दे॒वा म॑नु॒ष्याः॑ पि॒तर॒स्ते॑ऽन्यत॑ आस॒न्नसु॑रा॒ रक्षाँ॑सि पिशा॒चास्ते॑ऽन्यत॒स्तेषा॑न्दे॒वाना॑मु॒त यदल्पल्ँ॒लोहि॑त॒मकु॑र्व॒न्तद्रक्षाँ॑सि॒ रात्री॑भिरसुभ्न॒न्तान्त्सु॒ब्धान्मृ॒तान॒भि व्यौ॑च्छ॒त्ते दे॒वा अ॑विदु॒र्यो वै नो॒ऽयम्म्रि॒यते॒ रक्षाँ॑सि॒ वा इ॒मङ्घ्न॒न्तीति॒ ते रक्षाँ॒स्युपा॑मन्त्रयन्त॒ तान्य॑ब्रुव॒न्वरव्ँ॑वृणामहै॒ यत् [1]
असु॑रा॒ञ्जया॑म॒ तन्न॑स्स॒हास॒दिति॒ ततो॒ वै दे॒वा असु॑रानजय॒न्तेऽसु॑राञ्जि॒त्वा रक्षाँ॒स्यपा॑नुदन्त॒ तानि॒ रक्षाँ॒स्यनृ॑तमक॒र्तेति॑ सम॒न्तन्दे॒वान्पर्य॑विश॒न्ते दे॒वा अ॒ग्नाव॑नाथन्त॒ ते॑ऽग्नये॒ प्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर॑वपन्न॒ग्नये॑ विबा॒धव॑ते॒ऽग्नये॒ प्रती॑कवते॒ यद॒ग्नये॒ प्रव॑ते नि॒रव॑प॒न्यान्ये॒व पु॒रस्ता॒द्रक्षाँ॑सि [2]
आस॒न्तानि॒ तेन॒ प्राणु॑दन्त॒ यद॒ग्नये॑ विबा॒धव॑ते॒ यान्ये॒वाभितो॒ रक्षाँ॒स्यास॒न्तानि॒ तेन॒ व्य॑बाधन्त॒ यद॒ग्नये॒ प्रती॑कवते॒ यान्ये॒व प॒श्चाद्रक्षाँ॒स्यास॒न्तानि॒ तेनापा॑नुदन्त॒ ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यो भ्रातृ॑व्यवा॒न्त्स्यात्स स्पर्ध॑मान ए॒तयेष्ट्या॑ यजेता॒ग्नये॒ प्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेद॒ग्नये॑ विबा॒धव॑ते [3]
अ॒ग्नये॒ प्रती॑कवते॒ यद॒ग्नये॒ प्रव॑ते नि॒र्वप॑ति॒ य ए॒वास्मा॒च्छ्रेया॒न्भ्रातृ॑व्य॒स्तन्तेन॒ प्र णु॑दते॒ यद॒ग्नये॑ विबा॒धव॑ते॒ य ए॒वैने॑न स॒दृङ्तन्तेन॒ वि बा॑धते॒ यद॒ग्नये॒ प्रती॑कवते॒ य ए॒वास्मा॒त्पापी॑या॒न्तन्तेनाप॑ नुदते॒ प्र श्रेयाँ॑स॒म्भ्रातृ॑व्यन्नुद॒तेऽति॑ स॒दृश॑ङ्क्रामति॒ नैन॒म्पापी॑यानाप्नोति॒ य ए॒वव्ँवि॒द्वाने॒तयेष्ट्या॒ यज॑ते ॥ [4]
दे॒वा॒सु॒रास्सय्ँय॑त्ता आस॒न्ते दे॒वा अ॑ब्रुव॒न्यो नो॑ वी॒र्या॑वत्तम॒स्तमनु॑ स॒मार॑भामहा॒ इति॒ त इन्द्र॑मब्रुव॒न्त्वव्ँ वै नो॑ वी॒र्या॑वत्तमोऽसि॒ त्वामनु॑ स॒मार॑भामहा॒ इति॒ सो॑ऽब्रवीत्ति॒स्रो म॑ इ॒मास्त॒नुवो॑ वी॒र्या॑वती॒स्ताᳶ प्री॑णी॒ताथासु॑रान॒भि भ॑विष्य॒थेति॒ ता वै ब्रू॒हीत्य॑ब्रुवन्नि॒यमँ॑हो॒मुगि॒यव्ँवि॑मृ॒धेयमि॑न्द्रि॒याव॑ती [5]
इत्य॑ब्रवी॒त्त इन्द्रा॑याँहो॒मुचे॑ पुरो॒डाश॒मेका॑दशकपाल॒न्निर॑वप॒न्निन्द्रा॑य वैमृ॒धायेन्द्रा॑येन्द्रि॒याव॑ते॒ यदिन्द्रा॑याँहो॒मुचे॑ नि॒रव॑प॒न्नँह॑स ए॒व तेना॑मुच्यन्त॒ यदिन्द्रा॑य वैमृ॒धाय॒ मृध॑ ए॒व तेनापा॑घ्नत॒ यदिन्द्रा॑येन्द्रि॒याव॑त इन्द्रि॒यमे॒व तेना॒त्मन्न॑दधत॒ त्रय॑स्त्रिँशत्कपालम्पुरो॒डाश॒न्निर॑वप॒न्त्रय॑स्त्रिँश॒द्वै दे॒वता॒स्ता इन्द्र॑ आ॒त्मन्ननु॑ स॒मार॑म्भयत॒ भूत्यै॑ [6]
ताव्ँ वाव दे॒वा विजि॑तिमुत्त॒मामसु॑रै॒र्व्य॑जयन्त॒ यो भ्रातृ॑व्यवा॒न्त्स्यात्स स्पर्ध॑मान ए॒तयेष्ट्या॑ यजे॒तेन्द्रा॑याँहो॒मुचे॑ पुरो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पे॒दिन्द्रा॑य वैमृ॒धायेन्द्रा॑येन्द्रि॒याव॒तेऽँह॑सा॒ वा ए॒ष गृ॑ही॒तो यस्मा॒च्छ्रेया॒न्भ्रातृ॑व्यो॒ यदिन्द्रा॑याँहो॒मुचे॑ नि॒र्वप॒त्यँह॑स ए॒व तेन॑ मुच्यते मृ॒धा वा ए॒षो॑ऽभिष॑ण्णो॒ यस्मा॑त्समा॒नेष्व॒न्यश्श्रेया॑नु॒त [7]
अभ्रा॑तृव्यो॒ यदिन्द्रा॑य वैमृ॒धाय॒ मृध॑ ए॒व तेनाप॑ हते॒ यदिन्द्रा॑येन्द्रि॒याव॑त इन्द्रि॒यमे॒व तेना॒त्मन्ध॑त्ते॒ त्रय॑स्त्रिँशत्कपालम्पुरो॒डाश॒न्निर्व॑पति॒ त्रय॑स्त्रिँश॒द्वै दे॒वता॒स्ता ए॒व यज॑मान आ॒त्मन्ननु॑ स॒मार॑म्भयते॒ भूत्यै॒ सा वा ए॒षा विजि॑ति॒र्नामेष्टि॒र्य ए॒वव्ँवि॒द्वाने॒तयेष्ट्या॒ यज॑त उत्त॒मामे॒व विजि॑ति॒म्भ्रातृ॑व्येण॒ वि ज॑यते ॥ [8]
दे॒वा॒सु॒रास्सय्ँय॑त्ता आस॒न्तेषा॑ङ्गाय॒त्र्योजो॒ बल॑मिन्द्रि॒यव्ँवी॒र्य॑म्प्र॒जाम्प॒शून्त्स॒ङ्गृह्या॒दाया॑प॒क्रम्या॑तिष्ठ॒त्ते॑ऽमन्यन्त यत॒रान्वा इ॒यमु॑पाव॒र्त्स्यति॒ त इ॒दम्भ॑विष्य॒न्तीति॒ ताव्व्ँय॑ह्वयन्त॒ विश्व॑कर्म॒न्निति॑ दे॒वा दाभीत्यसु॑रा॒स्सा नान्य॑त॒राँश्च॒ नोपाव॑र्तत॒ ते दे॒वा ए॒तद्यजु॑रपश्य॒न्नोजो॑ऽसि॒ सहो॑ऽसि॒ बल॑मसि [9]
भ्राजो॑ऽसि दे॒वाना॒न्धाम॒ नामा॑सि॒ विश्व॑मसि वि॒श्वायु॒स्सर्व॑मसि स॒र्वायु॑रभि॒भूरिति॒ वाव दे॒वा असु॑राणा॒मोजो॒ बल॑मिन्द्रि॒यव्ँवी॒र्य॑म्प्र॒जाम्प॒शून॑वृञ्जत॒ यद्गा॑य॒त्र्य॑प॒क्रम्याति॑ष्ठ॒त्तस्मा॑दे॒ताङ्गा॑य॒त्रीतीष्टि॑माहुस्सव्ँ वत्स॒रो वै गा॑य॒त्री सव्ँ॑वत्स॒रो वै तद॑प॒क्रम्या॑तिष्ठ॒द्यदे॒तया॑ दे॒वा असु॑राणा॒मोजो॒ बल॑मिन्द्रि॒यव्ँवी॒र्य॑म् [10]
प्र॒जाम्प॒शूनवृ॑ञ्जत॒ तस्मा॑दे॒ताँ सव्ँ॑व॒र्ग इतीष्टि॑माहु॒र्यो भ्रातृ॑व्यवा॒न्त्स्यात्स स्पर्ध॑मान ए॒तयेष्ट्या॑ यजेता॒ग्नये॑ सव्ँव॒र्गाय॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒त्तँ शृ॒तमास॑न्नमे॒तेन॒ यजु॑षा॒भि मृ॑शे॒दोज॑ ए॒व बल॑मिन्द्रि॒यव्ँवी॒र्य॑म्प्र॒जाम्प॒शून्भ्रातृ॑व्यस्य वृङ्क्ते॒ भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति ॥ [11]
प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत॒ ता अ॑स्मात्सृ॒ष्टाᳶ परा॑चीराय॒न्ता यत्राव॑स॒न्ततो॑ ग॒र्मुदुद॑तिष्ठ॒त्ता बृह॒स्पति॑श्चा॒न्ववै॑ताँ॒ सो॑ऽब्रवी॒द्बृह॒स्पति॑र॒नया॑ त्वा॒ प्र ति॑ष्ठा॒न्यथ॑ त्वा प्र॒जा उ॒पाव॑र्त्स्य॒न्तीति॒ तम्प्राति॑ष्ठ॒त्ततो॒ वै प्र॒जाप॑तिम्प्र॒जा उ॒पाव॑र्तन्त॒ यᳶ प्र॒जाका॑म॒स्स्यात्तस्मा॑ ए॒तम्प्रा॑जाप॒त्यङ्गा॑र्मु॒तञ्च॒रुन्निर्व॑पेत्प्र॒जाप॑तिम् [12]
ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प्र॒जाम्प्र ज॑नयति प्र॒जाप॑तिᳶ प॒शून॑सृजत॒ ते॑ऽस्मात्सृ॒ष्टाᳶ परा॑ञ्च आय॒न्ते यत्राव॑स॒न्ततो॑ ग॒र्मुदुद॑तिष्ठ॒त्तान्पू॒षा चा॒न्ववै॑ताँ॒ सो॑ऽब्रवीत्पू॒षानया॑ मा॒ प्र ति॒ष्ठाथ॑ त्वा प॒शव॑ उ॒पाव॑र्त्स्य॒न्तीति॒ माम्प्र ति॒ष्ठेति॒ सोमो॑ऽब्रवी॒न्मम॒ वै [13]
अ॒कृ॒ष्ट॒प॒च्यमित्यु॒भौ वा॒म्प्र ति॑ष्ठा॒नीत्य॑ब्रवी॒त्तौ प्राति॑ष्ठ॒त्ततो॒ वै प्र॒जाप॑तिम्प॒शव॑ उ॒पाव॑र्तन्त॒ यᳶ प॒शुका॑म॒स्स्यात्तस्मा॑ ए॒तँ सो॑मापौ॒ष्णङ्गा॑र्मु॒तञ्च॒रुन्निर्व॑पेत्सोमापू॒षणा॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै॑ प॒शून्प्र ज॑नयत॒स्सोमो॒ वै रे॑तो॒धाᳶ पू॒षा प॑शू॒नाम्प्र॑जनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति पू॒षा प॒शून्प्र ज॑नयति ॥ [14]
अग्ने॒ गोभि॑र्न॒ आ ग॒हीन्दो॑ पु॒ष्ट्या जु॑षस्व नः । इन्द्रो॑ ध॒र्ता गृ॒हेषु॑ नः ॥ स॒वि॒ता यस्स॑ह॒स्रिय॒स्स नो॑ गृ॒हेषु॑ रारणत् । आ पू॒षा ए॒त्वा वसु॑ ॥ धा॒ता द॑दातु नो र॒यिमीशा॑नो॒ जग॑त॒स्पतिः॑ । स नᳶ॑ पू॒र्णेन॑ वावनत् ॥ त्वष्टा॒ यो वृ॑ष॒भो वृषा॒ स नो॑ गृ॒हेषु॑ रारणत् । स॒हस्रे॑णा॒युते॑न च ॥ येन॑ दे॒वा अ॒मृत॑म् [15]
दी॒र्घँ श्रवो॑ दि॒व्यैर॑यन्त । राय॑स्पोष॒ त्वम॒स्मभ्य॒ङ्गवा॑ङ्कु॒ल्मिञ्जी॒वस॒ आ यु॑वस्व । अ॒ग्निर्गृ॒हप॑ति॒स्सोमो॑ विश्व॒वनि॑स्सवि॒ता सु॑मे॒धास्स्वाहा॑ । अग्ने॑ गृहपते॒ यस्ते॒ घृत्यो॑ भा॒गस्तेन॒ सह॒ ओज॑ आ॒क्रम॑माणाय धेहि॒ श्रैष्ठ्या॑त्प॒थो मा यो॑षम्मू॒र्धा भू॑यासँ॒ स्वाहा॑ ॥ [16]
चि॒त्रया॑ यजेत प॒शुका॑म इ॒यव्ँ वै चि॒त्रा यद्वा अ॒स्याव्ँविश्व॑म्भू॒तमधि॑ प्र॒जाय॑ते॒ तेने॒यञ्चि॒त्रा य ए॒वव्ँवि॒द्वाँश्चि॒त्रया॑ प॒शुका॑मो॒ यज॑ते॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते॒ प्रैवाग्ने॒येन॑ वापयति॒ रेत॑स्सौ॒म्येन॑ दधाति॒ रेत॑ ए॒व हि॒तन्त्वष्टा॑ रू॒पाणि॒ वि क॑रोति सारस्व॒तौ भ॑वत ए॒तद्वै दैव्य॑म्मिथु॒नन्दैव्य॑मे॒वास्मै॑ [17]
मि॒थु॒नम्म॑ध्य॒तो द॑धाति॒ पुष्ट्यै॑ प्र॒जन॑नाय सिनीवा॒ल्यै च॒रुर्भ॑वति॒ वाग्वै सि॑नीवा॒ली पुष्टि॒ᳵ खलु॒ वै वाक्पुष्टि॑मे॒व वाच॒मुपै॑त्यै॒न्द्र उ॑त्त॒मो भ॑वति॒ तेनै॒व तन्मि॑थु॒नँ स॒प्तैतानि॑ ह॒वीँषि॑ भवन्ति स॒प्त ग्रा॒म्याᳶ प॒शव॑स्स॒प्तार॒ण्यास्स॒प्त छन्दाँ॑स्यु॒भय॒स्याव॑रुद्ध्या॒ अथै॒ता आहु॑तीर्जुहोत्ये॒ते वै दे॒वाᳶ पुष्टि॑पतय॒स्त ए॒वास्मि॒न्पुष्टि॑न्दधति॒ पुष्य॑ति प्र॒जया॑ प॒शुभि॒रथो॒ यदे॒ता आहु॑तीर्जु॒होति॒ प्रति॑ष्ठित्यै ॥ [18]
मा॒रु॒तम॑सि म॒रुता॒मोजो॒ऽपान्धारा॑म्भिन्द्धि र॒मय॑त मरुतश्श्ये॒नमा॒यिन॒म्मनो॑जवसव्ँ॒वृष॑णँ सुवृ॒क्तिम् । येन॒ शर्ध॑ उ॒ग्रमव॑सृष्ट॒मेति॒ तद॑श्विना॒ परि॑ धत्तँ स्व॒स्ति । पु॒रो॒वा॒तो वर्ष॑ञ्जि॒न्वरा॒वृत्स्वाहा॑ वा॒ताव॒द्वर्ष॑न्नु॒ग्ररा॒वृत्स्वाहा॑ स्त॒नय॒न्वर्ष॑न्भी॒मरा॒वृत्स्वाहा॑नश॒न्य॑व॒स्फूर्ज॑न्दि॒द्युद्वर्ष॑न्त्वे॒षरा॒वृत्स्वाहा॑तिरा॒त्रव्ँवर्ष॑न्पू॒र्तिरा॒वृत् [19]
स्वाहा॑ ब॒हु हा॒यम॑वृषा॒दिति॑ श्रु॒तरा॒वृत्स्वाहा॒तप॑ति॒ वर्ष॑न्वि॒राडा॒वृत्स्वाहा॑व॒स्फूर्ज॑न्दि॒द्युद्वर्ष॑न्भू॒तरा॒वृत्स्वाहा॒ मान्दा॒ वाशा॒श्शुन्ध्यू॒रजि॑राः । ज्योति॑ष्मती॒स्तम॑स्वरी॒रुन्द॑ती॒स्सुफे॑नाः । मित्र॑भृतः॒ क्षत्र॑भृत॒स्सुरा॑ष्ट्रा इ॒ह मा॑ऽवत । वृष्णो॒ अश्व॑स्य स॒न्दान॑मसि॒ वृष्ट्यै॒ त्वोप॑ नह्यामि ॥ [20]
देवा॑ वसव्या॒ अग्ने॑ सोम सूर्य । देवाः॑ शर्मण्या॒ मित्रा॑वरुणार्यमन् । देवाः॑ सपीत॒योऽपा॑न्नपादाशुहेमन् । उ॒द्नो द॑त्तोऽद॒धिम्भि॑न्त दि॒वᳶ प॒र्जन्या॑द॒न्तरि॑क्षात्पृथि॒व्यास्ततो॑ नो॒ वृष्ट्या॑ऽवत । दिवा॑ चि॒त्तम॑ᳵ कृण्वन्ति प॒र्जन्ये॑नोदवा॒हेन॑ । पृ॒थि॒वीय्ँयद्व्यु॒न्दन्ति॑ । आ यन्नर॑स्सु॒दान॑वो ददा॒शुषे॑ दि॒वᳵ कोश॒मचु॑च्यवुः । वि प॒र्जन्याः॑ सृजन्ति॒ रोद॑सी॒ अनु॒ धन्व॑ना यन्ति [21]
वृ॒ष्टयः॑ । उदी॑रयथा मरुतस्समुद्र॒तो यू॒यव्ँवृ॒ष्टिव्ँव॑र्षयथा पुरीषिणः । न वो॑ दस्रा॒ उप॑ दस्यन्ति धे॒नव॒श्शुभय्ँ॑या॒तामनु॒ रथा॑ अवृत्सत । सृ॒जा वृ॒ष्टिन्दि॒व आद्भिस्स॑मु॒द्रम्पृ॑ण । अ॒ब्जा अ॑सि प्रथम॒जा बल॑मसि समु॒द्रिय॑म् । उन्न॑म्भय पृथि॒वीम्भि॒न्द्धीदन्दि॒व्यन्नभः॑ । उ॒द्नो दि॒व्यस्य॑ नो दे॒हीशा॑नो॒ वि सृ॑जा॒ दृति॑म् । ये दे॒वा दि॒विभा॑गा॒ ये॑ऽन्तरि॑क्षभागा॒ ये पृ॑थि॒विभा॑गाः । त इ॒मय्ँ य॒ज्ञम॑वन्तु॒ त इ॒दङ्क्षेत्र॒मा वि॑शन्तु॒ त इ॒दङ्क्षेत्र॒मनु॒ वि वि॑शन्तु ॥ [22]
मा॒रु॒तम॑सि म॒रुता॒मोज॒ इति॑ कृ॒ष्णव्ँवास॑ᳵ कृ॒ष्णतू॑ष॒म्परि॑ धत्त ए॒तद्वै वृष्ट्यै॑ रू॒पँ सरू॑प ए॒व भू॒त्वा प॒र्जन्यव्ँ॑वर्षयति र॒मय॑त मरुतश्श्ये॒नमा॒यिन॒मिति॑ पश्चाद्वा॒तम्प्रति॑ मीवति पुरोवा॒तमे॒व ज॑नयति व॒र्षस्याव॑रुद्ध्यै वातना॒मानि॑ जुहोति वा॒युर्वै वृष्ट्या॑ ईशे वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प॒र्जन्यव्ँ॑वर्षयत्य॒ष्टौ [23]
जु॒हो॒ति॒ चत॑स्रो॒ वै दिश॒श्चत॑स्रोऽवान्तरदि॒शा दि॒ग्भ्य ए॒व वृष्टिँ॒ सम्प्र च्या॑वयति कृष्णाजि॒ने सय्ँयौ॑ति ह॒विरे॒वाक॑रन्तर्वे॒दि सय्ँयौ॒त्यव॑रुद्ध्यै॒ यती॑नाम॒द्यमा॑नानाँ शी॒र्षाणि॒ परा॑पत॒न्ते ख॒र्जूरा॑ अभव॒न्तेषाँ॒ रस॑ ऊ॒र्ध्वो॑ऽपत॒त्तानि॑ क॒रीरा॑ण्यभवन्त्सौ॒म्यानि॒ वै क॒रीरा॑णि सौ॒म्या खलु॒ वा आहु॑तिर्दि॒वो वृष्टि॑ञ्च्यावयति॒ यत्क॒रीरा॑णि॒ भव॑न्ति [24]
सौ॒म्ययै॒वाहु॑त्या दि॒वो वृष्टि॒मव॑ रुन्द्धे॒ मधु॑षा॒ सय्ँयौ॑त्य॒पाव्ँवा ए॒ष ओष॑धीनाँ॒ रसो॒ यन्मध्व॒द्भ्य ए॒वौष॑धीभ्यो वर्ष॒त्यथो॑ अ॒द्भ्य ए॒वौष॑धीभ्यो॒ वृष्टि॒न्नि न॑यति॒ मान्दा॒ वाशा॒ इति॒ सय्ँयौ॑ति नाम॒धेयै॑रे॒वैना॒ अच्छै॒त्यथो॒ यथा॑ ब्रू॒यादसा॒वेहीत्ये॒वमे॒वैना॑ नाम॒धेयै॒रा [25]
च्या॒व॒य॒ति॒ वृष्णो॒ अश्व॑स्य स॒न्दान॑मसि॒ वृष्ट्यै॒ त्वोप॑ नह्या॒मीत्या॑ह॒ वृषा॒ वा अश्वो॒ वृषा॑ प॒र्जन्य॑ᳵ कृ॒ष्ण इ॑व॒ खलु॒ वै भू॒त्वा व॑र्षति रू॒पेणै॒वैनँ॒ सम॑र्धयति व॒र्षस्याव॑रुद्ध्यै ॥ [26]
देवा॑ वसव्या॒ देवाः॑ शर्मण्या॒ देवाः॑ सपीतय॒ इत्या ब॑ध्नाति दे॒वता॑भिरे॒वान्व॒हव्ँवृष्टि॑मिच्छति॒ यदि॒ वर्षे॒त्ताव॑त्ये॒व हो॑त॒व्यय्ँ॑यदि॒ न वर्षे॒च्छ्वो भू॒ते ह॒विर्निर्व॑पेदहोरा॒त्रे वै मि॒त्रावरु॑णावहोरा॒त्राभ्या॒ङ्खलु॒ वै प॒र्जन्यो॑ वर्षति॒ नक्तव्ँ॑वा॒ हि दिवा॑ वा॒ वर्ष॑ति मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै॑ [27]
अ॒हो॒रा॒त्राभ्या॑म्प॒र्जन्यव्ँ॑वर्षयतो॒ऽग्नये॑ धाम॒च्छदे॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेन्मारु॒तँ स॒प्तक॑पालँ सौ॒र्यमेक॑कपालम॒ग्निर्वा इ॒तो वृष्टि॒मुदी॑रयति म॒रुत॑स्सृ॒ष्टान्न॑यन्ति य॒दा खलु॒ वा अ॒सावा॑दि॒त्यो न्य॑ङ्र॒श्मिभिᳶ॑ पर्या॒वर्त॒तेऽथ॑ वर्षति धाम॒च्छदि॑व॒ खलु॒ वै भू॒त्वा व॑र्षत्ये॒ता वै दे॒वता॒ वृष्ट्या॑ ईशते॒ ता ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ताः [28]
ए॒वास्मै॑ प॒र्जन्यव्ँ॑वर्षयन्त्यु॒ताव॑र्षिष्य॒न्वर्ष॑त्ये॒व सृ॒जा वृ॒ष्टिन्दि॒व आद्भिस्स॑मु॒द्रम्पृ॒णेत्या॑हे॒माश्चै॒वामूश्चा॒पस्सम॑र्धय॒त्यथो॑ आ॒भिरे॒वामूरच्छै॑त्य॒ब्जा अ॑सि प्रथम॒जा बल॑मसि समु॒द्रिय॒मित्या॑ह यथाय॒जुरे॒वैतदुन्न॑म्भय पृथि॒वीमिति॑ वर्षा॒ह्वाञ्जु॑होत्ये॒षा वा ओष॑धीनाव्ँवृष्टि॒वनि॒स्तयै॒व वृष्टि॒मा च्या॑वयति॒ ये दे॒वा दि॒विभा॑गा॒ इति॑ कृष्णाजि॒नमव॑ धूनोती॒म ए॒वास्मै॑ लो॒काᳶ प्री॒ता अ॒भीष्टा॑ भवन्ति ॥ [29]
सर्वा॑णि॒ छन्दाँ॑स्ये॒तस्या॒मिष्ट्या॑म॒नूच्या॒नीत्या॑हुस्त्रि॒ष्टुभो॒ वा ए॒तद्वी॒र्यय्ँ॑यत्क॒कुदु॒ष्णिहा॒ जग॑त्यै॒ यदु॑ष्णिहक॒कुभा॑व॒न्वाह॒ तेनै॒व सर्वा॑णि॒ छन्दाँ॒स्यव॑ रुन्द्धे गाय॒त्री वा ए॒षा यदु॒ष्णिहा॒ यानि॑ च॒त्वार्यध्य॒क्षरा॑णि॒ चतु॑ष्पाद ए॒व ते प॒शवो॒ यथा॑ पुरो॒डाशे॑ पुरो॒डाशोऽध्ये॒वमे॒व तद्यदृ॒च्यध्य॒क्षरा॑णि॒ यज्जग॑त्या [30]
प॒रि॒द॒ध्यादन्तय्ँ॑ य॒ज्ञङ्ग॑मयेत्त्रि॒ष्टुभा॒ परि॑ दधातीन्द्रि॒यव्ँ वै वी॒र्य॑न्त्रि॒ष्टुगि॑न्द्रि॒य ए॒व वी॒र्ये॑ य॒ज्ञम्प्रति॑ ष्ठापयति॒ नान्त॑ङ्गमय॒त्यग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्थेति॒ त्रिव॑त्या॒ परि॑ दधाति सरूप॒त्वाय॒ सर्वो॒ वा ए॒ष य॒ज्ञो यत्त्रै॑धात॒वीय॒ङ्कामा॑यकामाय॒ प्र यु॑ज्यते॒ सर्वे॑भ्यो॒ हि कामे॑भ्यो य॒ज्ञᳶ प्र॑यु॒ज्यते॑ त्रैधात॒वीये॑न यजेताभि॒चर॒न्त्सर्वो॒ वै [31]
ए॒ष य॒ज्ञो यत्त्रै॑धात॒वीयँ॒ सर्वे॑णै॒वैनय्ँ॑ य॒ज्ञेना॒भि च॑रति स्तृणु॒त ए॒वैन॑मे॒तयै॒व य॑जेताभिच॒र्यमा॑ण॒स्सर्वो॒ वा ए॒ष य॒ज्ञो यत्त्रै॑धात॒वीयँ॒ सर्वे॑णै॒व य॒ज्ञेन॑ यजते॒ नैन॑मभि॒चर॑न्त्स्तृणुत ए॒तयै॒व य॑जेत स॒हस्रे॑ण य॒क्ष्यमा॑ण॒ᳶ प्रजा॑तमे॒वैन॑द्ददात्ये॒तयै॒व य॑जेत स॒हस्रे॑णेजा॒नोऽन्तव्ँ॒वा ए॒ष प॑शू॒नाङ्ग॑च्छति [32]
यस्स॒हस्रे॑ण॒ यज॑ते प्र॒जाप॑ति॒ᳵ खलु॒ वै प॒शून॑सृजत॒ ताँ स्त्रै॑धात॒वीये॑नै॒वासृ॑जत॒ य ए॒वव्ँवि॒द्वाँस्त्रै॑धात॒वीये॑न प॒शुका॑मो॒ यज॑ते॒ यस्मा॑दे॒व योनेः॑ प्र॒जाप॑तिᳶ प॒शूनसृ॑जत॒ तस्मा॑दे॒वैना॑न्त्सृजत॒ उपै॑न॒मुत्त॑रँ स॒हस्र॑न्नमति दे॒वता॑भ्यो॒ वा ए॒ष आ वृ॑श्च्यते॒ यो य॒क्ष्य इत्यु॒क्त्वा न यज॑ते त्रैधात॒वीये॑न यजेत॒ सर्वो॒ वा ए॒ष य॒ज्ञः [33]
यत्त्रै॑धात॒वीयँ॒ सर्वे॑णै॒व य॒ज्ञेन॑ यजते॒ न दे॒वता॑भ्य॒ आ वृ॑श्च्यते॒ द्वाद॑शकपालᳶ पुरो॒डाशो॑ भवति॒ ते त्रय॒श्चतु॑ष्कपालास्त्रिष्षमृद्ध॒त्वाय॒ त्रयᳶ॑ पुरो॒डाशा॑ भवन्ति॒ त्रय॑ इ॒मे लो॒का ए॒षाल्ँ लो॒काना॒माप्त्या॒ उत्त॑रउत्तरो॒ ज्याया॑न्भवत्ये॒वमि॑व॒ हीमे लो॒का य॑व॒मयो॒ मध्य॑ ए॒तद्वा अ॒न्तरि॑क्षस्य रू॒पँ समृ॑द्ध्यै॒ सर्वे॑षामभिग॒मय॒न्नव॑ द्य॒त्यछ॑म्बट्कारँ॒ हिर॑ण्यन्ददाति॒ तेज॑ ए॒व [34]
अव॑ रुन्द्धे ता॒र्प्यन्द॑दाति प॒शूने॒वाव॑ रुन्द्धे धे॒नुन्द॑दात्या॒शिष॑ ए॒वाव॑ रुन्द्धे॒ साम्नो॒ वा ए॒ष वर्णो॒ यद्धिर॑ण्यय्ँ॒यजु॑षान्ता॒र्प्यमु॑क्थाम॒दाना॑न्धे॒नुरे॒ताने॒व सर्वा॒न्वर्णा॒नव॑ रुन्द्धे ॥ [35]
त्वष्टा॑ ह॒तपु॑त्रो॒ वीन्द्रँ॒ सोम॒माह॑र॒त्तस्मि॒न्निन्द्र॑ उपह॒वमै॑च्छत॒ तन्नोपा॑ह्वयत पु॒त्रम्मे॑ऽवधी॒रिति॒ स य॑ज्ञवेश॒सङ्कृ॒त्वा प्रा॒सहा॒ सोम॑मपिब॒त्तस्य॒ यद॒त्यशि॑ष्यत॒ तत्त्वष्टा॑हव॒नीय॒मुप॒ प्राव॑र्तय॒त्स्वाहेन्द्र॑शत्रुर्वर्ध॒स्वेति॒ स याव॑दू॒र्ध्वᳶ प॑रा॒विध्य॑ति॒ ताव॑ति स्व॒यमे॒व व्य॑रमत॒ यदि॑ वा॒ ताव॑त्प्रव॒णम् [36]
आसी॒द्यदि॑ वा॒ ताव॒दध्य॒ग्नेरासी॒त्स स॒म्भव॑न्न॒ग्नीषोमा॑व॒भि सम॑भव॒त्स इ॑षुमा॒त्रमि॑षुमात्रव्ँ॒विष्व॑ङ्ङवर्धत॒ स इ॒माल्लोँ॒कान॑वृणो॒द्यदि॒माल्लोँ॒कानवृ॑णो॒त्तद्वृ॒त्रस्य॑ वृत्र॒त्वन्तस्मा॒दिन्द्रो॑ऽबिभे॒दपि॒ त्वष्टा॒ तस्मै॒ त्वष्टा॒ वज्र॑मसिञ्च॒त्तपो॒ वै स वज्र॑ आसी॒त्तमुद्य॑न्तु॒न्नाश॑क्नो॒दथ॒ वै तर्हि॒ विष्णुः॑ [37]
अ॒न्या दे॒वता॑सी॒त्सो॑ऽब्रवी॒द्विष्ण॒वेही॒दमा ह॑रिष्यावो॒ येना॒यमि॒दमिति॒ स विष्णु॑स्त्रे॒धात्मानव्ँ॒वि न्य॑धत्त पृथि॒व्यान्तृती॑यम॒न्तरि॑क्षे॒ तृती॑यन्दि॒वि तृती॑यमभिपर्याव॒र्ताद्ध्यबि॑भे॒द्यत्पृ॑थि॒व्यान्तृती॑य॒मासी॒त्तेनेन्द्रो॒ वज्र॒मुद॑यच्छ॒द्विष्ण्व॑नुस्थित॒स्सो॑ऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दम् [38]
मयि॑ वी॒र्य॑न्तत्ते॒ प्र दा॑स्या॒मीति॒ तद॑स्मै॒ प्राय॑च्छ॒त्तत्प्रत्य॑गृह्णा॒दधा॒ मेति॒ तद्विष्ण॒वेति॒ प्राय॑च्छ॒त्तद्विष्णु॒ᳶ प्रत्य॑गृह्णाद॒स्मास्विन्द्र॑ इन्द्रि॒यन्द॑धा॒त्विति॒ यद॒न्तरि॑क्षे॒ तृती॑य॒मासी॒त्तेनेन्द्रो॒ वज्र॒मुद॑यच्छ॒द्विष्ण्व॑नुस्थित॒स्सो॑ऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दम् [39]
मयि॑ वी॒र्य॑न्तत्ते॒ प्र दा॑स्या॒मीति॒ तद॑स्मै॒ प्राय॑च्छ॒त्तत्प्रत्य॑गृह्णा॒द्द्विर्मा॑धा॒ इति॒ तद्विष्ण॒वेति॒ प्राय॑च्छ॒त्तद्विष्णु॒ᳶ प्रत्य॑गृह्णाद॒स्मास्विन्द्र॑ इन्द्रि॒यन्द॑धा॒त्विति॒ यद्दि॒वि तृती॑य॒मासी॒त्तेनेन्द्रो॒ वज्र॒मुद॑यच्छ॒द्विष्ण्व॑नुस्थित॒स्सो॑ऽब्रवी॒न्मा मे॒ प्र हा॒र्येना॒हम् [40]
इ॒दमस्मि॒ तत्ते॒ प्र दा॑स्या॒मीति॒ त्वी (३) इत्य॑ब्रवीत्स॒न्धान्तु सन्द॑धावहै॒ त्वामे॒व प्र वि॑शा॒नीति॒ यन्माम्प्र॑वि॒शेᳵ किम्मा॑ भुञ्ज्या॒ इत्य॑ब्रवी॒त्त्वामे॒वेन्धी॑य॒ तव॒ भोगा॑य॒ त्वाम्प्र वि॑शेय॒मित्य॑ब्रवी॒त्तव्ँ वृ॒त्रᳶ प्रावि॑शदु॒दरव्ँ॒ वै वृ॒त्रः क्षुत्खलु॒ वै म॑नु॒ष्य॑स्य॒ भ्रातृ॑व्यो॒ यः [41]
ए॒वव्ँ वेद॒ हन्ति॒ क्षुध॒म्भ्रातृ॑व्य॒न्तद॑स्मै॒ प्राय॑च्छ॒त्तत्प्रत्य॑गृह्णा॒त्त्रिर्मा॑धा॒ इति॒ तद्विष्ण॒वेति॒ प्राय॑च्छ॒त्तद्विष्णु॒ᳶ प्रत्य॑गृह्णाद॒स्मास्विन्द्र॑ इन्द्रि॒यन्द॑धा॒त्विति॒ यत्त्रिᳶ प्राय॑च्छ॒त्त्रिᳶ प्र॒त्यगृ॑ह्णा॒त्तत्त्रि॒धातो॑स्त्रिधातु॒त्वय्यँद्विष्णु॑र॒न्वति॑ष्ठत॒ विष्ण॒वेति॒ प्राय॑च्छ॒त्तस्मा॑दैन्द्रावैष्ण॒वँ ह॒विर्भ॑वति॒ यद्वा इ॒दङ्किञ्च॒ तद॑स्मै॒ तत्प्राय॑च्छ॒दृच॒स्सामा॑नि॒ यजूँ॑षि स॒हस्रव्ँ॒ वा अ॑स्मै॒ तत्प्राय॑च्छ॒त्तस्मा॑त्स॒हस्र॑दक्षिणम् ॥ [42]
दे॒वा वै रा॑ज॒न्या॑ज्जाय॑मानादबिभयु॒स्तम॒न्तरे॒व सन्त॒न्दाम्नापौ॑म्भ॒न्त्स वा ए॒षोऽपो॑ब्धो जायते॒ यद्रा॑ज॒न्यो॑ यद्वा ए॒षोऽन॑पोब्धो॒ जाये॑त वृ॒त्रान्घ्नँश्च॑रे॒द्यङ्का॒मये॑त राज॒न्य॑मन॑पोब्धो जायेत वृ॒त्रान्घ्नँश्च॑रे॒दिति॒ तस्मा॑ ए॒तमै॑न्द्राबार्हस्प॒त्यञ्च॒रुन्निर्व॑पेदै॒न्द्रो वै रा॑ज॒न्यो॑ ब्रह्म॒ बृह॒स्पति॒र्ब्रह्म॑णै॒वैन॒न्दाम्नो॒ऽपोम्भ॑नान्मुञ्चति हिर॒ण्मय॒न्दाम॒ दक्षि॑णा सा॒क्षादे॒वैन॒न्दाम्नो॒ऽपोम्भ॑नान्मुञ्चति ॥ [43]
नवो॑नवो भवति॒ जाय॑मा॒नोऽह्ना॑ङ्के॒तुरु॒षसा॑मे॒त्यग्रे॑ । भा॒गन्दे॒वेभ्यो॒ वि द॑धात्या॒यन्प्र च॒न्द्रमा॑स्तिरति दी॒र्घमायुः॑ । यमा॑दि॒त्या अँ॒शुमा॑प्या॒यय॑न्ति॒ यमक्षि॑त॒मक्षि॑तय॒ᳶ पिब॑न्ति । तेन॑ नो॒ राजा॒ वरु॑णो॒ बृह॒स्पति॒रा प्या॑ययन्तु॒ भुव॑नस्य गो॒पाः । प्राच्या॑न्दि॒शि त्वमि॑न्द्रासि॒ राजो॒तोदी॑च्याव्ँवृत्रहन्वृत्र॒हासि॑ । यत्र॒ यन्ति॑ स्रो॒त्यास्तत् [44]
जि॒तन्ते॑ दक्षिण॒तो वृ॑ष॒भ ए॑धि॒ हव्यः॑ । इन्द्रो॑ जयाति॒ न परा॑ जयाता अधिरा॒जो राज॑सु राजयाति । विश्वा॒ हि भू॒याᳶ पृत॑ना अभि॒ष्टीरु॑प॒सद्यो॑ नम॒स्यो॑ यथास॑त् । अ॒स्येदे॒व प्र रि॑रिचे महि॒त्वन्दि॒वᳶ पृ॑थि॒व्याᳶ पर्य॒न्तरि॑क्षात् । स्व॒राडिन्द्रो॒ दम॒ आ वि॒श्वगू॑र्तस्स्व॒रिरम॑त्रो ववक्षे॒ रणा॑य । अ॒भि त्वा॑ शूर नोनु॒मोऽदु॑ग्धा इव धे॒नवः॑ । ईशा॑नम् [45]
अ॒स्य जग॑तस्सुव॒र्दृश॒मीशा॑नमिन्द्र त॒स्थुषः॑ । त्वामिद्धि हवा॑महे सा॒ता वाज॑स्य का॒रवः॑ । त्वाव्ँवृ॒त्रेष्वि॑न्द्र॒ सत्प॑ति॒न्नर॒स्त्वाङ्काष्ठा॒स्वर्व॑तः । यद्द्याव॑ इन्द्र ते श॒तँ श॒तम्भूमी॑रु॒त स्युः । न त्वा॑ वज्रिन्त्स॒हस्रँ॒ सूर्या॒ अनु॒ न जा॒तम॑ष्ट॒ रोद॑सी । पिबा॒ सोम॑मिन्द्र॒ मन्द॑तु त्वा॒ यन्ते॑ सु॒षाव॑ हर्य॒श्वाद्रिः॑ । [46]
सो॒तुर्बा॒हुभ्याँ॒ सुय॑तो॒ नार्वा॑ । रे॒वती॑र्नस्सध॒माद॒ इन्द्रे॑ सन्तु तु॒विवा॑जाः । क्षु॒मन्तो॒ याभि॒र्मदे॑म । उद॑ग्ने॒ शुच॑य॒स्तव॒ वि ज्योति॒षोदु॒ त्यञ्जा॒तवे॑दसँ स॒प्त त्वा॑ ह॒रितो॒ रथे॒ वह॑न्ति देव सूर्य । शो॒चिष्के॑शव्ँविचक्षण । चि॒त्रन्दे॒वाना॒मुद॑गा॒दनी॑क॒ञ्चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आऽप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षँ॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुषः॑ [47]
च॒ । विश्वे॑ दे॒वा ऋ॑ता॒वृध॑ ऋ॒तुभि॑र्हवन॒श्रुतः॑ । जु॒षन्ताय्ँ॒युज्य॒म्पयः॑ । विश्वे॑ देवाश्शृणु॒तेमँ हव॑म्मे॒ ये अ॒न्तरि॑क्षे॒ य उप॒ द्यवि॒ ष्ठ । ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्रा आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वम् ॥ [48]