आ॒दि॒त्येभ्यो॒ भुव॑द्वद्भ्यश्च॒रुन्निर्व॑पे॒द्भूति॑काम आदि॒त्या वा ए॒तम्भूत्यै॒ प्रति॑ नुदन्ते॒ योऽल॒म्भूत्यै॒ सन्भूति॒न्न प्रा॒प्नोत्या॑दि॒त्याने॒व भुव॑द्वत॒स्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वैन॒म्भूति॑ङ्गमयन्ति॒ भव॑त्ये॒वादि॒त्येभ्यो॑ धा॒रय॑द्वद्भ्यश्च॒रुन्निर्व॑पे॒दप॑रुद्धो वाऽपरु॒ध्यमा॑नो वाऽऽदि॒त्या वा अ॑परो॒द्धार॑ आदि॒त्या अ॑वगमयि॒तार॑ आदि॒त्याने॒व धा॒रय॑द्वतः [1]
स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वैनव्ँ॑वि॒शि दा॑ध्रत्यनपरु॒ध्यो भ॑व॒त्यदि॒तेऽनु॑ मन्य॒स्वेत्य॑परु॒ध्यमा॑नोऽस्य प॒दमा द॑दीते॒यव्ँ वा अदि॑तिरि॒यमे॒वास्मै॑ रा॒ज्यमनु॑ मन्यते स॒त्याशीरित्या॑ह स॒त्यामे॒वाशिष॑ङ्कुरुत इ॒ह मन॒ इत्या॑ह प्र॒जा ए॒वास्मै॒ सम॑नसᳵ करो॒त्युप॒ प्रेत॑ मरुतः [2]
सु॒दा॒न॒व॒ ए॒ना वि॒श्पति॑ना॒भ्य॑मुँ राजा॑न॒मित्या॑ह मारु॒ती वै विड्ज्ये॒ष्ठो वि॒श्पति॑र्वि॒शैवनँ॑ रा॒ष्ट्रेण॒ सम॑र्धयति॒ यᳶ प॒रस्ता॑द्ग्राम्यवा॒दी स्यात्तस्य॑ गृ॒हाद्व्री॒हीना ह॑रेच्छु॒क्लाँश्च॑ कृ॒ष्णाँश्च॒ वि चि॑नुया॒द्ये शु॒क्लास्स्युस्तमा॑दि॒त्यञ्च॒रुन्निर्व॑पेदादि॒त्या वै दे॒वत॑या॒ विड्विश॑मे॒वाव॑ गच्छति [3]
अव॑गतास्य॒ विडन॑वगतँ रा॒ष्ट्रमित्या॑हु॒र्ये कृ॒ष्णास्स्युस्तव्ँ वा॑रु॒णञ्च॒रुन्निर्व॑पेद्वारु॒णव्ँ वै रा॒ष्ट्रमु॒भे ए॒व विश॑ञ्च रा॒ष्ट्रञ्चाव॑ गच्छति॒ यदि॒ नाव॒गच्छे॑दि॒मम॒हमा॑दि॒त्येभ्यो॑ भा॒गन्निर्व॑पा॒म्यामुष्मा॑द॒मुष्यै॑ वि॒शोऽव॑गन्तो॒रिति॒ निर्व॑पेदादि॒त्या ए॒वैन॑म्भाग॒धेय॑म्प्रे॒प्सन्तो॒ विश॒मव॑ [4]
ग॒म॒य॒न्ति॒ यदि॒ नाव॒गच्छे॒दाश्व॑त्थान्म॒यूखा॑न्त्स॒प्त म॑ध्यमे॒षाया॒मुप॑ हन्यादि॒दम॒हमा॑दि॒त्यान्ब॑ध्ना॒म्यामुष्मा॑द॒मुष्यै॑ वि॒शोऽव॑गन्तो॒रित्या॑दि॒त्या ए॒वैन॑म्ब॒द्धवी॑रा॒ विश॒मव॑ गमयन्ति॒ यदि॒ नाव॒गच्छे॑दे॒तमे॒वादि॒त्यञ्च॒रुन्निर्व॑पेदि॒ध्मेऽपि॑ म॒यूखा॒न्त्सन्न॑ह्येदनपरु॒ध्यमे॒वाव॑ गच्छ॒त्याश्व॑त्था भवन्ति म॒रुताव्ँ॒वा ए॒तदोजो॒ यद॑श्व॒त्थ ओज॑सै॒व विश॒मव॑ गच्छति स॒प्त भ॑वन्ति स॒प्तग॑णा॒ वै म॒रुतो॑ गण॒श ए॒व विश॒मव॑ गच्छति ॥ [5]
दे॒वा वै मृ॒त्योर॑बिभयु॒स्ते प्र॒जाप॑ति॒मुपा॑धाव॒न्तेभ्य॑ ए॒ताम्प्रा॑जाप॒त्याँ श॒तकृ॑ष्णला॒न्निर॑वप॒त्तयै॒वैष्व॒मृत॑मदधा॒द्यो मृ॒त्योर्बि॑भी॒यात्तस्मा॑ ए॒ताम्प्रा॑जाप॒त्याँ श॒तकृ॑ष्णला॒न्निर्व॑पेत्प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॒न्नायु॑र्दधाति॒ सर्व॒मायु॑रेति श॒तकृ॑ष्णला भवति श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये [6]
प्रति॑ तिष्ठति घृ॒ते भ॑व॒त्यायु॒र्वै घृ॒तम॒मृतँ॒ हिर॑ण्य॒मायु॑श्चै॒वास्मा॑ अ॒मृत॑ञ्च स॒मीची॑ दधाति च॒त्वारि॑चत्वारि कृ॒ष्णला॒न्यव॑ द्यति चतुरव॒त्तस्याप्त्या॑ एक॒धा ब्र॒ह्मण॒ उप॑ हरत्येक॒धैव यज॑मान॒ आयु॑र्दधात्य॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाᳶ प्राय॑श्चित्तिमैच्छ॒न्तस्मा॑ ए॒तँ सौ॒र्यञ्च॒रुन्निर॑वप॒न्तेनै॒वास्मि॑न् [7]
रुच॑मदधु॒र्यो ब्र॑ह्मवर्च॒सका॑म॒स्स्यात्तस्मा॑ ए॒तँ सौ॒र्यञ्च॒रुन्निर्व॑पेद॒मुमे॒वादि॒त्यँ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्ब्रह्मवर्च॒सन्द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वत्युभ॒यतो॑ रु॒क्मौ भ॑वत उभ॒यत॑ ए॒वास्मि॒न्रुच॑न्दधाति प्रया॒जेप्र॑याजे कृ॒ष्णल॑ञ्जुहोति दि॒ग्भ्य ए॒वास्मै॑ ब्रह्मवर्च॒समव॑ रुन्द्ध आग्ने॒यम॒ष्टाक॑पाल॒न्निर्व॑पेत्सावि॒त्रन्द्वाद॑शकपाल॒म्भूम्यै॑ [8]
च॒रुय्ँयᳵ का॒मये॑त॒ हिर॑ण्यव्ँविन्देय॒ हिर॑ण्य॒म्मोप॑ नमे॒दिति॒ यदा॑ग्ने॒यो भव॑त्याग्ने॒यव्ँ वै हिर॑ण्यय्ँ॒यस्यै॒व हिर॑ण्य॒न्तेनै॒वैन॑द्विन्दते सावि॒त्रो भ॑वति सवि॒तृप्र॑सूत ए॒वैन॑द्विन्दते॒ भूम्यै॑ च॒रुर्भ॑वत्य॒स्यामे॒वैन॑द्विन्दत॒ उपै॑नँ॒ हिर॑ण्यन्नमति॒ वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते॒ यो हिर॑ण्यव्ँवि॒न्दत॑ ए॒ताम् [9]
ए॒व निर्व॑पे॒द्धिर॑ण्यव्ँवि॒त्त्वा नेन्द्रि॒येण॑ वी॒र्ये॑ण॒ व्यृ॑ध्यत ए॒तामे॒व निर्व॑पे॒द्यस्य॒ हिर॑ण्य॒न्नश्ये॒द्यदा॑ग्ने॒यो भव॑त्याग्ने॒यव्ँ वै हिर॑ण्यय्ँ॒यस्यै॒व हिर॑ण्य॒न्तेनै॒वैन॑द्विन्दति सावि॒त्रो भ॑वति सवि॒तृप्र॑सूत ए॒वैन॑द्विन्दति॒ भूम्यै॑ च॒रुर्भ॑वत्य॒स्याव्ँवा ए॒तन्न॑श्यति॒ यन्नश्य॑त्य॒स्यामे॒वैन॑द्विन्द॒तीन्द्रः॑ [10]
त्वष्टु॒स्सोम॑मभी॒षहा॑पिब॒त्स विष्व॒ङ्व्या॑र्च्छ॒त्स इ॑न्द्रि॒येण॑ सोमपी॒थेन॒ व्या॑र्ध्यत॒ स यदू॒र्ध्वमु॒दव॑मी॒त्ते श्या॒माका॑ अभव॒न्त्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तँ सो॑मे॒न्द्रँ श्या॑मा॒कञ्च॒रुन्निर॑वप॒त्तेनै॒वास्मि॑न्निन्द्रि॒यँ सो॑मपी॒थम॑दधा॒द्वि वा ए॒ष इ॑न्द्रि॒येण॑ सोमपी॒थेन॑र्ध्यते॒ यस्सोमव्ँ॒वमि॑ति॒ यस्सो॑मवा॒मी स्यात्तस्मै॑ [11]
ए॒तँ सो॑मे॒न्द्रँ श्या॑मा॒कञ्च॒रुन्निर्व॑पे॒त्सोम॑ञ्चै॒वेन्द्र॑ञ्च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॑न्निन्द्रि॒यँ सो॑मपी॒थन्ध॑त्तो॒ नेन्द्रि॒येण॑ सोमपी॒थेन॒ व्यृ॑ध्यते॒ यत्सौ॒म्यो भव॑ति सोमपी॒थमे॒वाव॑ रुन्द्धे॒ यदै॒न्द्रो भव॑तीन्द्रि॒यव्ँ वै सो॑मपी॒थ इ॑न्द्रि॒यमे॒व सो॑मपी॒थमव॑ रुन्द्धे श्यामा॒को भ॑वत्ये॒ष वाव स सोमः॑ [12]
सा॒क्षादे॒व सो॑मपी॒थमव॑ रुन्द्धे॒ऽग्नये॑ दा॒त्रे पु॑रो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒दिन्द्रा॑य प्रदा॒त्रे पु॑रो॒डाश॒मेका॑दशकपालम्प॒शुका॑मो॒ऽग्निरे॒वास्मै॑ प॒शून्प्र॑ज॒नय॑ति वृ॒द्धानिन्द्र॒ᳶ प्र य॑च्छति॒ दधि॒ मधु॑ घृ॒तमापो॑ धा॒ना भ॑वन्त्ये॒तद्वै प॑शू॒नाँ रू॒पँ रू॒पेणै॒व प॒शूनव॑ रुन्द्धे पञ्चगृही॒तम्भ॑वति॒ पाङ्क्ता॒ हि प॒शवो॑ बहुरू॒पम्भ॑वति बहुरू॒पा हि प॒शवः॑ [13]
समृ॑द्ध्यै प्राजाप॒त्यम्भ॑वति प्राजाप॒त्या वै प॒शवᳶ॑ प्र॒जाप॑तिरे॒वास्मै॑ प॒शून्प्र ज॑नयत्या॒त्मा वै पुरु॑षस्य॒ मधु॒ यन्मध्व॒ग्नौ जु॒होत्या॒त्मान॑मे॒व तद्यज॑मानो॒ऽग्नौ प्र द॑धाति प॒ङ्क्त्यौ॑ याज्यानुवा॒क्ये॑ भवत॒ᳶ पाङ्क्त॒ᳶ पुरु॑ष॒ᳶ पाङ्क्ताः॑ प॒शव॑ आ॒त्मान॑मे॒व मृ॒त्योर्नि॒ष्क्रीय॑ प॒शूनव॑ रुन्द्धे ॥ [14]
दे॒वा वै स॒त्त्रमा॑स॒तर्द्धि॑परिमितय्ँ॒यश॑स्कामा॒स्तेषाँ॒ सोमँ॒ राजा॑नय्ँ॒यश॑ आर्च्छ॒त्स गि॒रिमुदै॒त्तम॒ग्निरनूदै॒त्ताव॒ग्नीषोमौ॒ सम॑भवता॒न्ताविन्द्रो॑ य॒ज्ञवि॑भ्र॒ष्टोऽनु॒ परै॒त्ताव॑ब्रवीद्या॒जय॑त॒म्मेति॒ तस्मा॑ ए॒तामिष्टि॒न्निर॑वपतामाग्ने॒यम॒ष्टाक॑पालमै॒न्द्रमेका॑दशकपालँ सौ॒म्यञ्च॒रुन्तयै॒वास्मि॒न्तेजः॑ [15]
इ॒न्द्रि॒यम्ब्र॑ह्मवर्च॒सम॑धत्ताय्ँ॒यो य॒ज्ञवि॑भ्रष्ट॒स्स्यात्तस्मा॑ ए॒तामिष्टि॒न्निर्व॑पेदाग्ने॒यम॒ष्टाक॑पालमै॒न्द्रमेका॑दशकपालँ सौ॒म्यञ्च॒रुय्यँदा॑ग्ने॒यो भव॑ति॒ तेज॑ ए॒वास्मि॒न्तेन॑ दधाति॒ यदै॒न्द्रो भव॑तीन्द्रि॒यमे॒वास्मि॒न्तेन॑ दधाति॒ यत्सौ॒म्यो ब्र॑ह्मवर्च॒सन्तेना॑ग्ने॒यस्य॑ च सौ॒म्यस्य॑ चै॒न्द्रे स॒माश्ले॑षये॒त्तेज॑श्चै॒वास्मि॑न्ब्रह्मवर्च॒सञ्च॑ स॒मीची॑ [16]
द॒धा॒त्य॒ग्नी॒षो॒मीय॒मेका॑दशकपाल॒न्निर्व॑पे॒द्यङ्कामो॒ नोप॒नमे॑दाग्ने॒यो वै ब्रा॑ह्म॒णस्स सोम॑म्पिबति॒ स्वामे॒व दे॒वताँ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ सैवैन॒ङ्कामे॑न॒ सम॑र्धय॒त्युपै॑न॒ङ्कामो॑ नमत्यग्नीषो॒मीय॑म॒ष्टाक॑पाल॒न्निर्व॑पेद्ब्रह्मवर्च॒सका॑मो॒ऽग्नीषोमा॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॑न्ब्रह्मवर्च॒सन्ध॑त्तो ब्रह्मवर्च॒स्ये॑व [17]
भ॒व॒ति॒ यद॒ष्टाक॑पाल॒स्तेना॑ग्ने॒यो यच्छ्या॑मा॒कस्तेन॑ सौ॒म्यस्समृ॑द्ध्यै॒ सोमा॑य वा॒जिने॑ श्यामा॒कञ्च॒रुन्निर्व॑पे॒द्यᳵ क्लैव्या॑द्बिभी॒याद्रेतो॒ हि वा ए॒तस्मा॒द्वाजि॑नमप॒क्राम॒त्यथै॒ष क्लैब्या॑द्बिभाय॒ सोम॑मे॒व वा॒जिनँ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॒न्रेतो॒ वाजि॑नन्दधाति॒ न क्ली॒बो भ॑वति ब्राह्मणस्प॒त्यमेका॑दशकपाल॒न्निर्व॑पे॒द्ग्राम॑कामः [18]
ब्रह्म॑ण॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ सजा॒तान्प्र य॑च्छति ग्रा॒म्ये॑व भ॑वति ग॒णव॑ती याज्यानुवा॒क्ये॑ भवतस्सजा॒तैरे॒वैन॑ङ्ग॒णव॑न्तङ्करोत्ये॒तामे॒व निर्व॑पे॒द्यᳵ का॒मये॑त॒ ब्रह्म॒न्विशव्ँ॒वि ना॑शयेय॒मिति॑ मारु॒ती या॑ज्यानुवा॒क्ये॑ कुर्या॒द्ब्रह्म॑न्ने॒व विशव्ँ॒वि ना॑शयति ॥ [19]
अ॒र्य॒म्णे च॒रुन्निर्व॑पेत्सुव॒र्गका॑मो॒ऽसौ वा आ॑दि॒त्यो॑ऽर्य॒माऽर्य॒मण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनँ॑ सुव॒र्गल्ँ लो॒कङ्ग॑मयत्यर्य॒म्णे च॒रुन्निर्व॑पे॒द्यᳵ का॒मये॑त॒ दान॑कामा मे प्र॒जास्स्यु॒रित्य॒सौ वा आ॑दि॒त्यो॑ऽर्य॒मा यᳵ खलु॒ वै ददा॑ति॒ सो॑ऽर्य॒माऽर्य॒मण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒व [20]
अ॒स्मै॒ दान॑कामाᳶ प्र॒जाᳵ क॑रोति॒ दान॑कामा अस्मै प्र॒जा भ॑वन्त्यर्य॒म्णे च॒रुन्निर्व॑पे॒द्यᳵ का॒मये॑त स्व॒स्ति ज॒नता॑मिया॒मित्य॒सौ वा आ॑दि॒त्यो॑ऽर्य॒माऽर्य॒मण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒न्तद्ग॑मयति॒ यत्र॒ जिग॑मिष॒तीन्द्रो॒ वै दे॒वाना॑मानुजाव॒र आ॑सी॒त्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तमै॒न्द्रमा॑नुषू॒कमेका॑दशकपाल॒न्निः [21]
अ॒व॒प॒त्तेनै॒वैन॒मग्र॑न्दे॒वता॑ना॒म्पर्य॑णयद्बु॒ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑ अकरोद्बु॒ध्नादे॒वैन॒मग्र॒म्पर्य॑णय॒द्यो रा॑ज॒न्य॑ आनुजाव॒रस्स्यात्तस्मा॑ ए॒तमै॒न्द्रमा॑नुषू॒कमेका॑दशकपाल॒न्निर्व॑पे॒दिन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒मग्रँ॑ समा॒नाना॒म्परि॑ णयति बु॒ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑ भवतो बु॒ध्नादे॒वैन॒मग्र॑म् [22]
परि॑ णयत्यानुषू॒को भ॑वत्ये॒षा ह्ये॑तस्य॑ दे॒वता॒ य आ॑नुजाव॒रस्समृ॑द्ध्यै॒ यो ब्रा॑ह्म॒ण आ॑नुजाव॒रस्स्यात्तस्मा॑ ए॒तम्बा॑र्हस्प॒त्यमा॑नुषू॒कञ्च॒रुन्निर्व॑पे॒द्बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒मग्रँ॑ समा॒नाना॒म्परि॑ णयति बु॒ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑ भवतो बु॒ध्नादे॒वैन॒मग्र॒म्परि॑ णयत्यानुषू॒को भ॑वत्ये॒षा ह्ये॑तस्य॑ दे॒वता॒ य आ॑नुजाव॒रस्समृ॑द्ध्यै ॥ [23]
प्र॒जाप॑ते॒स्त्रय॑स्त्रिँशद्दुहि॒तर॑ आस॒न्तास्सोमा॑य॒ राज्ञे॑ऽददा॒त्तासाँ॑ रोहि॒णीमुपै॒त्ता ईर्ष्य॑न्ती॒ᳶ पुन॑रगच्छ॒न्ता अन्वै॒त्ताᳶ पुन॑रयाचत॒ ता अ॑स्मै॒ न पुन॑रददा॒त्सो॑ऽब्रवीदृ॒तम॑मीष्व॒ यथा॑ समाव॒च्छ उ॑पै॒ष्याम्यथ॑ ते॒ पुन॑र्दास्या॒मीति॒ स ऋ॒तमा॑मी॒त्ता अ॑स्मै॒ पुन॑रददा॒त्तासाँ॑ रोहि॒णीमे॒वोप॑ [24]
ऐ॒त्तय्ँयक्ष्म॑ आर्च्छ॒द्राजा॑नय्ँ॒यक्ष्म॑ आर॒दिति॒ तद्रा॑जय॒क्ष्मस्य॒ जन्म॒ यत्पापी॑या॒नभ॑व॒त्तत्पा॑पय॒क्ष्मस्य॒ यज्जा॒याभ्योऽवि॑न्द॒त्तज्जा॒येन्य॑स्य॒ य ए॒वमे॒तेषाय्ँ॒यक्ष्मा॑णा॒ञ्जन्म॒ वेद॒ नैन॑मे॒ते यक्ष्मा॑ विन्दन्ति॒ स ए॒ता ए॒व न॑म॒स्यन्नुपा॑धाव॒त्ता अ॑ब्रुव॒न्वरव्ँ॑वृणामहै समाव॒च्छ ए॒व न॒ उपा॑य॒ इति॒ तस्मा॑ ए॒तम् [25]
आ॒दि॒त्यञ्च॒रुन्निर॑वप॒न्तेनै॒वैन॑म्पा॒पात्स्रामा॑दमुञ्च॒न्यᳶ पा॑पय॒क्ष्मगृ॑हीत॒स्स्यात्तस्मा॑ ए॒तमा॑दि॒त्यञ्च॒रुन्निर्व॑पेदादि॒त्याने॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वैन॑म्पा॒पात्स्रामा॑न्मुञ्चन्त्यमावा॒स्या॑या॒न्निर्व॑पेद॒मुमे॒वैन॑मा॒प्याय॑मान॒मन्वा प्या॑ययति॒ नवो॑नवो भवति॒ जाय॑मान॒ इति॑ पुरोनुवा॒क्या॑ भव॒त्यायु॑रे॒वास्मि॒न्तया॑ दधाति॒ यमा॑दि॒त्या अँ॒शुमा॑प्या॒यय॒न्तीति॑ या॒ज्यैवैन॑मे॒तया॑ प्याययति ॥ [26]
प्र॒जाप॑तिर्दे॒वेभ्यो॒ऽन्नाद्य॒व्व्ँयादि॑श॒त्सो॑ऽब्रवी॒द्यदि॒माल्लोँ॒कान॒भ्य॑ति॒रिच्या॑तै॒ तन्ममा॑स॒दिति॒ तदि॒माल्लोँ॒कान॒भ्यत्य॑रिच्य॒तेन्द्रँ॒ राजा॑न॒मिन्द्र॑मधिरा॒जमिन्द्रँ॑ स्व॒राजा॑न॒न्ततो॒ वै स इ॒माल्लोँ॒काँस्त्रे॒धादु॑ह॒त्तत्त्रि॒धातो॑स्त्रिधातु॒त्वय्यङ्का॒मये॑तान्ना॒दस्स्या॒दिति॒ तस्मा॑ ए॒तन्त्रि॒धातु॒न्निर्व॑पे॒दिन्द्रा॑य॒ राज्ञे॑ पुरो॒डाश॑म् [27]
एका॑दशकपाल॒मिन्द्रा॑याधिरा॒जायेन्द्रा॑य स्व॒राज्ञे॒ऽयव्ँवा इन्द्रो॒ राजा॒यमिन्द्रो॑ऽधिरा॒जो॑ऽसाविन्द्र॑स्स्व॒राडि॒माने॒व लो॒कान्त्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मा॒ अन्न॒म्प्र य॑च्छन्त्यन्ना॒द ए॒व भ॑वति॒ यथा॑ व॒त्सेन॒ प्रत्ता॒ङ्गान्दु॒ह ए॒वमे॒वेमाल्लोँ॒कान्प्रत्ता॒न्काम॑म॒न्नाद्य॑न्दुह उत्ता॒नेषु॑ क॒पाले॒ष्वधि॑ श्रय॒त्यया॑तयामत्वाय॒ त्रयᳶ॑ पुरो॒डाशा॑ भवन्ति॒ त्रय॑ इ॒मे लो॒का ए॒षाल्लोँ॒काना॒माप्त्या॒ उत्त॑रउत्तरो॒ ज्याया॑न्भवत्ये॒वमि॑व॒ हीमे लो॒कास्समृ॑द्ध्यै॒ सर्वे॑षामभिग॒मय॒न्नव॑ द्य॒त्यछ॑म्बट्कारव्व्ँय॒त्यास॒मन्वा॒हानि॑र्दाहाय ॥ [28]
दे॒वा॒सु॒रास्सय्ँय॑त्ता आस॒न्तान्दे॒वानसु॑रा अजय॒न्ते दे॒वाᳶ प॑राजिग्या॒ना असु॑राणाव्ँ॒ वैश्य॒मुपा॑य॒न्तेभ्य॑ इन्द्रि॒यव्ँवी॒र्य॑मपा॑क्राम॒त्तदिन्द्रो॑ऽचाय॒त्तदन्वपा॑क्राम॒त्तद॑व॒रुध॒न्नाश॑क्नो॒त्तद॑स्मादभ्य॒र्धो॑ऽचर॒त्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तमे॒तया॒ सर्व॑पृष्ठयाऽयाजय॒त्तयै॒वास्मि॑न्निन्द्रि॒यव्ँवी॒र्य॑मदधा॒द्य इ॑न्द्रि॒यका॑मः [29]
वी॒र्य॑काम॒स्स्यात्तमे॒तया॒ सर्व॑पृष्ठया याजयेदे॒ता ए॒व दे॒वता॒स्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ता ए॒वास्मि॑न्निन्द्रि॒यव्ँवी॒र्य॑न्दधति॒ यदिन्द्रा॑य॒ राथ॑न्तराय नि॒र्वप॑ति॒ यदे॒वाग्नेस्तेज॒स्तदे॒वाव॑ रुन्द्धे॒ यदिन्द्रा॑य॒ बार्ह॑ताय॒ यदे॒वेन्द्र॑स्य॒ तेज॒स्तदे॒वाव॑ रुन्द्धे॒ यदिन्द्रा॑य वैरू॒पाय॒ यदे॒व स॑वि॒तुस्तेज॒स्तत् [30]
ए॒वाव॑ रुन्द्धे॒ यदिन्द्रा॑य वैरा॒जाय॒ यदे॒व धा॒तुस्तेज॒स्तदे॒वाव॑ रुन्द्धे॒ यदिन्द्रा॑य शाक्व॒राय॒ यदे॒व म॒रुता॒न्तेज॒स्तदे॒वाव॑ रुन्द्धे॒ यदिन्द्रा॑य रैव॒ताय॒ यदे॒व बृह॒स्पते॒स्तेज॒स्तदे॒वाव॑ रुन्द्ध ए॒ताव॑न्ति॒ वै तेजाँ॑सि॒ तान्ये॒वाव॑ रुन्द्ध उत्ता॒नेषु॑ क॒पाले॒ष्वधि॑ श्रय॒त्यया॑तयामत्वाय॒ द्वाद॑शकपालᳶ पुरो॒डाशः॑ [31]
भ॒व॒ति॒ वै॒श्व॒दे॒व॒त्वाय॑ सम॒न्तम्प॒र्यव॑द्यति सम॒न्तमे॒वेन्द्रि॒यव्ँवी॒र्यय्ँ॑यज॑माने दधाति व्य॒त्यास॒मन्वा॒हानि॑र्दाहा॒याश्व॑ ऋष॒भो वृ॒ष्णिर्ब॒स्तस्सा दक्षि॑णा वृष॒त्वायै॒तयै॒व य॑जेताभिश॒स्यमा॑न ए॒ताश्चेद्वा अ॑स्य दे॒वता॒ अन्न॑म॒दन्त्य॒दन्त्यु॑वे॒वास्य॑ मनु॒ष्याः॑ ॥ [32]
रज॑नो॒ वै कौ॑णे॒यᳵ क्र॑तु॒जित॒ञ्जान॑किञ्चक्षु॒र्वन्य॑मया॒त्तस्मा॑ ए॒तामिष्टि॒न्निर॑वपद॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालँ सौ॒र्यञ्च॒रुम॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्तयै॒वास्मि॒ञ्चक्षु॑रदधा॒द्यश्चक्षु॑ष्काम॒स्स्यात्तस्मा॑ ए॒तामिष्टि॒न्निर्व॑पेद॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालँ सौ॒र्यञ्च॒रुम॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालम॒ग्नेर्वै चक्षु॑षा मनु॒ष्या॑ वि [33]
प॒श्य॒न्ति॒ सूर्य॑स्य दे॒वा अ॒ग्निञ्चै॒व सूर्य॑ञ्च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॒ञ्चक्षु॑र्धत्त॒श्चक्षु॑ष्माने॒व भ॑वति॒ यदा॑ग्ने॒यौ भव॑त॒श्चक्षु॑षी ए॒वास्मि॒न्तत्प्रति॑ दधाति॒ यत्सौ॒र्यो नासि॑का॒न्तेना॒भित॑स्सौ॒र्यमा॑ग्ने॒यौ भ॑वत॒स्तस्मा॑द॒भितो॒ नासि॑का॒ञ्चक्षु॑षी॒ तस्मा॒न्नासि॑कया॒ चक्षु॑षी॒ विधृ॑ते समा॒नी या॑ज्यानुवा॒क्ये॑ भवतस्समा॒नँ हि चक्षु॒स्समृ॑द्ध्या॒ उदु॒ त्यञ्जा॒तवे॑दसँ स॒प्त त्वा॑ ह॒रितो॒ रथे॑ चि॒त्रन्दे॒वाना॒मुद॑गा॒दनी॑क॒मिति॒ पिण्डा॒न्प्र य॑च्छति॒ चक्षु॑रे॒वास्मै॒ प्र य॑च्छति॒ यदे॒व तस्य॒ तत् ॥ [34]
ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहँ स॑जा॒तेषु॑ भूयास॒न्धीर॒श्चेत्ता॑ वसु॒विद्ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहँ स॑जा॒तेषु॑ भूयासमु॒ग्रश्चेत्ता॑ वसु॒विद्ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहँ स॑जा॒तेषु॑ भूयासमभि॒भूश्चेत्ता॑ वसु॒विदाम॑नम॒स्याम॑नस्य देवा॒ ये स॑जा॒ताᳵ कु॑मा॒रास्सम॑नस॒स्तान॒हङ्का॑मये हृ॒दा ते माङ्का॑मयन्ताँ हृ॒दा तान्म॒ आम॑नसᳵ कृधि॒ स्वाहाम॑नमसि [35]
आम॑नस्य देवा॒ यास्स्त्रिय॒स्सम॑नस॒स्ता अ॒हङ्का॑मये हृ॒दा ता माङ्का॑मयन्ताँ हृ॒दा ता म॒ आम॑नसᳵ कृधि॒ स्वाहा॑ वैश्वदे॒वीँ सा॑ङ्ग्रह॒णीन्निर्व॑पे॒द्ग्राम॑कामो वैश्वदे॒वा वै स॑जा॒ता विश्वा॑ने॒व दे॒वान्त्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ सजा॒तान्प्र य॑च्छन्ति ग्रा॒म्ये॑व भ॑वति साङ्ग्रह॒णी भ॑वति मनो॒ग्रह॑णव्ँ॒ वै स॒ङ्ग्रह॑ण॒म्मन॑ ए॒व स॑जा॒ताना॑म् [36]
गृ॒ह्णा॒ति॒ ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहँ स॑जा॒तेषु॑ भूयास॒मिति॑ परि॒धीन्परि॑ दधात्या॒शिष॑मे॒वैतामा शा॒स्तेऽथो॑ ए॒तदे॒व सर्वँ॑ सजा॒तेष्वधि॑ भवति॒ यस्यै॒वव्ँवि॒दुष॑ ए॒ते प॑रि॒धयᳶ॑ परिधी॒यन्त॒ आम॑नम॒स्याम॑नस्य देवा॒ इति॑ ति॒स्र आहु॑तीर्जुहोत्ये॒ताव॑न्तो॒ वै स॑जा॒ता ये म॒हान्तो॒ ये क्षु॑ल्ल॒का यास्स्त्रिय॒स्ताने॒वाव॑ रुन्द्धे॒ त ए॑न॒मव॑रुद्धा॒ उप॑ तिष्ठन्ते ॥ [37]
यन्नव॒मैत्तन्नव॑नीतमभव॒द्यदस॑र्प॒त्तत्स॒र्पिर॑भव॒द्यदध्रि॑यत॒ तद्घृ॒तम॑भवद॒श्विनोः॑ प्रा॒णो॑ऽसि॒ तस्य॑ ते दत्ताय्ँ॒ययोः॑ प्रा॒णोऽसि॒ स्वाहेन्द्र॑स्य प्रा॒णो॑ऽसि॒ तस्य॑ ते ददातु॒ यस्य॑ प्रा॒णोऽसि॒ स्वाहा॑ मि॒त्रावरु॑णयोᳶ प्रा॒णो॑ऽसि॒ तस्य॑ ते दत्ताय्ँ॒ययोः॑ प्रा॒णोऽसि॒ स्वाहा॒ विश्वे॑षान्दे॒वाना॑म्प्रा॒णो॑ऽसि [38]
तस्य॑ ते ददतु॒ येषा॑म्प्रा॒णोऽसि॒ स्वाहा॑ घृ॒तस्य॒ धारा॑म॒मृत॑स्य॒ पन्था॒मिन्द्रे॑ण द॒त्ताम्प्रय॑ताम्म॒रुद्भिः॑ । तत्त्वा॒ विष्णु॒ᳶ पर्य॑पश्य॒त्तत्त्वेडा॒ गव्यैर॑यत् । पा॒व॒मा॒नेन॑ त्वा॒ स्तोमे॑न गाय॒त्रस्य॑ वर्त॒न्योपाँ॒शोर्वी॒र्ये॑ण दे॒वस्त्वा॑ सवि॒तोत्सृ॑जतु जी॒वात॑वे जीवन॒स्यायै॑ बृहद्रथन्त॒रयो॑स्त्वा॒ स्तोमे॑न त्रि॒ष्टुभो॑ वर्त॒न्या शु॒क्रस्य॑ वी॒र्ये॑ण दे॒वस्त्वा॑ सवि॒तोत् [39]
सृ॒ज॒तु॒ जी॒वात॑वे जीवन॒स्याया॑ अ॒ग्नेस्त्वा॒ मात्र॑या॒ जग॑त्यै वर्त॒न्याग्र॑य॒णस्य॑ वी॒र्ये॑ण दे॒वस्त्वा॑ सवि॒तोत्सृ॑जतु जी॒वात॑वे जीवन॒स्याया॑ इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि प्रि॒यँ रेतो॑ वरुण सोम राजन् । मा॒तेवा॑स्मा अदिते॒ शर्म॑ यच्छ॒ विश्वे॑ देवा॒ जर॑दष्टि॒र्यथास॑त् । अ॒ग्निरायु॑ष्मा॒न्त्स वन॒स्पति॑भि॒रायु॑ष्मा॒न्तेन॒ त्वायु॒षायु॑ष्मन्तङ्करोमि॒ सोम॒ आयु॑ष्मा॒न्त्स ओष॑धीभिर्य॒ज्ञ आयु॑ष्मा॒न्त्स दक्षि॑णाभि॒र्ब्रह्मायु॑ष्म॒त्तद्ब्रा॑ह्म॒णैरायु॑ष्मद्दे॒वा आयु॑ष्मन्त॒स्ते॑ऽमृते॑न पि॒तर॒ आयु॑ष्मन्त॒स्ते स्व॒धयायु॑ष्मन्त॒स्तेन॒ त्वायु॒षायु॑ष्मन्तङ्करोमि ॥ [40]
अ॒ग्निव्ँवा ए॒तस्य॒ शरी॑रङ्गच्छति॒ सोमँ॒ रसो॒ वरु॑ण एनव्ँवरुणपा॒शेन॑ गृह्णाति॒ सर॑स्वतीव्ँ॒वाग॒ग्नाविष्णू॑ आ॒त्मा यस्य॒ ज्योगा॒मय॑ति॒ यो ज्योगा॑मयावी॒ स्याद्यो वा॑ का॒मये॑त॒ सर्व॒मायु॑रिया॒मिति॒ तस्मा॑ ए॒तामिष्टि॒न्निर्व॑पेदाग्ने॒यम॒ष्टाक॑पालँ सौ॒म्यञ्च॒रुव्ँवा॑रु॒णन्दश॑कपालँ सारस्व॒तञ्च॒रुमा॑ग्नावैष्ण॒वमेका॑दशकपालम॒ग्नेरे॒वास्य॒ शरी॑रन्निष्क्री॒णाति॒ सोमा॒द्रस॑म् [41]
वा॒रु॒णेनै॒वैनव्ँ॑वरुणपा॒शान्मु॑ञ्चति सारस्व॒तेन॒ वाच॑न्दधात्य॒ग्निस्सर्वा॑ दे॒वता॒ विष्णु॑र्य॒ज्ञो दे॒वता॑भिश्चै॒वैनय्ँ॑ य॒ज्ञेन॑ च भिषज्यत्यु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व यन्नव॒मैत्तन्नव॑नीतमभव॒दित्याज्य॒मवे॑क्षते रू॒पमे॒वास्यै॒तन्म॑हि॒मानव्ँ॒व्याच॑ष्टे॒ऽश्विनोः॑ प्रा॒णो॑ऽसीत्या॑हा॒श्विनौ॒ वै दे॒वाना॑म् [42]
भि॒षजौ॒ ताभ्या॑मे॒वास्मै॑ भेष॒जङ्क॑रो॒तीन्द्र॑स्य प्रा॒णो॑ऽसीत्या॑हेन्द्रि॒यमे॒वास्मि॑न्ने॒तेन॑ दधाति मि॒त्रावरु॑णयोᳶ प्रा॒णो॑ऽसीत्या॑ह प्राणापा॒नावे॒वास्मि॑न्ने॒तेन॑ दधाति॒ विश्वे॑षान्दे॒वाना॑म्प्रा॒णो॑ऽसीत्या॑ह वी॒र्य॑मे॒वास्मि॑न्ने॒तेन॑ दधाति घृ॒तस्य॒ धारा॑म॒मृत॑स्य॒ पन्था॒मित्या॑ह यथाय॒जुरे॒वैतत्पा॑वमा॒नेन॑ त्वा॒ स्तोमे॒नेति॑ [43]
आ॒ह॒ प्रा॒णमे॒वास्मि॑न्ने॒तेन॑ दधाति बृहद्रथन्त॒रयो॑स्त्वा॒ स्तोमे॒नेत्या॒हौज॑ ए॒वास्मि॑न्ने॒तेन॑ दधात्य॒ग्नेस्त्वा॒ मात्र॒येत्या॑हा॒त्मान॑मे॒वास्मि॑न्ने॒तेन॑ दधात्यृ॒त्विज॒ᳶ पर्या॑हु॒र्याव॑न्त ए॒वर्त्विज॒स्त ए॑नम्भिषज्यन्ति ब्र॒ह्मणो॒ हस्त॑मन्वा॒रभ्य॒ पर्या॑हुरेक॒धैव यज॑मान॒ आयु॑र्दधति॒ यदे॒व तस्य॒ तद्धिर॑ण्यात् [44]
घृ॒तन्निष्पि॑ब॒त्यायु॒र्वै घृ॒तम॒मृतँ॒ हिर॑ण्यम॒मृता॑दे॒वायु॒र्निष्पि॑बति श॒तमा॑नम्भवति श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठ॒त्यथो॒ खलु॒ याव॑ती॒स्समा॑ ए॒ष्यन्मन्ये॑त॒ ताव॑न्मानँ स्या॒त्समृ॑द्ध्या इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृ॒धीत्या॒हायु॑रे॒वास्मि॒न्वर्चो॑ दधाति॒ विश्वे॑ देवा॒ जर॑दष्टि॒र्यथास॒दित्या॑ह॒ जर॑दष्टिमे॒वैन॑ङ्करोत्य॒ग्निरायु॑ष्मा॒निति॒ हस्त॑ङ्गृह्णात्ये॒ते वै दे॒वा आयु॑ष्मन्त॒स्त ए॒वास्मि॒न्नायु॑र्दधति॒ सर्व॒मायु॑रेति ॥ [45]
प्र॒जाप॑ति॒र्वरु॑णा॒याश्व॑मनय॒त्स स्वान्दे॒वता॑मार्च्छ॒त्स पर्य॑दीर्यत॒ स ए॒तव्ँवा॑रु॒णञ्चतु॑ष्कपालमपश्य॒त्तन्निर॑वप॒त्ततो॒ वै स व॑रुणपा॒शाद॑मुच्यत॒ वरु॑णो॒ वा ए॒तङ्गृ॑ह्णाति॒ योऽश्व॑म्प्रतिगृ॒ह्णाति॒ याव॒तोऽश्वा॑न्प्रतिगृह्णी॒यात्ताव॑तो वारु॒णाञ्चतु॑ष्कपाला॒न्निर्व॑पे॒द्वरु॑णमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनव्ँ॑वरुणपा॒शान्मु॑ञ्चति [46]
चतु॑ष्कपाला भवन्ति॒ चतु॑ष्पा॒द्ध्यश्व॒स्समृ॑द्ध्या॒ एक॒मति॑रिक्त॒न्निर्व॑पे॒द्यमे॒व प्र॑तिग्रा॒ही भव॑ति॒ यव्ँवा॒ नाध्येति॒ तस्मा॑दे॒व व॑रुणपा॒शान्मु॑च्यते॒ यद्यप॑रम्प्रतिग्रा॒ही स्यात्सौ॒र्यमेक॑कपाल॒मनु॒ निर्व॑पेद॒मुमे॒वादि॒त्यमु॑च्चा॒रङ्कु॑रुते॒ऽपो॑ऽवभृ॒थमवै॑त्य॒प्सु वै वरु॑णस्सा॒क्षादे॒व वरु॑ण॒मव॑ यजतेऽपोन॒प्त्रीय॑ञ्च॒रुम्पुन॒रेत्य॒ निर्व॑पेद॒प्सुयो॑नि॒र्वा अश्व॒स्स्वामे॒वैनय्ँ॒योनि॑ङ्गमयति॒ स ए॑नँ शा॒न्त उप॑ तिष्ठते ॥ [47]
या वा॑मिन्द्रावरुणा यत॒व्या॑ त॒नूस्तये॒ममँह॑सो मुञ्चतय्ँ॒या वा॑मिन्द्रावरुणा सह॒स्या॑ रक्ष॒स्या॑ तेज॒स्या॑ त॒नूस्तये॒ममँह॑सो मुञ्चतय्ँ॒यो वा॑मिन्द्रावरुणाव॒ग्नौ स्राम॒स्तव्ँवा॑मे॒तेनाव॑ यजे॒ यो वा॑मिन्द्रावरुणा द्वि॒पात्सु॑ प॒शुषु॒ चतु॑ष्पात्सु गो॒ष्ठे गृ॒हेष्व॒प्स्वोष॑धीषु॒ वन॒स्पति॑षु॒ स्राम॒स्तव्ँवा॑मे॒तेनाव॑ यज॒ इन्द्रो॒ वा ए॒तस्य॑ [48]
इ॒न्द्रि॒येणाप॑ क्रामति॒ वरु॑ण एनव्ँवरुणपा॒शेन॑ गृह्णाति॒ यᳶ पा॒प्मना॑ गृही॒तो भव॑ति॒ यᳶ पा॒प्मना॑ गृही॒तस्स्यात्तस्मा॑ ए॒तामै॑न्द्रावरु॒णीम्प॑य॒स्या॑न्निर्व॑पे॒दिन्द्र॑ ए॒वास्मि॑न्निन्द्रि॒यन्द॑धाति॒ वरु॑ण एनव्ँवरुणपा॒शान्मु॑ञ्चति पय॒स्या॑ भवति॒ पयो॒ हि वा ए॒तस्मा॑दप॒क्राम॒त्यथै॒ष पा॒प्मना॑ गृही॒तो यत्प॑य॒स्या॑ भव॑ति॒ पय॑ ए॒वास्मि॒न्तया॑ दधाति पय॒स्या॑याम् [49]
पु॒रो॒डाश॒मव॑ दधात्यात्म॒न्वन्त॑मे॒वैन॑ङ्करो॒त्यथो॑ आ॒यत॑नवन्तमे॒व च॑तु॒र्धा व्यू॑हति दि॒क्ष्वे॑व प्रति॑ तिष्ठति॒ पुन॒स्समू॑हति दि॒ग्भ्य ए॒वास्मै॑ भेष॒जङ्क॑रोति स॒मूह्याव॑ द्यति॒ यथावि॑द्धन्निष्कृ॒न्तति॑ ता॒दृगे॒व तद्यो वा॑मिन्द्रावरुणाव॒ग्नौ स्राम॒स्तव्ँवा॑मे॒तेनाव॑ यज॒ इत्या॑ह॒ दुरि॑ष्ट्या ए॒वैन॑म्पाति॒ यो वा॑मिन्द्रावरुणा द्वि॒पात्सु॑ प॒शुषु॒ स्राम॒स्तव्ँवा॑मे॒तेनाव॑ यज॒ इत्या॑है॒ताव॑ती॒र्वा आप॒ ओष॑धयो॒ वन॒स्पत॑यᳶ प्र॒जाᳶ प॒शव॑ उपजीव॒नीया॒स्ता ए॒वास्मै॑ वरुणपा॒शान्मु॑ञ्चति ॥ [50]
स प्र॑त्न॒वन्नि काव्येन्द्रव्ँ॑वो वि॒श्वत॒स्परीन्द्र॒न्नरः॑ । त्वन्न॑स्सोम वि॒श्वतो॒ रक्षा॑ राजन्नघाय॒तः । न रि॑ष्ये॒त्त्वाव॑त॒स्सखा॑ । या ते॒ धामा॑नि दि॒वि या पृ॑थि॒व्याय्याँ पर्व॑ते॒ष्वोष॑धीष्व॒प्सु । तेभि॑र्नो॒ विश्वैः॑ सु॒मना॒ अहे॑ड॒न्राज॑न्त्सोम॒ प्रति॑ ह॒व्या गृ॑भाय । अग्नी॑षोमा॒ सवे॑दसा॒ सहू॑ती वनत॒ङ्गिरः॑ । सन्दे॑व॒त्रा ब॑भूवथुः । यु॒वम् [51]
ए॒तानि॑ दि॒वि रो॑च॒नान्य॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तम् । यु॒वँ सिन्धूँ॑ र॒भिश॑स्तेरव॒द्यादग्नी॑षोमा॒वमु॑ञ्चतङ्गृभी॒तान् । अग्नी॑षोमावि॒मँ सु मे॑ शृणु॒तव्ँवृ॑षणा॒ हव॑म् । प्रति॑ सू॒क्तानि॑ हर्यत॒म्भव॑तन्दा॒शुषे॒ मयः॑ । आन्यन्दि॒वो मा॑त॒रिश्वा॑ जभा॒राम॑थ्नाद॒न्यम्परि॑ श्ये॒नो अद्रेः॑ । अग्नी॑षोमा॒ ब्रह्म॑णा वावृधा॒नोरुय्ँ य॒ज्ञाय॑ चक्रथुरु लो॒कम् । अग्नी॑षोमा ह॒विष॒ᳶ प्रस्थि॑तस्य वी॒तम् [52]
हर्य॑तव्ँवृषणा जु॒षेथा॑म् । सु॒शर्मा॑णा॒ स्वव॑सा॒ हि भू॒तमथा॑ धत्तय्ँ॒यज॑मानाय॒ शय्ँयोः । आ प्या॑यस्व॒ सन्ते॑ । ग॒णाना॑न्त्वा ग॒णप॑तिँ हवामहे क॒विङ्क॑वी॒नामु॑प॒मश्र॑वस्तमम् । ज्ये॒ष्ठ॒राज॒म्ब्रह्म॑णाम्ब्रह्मणस्पत॒ आ न॑श्शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् । स इज्जने॑न॒ स वि॒शा स जन्म॑ना॒ स पु॒त्रैर्वाज॑म्भरते॒ धना॒ नृभिः॑ । दे॒वानाय्ँ॒यᳶ पि॒तर॑मा॒विवा॑सति [53]
श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पति॑म् । स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑ व॒लँ रु॑रोज फलि॒गँ रवे॑ण । बृह॒स्पति॑रु॒स्रिया॑ हव्य॒सूद॒ᳵ कनि॑क्रद॒द्वाव॑शती॒रुदा॑जत् । मरु॑तो॒ यद्ध॑ वो दि॒वो या व॒श्शर्म॑ । अ॒र्य॒मा या॑ति वृष॒भस्तुवि॑ष्मान्दा॒ता वसू॑नाम्पुरुहू॒तो अर्ह॑न् । स॒ह॒स्रा॒क्षो गो॑त्र॒भिद्वज्र॑बाहुर॒स्मासु॑ दे॒वो द्रवि॑णन्दधातु । ये ते॑ऽर्यमन्ब॒हवो॑ देव॒याना॒ᳶ पन्था॑नः [54]
रा॒ज॒न्दि॒व आ॒चर॑न्ति । तेभि॑र्नो देव॒ महि॒ शर्म॑ यच्छ॒ शन्न॑ एधि द्वि॒पदे॒ शञ्चतु॑ष्पदे । बु॒ध्नादग्र॒मङ्गि॑रोभिर्गृणा॒नो वि पर्व॑तस्य दृँहि॒तान्यै॑रत् । रु॒जद्रोधाँ॑सि कृ॒त्रिमा॑ण्येषाँ॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार । बु॒ध्नादग्रे॑ण॒ वि मि॑माय॒ मानै॒र्वज्रे॑ण॒ खान्य॑तृणन्न॒दीना॑म् । वृथा॑सृजत्प॒थिभि॑र्दीर्घया॒थैस्सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥ [55]
प्र यो ज॒ज्ञे वि॒द्वाँ अ॒स्य बन्धुव्ँ॒विश्वा॑नि दे॒वो जनि॑मा विवक्ति । ब्रह्म॒ ब्रह्म॑ण॒ उज्ज॑भार॒ मध्या॑न्नी॒चादु॒च्चा स्व॒धया॒भि प्र त॑स्थौ । म॒हान्म॒ही अ॑स्तभाय॒द्वि जा॒तो द्याँ सद्म॒ पार्थि॑वञ्च॒ रजः॑ । स बु॒ध्नादा॑ष्ट ज॒नुषा॒भ्यग्र॒म्बृह॒स्पति॑र्दे॒वता॒ यस्य॑ स॒म्राट् । बु॒ध्नाद्यो अग्र॑म॒भ्यर्त्योज॑सा॒ बृह॒स्पति॒मा वि॑वासन्ति दे॒वाः । भि॒नद्व॒लव्ँवि पुरो॑ दर्दरीति॒ कनि॑क्रद॒त्सुव॑र॒पो जि॑गाय ॥ [56]