र॒प्सो मधु॑माँ इन्द्रि॒यावा॒न्त्स्वाहा॑कृत॒ᳶ पुन॑र॒प्येति॑ दे॒वान् । दि॒वᳶ पृ॑थि॒व्याᳶ पर्य॒न्तरि॑क्षा॒त्स्वाहा॑कृत॒मिन्द्रा॑य॒ तञ्जु॑होमि । अ॒ध्व॒र्युर्वा ऋ॒त्विजा॑म्प्रथ॒मो यु॑ज्यते॒ तेन॒ स्तोमो॑ योक्त॒व्य॑ इत्या॑हु॒र्वाग॑ग्रे॒गा अग्र॑ एत्वृजु॒गा दे॒वेभ्यो॒ यशो॒ मयि॒ दध॑ती प्रा॒णान्प॒शुषु॑ प्र॒जाम्मयि॑ [33]
च॒ यज॑माने॒ चेत्या॑ह॒ वाच॑मे॒व तद्य॑ज्ञमु॒खे यु॑नक्ति॒ वास्तु॒ वा ए॒तद्य॒ज्ञस्य॑ क्रियते॒ यद्ग्रहा॑न्गृही॒त्वा ब॑हिष्पवमा॒नँ सर्प॑न्ति॒ परा॑ञ्चो॒ हि यन्ति॒ परा॑चीभिस्स्तु॒वते॑ वैष्ण॒व्यर्चा पुन॒रेत्योप॑ तिष्ठते य॒ज्ञो वै विष्णु॑र्य॒ज्ञमे॒वाक॒र्विष्णो॒ त्वन्नो॒ अन्त॑म॒श्शर्म॑ यच्छ सहन्त्य । प्र ते॒ धारा॑ मधु॒श्चुत॒ उत्स॑न्दुह्रते॒ अक्षि॑त॒मित्या॑ह॒ यदे॒वास्य॒ शया॑नस्योप॒शुष्य॑ति॒ तदे॒वास्यै॒तेना प्या॑ययति ॥ [34]
अ॒ग्निना॑ र॒यिम॑श्नव॒त्पोष॑मे॒व दि॒वेदि॑वे । य॒शसव्ँ॑वी॒रव॑त्तमम् ॥ गोमाँ॑ अ॒ग्नेऽवि॑माँ अ॒श्वी य॒ज्ञो नृ॒वत्स॑खा॒ सद॒मिद॑प्रमृ॒ष्यः । इडा॑वाँ ए॒षो अ॑सुर प्र॒जावा॑न्दी॒र्घो र॒यिᳶ पृ॑थुबु॒ध्नस्स॒भावा॑न् ॥ आ प्या॑यस्व॒ सन्ते॑ ॥ इ॒ह त्वष्टा॑रमग्रि॒यव्ँवि॒श्वरू॑प॒मुप॑ ह्वये । अ॒स्माक॑मस्तु॒ केव॑लः ॥ तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒णस्स्य॑स्व । यतो॑ वी॒रः [35]
क॒र्म॒ण्य॑स्सु॒दक्षो॑ यु॒क्तग्रा॑वा॒ जाय॑ते दे॒वका॑मः । शि॒वस्त्व॑ष्टरि॒हा ग॑हि वि॒भुᳶ पोष॑ उ॒त त्मना॑ । य॒ज्ञेय॑ज्ञे न॒ उद॑व । पि॒शङ्ग॑रूपस्सु॒भरो॑ वयो॒धाश्श्रु॒ष्टी वी॒रो जा॑यते दे॒वका॑मः । प्र॒जान्त्वष्टा॒ वि ष्य॑तु॒ नाभि॑म॒स्मे अथा॑ दे॒वाना॒मप्ये॑तु॒ पाथः॑ । प्र णो॑ दे॒व्या नो॑ दि॒वः । पी॒पि॒वाँसँ॒ सर॑स्वत॒स्स्तनय्ँ॒यो वि॒श्वद॑र्शतः । धु॒क्षी॒महि॑ प्र॒जामिष॑म् ॥ [36]
ये ते॑ सरस्व ऊ॒र्मयो॒ मधु॑मन्तो घृत॒श्चुतः॑ । तेषा॑न्ते सु॒म्नमी॑महे । यस्य॑ व्र॒तम्प॒शवो॒ यन्ति॒ सर्वे॒ यस्य॑ व्र॒तमु॑प॒तिष्ठ॑न्त॒ आपः॒ । यस्य॑ व्र॒ते पु॑ष्टि॒पति॒र्निवि॑ष्ट॒स्तँ सर॑स्वन्त॒मव॑से हुवेम । दि॒व्यँ सु॑प॒र्णव्ँव॑य॒सम्बृ॒हन्त॑म॒पाङ्गर्भव्ँ॑वृष॒भमोष॑धीनाम् । अ॒भी॒प॒तो वृ॒ष्ट्या त॒र्पय॑न्त॒न्तँ सर॑स्वन्त॒मव॑से हुवेम । सिनी॑वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा॑ । जु॒षस्व॑ ह॒व्यम् [37]
आहु॑तम्प्र॒जान्दे॑वि दिदिड्ढि नः । या सु॑पा॒णिस्स्व॑ङ्गु॒रिस्सु॒षूमा॑ बहु॒सूव॑री । तस्यै॑ वि॒श्पत्नि॑यै ह॒विस्सि॑नीवा॒ल्यै जु॑होतन । इन्द्रव्ँ॑वो वि॒श्वत॒स्परीन्द्र॒न्नरः॑ । असि॑तवर्णा॒ हर॑यस्सुप॒र्णा मिहो॒ वसा॑ना॒ दिव॒मुत्प॑तन्ति । त आऽव॑वृत्र॒न्त्सद॑नानि कृ॒त्वादित्पृ॑थि॒वी घृ॒तैर्व्यु॑द्यते । हिर॑ण्यकेशो॒ रज॑सो विसा॒रेऽहि॒र्धुनि॒र्वात॑ इव॒ ध्रजी॑मान् । शुचि॑भ्राजा उ॒षसः॑ [38]
नवे॑दा॒ यश॑स्वतीरप॒स्युवो॒ न स॒त्याः । आ ते॑ सुप॒र्णा अ॑मिनन्त॒ एवैः॑ कृ॒ष्णो नो॑नाव वृष॒भो यदी॒दम् । शि॒वाभि॒र्न स्मय॑मानाभि॒रागा॒त्पत॑न्ति॒ मिह॑स्स्त॒नय॑न्त्य॒भ्रा । वा॒श्रेव॑ वि॒द्युन्मि॑माति व॒त्सन्न मा॒ता सि॑षक्ति । यदे॑षाव्ँवृ॒ष्टिरस॑र्जि । पर्व॑तश्चि॒न्महि॑ वृ॒द्धो बि॑भाय दि॒वश्चि॒त्सानु॑ रेजत स्व॒ने वः॑ । यत्क्रीड॑थ मरुतः [39]
ऋ॒ष्टि॒मन्त॒ आप॑ इव स॒ध्रिय॑ञ्चो धवध्वे । अ॒भि क्र॑न्द स्त॒नय॒ गर्भ॒मा धा॑ उद॒न्वता॒ परि॑ दीया॒ रथे॑न । दृतिँ॒ सु क॑र्ष॒ विषि॑त॒न्न्य॑ञ्चँ स॒मा भ॑वन्तू॒द्वता॑ निपा॒दाः । त्वन्त्या चि॒दच्यु॒ताग्ने॑ प॒शुर्न यव॑से । धामा॑ ह॒ यत्ते॑ अजर॒ वना॑ वृ॒श्चन्ति॒ शिक्व॑सः । अग्ने॒ भूरी॑णि॒ तव॑ जातवेदो॒ देव॑ स्वधावो॒ऽमृत॑स्य॒ धाम॑ । याश्च॑ [40]
मा॒या मा॒यिनाव्ँ॑विश्वमिन्व॒ त्वे पू॒र्वीस्स॑न्द॒धुᳶ पृ॑ष्टबन्धो । दि॒वो नो॑ वृ॒ष्टिम्म॑रुतो ररीध्व॒म्प्र पि॑न्वत॒ वृष्णो॒ अश्व॑स्य॒ धाराः॑ । अ॒र्वाङे॒तेन॑ स्तनयि॒त्नुतेह्य॒पो नि॑षि॒ञ्चन्नसु॑रᳶ पि॒ता नः॑ । पिन्व॑न्त्य॒पो म॒रुत॑स्सु॒दान॑व॒ᳶ पयो॑ घृ॒तव॑द्वि॒दथे॑ष्वा॒भुवः॑ । अत्य॒न्न मि॒हे वि न॑यन्ति वा॒जिन॒मुत्स॑न्दुहन्ति स्त॒नय॑न्त॒मक्षि॑तम् । उ॒द॒प्रुतो॑ मरुत॒स्ताँ इ॑यर्त॒ वृष्टि॑म् [41]
ये विश्वे॑ म॒रुतो॑ जु॒नन्ति॑ । क्रोशा॑ति॒ गर्दा॑ क॒न्ये॑व तु॒न्ना पेरु॑न्तुञ्जा॒ना पत्ये॑व जा॒या । घृ॒तेन॒ द्यावा॑पृथि॒वी मधु॑ना॒ समु॑क्षत॒ पय॑स्वतीᳵ कृणु॒ताप॒ ओष॑धीः । ऊर्ज॑ञ्च॒ तत्र॑ सुम॒तिञ्च॑ पिन्वथ॒ यत्रा॑ नरो मरुतस्सि॒ञ्चथा॒ मधु॑ । उदु॒ त्यञ्चि॒त्रम् । औ॒र्व॒भृ॒गु॒वच्छुचि॑मप्नवान॒वदा हु॑वे । अ॒ग्निँ स॑मु॒द्रवा॑ससम् । आ स॒वँ स॑वि॒तुर्य॑था॒ भग॑स्येव भु॒जिँ हु॑वे । अ॒ग्निँ स॑मु॒द्रवा॑ससम् । हु॒वे वात॑स्वनङ्क॒विम्प॒र्जन्य॑क्रन्द्यँ॒ सहः॑ । अ॒ग्निँ स॑मु॒द्रवा॑ससम् ॥ [42]