वि॒श्वरू॑पो॒ वै त्वा॒ष्ट्रᳶ पु॒रोहि॑तो दे॒वाना॑मासीत्स्व॒स्रीयोऽसु॑राणा॒न्तस्य॒ त्रीणि॑ शी॒र्षाण्या॑सन्त्सोम॒पानँ॑ सुरा॒पान॑म॒न्नाद॑नँ॒ स प्र॒त्यक्ष॑न्दे॒वेभ्यो॑ भा॒गम॑वदत्प॒रोक्ष॒मसु॑रेभ्य॒स्सर्व॑स्मै॒ वै प्र॒त्यक्ष॑म्भा॒गव्ँव॑दन्ति॒ यस्मा॑ ए॒व प॒रोक्षव्ँ॒वद॑न्ति॒ तस्य॑ भा॒ग उ॑दि॒तस्तस्मा॒दिन्द्रो॑ऽबिभेदी॒दृङ्वै रा॒ष्ट्रव्ँवि प॒र्याव॑र्तय॒तीति॒ तस्य॒ वज्र॑मा॒दाय॑ शी॒र्षाण्य॑च्छिन॒द्यत्सो॑म॒पान॑म् [1]
आसी॒त्स क॒पिञ्ज॑लोऽभव॒द्यत्सु॑रा॒पानँ॒ स क॑ल॒विङ्को॒ यद॒न्नाद॑नँ॒ स ति॑त्ति॒रिस्तस्या॑ञ्ज॒लिना॑ ब्रह्मह॒त्यामुपा॑गृह्णा॒त्ताँ सव्ँ॑वत्स॒रम॑बिभ॒स्तम्भू॒तान्य॒भ्य॑क्रोश॒न्ब्रह्म॑ह॒न्निति॒ स पृ॑थि॒वीमुपा॑सीदद॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑य॒म्प्रति॑ गृहा॒णेति॒ साब्र॑वी॒द्वरव्ँ॑वृणै खा॒तात्प॑राभवि॒ष्यन्ती॑ मन्ये॒ ततो॒ मा परा॑ भूव॒मिति॑ पु॒रा ते॑ [2]
सव्ँ॒व॒त्स॒रादपि॑ रोहा॒दित्य॑ब्रवी॒त्तस्मा॑त्पु॒रा सव्ँ॑वत्स॒रात्पृ॑थि॒व्यै खा॒तमपि॑ रोहति॒ वारे॑वृतँ॒ ह्य॑स्यै॒ तृती॑यम्ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्णा॒त्तत्स्वकृ॑त॒मिरि॑णमभव॒त्तस्मा॒दाहि॑ताग्निश्श्र॒द्धादे॑व॒स्स्वकृ॑त॒ इरि॑णे॒ नाव॑ स्येद्ब्रह्मह॒त्यायै॒ ह्ये॑ष वर्ण॒स्स वन॒स्पती॒नुपा॑सीदद॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑य॒म्प्रति॑ गृह्णी॒तेति॒ ते॑ऽब्रुव॒न्वरव्ँ॑वृणामहै वृ॒क्णात् [3]
प॒रा॒भ॒वि॒ष्यन्तो॑ मन्यामहे॒ ततो॒ मा परा॑ भू॒मेत्या॒व्रश्च॑नाद्वो॒ भूयाँ॑स॒ उत्ति॑ष्ठा॒नित्य॑ब्रवी॒त्तस्मा॑दा॒व्रश्च॑नाद्वृ॒क्षाणा॒म्भूयाँ॑स॒ उत्ति॑ष्ठन्ति॒ वारे॑वृतँ॒ ह्ये॑षा॒न्तृती॑यम्ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्ण॒न्त्स नि॑र्या॒सो॑ऽभव॒त्तस्मा॑न्निर्या॒सस्य॒ नाश्य॑म्ब्रह्मह॒त्यायै॒ ह्ये॑ष वर्णोऽथो॒ खलु॒ य ए॒व लोहि॑तो॒ यो वा॒ऽऽव्रश्च॑नान्नि॒र्येष॑ति॒ तस्य॒ नाश्य॑म् [4]
काम॑म॒न्यस्य॒ स स्त्री॑षँसा॒दमुपा॑सीदद॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑य॒म्प्रति॑ गृह्णी॒तेति॒ ता अ॑ब्रुव॒न्वरव्ँ॑वृणामहा॒ ऋत्वि॑यात्प्र॒जाव्ँवि॑न्दामहै॒ काम॒मा विज॑नितो॒स्सम्भ॑वा॒मेति॒ तस्मा॒दृत्वि॑या॒त्स्त्रियᳶ॑ प्र॒जाव्ँवि॑न्दन्ते॒ काम॒मा विज॑नितो॒स्सम्भ॑वन्ति॒ वारे॑वृतँ॒ ह्या॑सा॒न्तृती॑यम्ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्ण॒न्त्सा मल॑वद्वासा अभव॒त्तस्मा॒न्मल॑वद्वाससा॒ न सव्ँव॑देत [5]
न स॒हासी॑त॒ नास्या॒ अन्न॑मद्याद्ब्रह्मह॒त्यायै॒ ह्ये॑षा वर्ण॑म्प्रति॒मुच्यास्तेऽथो॒ खल्वा॑हुर॒भ्यञ्ज॑नव्ँ॒ वाव स्त्रि॒या अन्न॑म॒भ्यञ्ज॑नमे॒व न प्र॑ति॒गृह्य॒ङ्काम॑म॒न्यदिति॒ याम्मल॑वद्वाससँ स॒म्भव॑न्ति॒ यस्ततो॒ जाय॑ते॒ सो॑ऽभिश॒स्तो यामर॑ण्ये॒ तस्यै॑ स्ते॒नो याम्परा॑ची॒न्तस्यै॑ ह्रीतमु॒ख्य॑पग॒ल्भो या स्नाति॒ तस्या॑ अ॒प्सु मारु॑को॒ या [6]
अ॒भ्य॒ङ्क्ते तस्यै॑ दु॒श्चर्मा॒ या प्र॑लि॒खते॒ तस्यै॑ खल॒तिर॑पमा॒री याऽऽङ्क्ते तस्यै॑ का॒णो या द॒तो धाव॑ते॒ तस्यै॑ श्या॒वद॒न्या न॒खानि॑ निकृ॒न्तते॒ तस्यै॑ कुन॒खी या कृ॒णत्ति॒ तस्यै॑ क्ली॒बो या रज्जुँ॑ सृ॒जति॒ तस्या॑ उ॒द्बन्धु॑को॒ या प॒र्णेन॒ पिब॑ति॒ तस्या॑ उ॒न्मादु॑को॒ या ख॒र्वेण॒ पिब॑ति॒ तस्यै॑ ख॒र्वस्ति॒स्रो रात्री॑र्व्र॒तञ्च॑रेदञ्ज॒लिना॑ वा॒ पिबे॒दख॑र्वेण वा॒ पात्रे॑ण प्र॒जायै॑ गोपी॒थाय॑ ॥ [7]
त्वष्टा॑ ह॒तपु॑त्रो॒ वीन्द्रँ॒ सोम॒माह॑र॒त्तस्मि॒न्निन्द्र॑ उपह॒वमै॑च्छत॒ तन्नोपा॑ह्वयत पु॒त्रम्मे॑ऽवधी॒रिति॒ स य॑ज्ञवेश॒सङ्कृ॒त्वा प्रा॒सहा॒ सोम॑मपिब॒त्तस्य॒ यद॒त्यशि॑ष्यत॒ तत्त्वष्टा॑हव॒नीय॒मुप॒ प्राव॑र्तय॒त्स्वाहेन्द्र॑शत्रुर्वर्ध॒स्वेति॒ यदव॑र्तय॒त्तद्वृ॒त्रस्य॑ वृत्र॒त्वय्यँदब्र॑वी॒त्स्वाहेन्द्र॑शत्रुर्वर्ध॒स्वेति॒ तस्मा॑दस्य [8]
इन्द्र॒श्शत्रु॑रभव॒त्स स॒म्भव॑न्न॒ग्नीषोमा॑व॒भि सम॑भव॒त्स इ॑षुमा॒त्रमि॑षुमात्रव्ँ॒विष्व॑ङ्ङवर्धत॒ स इ॒माल्लोँ॒कान॑वृणो॒द्यदि॒माल्लोँ॒कानवृ॑णो॒त्तद्वृ॒त्रस्य॑ वृत्र॒त्वन्तस्मा॒दिन्द्रो॑ऽबिभे॒त्स प्र॒जाप॑ति॒मुपा॑धाव॒च्छत्रु॑र्मेऽज॒नीति॒ तस्मै॒ वज्रँ॑ सि॒क्त्वा प्राय॑च्छदे॒तेन॑ ज॒हीति॒ तेना॒भ्या॑यत॒ ताव॑ब्रूताम॒ग्नीषोमौ॒ मा [9]
प्र हा॑रा॒वम॒न्तस्स्व॒ इति॒ मम॒ वै यु॒वँ स्थ॒ इत्य॑ब्रवी॒न्माम॒भ्येत॒मिति॒ तौ भा॑ग॒धेय॑मैच्छेता॒न्ताभ्या॑मे॒तम॑ग्नीषो॒मीय॒मेका॑दशकपालम्पू॒र्णमा॑से॒ प्राय॑च्छ॒त्ताव॑ब्रूताम॒भि सन्द॑ष्टौ॒ वै स्वो॒ न श॑क्नुव॒ ऐतु॒मिति॒ स इन्द्र॑ आ॒त्मन॑श्शीतरू॒राव॑जनय॒त्तच्छी॑तरू॒रयो॒र्जन्म॒ य ए॒वँ शी॑तरू॒रयो॒र्जन्म॒ वेद॑ [10]
नैनँ॑ शीतरू॒रौ ह॑त॒स्ताभ्या॑मेनम॒भ्य॑नय॒त्तस्मा॑ज्जञ्ज॒भ्यमा॑नाद॒ग्नीषोमौ॒ निर॑क्रामताम्प्राणापा॒नौ वा ए॑न॒न्तद॑जहिताम्प्रा॒णो वै दक्षो॑ऽपा॒नᳵ क्रतु॒स्तस्मा॑ज्जञ्ज॒भ्यमा॑नो ब्रूया॒न्मयि॑ दक्षक्र॒तू इति॑ प्राणापा॒नावे॒वात्मन्ध॑त्ते॒ सर्व॒मायु॑रेति॒ स दे॒वता॑ वृ॒त्रान्नि॒र्हूय॒ वार्त्र॑घ्नँ ह॒विᳶ पू॒र्णमा॑से॒ निर॑वप॒द्घ्नन्ति॒ वा ए॑नम्पू॒र्णमा॑स॒ आ [11]
अ॒मा॒वा॒स्या॑याम्प्याययन्ति॒ तस्मा॒द्वार्त्र॑घ्नी पू॒र्णमा॒सेऽनू॑च्येते॒ वृध॑न्वती अमावा॒स्या॑या॒न्तत्सँ॒स्थाप्य॒ वार्त्र॑घ्नँ ह॒विर्वज्र॑मा॒दाय॒ पुन॑र॒भ्या॑यत॒ ते अ॑ब्रूता॒न्द्यावा॑पृथि॒वी मा प्र हा॑रा॒वयो॒र्वै श्रि॒त इति॒ ते अ॑ब्रूताव्ँ॒वरव्ँ॑वृणावहै॒ नक्ष॑त्रविहिता॒ऽहमसा॒नीत्य॒साव॑ब्रवीच्चि॒त्रवि॑हिता॒ऽहमिती॒यन्तस्मा॒न्नक्ष॑त्रविहिता॒ऽसौ चि॒त्रवि॑हिते॒यय्यँ ए॒वन्द्यावा॑पृथि॒व्योः [12]
वरव्ँ॒वेदैनव्ँ॒वरो॑ गच्छति॒ स आ॒भ्यामे॒व प्रसू॑त॒ इन्द्रो॑ वृ॒त्रम॑ह॒न्ते दे॒वा वृ॒त्रँ ह॒त्वाऽग्नीषोमा॑वब्रुवन्ह॒व्यन्नो॑ वहत॒मिति॒ ताव॑ब्रूता॒मप॑तेजसौ॒ वै त्यौ वृ॒त्रे वै त्ययो॒स्तेज॒ इति॒ ते॑ऽब्रुव॒न्क इ॒दमच्छै॒तीति॒ गौरित्य॑ब्रुव॒न्गौर्वाव सर्व॑स्य मि॒त्रमिति॒ साऽब्र॑वीत् [13]
वरव्ँ॑वृणै॒ मय्ये॒व स॒तोभये॑न भुनजाध्वा॒ इति॒ तद्गौराह॑र॒त्तस्मा॒द्गवि॑ स॒तोभये॑न भुञ्जत ए॒तद्वा अ॒ग्नेस्तेजो॒ यद्घृ॒तमे॒तत्सोम॑स्य॒ यत्पयो॒ य ए॒वम॒ग्नीषोम॑यो॒स्तेजो॒ वेद॑ तेज॒स्व्ये॑व भ॑वति ब्रह्मवा॒दिनो॑ वदन्ति किन्देव॒त्य॑म्पौर्णमा॒समिति॑ प्राजाप॒त्यमिति॑ ब्रूया॒त्तेनेन्द्र॑ञ्ज्ये॒ष्ठम्पु॒त्रन्नि॒रवा॑सायय॒दिति॒ तस्मा॑ज्ज्ये॒ष्ठम्पु॒त्रन्धने॑न नि॒रव॑साययन्ति ॥ [14]
इन्द्रव्ँ॑वृ॒त्रञ्ज॑घ्नि॒वाँस॒म्मृधो॒ऽभि प्रावे॑पन्त॒ स ए॒तव्ँ वै॑मृ॒धम्पू॒णमा॑सेऽनुनिर्वा॒प्य॑मपश्य॒त्तन्निर॑वप॒त्तेन॒ वै स मृधोऽपा॑हत॒ यद्वै॑मृ॒धᳶ पू॒र्णमा॑सेऽनुनिर्वा॒प्यो॑ भव॑ति॒ मृध॑ ए॒व तेन॒ यज॑मा॒नोऽप॑ हत॒ इन्द्रो॑ वृ॒त्रँ ह॒त्वा दे॒वता॑भिश्चेन्द्रि॒येण॑ च॒ व्या॑र्ध्यत॒ स ए॒तमा॑ग्ने॒यम॒ष्टाक॑पालममावा॒स्या॑यामपश्यदै॒न्द्रन्दधि॑ [15]
तन्निर॑वप॒त्तेन॒ वै स दे॒वता॑श्चेन्द्रि॒यञ्चावा॑रुन्द्ध॒ यदा॑ग्ने॒यो॑ऽष्टाक॑पालोऽमावा॒स्या॑या॒म्भव॑त्यै॒न्द्रन्दधि॑ दे॒वता॑श्चै॒व तेने॑न्द्रि॒यञ्च॒ यज॑मा॒नोऽव॑ रुन्द्ध॒ इन्द्र॑स्य वृ॒त्रञ्ज॒घ्नुष॑ इन्द्रि॒यव्ँवी॒र्य॑म्पृथि॒वीमनु॒ व्या॑र्च्छ॒त्तदोष॑धयो वी॒रुधो॑ऽभव॒न्त्स प्र॒जाप॑ति॒मुपा॑धावद्वृ॒त्रम्मे॑ ज॒घ्नुष॑ इन्द्रि॒यव्ँवी॒र्य॑म् [16]
पृ॒थि॒वीमनु॒ व्या॑र॒त्तदोष॑धयो वी॒रुधो॑ऽभूव॒न्निति॒ स प्र॒जाप॑तिᳶ प॒शून॑ब्रवीदे॒तद॑स्मै॒ सन्न॑य॒तेति॒ तत्प॒शव॒ ओष॑धी॒भ्योऽध्या॒त्मन्त्सम॑नय॒न्तत्प्रत्य॑दुह॒न्यत्स॒मन॑य॒न्तत्सा॑न्ना॒य्यस्य॑ सान्नाय्य॒त्वय्ँयत्प्र॒त्यदु॑ह॒न्तत्प्र॑ति॒धुषᳶ॑ प्रतिधु॒क्त्वँ सम॑नैषु॒ᳶ प्रत्य॑धुक्ष॒न्न तु मयि॑ श्रयत॒ इत्य॑ब्रवीदे॒तद॑स्मै [17]
शृ॒तङ्कु॑रु॒तेत्य॑ब्रवी॒त्तद॑स्मै शृ॒तम॑कुर्वन्निन्द्रि॒यव्ँवावास्मि॑न्वी॒र्य॑न्तद॑श्रय॒न्तच्छृ॒तस्य॑ शृत॒त्वँ सम॑नैषु॒ᳶ प्रत्य॑धुक्षञ्छृ॒तम॑क्र॒न्न तु मा॑ धिनो॒तीत्य॑ब्रवीदे॒तद॑स्मै॒ दधि॑ कुरु॒तेत्य॑ब्रवी॒त्तद॑स्मै॒ दध्य॑कुर्व॒न्तदे॑नमधिनो॒त्तद्द॒ध्नो द॑धि॒त्वम्ब्र॑ह्मवा॒दिनो॑ वदन्ति द॒ध्नᳶ पूर्व॑स्याव॒देय॑म् [18]
दधि॒ हि पूर्व॑ङ्क्रि॒यत॒ इत्यना॑दृत्य॒ तच्छृ॒तस्यै॒व पूर्व॒स्याव॑ द्येदिन्द्रि॒यमे॒वास्मि॑न्वी॒र्यँ॑ श्रि॒त्वा द॒ध्नोपरि॑ष्टाद्धिनोति यथापू॒र्वमुपै॑ति॒ यत्पू॒तीकै॑र्वा पर्णव॒ल्कैर्वा॑त॒ञ्च्यात्सौ॒म्यन्तद्यत्क्व॑लै राक्ष॒सन्तद्यत्त॑ण्डु॒लैर्वै॑श्वदे॒वन्तद्यदा॒तञ्च॑नेन मानु॒षन्तद्यद्द॒ध्ना तत्सेन्द्र॑न्द॒ध्ना त॑नक्ति [19]
से॒न्द्र॒त्वाया॑ग्निहोत्रोच्छेष॒णम॒भ्यात॑नक्ति य॒ज्ञस्य॒ सन्त॑त्या॒ इन्द्रो॑ वृ॒त्रँ ह॒त्वा परा॑म्परा॒वत॑मगच्छ॒दपा॑राध॒मिति॒ मन्य॑मान॒स्तन्दे॒वता॒ᳶ प्रैष॑मैच्छ॒न्त्सो॑ऽब्रवीत्प्र॒जाप॑ति॒र्यᳶ प्र॑थ॒मो॑ऽनुवि॒न्दति॒ तस्य॑ प्रथ॒मम्भा॑ग॒धेय॒मिति॒ तम्पि॒तरोऽन्व॑विन्द॒न्तस्मा॑त्पि॒तृभ्यᳶ॑ पूर्वे॒द्युᳵ क्रि॑यते॒ सो॑ऽमावा॒स्या॑म्प्रत्याग॑च्छ॒त्तन्दे॒वा अ॒भि सम॑गच्छ॒न्तामा वै नः॑ [20]
अ॒द्य वसु॑ वस॒तीतीन्द्रो॒ हि दे॒वानाव्ँ॒वसु॒ तद॑मावा॒स्या॑या अमावास्य॒त्वम्ब्र॑ह्मवा॒दिनो॑ वदन्ति किन्देव॒त्यँ॑ सान्ना॒य्यमिति॑ वैश्वदे॒वमिति॑ ब्रूया॒द्विश्वे॒ हि तद्दे॒वा भा॑ग॒धेय॑म॒भि स॒मग॑च्छ॒न्तेत्यथो॒ खल्वै॒न्द्रमित्ये॒व ब्रू॑या॒दिन्द्रव्ँ॒ वाव ते तद्भि॑ष॒ज्यन्तो॒ऽभि सम॑गच्छ॒न्तेति॑ ॥ [21]
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ स त्वै द॑र्शपूर्णमा॒सौ य॑जेत॒ य ए॑नौ॒ सेन्द्रौ॒ यजे॒तेति॑ वैमृ॒धᳶ पू॒र्णमा॑सेऽनुनिर्वा॒प्यो॑ भवति॒ तेन॑ पू॒र्णमा॑स॒स्सेन्द्र॑ ऐ॒न्द्रन्दध्य॑मावा॒स्या॑या॒न्तेना॑मावा॒स्या॑ सेन्द्रा॒ य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते॒ सेन्द्रा॑वे॒वैनौ॑ यजते॒ श्वश्श्वो॑ऽस्मा ईजा॒नाय॒ वसी॑यो भवति दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒ताम् [22]
इष्टि॑मपश्यन्नाग्नावैष्ण॒वमेका॑दशकपालँ॒ सर॑स्वत्यै च॒रुँ सर॑स्वते च॒रुन्ताम्पौ॑र्णमा॒सँ सँ॒स्थाप्यानु॒ निर॑वप॒न्ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यो भ्रातृ॑व्यवा॒न्त्स्यात्स पौ॑र्णमा॒सँ सँ॒स्थाप्यै॒तामिष्टि॒मनु॒ निर्व॑पेत्पौर्णमा॒सेनै॒व वज्र॒म्भ्रातृ॑व्याय प्र॒हृत्या॑ग्नावैष्ण॒वेन॑ दे॒वता॑श्च य॒ज्ञञ्च॒ भ्रातृ॑व्यस्य वृङ्क्ते मिथु॒नान्प॒शून्त्सा॑रस्व॒ताभ्याय्ँ॒याव॑दे॒वास्यास्ति॒ तत् [23]
सर्वव्ँ॑वृङ्क्ते पौर्णमा॒सीमे॒व य॑जेत॒ भ्रातृ॑व्यवा॒न्नामा॑वा॒स्याँ॑ ह॒त्वा भ्रातृ॑व्य॒न्ना प्या॑ययति साकम्प्रस्था॒यीये॑न यजेत प॒शुका॑मो॒ यस्मै॒ वा अल्पे॑ना॒हर॑न्ति॒ नात्मना॒ तृप्य॑ति॒ नान्यस्मै॑ ददाति॒ यस्मै॑ मह॒ता तृप्य॑त्या॒त्मना॒ ददा॑त्य॒न्यस्मै॑ मह॒ता पू॒र्णँ हो॑त॒व्य॑न्तृ॒प्त ए॒वैन॒मिन्द्रᳶ॑ प्र॒जया॑ प॒शुभि॑स्तर्पयति दारुपा॒त्रेण॑ जुहोति॒ न हि मृ॒न्मय॒माहु॑तिमान॒श औदु॑म्बरम् [24]
भ॒व॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्क्प॒शव॑ ऊ॒र्जैवास्मा॒ ऊर्ज॑म्प॒शूनव॑ रुन्द्धे॒ नाग॑तश्रीर्महे॒न्द्रय्ँय॑जेत॒ त्रयो॒ वै ग॒तश्रि॑यश्शुश्रु॒वान्ग्रा॑म॒णी रा॑ज॒न्य॑स्तेषा॑म्महे॒न्द्रो दे॒वता॒ यो वै स्वान्दे॒वता॑मति॒यज॑ते॒ प्र स्वायै॑ दे॒वता॑यै च्यवते॒ न परा॒म्प्राप्नो॑ति॒ पापी॑यान्भवति सव्ँवत्स॒रमिन्द्रय्ँ॑यजेत सव्ँवत्स॒रँ हि व्र॒तन्नाति॒ स्वा [25]
ए॒वैन॑न्दे॒वते॒ज्यमा॑ना॒ भूत्या॑ इन्द्धे॒ वसी॑यान्भवति सव्ँवत्स॒रस्य॑ प॒रस्ता॑द॒ग्नये॑ व्र॒तप॑तये पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेत् सव्ँवत्स॒रमे॒वैनव्ँ॑वृ॒त्रञ्ज॑घ्नि॒वाँस॑म॒ग्निर्व्र॒तप॑तिर्व्र॒तमा ल॑म्भयति॒ ततोऽधि॒ कामय्ँ॑यजेत ॥ [26]
नासो॑मयाजी॒ सन्न॑ये॒दना॑गतव्ँ॒वा ए॒तस्य॒ पयो॒ योऽसो॑मयाजी॒ यदसो॑मयाजी स॒न्नये॑त्परिमो॒ष ए॒व सोऽनृ॑तङ्करो॒त्यथो॒ परै॒व सि॑च्यते सोमया॒ज्ये॑व सन्न॑ये॒त्पयो॒ वै सोम॒ᳶ पय॑स्सान्ना॒य्यम्पय॑सै॒व पय॑ आ॒त्मन्ध॑त्ते॒ वि वा ए॒तम्प्र॒जया॑ प॒शुभि॑रर्धयति व॒र्धय॑त्यस्य॒ भ्रातृ॑व्यय्ँ॒यस्य॑ ह॒विर्निरु॑प्तम्पु॒रस्ता॑च्च॒न्द्रमाः॑ [27]
अ॒भ्यु॑देति॑ त्रे॒धा त॑ण्डु॒लान्वि भ॑जे॒द्ये म॑ध्य॒मास्स्युस्तान॒ग्नये॑ दा॒त्रे पु॑रो॒डाश॑म॒ष्टाक॑पालङ्कुर्या॒द्ये स्थवि॑ष्ठा॒स्तानिन्द्रा॑य प्रदा॒त्रे द॒धँश्च॒रुय्येँऽणि॑ष्ठा॒स्तान्विष्ण॑वे शिपिवि॒ष्टाय॑ शृ॒ते च॒रुम॒ग्निरे॒वास्मै॑ प्र॒जाम्प्र॑ज॒नय॑ति वृ॒द्धामिन्द्र॒ᳶ प्र य॑च्छति य॒ज्ञो वै विष्णुᳶ॑ प॒शव॒श्शिपि॑र्य॒ज्ञ ए॒व प॒शुषु॒ प्रति॑ तिष्ठति॒ न द्वे [28]
य॒जे॒त॒ यत्पूर्व॑या सम्प्र॒ति यजे॒तोत्त॑रया छ॒म्बट्कु॑र्या॒द्यदुत्त॑रया सम्प्र॒ति यजे॑त॒ पूर्व॑या छ॒म्बट्कु॑र्या॒न्नेष्टि॒र्भव॑ति॒ न य॒ज्ञस्तदनु॑ ह्रीतमु॒ख्य॑पग॒ल्भो जा॑यत॒ एका॑मे॒व य॑जेत प्रग॒ल्भो॑ऽस्य जाय॒तेऽना॑दृत्य॒ तद्द्वे ए॒व य॑जेत यज्ञमु॒खमे॒व पूर्व॑या॒लभ॑ते॒ यज॑त॒ उत्त॑रया दे॒वता॑ ए॒व पूर्व॑यावरु॒न्द्ध इ॑न्द्रि॒यमुत्त॑रया देवलो॒कमे॒व [29]
पूर्व॑याभि॒जय॑ति मनुष्यलो॒कमुत्त॑रया॒ भूय॑सो यज्ञक्र॒तूनुपै॑त्ये॒षा वै सु॒मना॒ नामेष्टि॒र्यम॒द्येजा॒नम्प॒श्चाच्च॒न्द्रमा॑ अ॒भ्यु॑देत्य॒स्मिन्ने॒वास्मै॑ लो॒केऽर्धु॑कम्भवति दाक्षायणय॒ज्ञेन॑ सुव॒र्गका॑मो यजेत पू॒र्णमा॑से॒ सन्न॑येन्मैत्रावरु॒ण्याऽऽमिक्ष॑यामावा॒स्या॑याय्ँयजेत पू॒र्णमा॑से॒ वै दे॒वानाँ॑ सु॒तस्तेषा॑मे॒तम॑र्धमा॒सम्प्रसु॑त॒स्तेषा॑म्मैत्रावरु॒णी व॒शामा॑वा॒स्या॑यामनूब॒न्ध्या॑ यत् [30]
पू॒र्वे॒द्युर्यज॑ते॒ वेदि॑मे॒व तत्क॑रोति॒ यद्व॒त्सान॑पाक॒रोति॑ सदोहविर्धा॒ने ए॒व सम्मि॑नोति॒ यद्यज॑ते दे॒वैरे॒व सु॒त्याँ सम्पा॑दयति॒ स ए॒तम॑र्धमा॒सँ स॑ध॒माद॑न्दे॒वैस्सोम॑म्पिबति॒ यन्मै॑त्रावरु॒ण्यामि॑क्षयामावा॒स्या॑याय्ँ॒यज॑ते॒ यैवासौ दे॒वानाव्ँ॑व॒शानू॑ब॒न्ध्या॑ सो ए॒वैषैतस्य॑ सा॒क्षाद्वा ए॒ष दे॒वान॒भ्यारो॑हति॒ य ए॑षाय्ँ य॒ज्ञम् [31]
अ॒भ्या॒रोह॑ति॒ यथा॒ खलु॒ वै श्रेया॑न॒भ्यारू॑ढᳵ का॒मय॑ते॒ तथा॑ करोति॒ यद्य॑व॒विध्य॑ति॒ पापी॑यान्भवति॒ यदि॒ नाव॒विध्य॑ति स॒दृङ्व्या॒वृत्का॑म ए॒तेन॑ य॒ज्ञेन॑ यजेत क्षु॒रप॑वि॒र्ह्ये॑ष य॒ज्ञस्ता॒जक्पुण्यो॑ वा॒ भव॑ति॒ प्र वा॑ मीयते॒ तस्यै॒तद्व्र॒तन्नानृ॑तव्ँवदे॒न्न माँ॒सम॑श्ञीया॒न्न स्त्रिय॒मुपे॑या॒न्नास्य॒ पल्पू॑लनेन॒ वासᳶ॑ पल्पूलयेयुरे॒तद्धि दे॒वास्सर्व॒न्न कु॒र्वन्ति॑ ॥ [32]
ए॒ष वै दे॑वर॒थो यद्द॑र्शपूर्णमा॒सौ यो द॑र्शपूर्णमा॒सावि॒ष्ट्वा सोमे॑न॒ यज॑ते॒ रथ॑स्पष्ट ए॒वाव॒साने॒ वरे॑ दे॒वाना॒मव॑ स्यत्ये॒तानि॒ वा अङ्गा॒परूँ॑षि सव्ँवत्स॒रस्य॒ यद्द॑र्शपूर्णमा॒सौ य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॒तेऽङ्गा॒परूँ॑ष्ये॒व सव्ँ॑वत्स॒रस्य॒ प्रति॑ दधात्ये॒ते वै सव्ँ॑वत्स॒रस्य॒ चक्षु॑षी॒ यद्द॑र्शपूर्णमा॒सौ य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते॒ ताभ्या॑मे॒व सु॑व॒र्गल्ँ लो॒कमनु॑ पश्यति [33]
ए॒षा वै दे॒वानाव्ँ॒विक्रा॑न्ति॒र्यद्द॑र्शपूर्णमा॒सौ य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते दे॒वाना॑मे॒व विक्रा॑न्ति॒मनु॒ वि क्र॑मत ए॒ष वै दे॑व॒यान॒ᳶ पन्था॒ यद्द॑र्शपूर्णमा॒सौ य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते॒ य ए॒व दे॑व॒यान॒ᳶ पन्था॒स्तँ स॒मारो॑हत्ये॒तौ वै दे॒वानाँ॒ हरी॒ यद्द॑र्शपूर्णमा॒सौ य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते॒ यावे॒व दे॒वानाँ॒ हरी॒ ताभ्या॑म् [34]
ए॒वैभ्यो॑ ह॒व्यव्ँव॑हत्ये॒तद्वै दे॒वाना॑मा॒स्यय्ँ॑यद्द॑र्शपूर्णमा॒सौ य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते सा॒क्षादे॒व दे॒वाना॑मा॒स्ये॑ जुहोत्ये॒ष वै ह॑विर्धा॒नी यो द॑र्शपूर्णमासया॒जी सा॒यम्प्रा॑तरग्निहो॒त्रञ्जु॑होति॒ यज॑ते दर्शपूर्णमा॒सावह॑रहर्हविर्धा॒निनाँ॑ सु॒तो य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते हविर्धा॒न्य॑स्मीति॒ सर्व॑मे॒वास्य॑ बर्हि॒ष्य॑न्द॒त्तम्भ॑वति दे॒वा वा अहः॑ [35]
य॒ज्ञिय॒न्नावि॑न्द॒न्ते द॑र्शपूर्णमा॒साव॑पुन॒न्तौ वा ए॒तौ पू॒तौ मेध्यौ॒ यद्द॑र्शपूर्णमा॒सौ य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते पू॒तावे॒वैनौ॒ मेध्यौ॑ यजते॒ नामा॑वा॒स्या॑याञ्च पौर्णमा॒स्याञ्च॒ स्त्रिय॒मुपे॑या॒द्यदु॑पे॒यान्निरि॑न्द्रियस्स्या॒त्सोम॑स्य॒ वै राज्ञो॑ऽर्धमा॒सस्य॒ रात्र॑य॒ᳶ पत्न॑य आस॒न्तासा॑ममावा॒स्या॑ञ्च पौर्णमा॒सीञ्च॒ नोपै॑त् [36]
ते ए॑नम॒भि सम॑नह्येता॒न्तय्ँयक्ष्म॑ आर्च्छ॒द्राजा॑नय्ँ॒यक्ष्म॑ आर॒दिति॒ तद्रा॑जय॒क्ष्मस्य॒ जन्म॒ यत्पापी॑या॒नभ॑व॒त्तत्पा॑पय॒क्ष्मस्य॒ यज्जा॒याभ्या॒मवि॑न्द॒त्तज्जा॒येन्य॑स्य॒ य ए॒वमे॒तेषाय्ँ॒यक्ष्मा॑णा॒ञ्जन्म॒ वेद॒ नैन॑मे॒ते यक्ष्मा॑ विन्दन्ति॒ स ए॒ते ए॒व न॑म॒स्यन्नुपा॑धाव॒त्ते अ॑ब्रूताव्ँ॒वरव्ँ॑वृणावहा आ॒वन्दे॒वाना॑म्भाग॒धे अ॑साव [37]
आ॒वदधि॑ दे॒वा इ॑ज्यान्ता॒ इति॒ तस्मा॑त्स॒दृशी॑नाँ॒ रात्री॑णाममावा॒स्या॑याञ्च पौर्णमा॒स्याञ्च॑ दे॒वा इ॑ज्यन्त ए॒ते हि दे॒वाना॑म्भाग॒धे भा॑ग॒धा अ॑स्मै मनु॒ष्या॑ भवन्ति॒ य ए॒वव्ँ वेद॑ भू॒तानि॒ क्षुध॑मघ्नन्त्स॒द्यो म॑नु॒ष्या॑ अर्धमा॒से दे॒वा मा॒सि पि॒तर॑स्सव्ँवत्स॒रे वन॒स्पत॑य॒स्तस्मा॒दह॑रहर्मनु॒ष्या॑ अश॑नमिच्छन्तेऽर्धमा॒से दे॒वा इ॑ज्यन्ते मा॒सि पि॒तृभ्य॑ᳵ क्रियते सव्ँवत्स॒रे वन॒स्पत॑य॒ᳶ फल॑ङ्गृह्णन्ति॒ य ए॒वव्ँ वेद॒ हन्ति॒ क्षुध॒म्भ्रातृ॑व्यम् ॥ [38]
दे॒वा वै नर्चि न यजु॑ष्यश्रयन्त॒ ते साम॑न्ने॒वाश्र॑यन्त॒ हिङ्क॑रोति॒ सामै॒वाक॒र्हिङ्क॑रोति॒ यत्रै॒व दे॒वा अश्र॑यन्त॒ तत॑ ए॒वैना॒न्प्र यु॑ङ्क्ते॒ हिङ्क॑रोति वा॒च ए॒वैष योगो॒ हिङ्क॑रोति प्र॒जा ए॒व तद्यज॑मानस्सृजते॒ त्रिᳶ प्र॑थ॒मामन्वा॑ह॒ त्रिरु॑त्त॒माय्यँ॒ज्ञस्यै॒व तद्ब॒र्सम् [39]
न॒ह्य॒त्यप्र॑स्रँसाय॒ सन्त॑त॒मन्वा॑ह प्रा॒णाना॑म॒न्नाद्य॑स्य॒ सन्त॑त्या॒ अथो॒ रक्ष॑सा॒मप॑हत्यै॒ राथ॑न्तरीम्प्रथ॒मामन्वा॑ह॒ राथ॑न्तरो॒ वा अ॒यल्ँ लो॒क इ॒ममे॒व लो॒कम॒भि ज॑यति॒ त्रिर्वि गृ॑ह्णाति॒ त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान॒भि ज॑यति॒ बार्ह॑तीमुत्त॒मामन्वा॑ह॒ बार्ह॑तो॒ वा अ॒सौ लो॒को॑ऽमुमे॒व लो॒कम॒भि ज॑यति॒ प्र वः॑ [40]
वाजा॒ इत्यनि॑रुक्ताम्प्राजाप॒त्यामन्वा॑ह य॒ज्ञो वै प्र॒जाप॑तिर्य॒ज्ञमे॒व प्र॒जाप॑ति॒मा र॑भते॒ प्र वो॒ वाजा॒ इत्यन्वा॒हान्नव्ँ॒ वै वाजोऽन्न॑मे॒वाव॑ रुन्द्धे॒ प्र वो॒ वाजा॒ इत्यन्वा॑ह॒ तस्मा॑त्प्रा॒चीनँ॒ रेतो॑ धीय॒तेऽग्न॒ आ या॑हि वी॒तय॒ इत्या॑ह॒ तस्मा॑त्प्र॒तीचीः॑ प्र॒जा जा॑यन्ते॒ प्र वो॒ वाजाः॑ [41]
इत्यन्वा॑ह॒ मासा॒ वै वाजा॑ अर्धमा॒सा अ॒भिद्य॑वो दे॒वा ह॒विष्म॑न्तो॒ गौर्घृ॒ताची॑ य॒ज्ञो दे॒वाञ्जि॑गाति॒ यज॑मानस्सुम्न॒युरि॒दम॑सी॒दम॒सीत्ये॒व य॒ज्ञस्य॑ प्रि॒यन्धामाव॑ रुन्द्धे॒ यङ्का॒मये॑त॒ सर्व॒मायु॑रिया॒दिति॒ प्र वो॒ वाजा॒ इति॒ तस्या॒नूच्याग्न॒ आ या॑हि वी॒तय॒ इति॒ सन्त॑त॒मुत्त॑रमर्ध॒र्चमा ल॑भेत [42]
प्रा॒णेनै॒वास्या॑पा॒नन्दा॑धार॒ सर्व॒मायु॑रेति॒ यो वा अ॑र॒त्निँ सा॑मिधे॒नीनाव्ँ॒वेदा॑र॒त्नावे॒व भ्रातृ॑व्यङ्कुरुतेऽर्ध॒र्चौ सन्द॑धात्ये॒ष वा अ॑र॒त्निस्सा॑मिधे॒नीनाय्ँ॒य ए॒वव्ँ वेदा॑र॒त्नावे॒व भ्रातृ॑व्यङ्कुरुत॒ ऋषे॑र्ऋषे॒र्वा ए॒ता निर्मि॑ता॒ यत्सा॑मिधे॒न्य॑स्ता यदसय्ँ॑युक्ता॒स्स्युᳶ प्र॒जया॑ प॒शुभि॒र्यज॑मानस्य॒ वि ति॑ष्ठेरन्नर्ध॒र्चौ सन्द॑धाति॒ सय्ँयु॑नक्त्ये॒वैना॒स्ता अ॑स्मै॒ सय्ँयु॑क्ता॒ अव॑रुद्धा॒स्सर्वा॑मा॒शिष॑न्दुह्रे ॥43॥
अय॑ज्ञो॒ वा ए॒ष यो॑ऽसा॒माऽग्न॒ आ या॑हि वी॒तय॒ इत्या॑ह रथन्त॒रस्यै॒ष वर्ण॒स्तन्त्वा॑ स॒मिद्भि॑रङ्गिर॒ इत्या॑ह वामदे॒व्यस्यै॒ष वर्णो॑ बृ॒हद॑ग्ने सु॒वीर्य॒मित्या॑ह बृह॒त ए॒ष वर्णो॒ यदे॒तन्तृ॒चम॒न्वाह॑ य॒ज्ञमे॒व तत्साम॑न्वन्तङ्करोत्य॒ग्निर॒मुष्मिल्ँ॑ लो॒क आसी॑दादि॒त्यो॑ऽस्मिन्तावि॒मौ लो॒कावशा॑न्तौ [44]
आ॒स्ता॒न्ते दे॒वा अ॑ब्रुव॒न्नेते॒मौ वि पर्यू॑हा॒मेत्यग्न॒ आ या॑हि वी॒तय॒ इत्य॒स्मिल्लोँ॒के॑ऽग्निम॑दधुर्बृ॒हद॑ग्ने सु॒वीर्य॒मित्य॒मुष्मिल्ँ॑ लो॒क आ॑दि॒त्यन्ततो॒ वा इ॒मौ लो॒काव॑शाम्यताय्ँ॒यदे॒वम॒न्वाहा॒नयो॑र्लो॒कयो॒श्शान्त्यै॒ शाम्य॑तोऽस्मा इ॒मौ लो॒कौ य ए॒वव्ँ वेद॒ पञ्च॑दश सामिधे॒नीरन्वा॑ह॒ पञ्च॑दश [45]
वा अ॑र्धमा॒सस्य॒ रात्र॑योऽर्धमास॒शस्सव्ँ॑वत्स॒र आ॑प्यते॒ तासा॒न्त्रीणि॑ च श॒तानि॑ ष॒ष्टिश्चा॒क्षरा॑णि॒ ताव॑तीस्सव्ँवत्स॒रस्य॒ रात्र॑योऽक्षर॒श ए॒व सव्ँ॑वत्स॒रमा॑प्नोति नृ॒मेध॑श्च॒ परु॑च्छेपश्च ब्रह्म॒वाद्य॑मवदेताम॒स्मिन्दारा॑वा॒र्द्रे॑ऽग्निञ्ज॑नयाव यत॒रो नौ॒ ब्रह्मी॑या॒निति॑ नृ॒मेधो॒ऽभ्य॑वद॒त्स धू॒मम॑जनय॒त्परु॑च्छेपो॒ऽभ्य॑वद॒त्सो॑ऽग्निम॑जनय॒दृष॒ इत्य॑ब्रवीत् [46]
यत्स॒माव॑द्वि॒द्व क॒था त्वम॒ग्निमजी॑जनो॒ नाहमिति॑ सामिधे॒नीना॑मे॒वाहव्ँवर्णव्ँ॑वे॒देत्य॑ब्रवी॒द्यद्घृ॒तव॑त्प॒दम॑नू॒च्यते॒ स आ॑साव्ँ॒वर्ण॒स्तन्त्वा॑ स॒मिद्भि॑रङ्गिर॒ इत्या॑ह सामिधे॒नीष्वे॒व तज्ज्योति॑र्जनयति॒ स्त्रिय॒स्तेन॒ यदृच॒स्स्त्रिय॒स्तेन॒ यद्गा॑य॒त्रिय॒स्स्त्रिय॒स्तेन॒ यत्सा॑मिधे॒न्यो॑ वृष॑ण्वती॒मन्वा॑ह [47]
तेन॒ पुँस्व॑ती॒स्तेन॒ सेन्द्रा॒स्तेन॑ मिथु॒ना अ॒ग्निर्दे॒वाना॑न्दू॒त आसी॑दु॒शना॑ का॒व्योऽसु॑राणा॒न्तौ प्र॒जाप॑तिम्प्र॒श्ञमै॑ताँ॒ स प्र॒जाप॑तिर॒ग्निन्दू॒तव्ँवृ॑णीमह॒ इत्य॒भि प॒र्याव॑र्तत॒ ततो॑ दे॒वा अभ॑वन्प॒रासु॑रा॒ यस्यै॒वव्ँवि॒दुषो॒ऽग्निन्दू॒तव्ँवृ॑णीमह॒ इत्य॒न्वाह॒ भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवत्यध्व॒रव॑ती॒मन्वा॑ह॒ भ्रातृ॑व्यमे॒वैतया॑ [48]
ध्व॒र॒ति॒ शो॒चिष्के॑श॒स्तमी॑मह॒ इत्या॑ह प॒वित्र॑मे॒वैतद्यज॑मानमे॒वैतया॑ पवयति॒ समि॑द्धो अग्न आहु॒तेत्या॑ह परि॒धिमे॒वैतम्परि॑ दधा॒त्यस्क॑न्दाय॒ यदत॑ ऊ॒र्ध्वम॑भ्याद॒ध्याद्यथा॑ बहिᳶपरि॒धि स्कन्द॑ति ता॒दृगे॒व तत्त्रयो॒ वा अ॒ग्नयो॑ हव्य॒वाह॑नो दे॒वाना॑ङ्कव्य॒वाह॑नᳶ पितृ॒णाँ स॒हर॑क्षा॒ असु॑राणा॒न्त ए॒तर्ह्या शँ॑सन्ते॒ माव्ँव॑रिष्यते॒ माम् [49]
इति॑ वृणी॒ध्वँ ह॑व्य॒वाह॑न॒मित्या॑ह॒ य ए॒व दे॒वाना॒न्तव्ँवृ॑णीत आर्षे॒यव्ँवृ॑णीते॒ बन्धो॑रे॒व नैत्यथो॒ सन्त॑त्यै प॒रस्ता॑द॒र्वाचो॑ वृणीते॒ तस्मा॑त्प॒रस्ता॑द॒र्वाञ्चो॑ मनु॒ष्या॑न्पित॒रोऽनु॒ प्र पि॑पते ॥ [50]
अग्ने॑ म॒हाँ अ॒सीत्या॑ह म॒हान्ह्ये॑ष यद॒ग्निर्ब्रा॑ह्म॒णेत्या॑ह ब्राह्म॒णो ह्ये॑ष भा॑र॒तेत्या॑है॒ष हि दे॒वेभ्यो॑ ह॒व्यम्भर॑ति दे॒वेद्ध॒ इत्या॑ह दे॒वा ह्ये॑तमैन्ध॑त॒ मन्वि॑द्ध॒ इत्या॑ह॒ मनु॒र्ह्ये॑तमुत्त॑रो दे॒वेभ्य॒ ऐन्द्धर्षि॑ष्टुत॒ इत्या॒हर्ष॑यो॒ ह्ये॑तमस्तु॑व॒न्विप्रा॑नुमदित॒ इत्या॑ह [51]
विप्रा॒ ह्ये॑ते यच्छु॑श्रु॒वाँस॑ᳵ कविश॒स्त इत्या॑ह क॒वयो॒ ह्ये॑ते यच्छु॑श्रु॒वाँसो॒ ब्रह्म॑सँशित॒ इत्या॑ह॒ ब्रह्म॑सँशितो॒ ह्ये॑ष घृ॒ताह॑वन॒ इत्या॑ह घृताहु॒तिर्ह्य॑स्य प्रि॒यत॑मा प्र॒णीर्य॒ज्ञाना॒मित्या॑ह प्र॒णीर्ह्ये॑ष य॒ज्ञानाँ॑ र॒थीर॑ध्व॒राणा॒मित्या॑है॒ष हि दे॑वर॒थो॑ऽतूर्तो॒ होतेत्या॑ह॒ न ह्ये॑तङ्कश्च॒न [52]
तर॑ति॒ तूर्णि॑र्हव्य॒वाडित्या॑ह॒ सर्वँ॒ ह्ये॑ष तर॒त्यास्पात्र॑ञ्जु॒हूर्दे॒वाना॒मित्या॑ह जु॒हूर्ह्ये॑ष दे॒वाना॑ञ्चम॒सो दे॑व॒पान॒ इत्या॑ह चम॒सो ह्ये॑ष दे॑व॒पानो॒ऽराँ इ॑वाग्ने ने॒मिर्दे॒वाँ स्त्वम्प॑रि॒भूर॒सीत्या॑ह दे॒वान्ह्ये॑ष प॑रि॒भूर्यद्ब्रू॒यादा व॑ह दे॒वान्दे॑वय॒ते यज॑माना॒येति॒ भ्रातृ॑व्यमस्मै [53]
ज॒न॒ये॒दा व॑ह दे॒वान्यज॑माना॒येत्या॑ह॒ यज॑मानमे॒वैतेन॑ वर्धयत्य॒ग्निम॑ग्न॒ आ व॑ह॒ सोम॒मा व॒हेत्या॑ह दे॒वता॑ ए॒व तद्य॑थापू॒र्वमुप॑ ह्वयत॒ आ चा॑ग्ने दे॒वान्वह॑ सु॒यजा॑ च यज जातवेद॒ इत्या॑हा॒ग्निमे॒व तत्सँ श्य॑ति॒ सो॑ऽस्य॒ सँशि॑तो दे॒वेभ्यो॑ ह॒व्यव्ँव॑हत्य॒ग्निर्होता॑ [54]
इत्या॑हा॒ग्निर्वै दे॒वानाँ॒ होता॒ य ए॒व दे॒वानाँ॒ होता॒ तव्ँवृ॑णीते॒ स्मो व॒यमित्या॑हा॒त्मान॑मे॒व स॒त्त्वङ्ग॑मयति सा॒धु ते॑ यजमान दे॒वतेत्या॑हा॒शिष॑मे॒वैतामा शा॑स्ते॒ यद्ब्रू॒याद्यो॑ऽग्निँ होता॑र॒मवृ॑था॒ इत्य॒ग्निनो॑भ॒यतो॒ यज॑मान॒म्परि॑ गृह्णीयात्प्र॒मायु॑कस्स्याद्यजमानदेव॒त्या॑ वै जु॒हूर्भ्रा॑तृव्यदेव॒त्यो॑प॒भृत् [55]
यद्द्वे इ॑व ब्रू॒याद्भ्रातृ॑व्यमस्मै जनयेद्घृ॒तव॑तीमध्वर्यो॒ स्रुच॒मास्य॒स्वेत्या॑ह॒ यज॑मानमे॒वैतेन॑ वर्धयति देवा॒युव॒मित्या॑ह दे॒वान्ह्ये॑षाव॑ति वि॒श्ववा॑रा॒मित्या॑ह॒ विश्वँ॒ ह्ये॑षाव॒तीडा॑महै दे॒वाँ ई॒डेन्या॑न्नम॒स्याम॑ नम॒स्या॑न्यजा॑म य॒ज्ञिया॒नित्या॑ह मनु॒ष्या॑ वा ई॒डेन्याः॑ पि॒तरो॑ नम॒स्या॑ दे॒वा य॒ज्ञिया॑ दे॒वता॑ ए॒व तद्य॑थाभा॒गय्ँय॑जति ॥ [56]
त्रीँ स्तृ॒चाननु॑ ब्रूयाद्राज॒न्य॑स्य॒ त्रयो॒ वा अ॒न्ये रा॑ज॒न्या॑त्पुरु॑षा ब्राह्म॒णो वैश्य॑श्शू॒द्रस्ताने॒वास्मा॒ अनु॑कान्करोति॒ पञ्च॑द॒शानु॑ ब्रूयाद्राज॒न्य॑स्य पञ्चद॒शो वै रा॑ज॒न्य॑स्स्व ए॒वैनँ॒ स्तोमे॒ प्रति॑ ष्ठापयति त्रि॒ष्टुभा॒ परि॑ दध्यादिन्द्रि॒यव्ँ वै त्रि॒ष्टुगि॑न्द्रि॒यका॑म॒ᳵ खलु॒ वै रा॑ज॒न्यो॑ यजते त्रि॒ष्टुभै॒वास्मा॑ इन्द्रि॒यम्परि॑ गृह्णाति॒ यदि॑ का॒मये॑त [57]
ब्र॒ह्म॒व॒र्च॒सम॒स्त्विति॑ गायत्रि॒या परि॑ दध्याद्ब्रह्मवर्च॒सव्ँ वै गा॑य॒त्री ब्र॑ह्मवर्च॒समे॒व भ॑वति स॒प्तद॒शानु॑ ब्रूया॒द्वैश्य॑स्य सप्तद॒शो वै वैश्य॒स्स्व ए॒वैनँ॒ स्तोमे॒ प्रति॑ ष्ठापयति॒ जग॑त्या॒ परि॑ दध्या॒ज्जाग॑ता॒ वै प॒शवᳶ॑ प॒शुका॑म॒ᳵ खलु॒ वै वैश्यो॑ यजते॒ जग॑त्यै॒वास्मै॑ प॒शून्परि॑ गृह्णा॒त्येक॑विँशति॒मनु॑ ब्रूयात्प्रति॒ष्ठाका॑मस्यैकविँ॒शस्स्तोमा॑नाम्प्रति॒ष्ठा प्रति॑ष्ठित्यै [58]
चतु॑र्विँशति॒मनु॑ ब्रूयाद्ब्रह्मवर्च॒सका॑मस्य॒ चतु॑र्विँशत्यक्षरा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सङ्गायत्रि॒यैवास्मै॑ ब्रह्मवर्च॒समव॑ रुन्द्धे त्रिँ॒शत॒मनु॑ ब्रूया॒दन्न॑कामस्य त्रिँ॒शद॑क्षरा वि॒राडन्नव्ँ॑वि॒राड्वि॒राजै॒वास्मा॑ अ॒न्नाद्य॒मव॑ रुन्द्धे॒ द्वात्रिँ॑शत॒मनु॑ब्रूयात्प्रति॒ष्ठाका॑मस्य॒ द्वात्रिँ॑शदक्षराऽनु॒ष्टु॑गनु॒ष्टुप्छन्द॑साम्प्रति॒ष्ठा प्रति॑ष्ठित्यै॒ षट्त्रिँ॑शत॒मनु॑ ब्रूयात्प॒शुका॑मस्य॒ षट्त्रिँ॑शदक्षरा बृह॒ती बार्ह॑ताᳶ प॒शवो॑ बृह॒त्यैवास्मै॑ प॒शून् [59]
अव॑ रुन्द्धे॒ चतु॑श्चत्वारिँशत॒मनु॑ ब्रूयादिन्द्रि॒यका॑मस्य॒ चतु॑श्चत्वारिँशदक्षरा त्रि॒ष्टुगि॑न्द्रि॒यन्त्रि॒ष्टुप्त्रि॒ष्टुभै॒वास्मा॑ इन्द्रि॒यमव॑ रुन्द्धे॒ऽष्टाच॑त्वारिँशत॒मनु॑ ब्रूयात्प॒शुका॑मस्या॒ष्टाच॑त्वारिँशदक्षरा॒ जग॑ती॒ जाग॑ताᳶ प॒शवो॒ जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुन्द्धे॒ सर्वा॑णि॒ छन्दाँ॒स्यनु॑ ब्रूयाद्बहुया॒जिन॒स्सर्वा॑णि॒ वा ए॒तस्य॒ छन्दाँ॒स्यव॑रुन्द्धानि॒ यो ब॑हुया॒ज्यप॑रिमित॒मनु॑ ब्रूया॒दप॑रिमित॒स्याव॑रुद्ध्यै ॥ [60]
निवी॑तम्मनु॒ष्या॑णाम्प्राचीनावी॒तम्पि॑तृ॒णामुप॑वीतन्दे॒वाना॒मुप॑ व्ययते देवल॒क्ष्ममे॒व तत्कु॑रुते॒ तिष्ठ॒न्नन्वा॑ह॒ तिष्ठ॒न् ह्याश्रु॑ततरव्ँ॒वद॑ति॒ तिष्ठ॒न्नन्वा॑ह सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्या॒ आसी॑नो यजत्य॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठति॒ यत्क्रौ॒ञ्चम॒न्वाहा॑सु॒रन्तद्यन्म॒न्द्रम्मा॑नु॒षन्तद्यद॑न्त॒रा तत्सदे॑वमन्त॒रानूच्यँ॑ सदेव॒त्वाय॑ वि॒द्वाँसो॒ वै [61]
पु॒रा होता॑रोऽभूव॒न्तस्मा॒द्विधृ॑ता॒ अध्वा॒नोऽभू॑व॒न्न पन्था॑न॒स्सम॑रुक्षन्नन्तर्वे॒द्य॑न्यᳶ पादो॒ भव॑ति बहिर्वे॒द्य॑न्योऽथान्वा॒हाध्व॑नाव्ँ॒विधृ॑त्यै प॒थामसँ॑रोहा॒याथो॑ भू॒तञ्चै॒व भ॑वि॒ष्यच्चाव॑ रु॒न्द्धेऽथो॒ परि॑मितञ्चै॒वाप॑रिमित॒ञ्चाव॑ रु॒न्द्धेऽथो॑ ग्रा॒म्याँश्चै॒व प॒शूना॑र॒ण्याँश्चाव॑ रु॒न्द्धेऽथो॑ [62]
दे॒व॒लो॒कञ्चै॒व म॑नुष्यलो॒कञ्चा॒भि ज॑यति दे॒वा वै सा॑मिधे॒नीर॒नूच्य॑ य॒ज्ञन्नान्व॑पश्य॒न्त्स प्र॒जाप॑तिस्तू॒ष्णीमा॑घा॒रमाघा॑रय॒त्ततो॒ वै दे॒वा य॒ज्ञमन्व॑पश्य॒न्यत्तू॒ष्णीमा॑घा॒रमा॑घा॒रय॑ति य॒ज्ञस्यानु॑ख्यात्या॒ अथो॑ सामिधे॒नीरे॒वाभ्य॑न॒क्त्यलू॑क्षो भवति॒ य ए॒वव्ँ वेदाथो॑ त॒र्पय॑त्ये॒वैना॒स्तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ [63]
य ए॒वव्ँ वेद॒ यदेक॑याघा॒रये॒देका॑म्प्रीणीया॒द्यद्द्वाभ्या॒न्द्वे प्री॑णीया॒द्यत्ति॒सृभि॒रति॒ तद्रे॑चये॒न्मन॒सा घा॑रयति॒ मन॑सा॒ ह्यना॑प्तमा॒प्यते॑ ति॒र्यञ्च॒मा घा॑रय॒त्यछ॑म्बट्कारव्ँ॒वाक्च॒ मन॑श्चार्तीयेताम॒हन्दे॒वेभ्यो॑ ह॒व्यव्ँव॑हा॒मीति॒ वाग॑ब्रवीद॒हन्दे॒वेभ्य॒ इति॒ मन॒स्तौ प्र॒जाप॑तिम्प्र॒श्ञमै॑ताँ॒ सो॑ऽब्रवीत् [64]
प्र॒जाप॑तिर्दू॒तीरे॒व त्वम्मन॑सोऽसि॒ यद्धि मन॑सा॒ ध्याय॑ति॒ तद्वा॒चा वद॒तीति॒ तत्खलु॒ तुभ्य॒न्न वा॒चा जु॑हव॒न्नित्य॑ब्रवी॒त्तस्मा॒न्मन॑सा प्र॒जाप॑तये जुह्वति॒ मन॑ इव॒ हि प्र॒जाप॑तिᳶ प्र॒जाप॑ते॒राप्त्यै॑ परि॒धीन्त्सम्मा॑र्ष्टि पु॒नात्ये॒वैना॒न्त्रिर्म॑ध्य॒मन्त्रयो॒ वै प्रा॒णाᳶ प्रा॒णाने॒वाभि ज॑यति॒ त्रिर्द॑क्षिणा॒र्ध्य॑न्त्रयः॑ [65]
इ॒मे लो॒का इ॒माने॒व लो॒कान॒भि ज॑यति॒ त्रिरु॑त्तरा॒र्ध्य॑न्त्रयो॒ वै दे॑व॒याना॒ᳶ पन्था॑न॒स्ताने॒वाभि ज॑यति॒ त्रिरुप॑ वाजयति॒ त्रयो॒ वै दे॑वलो॒का दे॑वलो॒काने॒वाभि ज॑यति॒ द्वाद॑श॒ सम्प॑द्यन्ते॒ द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रस्सव्ँ॑वत्स॒रमे॒व प्री॑णा॒त्यथो॑ सव्ँवत्स॒रमे॒वास्मा॒ उप॑ दधाति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्या आघा॒रमा घा॑रयति ति॒र इ॑व [66]
वै सु॑व॒र्गो लो॒कस्सु॑व॒र्गमे॒वास्मै॑ लो॒कम्प्र रो॑यत्यृ॒जुमा घा॑रयत्यृ॒जुरि॑व॒ हि प्रा॒णस्सन्त॑त॒मा घा॑रयति प्रा॒णाना॑म॒न्नाद्य॑स्य॒ सन्त॑त्या॒ अथो॒ रक्ष॑सा॒मप॑हत्यै॒ यङ्का॒मये॑त प्र॒मायु॑कस्स्या॒दिति॑ जि॒ह्मन्तस्या घा॑रयेत्प्रा॒णमे॒वास्मा॑ज्जि॒ह्मन्न॑यति ता॒जक्प्र मी॑यते॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यदा॑घा॒र आ॒त्मा ध्रु॒वा [67]
आ॒घा॒रमा॒घार्य॑ ध्रु॒वाँ सम॑नक्त्या॒त्मन्ने॒व य॒ज्ञस्य॒ शिर॒ᳶ प्रति॑ दधात्य॒ग्निर्दे॒वाना॑न्दू॒त आसी॒द्दैव्योऽसु॑राणा॒न्तौ प्र॒जाप॑तिम्प्र॒श्ञमैताँ॒ स प्र॒जाप॑तिर्ब्राह्म॒णम॑ब्रवीदे॒तद्वि ब्रू॒हीत्या श्रा॑व॒येती॒दन्दे॑वाश्शृणु॒तेति॒ वाव तद॑ब्रवीद॒ग्निर्दे॒वो होतेति॒ य ए॒व दे॒वाना॒न्तम॑वृणीत॒ ततो॑ दे॒वाः [68]
अभ॑व॒न्परा॑सुरा॒ यस्यै॒वव्ँवि॒दुषᳶ॑ प्रव॒रम्प्र॑वृ॒णते॒ भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति॒ यद्ब्रा॑ह्म॒णश्चाब्रा॑ह्मणश्च प्र॒श्ञमे॒याता॑म्ब्राह्म॒णायाधि॑ ब्रूया॒द्यद्ब्रा॑ह्म॒णाया॒ध्याहा॒त्मनेऽध्या॑ह॒ यद्ब्रा॑ह्म॒णम्प॒राहा॒त्मन॒म्परा॑ह॒ तस्मा॑द्ब्राह्म॒णो न प॒रोच्यः॑ ॥ [69]
आयु॑ष्ट आयु॒र्दा अ॑ग्न॒ आ प्या॑यस्व॒ सन्तेऽव॑ ते॒ हेड॒ उदु॑त्त॒मम्प्र णो॑ दे॒व्या नो॑ दि॒वोऽग्ना॑विष्णू॒ अग्ना॑विष्णू इ॒मम्मे॑ वरुण॒ तत्त्वा॑ या॒म्युदु॒ त्यञ्चि॒त्रम् । अ॒पान्नपा॒दा ह्यस्था॑दु॒पस्थ॑ञ्जि॒ह्माना॑मू॒र्ध्वो वि॒द्युतव्ँ॒वसा॑नः । तस्य॒ ज्येष्ठ॑म्महि॒मानव्ँ॒वह॑न्ती॒र्हिर॑ण्यवर्णा॒ᳶ परि॑ यन्ति य॒ह्वीः । सम् [70]
अ॒न्या यन्त्युप॑ यन्त्य॒न्यास्स॑मा॒नमू॒र्वन्न॒द्यᳶ॑ पृणन्ति । तमू॒ शुचिँ॒ शुच॑यो दीदि॒वाँस॑म॒पान्नपा॑त॒म्परि॑ तस्थु॒रापः॑ । तमस्मे॑रा युव॒तयो॒ युवा॑नम्मर्मृ॒ज्यमा॑ना॒ᳶ परि॑ य॒न्त्यापः॑ । स शु॒क्रेण॒ शिक्व॑ना रे॒वद॒ग्निर्दी॒दाया॑नि॒ध्मो घृ॒तनि॑र्णिग॒प्सु । इन्द्रा॒वरु॑णयोर॒हँ स॒म्राजो॒रव॒ आ वृ॑णे । ता नो॑ मृडात ई॒दृशे॑ । इन्द्रा॑वरुणा यु॒वम॑ध्व॒राय॑ नः [71]
वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् । दी॒र्घप्र॑यज्यु॒मति॒ यो व॑नु॒ष्यति॑ व॒यञ्ज॑येम॒ पृत॑नासु दू॒ढ्यः॑ । आ नो॑ मित्रावरुणा॒ प्र बा॒हवा॑ । त्वन्नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेडोऽव॑ यासिसीष्ठाः । यजि॑ष्ठो॒ वह्नि॑तम॒श्शोशु॑चानो॒ विश्वा॒ द्वेषाँ॑सि॒ प्र मु॑मुग्ध्य॒स्मत् । स त्वन्नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ । अव॑ यक्ष्व नो॒ वरु॑णम् [72]
ररा॑णो वी॒हि मृ॑डी॒कँ सु॒हवो॑ न एधि । प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि यत्सूर्यो॒ न रोच॑ते बृ॒हद्भाः । अ॒भि यᳶ पू॒रुम्पृ॑तनासु त॒स्थौ दी॒दाय॒ दैव्यो॒ अति॑थिश्शि॒वो नः॑ । प्र ते॑ यक्षि॒ प्र त॑ इयर्मि॒ मन्म॒ भुवो॒ यथा॒ वन्द्यो॑ नो॒ हवे॑षु । धन्व॑न्निव प्र॒पा अ॑सि॒ त्वम॑ग्न इय॒क्षवे॑ पू॒रवे॑ प्रत्न राजन् । [73]
वि पाज॑सा॒ वि ज्योति॑षा । स त्वम॑ग्ने॒ प्रती॑केन॒ प्रत्यो॑ष यातुधा॒न्यः॑ । उ॒रु॒क्षये॑षु॒ दीद्य॑त् । तँ सु॒प्रती॑कँ सु॒दृशँ॒ स्वञ्च॒मवि॑द्वाँसो वि॒दुष्ट॑रँ सपेम । स य॑क्ष॒द्विश्वा॑ व॒युना॑नि वि॒द्वान्प्र ह॒व्यम॒ग्निर॒मृते॑षु वोचत् । अँ॒हो॒मुचे॑ वि॒वेष॒ यन्मा॒ वि न॑ इ॒न्द्रेन्द्र॑ क्ष॒त्रमि॑न्द्रि॒याणि॑ शतक्र॒तोऽनु॑ ते दायि ॥ [74]