वा॒य॒व्यँ॑ श्वे॒तमा ल॑भेत॒ भूति॑कामो वा॒युर्वै क्षेपि॑ष्ठा दे॒वता॑ वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒म्भूति॑ङ्गमयति॒ भव॑त्ये॒वाति॑क्षिप्रा दे॒वतेत्या॑हु॒स्सैन॑मीश्व॒रा प्र॒दह॒ इत्ये॒तमे॒व सन्तव्ँ॑वा॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत नि॒युद्वा अ॑स्य॒ धृति॑र्द्धृ॒त ए॒व भूति॒मुपै॒त्यप्र॑दाहाय॒ भव॑त्ये॒व (1)
वा॒यवे॑ नि॒युत्व॑त॒ आल॑भेत॒ ग्राम॑कामो वा॒युर्वा इ॒माᳶ प्र॒जा न॑स्यो॒ता ने॑नीयते वा॒युमे॒व नि॒युत्व॑न्तँ॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॑ प्र॒जा न॑स्यो॒ता निय॑च्छति ग्रा॒म्ये॑व भ॑वति नि॒युत्व॑ते भवति द्ध्रु॒वा ए॒वास्मा॒ अन॑पगाᳵ करोति वा॒यवे॑ नि॒युत्व॑त॒ आल॑भेत प्र॒जाका॑मᳶ प्रा॒णो वै वा॒युर॑पा॒नो नि॒युत्प्रा॑णापा॒नौ खलु॒ वा ए॒तस्य॑ प्र॒जायाः॑ (2)
अप॑क्रामतो॒ योऽल॑म्प्र॒जायै॒ सन्प्र॒जान्न वि॒न्दते॑ वा॒युमे॒व नि॒युत्व॑न्तँ॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॑ प्राणापा॒नाभ्या॑म्प्र॒जाम्प्रज॑नयति वि॒न्दते॑ प्र॒जाव्ँवा॒यवे॑ नि॒युत्व॑त॒ आल॑भेत॒ ज्योगा॑मयावी प्रा॒णो वै वा॒युर॑पा॒नो नि॒युत्प्रा॑णापा॒नौ खलु॒ वा ए॒तस्मा॒दप॑क्रामतो॒ यस्य॒ ज्योगा॒मय॑ति वा॒युमे॒व नि॒युत्व॑न्तँ॒ स्वेन॑ भाग॒धेये॒नोप॑ (3)
धा॒व॒ति॒ स ए॒वास्मि॑न्प्राणापा॒नौ द॑धात्यु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व प्र॒जाप॑ति॒र्वा इ॒दमेक॑ आसी॒त्सो॑ऽकामयत प्र॒जाᳶ प॒शून्त्सृ॑जे॒येति॒ स आ॒त्मनो॑ व॒पामुद॑क्खिद॒त्ताम॒ग्नौ प्रागृ॑ह्णा॒त्ततो॒ऽजस्तू॑प॒रस्सम॑भव॒त्तँ स्वायै॑ दे॒वता॑या॒ आऽल॑भत॒ ततो॒ वै स प्र॒जाᳶ प॒शून॑सृजत॒ यᳶ प्र॒जाका॑मः (4)
प॒शुका॑म॒स्स्यात्स ए॒तम्प्रा॑जाप॒त्यम॒जन्तू॑प॒रमाल॑भेत प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॑ प्र॒जाम्प॒शून्प्रज॑नयति॒ यच्छ्म॑श्रु॒णस्तत्पुरु॑षाणाँ रू॒पय्यँत्तू॑प॒रस्तदश्वा॑नाय्ँ॒यद॒न्यतो॑द॒न्तद्गवाय्ँ॒यदव्या॑ इव श॒फास्तदवी॑नाय्ँ॒यद॒जस्तद॒जाना॑मे॒ताव॑न्तो॒ वै ग्रा॒म्याᳶ प॒शव॒स्तान् (5)
रू॒पेणै॒वाव॑रुन्धे सोमापौ॒ष्णन्त्रै॒तमाल॑भेत प॒शुका॑मो॒ द्वौ वा अ॒जायै॒ स्तनौ॒ नानै॒व द्वाव॒भिजाये॑ते॒ ऊर्ज॒म्पुष्टि॑न्तृ॒तीय॑स्सोमापू॒षणा॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मै॑ प॒शून्प्रज॑नयत॒स्सोमो॒ वै रे॑तो॒धाᳶ पू॒षा प॑शू॒नाम्प्र॑जनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति पू॒षा प॒शून्प्रज॑नय॒त्यौदु॑म्बरो॒ यूपो॑ भव॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्क्प॒शव॑ ऊ॒र्जैवास्मा॒ ऊर्ज॑म्प॒शूनव॑रुन्धे ॥6॥
प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत॒ ता अ॑स्मात्सृ॒ष्टाᳶ परा॑चीराय॒न्ता वरु॑णमगच्छ॒न्ता अन्वै॒त्ताᳶ पुन॑रयाचत॒ ता अ॑स्मै॒ न पुन॑रददा॒त्सो॑ऽब्रवी॒द्वरव्ँ॑ वृणी॒ष्वाथ॑ मे॒ पुन॑र्दे॒हीति॒ तासाव्ँ॒वर॒माऽल॑भत॒ स कृ॒ष्ण एक॑शितिपादभव॒द्यो वरु॑णगृहीत॒स्स्यात्स ए॒तव्ँ वा॑रु॒णङ्कृ॒ष्णमेक॑शितिपाद॒माल॑भेत॒ वरु॑णम् (7)
ए॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैनव्ँ॑वरुणपा॒शान्मु॑ञ्चति कृ॒ष्ण एक॑शितिपाद्भवति वारु॒णो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै॒ सुव॑र्भानुरासु॒रस्सूर्य॒न्तम॑साऽविद्ध्य॒त्तस्मै॑ दे॒वाᳶ प्राय॑श्चित्तिमैच्छ॒न्तस्य॒ यत्प्र॑थ॒मन्तमो॒ऽपाघ्न॒न्त्सा कृ॒ष्णाऽवि॑रभव॒द्यद्द्वि॒तीयँ॒ सा फल्गु॑नी॒ यत्तृ॒तीयँ॒ सा ब॑ल॒क्षी यद॑द्ध्य॒स्थाद॒पाकृ॑न्त॒न्त्साऽवि॑ऽर्व॒शा (8)
सम॑भव॒त्ते दे॒वा अ॑ब्रुवन्देवप॒शुर्वा अ॒यँ सम॑भू॒त्कस्मा॑ इ॒ममाल॑प्स्यामह॒ इत्यथ॒ वै तर्ह्यल्पा॑ पृथि॒व्यासी॒दजा॑ता॒ ओष॑धय॒स्तामविव्ँ॑व॒शामा॑दि॒त्येभ्य॒ᳵ कामा॒याऽल॑भन्त॒ ततो॒ वा अप्र॑थत पृथि॒व्यजा॑य॒न्तौष॑धयो॒ यᳵ का॒मये॑त॒ प्रथे॑य प॒शुभि॒ᳶ प्र प्र॒जया॑ जाये॒येति॒ स ए॒तामविव्ँ॑व॒शामा॑दि॒त्येभ्य॒ᳵ कामा॑य (9)
आ ल॑भेतादि॒त्याने॒व कामँ॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ त ए॒वैन॑म्प्र॒थय॑न्ति प॒शुभि॒ᳶ प्र प्र॒जया॑ जनयन्त्य॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाᳶ प्राय॑श्चित्तिमैच्छ॒न्तस्मा॑ ए॒ता म॒ल्हा आल॑ऽभन्ताग्ने॒यीङ्कृ॑ष्णग्री॒वीँ सँ॑हि॒तामै॒न्द्रीँ श्वे॒ताम्बा॑र्हस्प॒त्यान्ताभि॑रे॒वास्मि॒न्रुच॑मदधु॒र्यो ब्र॑ह्मवर्च॒सका॑म॒स्स्यात्तस्मा॑ ए॒ता म॒ल्हा आल॑भेत (10)
आ॒ग्ने॒यीङ्कृ॑ष्णग्री॒वीँ सँ॑हि॒तामै॒न्द्रीँ श्वे॒ताम्बा॑र्हस्प॒त्यामे॒ता ए॒व दे॒वता॒स्स्वेन॑ भाग॒धेये॒नोप॑धावति॒ ता ए॒वास्मि॑न्ब्रह्मवर्च॒सन्द॑धति ब्रह्मवर्च॒स्ये॑व भ॑वति व॒सन्ता॑ प्रा॒तरा॑ग्ने॒यीङ्कृ॑ष्णग्री॒वीमाल॑भेत ग्री॒ष्मे म॒द्ध्यन्दि॑ने सँहि॒तामै॒न्द्रीँ श॒रद्य॑परा॒ह्णे श्वे॒ताम्बा॑र्हस्प॒त्यान्त्रीणि॒ वा आ॑दि॒त्यस्य॒ तेजाँ॑सि व॒सन्ता॑ प्रा॒तर्ग्री॒ष्मे म॒द्ध्यन्दि॑ने श॒रद्य॑परा॒ह्णे याव॑न्त्ये॒व तेजाँ॑सि॒ तान्ये॒व (11)
अव॑ रुन्धे सव्ँ वत्स॒रम्प॒र्याल॑भ्यन्ते सव्ँ वत्स॒रो वै ब्र॑ह्मवर्च॒सस्य॑ प्रदा॒ता सव्ँ॑वत्स॒र ए॒वास्मै॑ ब्रह्मवर्च॒सम्प्रय॑च्छति ब्रह्मवर्च॒स्ये॑व भ॑वति ग॒र्भिण॑यो भवन्तीन्द्रि॒यव्ँ वै गर्भ॑ इन्द्रि॒यमे॒वास्मि॑न्दधति सारस्व॒तीम्मे॒षीमाल॑भेत॒ य ई॑श्व॒रो वा॒चो वदि॑तो॒स्सन्वाच॒न्न वदे॒द्वाग्वै सर॑स्वती॒ सर॑स्वतीमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ सैवास्मि॑न् (12)
वाच॑न्दधाति प्रवदि॒ता वा॒चो भ॑व॒त्यप॑न्नदती भवति॒ तस्मा॑न्मनु॒ष्या॑स्सर्वाव्ँ॒वाचव्ँ॑वदन्त्याग्ने॒यङ्कृ॒ष्णग्री॑व॒मा ल॑भेत सौ॒म्यम्ब॒भ्रुञ्ज्योगा॑मयाव्य॒ग्निव्ँ वा ए॒तस्य॒ शरी॑रङ्गच्छति॒ सोमँ॒ रसो॒ यस्य॒ ज्योगा॒मय॑त्य॒ग्नेरे॒वास्य॒ शरी॑रन्निष्क्री॒णाति॒ सोमा॒द्रस॑मु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व सौ॒म्यम्ब॒भ्रुमाल॑भेताग्ने॒यङ्कृ॒ष्णग्री॑वम्प्र॒जाका॑म॒स्सोमः॑ (13)
वै रे॑तो॒धा अ॒ग्निᳶ प्र॒जाना॑म्प्रजनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑त्य॒ग्निᳶ प्र॒जाम्प्रज॑नयति वि॒न्दते॑ प्र॒जामा॑ग्ने॒यङ्कृ॒ष्णग्री॑व॒माल॑भेत सौ॒म्यम्ब॒भ्रुय्योँ ब्रा॑ह्म॒णो वि॒द्याम॒नूच्य॒ न वि॒रोचे॑त॒ यदा॑ग्ने॒यो भव॑ति॒ तेज॑ ए॒वास्मि॒न्तेन॑ दधाति॒ यत्सौ॒म्यो ब्र॑ह्मवर्च॒सन्तेन॑ कृ॒ष्णग्री॑व आग्ने॒यो भ॑वति॒ तम॑ ए॒वास्मा॒दप॑हन्ति श्वे॒तो भ॑वति (14)
रुच॑मे॒वास्मि॑न्दधाति ब॒भ्रुस्सौ॒म्यो भ॑वति ब्रह्मवर्च॒समे॒वास्मि॒न्त्विषि॑न्दधात्याग्ने॒यङ्कृ॒ष्णग्री॑व॒माल॑भेत सौ॒म्यम्ब॒भ्रुमा॑ग्ने॒यङ्कृ॒ष्णग्री॑वम्पुरो॒धायाँ॒ स्पर्ध॑मान आग्ने॒यो वै ब्रा॑ह्म॒णस्सौ॒म्यो रा॑ज॒न्यो॑ऽभित॑स्सौ॒म्यमा॑ग्ने॒यौ भ॑वत॒स्तेज॑सै॒व ब्रह्म॑णोभ॒यतो॑ रा॒ष्ट्रम्परि॑गृह्णात्येक॒धा स॒मावृ॑ङ्क्ते पु॒र ए॑नन्दधते ॥ (15)
दे॒वा॒सु॒रा ए॒षु लो॒केष्व॑स्पर्द्धन्त॒ स ए॒तव्ँ विष्णु॑र्वाम॒नम॑पश्य॒त्तँ स्वायै॑ दे॒वता॑या॒ आऽल॑भत॒ ततो॒ वै स इ॒माल्लोँ॒कान॒भ्य॑जयद्वैष्ण॒वव्ँ वा॑म॒नमाल॑भेत॒ स्पर्द्ध॑मानो॒ विष्णु॑रे॒व भू॒त्वेमाल्लोँ॒कान॒भिज॑यति॒ विष॑म॒ आल॑भेत॒ विष॑मा इव॒ हीमे लो॒कास्समृ॑द्ध्या॒ इन्द्रा॑य मन्यु॒मते॒ मन॑स्वते ल॒लाम॑म्प्राशॄ॒ङ्गमाल॑भेत सङ्ग्रा॒मे (16)
सय्यँ॑त्त इन्द्रि॒येण॒ वै म॒न्युना॒ मन॑सा सङ्ग्रा॒मञ्ज॑य॒तीन्द्र॑मे॒व म॑न्यु॒मन्त॒म्मन॑स्वन्तँ॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मि॑न्निन्द्रि॒यम्म॒न्युम्मनो॑ दधाति॒ जय॑ति॒ तँ स॑ङ्ग्रा॒ममिन्द्रा॑य म॒रुत्व॑ते पृश्ञिस॒क्थमाल॑भेत॒ ग्राम॑काम॒ इन्द्र॑मे॒व म॒रुत्व॑न्तँ॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॑ सजा॒तान्प्रय॑च्छति ग्रा॒म्ये॑व भ॑वति॒ यदृ॑ष॒भस्तेन॑ (17)
ऐ॒न्द्रो यत्पृश्ञि॒स्तेन॑ मारु॒तस्समृ॑द्ध्यै प॒श्चात्पृ॑श्ञिस॒क्थो भ॑वति पश्चादन्ववसा॒यिनी॑मे॒वास्मै॒ विश॑ङ्करोति सौ॒म्यम्ब॒भ्रुमाल॑भे॒तान्न॑कामस्सौ॒म्यव्ँ वा अन्नँ॒ सोम॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मा॒ अन्न॒म्प्रय॑च्छत्यन्ना॒द ए॒व भ॑वति ब॒भ्रुर्भ॑वत्ये॒तद्वा अन्न॑स्य रू॒पँ समृ॑द्ध्यै सौ॒म्यम्ब॒भ्रुमाल॑भेत॒ यमल॑म् (18)
रा॒ज्याय॒ सन्तँ॑ रा॒ज्यन्नोप॒नमे॑त्सौ॒म्यव्ँ वै रा॒ज्यँ सोम॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॑ रा॒ज्यम्प्रय॑च्छ॒त्युपै॑नँ रा॒ज्यन्न॑मति ब॒भ्रुर्भ॑वत्ये॒तद्वै सोम॑स्य रू॒पँ समृ॑द्ध्या॒ इन्द्रा॑य वृत्र॒तुरे॑ ल॒लाम॑म्प्राशृ॒ङ्गमाल॑भेत ग॒तश्रीः॑ प्रति॒ष्ठाका॑मᳶ पा॒प्मान॑मे॒व वृ॒त्रन्ती॒र्त्वा प्र॑ति॒ष्ठाङ्ग॑च्छ॒तीन्द्रा॑याभिमाति॒घ्ने ल॒लाम॑म्प्राशृ॒ङ्गमा (19)
ल॒भे॒त॒ यᳶ पा॒प्मना॑ गृही॒तस्स्यात्पा॒प्मा वा अ॒भिमा॑ति॒रिन्द्र॑मे॒वाभि॑माति॒हनँ॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मा॑त्पा॒प्मान॑म॒भिमा॑ति॒म्प्रणु॑दत॒ इन्द्रा॑य व॒ज्रिणे॑ ल॒लाम॑म्प्राशृ॒ङ्गमाल॑भेत॒ यमलँ॑ रा॒ज्याय॒ सन्तँ॑ रा॒ज्यन्नोप॒नमे॒दिन्द्र॑मे॒व व॒ज्रिणँ॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॒ वज्र॒म्प्रय॑च्छति॒ स ए॑नव्ँ॒वज्रो॒ भूत्या॑ इन्ध॒ उपै॑नँ रा॒ज्यन्न॑मति ल॒लामᳶ॑ प्राशृ॒ङ्गो भ॑वत्ये॒तद्वै वज्र॑स्य रू॒पँ समृ॑द्ध्यै ॥ (20)
अ॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाᳶ प्राय॑श्चित्तिमैच्छ॒न्तस्मा॑ ए॒तान्दश॑र्षभा॒माऽल॑भन्त॒ तयै॒वास्मि॒न्रुच॑मदधु॒र्यो ब्र॑ह्मवर्च॒सका॑म॒स्स्यात्तस्मा॑ ए॒तान्दश॑र्षभा॒माऽल॑भेता॒मुमे॒वादि॒त्यँ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मि॑न्ब्रह्मवर्च॒सन्द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति व॒सन्ता॑ प्रा॒तस्त्रील्लँ॒लामा॒नाल॑भेत ग्री॒ष्मे म॒द्ध्यन्दि॑ने (21)
त्रीञ्छि॑तिपृ॒ष्ठाञ्छ॒रद्य॑परा॒ह्णे त्रीञ्छि॑ति॒वारा॒न्त्रीणि॒ वा आ॑दि॒त्यस्य॒ तेजाँ॑सि व॒सन्ता॑ प्रा॒तर्ग्री॒ष्मे म॒द्ध्यन्दि॑ने श॒रद्य॑परा॒ह्णे याव॑न्त्ये॒व तेजाँ॑सि॒ तान्ये॒वाव॑रुन्धे॒ त्रय॑स्त्रय॒ आल॑भ्यन्तेऽभिपू॒र्वमे॒वास्मि॒न्तेजो॑ दधाति सव्ँ वत्स॒रम्प॒र्याल॑भ्यन्ते सव्ँ वत्स॒रो वै ब्र॑ह्मवर्च॒सस्य॑ प्रदा॒ता सव्ँ॑वत्स॒र ए॒वास्मै॑ ब्रह्मवर्च॒सम्प्रय॑च्छति ब्रह्मवर्च॒स्ये॑व भ॑वति सव्ँ वत्स॒रस्य॑ प॒रस्ता॑त्प्राजाप॒त्यङ्कद्रु॑म् (22)
आल॑भेत प्र॒जाप॑ति॒स्सर्वा॑ दे॒वता॑ दे॒वता॑स्वे॒व प्रति॑तिष्ठति॒ यदि॑ बिभी॒याद्दु॒श्चर्मा॑ भविष्या॒मीति॑ सोमापौ॒ष्णँ श्या॒ममाल॑भेत सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षᳶ पौ॒ष्णाᳶ प॒शव॒स्स्वयै॒वास्मै॑ दे॒वत॑या प॒शुभि॒स्त्वच॑ङ्करोति॒ न दु॒श्चर्मा॑ भवति दे॒वाश्च॒ वै य॒मश्चा॒स्मिल्लोँ॒के॑ऽस्पर्द्धन्त॒ स य॒मो दे॒वाना॑मिन्द्रि॒यव्ँ वी॒र्य॑मयुवत॒ तद्य॒मस्य॑ (23)
य॒म॒त्वन्ते दे॒वा अ॑मन्यन्त य॒मो वा इ॒दम॑भू॒द्यद्व॒यँ स्म इति॒ ते प्र॒जाप॑ति॒मुपा॑धाव॒न्त्स ए॒तौ प्र॒जाप॑तिरा॒त्मन॑ उक्षव॒शौ निर॑मिमीत॒ ते दे॒वा वै॑ष्णावरु॒णीव्ँ व॒शामाऽल॑भन्तै॒न्द्रमु॒क्षाण॒न्तव्ँ वरु॑णेनै॒व ग्रा॑हयि॒त्वा विष्णु॑ना य॒ज्ञेन॒ प्राणु॑दन्तै॒न्द्रेणै॒वास्ये॑न्द्रि॒यम॑वृञ्जत॒ यो भ्रातृ॑व्यवा॒न्त्स्यात्स स्पर्द्ध॑मानो वैष्णावरु॒णीम् (24)
व॒शामाल॑भेतै॒न्द्रमु॒क्षाणव्ँ॒वरु॑णेनै॒व भ्रातृ॑व्यङ्ग्राहयि॒त्वा विष्णु॑ना य॒ज्ञेन॒ प्रणु॑दत ऐ॒न्द्रेणै॒वास्ये॑न्द्रि॒यव्ँ वृ॑ङ्क्ते॒ भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भव॒तीन्द्रो॑ वृ॒त्रम॑ह॒न्तव्ँ वृ॒त्रो ह॒तष्षो॑ड॒शभि॑र्भो॒गैर॑सिना॒त्तस्य॑ वृ॒त्रस्य॑ शीर्ष॒तो गाव॒ उदा॑य॒न्ता वै॑दे॒ह्यो॑ऽभव॒न्तासा॑मृष॒भो ज॒घनेऽनूदै॒त्तमिन्द्रः॑ (25)
अ॒चा॒य॒त्सो॑ऽमन्यत॒ यो वा इ॒ममा॒लभे॑त॒ मुच्ये॑ता॒स्मात्पा॒प्मन॒ इति॒ स आ॑ग्ने॒यङ्कृ॒ष्णग्री॑व॒माल॑भतै॒न्द्रमृ॑ष॒भन्तस्या॒ग्निरे॒व स्वेन॑ भाग॒धेये॒नोप॑सृतष्षोडश॒धा वृ॒त्रस्य॑ भो॒गानप्य॑दहदै॒न्द्रेणे॑न्द्रि॒यमा॒त्मन्न॑धत्त॒ यᳶ पा॒प्मना॑ गृही॒तस्स्यात्स आ॑ग्ने॒यङ्कृ॒ष्णग्री॑व॒माल॑भेतै॒न्द्रमृ॑ष॒भम॒ग्निरे॒वास्य॒ स्वेन॑ भाग॒धेये॒नोप॑सृतः (26)
पा॒प्मान॒मपि॑ दहत्यै॒न्द्रेणे॑न्द्रि॒यमा॒त्मन्ध॑त्ते॒ मुच्य॑ते पा॒प्मनो॒ भव॑त्ये॒व द्या॑वापृथि॒व्या॑न्धे॒नुमाल॑भेत॒ ज्योग॑परुद्धो॒ऽनयो॒र्हि वा ए॒षोऽप्र॑तिष्ठि॒तोऽथै॒ष ज्योगप॑रुद्धो॒ द्यावा॑पृथि॒वी ए॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ ते ए॒वैन॑म्प्रति॒ष्ठाङ्ग॑मयत॒ᳶ प्रत्ये॒व ति॑ष्ठति पर्या॒रिणी॑ भवति पर्या॒रीव॒ ह्ये॑तस्य॑ रा॒ष्ट्रय्योँ ज्योग॑परुद्ध॒स्समृ॑द्ध्यै वाय॒व्य॑म् (27)
व॒त्समा ल॑भेत वा॒युर्वा अ॒नयो॑र्व॒त्स इ॒मे वा ए॒तस्मै॑ लो॒का अप॑शुष्का॒ विडप॑शु॒ष्काऽथै॒ष ज्योगप॑रुद्धो वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मा॑ इ॒माल्लोँ॒कान् विश॒म्प्रदा॑पयति॒ प्रास्मा॑ इ॒मे लो॒कास्स्नु॑वन्ति भुञ्ज॒त्ये॑नव्ँ॒विडुप॑तिष्ठते ॥ (28)
इन्द्रो॑ व॒लस्य॒ बिल॒मपौ॑र्णो॒त्स य उ॑त्त॒मᳶ प॒शुरासी॒त्तम्पृ॒ष्ठम्प्रति॑ स॒ङ्गृह्योद॑क्खिद॒त्तँ स॒हस्र॑म्प॒शवोऽनूदा॑य॒न्त्स उ॑न्न॒तो॑ऽभव॒द्यᳶ प॒शुका॑म॒स्स्यात्स ए॒तमै॒न्द्रमु॑न्न॒तमाल॑भे॒तेन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॑ प॒शून्प्रय॑च्छति पशु॒माने॒व भ॑वत्युन्न॒तः (29)
भ॒व॒ति॒ सा॒ह॒स्री वा ए॒षा ल॒क्ष्मी यदु॑न्न॒तो ल॒क्ष्मियै॒व प॒शूनव॑रुन्धे य॒दा स॒हस्र॑म्प॒शून्प्रा॑प्नु॒यादथ॑ वैष्ण॒वव्ँ वा॑म॒नमा ल॑भेतै॒तस्मि॒न्वै तत्स॒हस्र॒मद्ध्य॑तिष्ठ॒त्तस्मा॑दे॒ष वा॑म॒नस्समी॑षितᳶ प॒शुभ्य॑ ए॒व प्रजा॑तेभ्यᳶ प्रति॒ष्ठान्द॑धाति॒ को॑ऽर्हति स॒हस्र॑म्प॒शून्प्राप्तु॒मित्या॑हुरहोरा॒त्राण्ये॒व स॒हस्रँ॑ स॒म्पाद्याल॑भेत प॒शवः॑ (30)
वा अ॑होरा॒त्राणि॑ प॒शूने॒व प्रजा॑तान्प्रति॒ष्ठाङ्ग॑मय॒त्योष॑धीभ्यो वे॒हत॒माल॑भेत प्र॒जाका॑म॒ ओष॑धयो॒ वा ए॒तम्प्र॒जायै॒ परि॑बाधन्ते॒ योऽल॑म्प्र॒जायै॒ सन्प्र॒जान्न वि॒न्दत॒ ओष॑धय॒ᳵ खलु॒ वा ए॒तस्यै॒ सूतु॒मपि॑ घ्नन्ति॒ या वे॒हद्भव॒त्योष॑धीरे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ ता ए॒वास्मै॒ स्वाद्योनेः॑ प्र॒जाम्प्रज॑नयन्ति वि॒न्दते॑ (31)
प्र॒जामापो॒ वा ओष॑ध॒योऽस॒त्पुरु॑ष॒ आप॑ ए॒वास्मा॒ अस॑त॒स्सद्द॑दति॒ तस्मा॑दाहु॒र्यश्चै॒वव्ँ वेद॒ यश्च॒ नाप॒स्त्वावास॑त॒स्सद्द॑द॒तीत्यै॒न्द्रीँ सू॒तव॑शा॒माल॑भेत॒ भूति॑का॒मोऽजा॑तो॒ वा ए॒ष योऽल॒म्भूत्यै॒ सन्भूति॒न्न प्रा॒प्नोतीन्द्र॒ङ्खलु॒ वा ए॒षा सू॒त्वा व॒शाऽभ॑वत् (32)
इन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैन॒म्भूति॑ङ्गमयति॒ भव॑त्ये॒व यँ सू॒त्वा व॒शा स्यात्तमै॒न्द्रमे॒वाल॑भेतै॒तद्वाव तदि॑न्द्रि॒यँ सा॒क्षादे॒वेन्द्रि॒यमव॑रुन्ध ऐन्द्रा॒ग्नम्पु॑नरुत्सृ॒ष्टमाल॑भेत॒ य आ तृ॒तीया॒त्पुरु॑षा॒त्सोम॒न्न पिबे॒द्विच्छि॑न्नो॒ वा ए॒तस्य॑ सोमपी॒थो यो ब्रा॑ह्म॒णस्सन्ना (33)
तृ॒तीया॒त्पुरु॑षा॒त्सोम॒न्न पिब॑तीन्द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मै॑ सोमपी॒थम्प्रय॑च्छत॒ उपै॑नँ सोमपी॒थो न॑मति॒ यदै॒न्द्रो भव॑तीन्द्रि॒यव्ँ वै सो॑मपी॒थ इ॑न्द्रि॒यमे॒व सो॑मपी॒थमव॑रुन्धे॒ यदा॑ग्ने॒यो भव॑त्याग्ने॒यो वै ब्रा॑ह्म॒णस्स्वामे॒व दे॒वता॒मनु॒ सन्त॑नोति पुनरुत्सृ॒ष्टो भ॑वति पुनरुत्सृ॒ष्ट इ॑व॒ ह्ये॑तस्य॑ (34)
सो॒म॒पी॒थस्समृ॑द्ध्यै ब्राह्मणस्प॒त्यन्तू॑प॒रमाल॑भेताभि॒चर॒न्ब्रह्म॑ण॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तस्मा॑ ए॒वैन॒मा वृ॑श्चति ता॒जगार्ति॒मार्च्छ॑ति तूप॒रो भ॑वति क्षु॒रप॑वि॒र्वा ए॒षा ल॒क्ष्मी यत्तू॑प॒रस्समृ॑द्ध्यै॒ स्फ्यो यूपो॑ भवति॒ वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्रह॑रति शर॒मय॑म्ब॒र्हिश्शृ॒णात्ये॒वैनव्ँ॒ वैभी॑दक इ॒द्ध्मो भि॒नत्त्ये॒वैन॑म् ॥ (35)
बा॒र्ह॒स्प॒त्यँ शि॑तिपृ॒ष्ठमाल॑भेत॒ ग्राम॑कामो॒ यᳵ का॒मये॑त पृ॒ष्ठँ स॑मा॒नानाँ॑ स्या॒मिति॒ बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैन॑म्पृ॒ष्ठँ स॑मा॒नाना॑ङ्करोति ग्रा॒म्ये॑व भ॑वति शितिपृ॒ष्ठो भ॑वति बार्हस्प॒त्यो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै पौ॒ष्णँ श्या॒ममाल॑भे॒तान्न॑का॒मोऽन्नव्ँ॒ वै पू॒षा पू॒षण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॑ (36)
अन्न॒म्प्रय॑च्छत्यन्ना॒द ए॒व भ॑वति श्या॒मो भ॑वत्ये॒तद्वा अन्न॑स्य रू॒पँ समृ॑द्ध्यै मारु॒तम्पृश्ञि॒माल॑भे॒तान्न॑का॒मोऽन्नव्ँ॒ वै म॒रुतो॑ म॒रुत॑ ए॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ त ए॒वास्मा॒ अन्न॒म्प्रय॑च्छन्त्यन्ना॒द ए॒व भ॑वति॒ पृश्ञि॑र्भवत्ये॒तद्वा अन्न॑स्य रू॒पँ समृ॑द्ध्या ऐ॒न्द्रम॑रु॒णमाल॑भेतेन्द्रि॒यका॑म॒ इन्द्र॑मे॒व (37)
स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मि॑न्निन्द्रि॒यन्द॑धातीन्द्रिया॒व्ये॑व भ॑वत्यरु॒णो भ्रूमा॑न्भवत्ये॒तद्वा इन्द्र॑स्य रू॒पँ समृ॑द्ध्यै सावि॒त्रमु॑पद्ध्व॒स्तमाल॑भेत स॒निका॑मस्सवि॒ता वै प्र॑स॒वाना॑मीशे सवि॒तार॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॑ स॒निम्प्रसु॑वति॒ दान॑कामा अस्मै प्र॒जा भ॑वन्त्युपद्ध्व॒स्तो भ॑वति सावि॒त्रो ह्ये॑षः (38)
दे॒वत॑या॒ समृ॑द्ध्यै वैश्वदे॒वम्ब॑हुरू॒पमाल॑भे॒तान्न॑कामो वैश्वदे॒वव्ँ वा अन्नव्ँ॒विश्वा॑ने॒व दे॒वान्त्स्वेन॑ भाग॒धेये॒नोप॑धावति॒ त ए॒वास्मा॒ अन्न॒म्प्रय॑च्छन्त्यन्ना॒द ए॒व भ॑वति बहुरू॒पो भ॑वति बहुरू॒पँ ह्यन्नँ॒ समृ॑द्ध्यै वैश्वदे॒वम्ब॑हुरू॒पमाल॑भेत॒ ग्राम॑कामो वैश्वदे॒वा वै स॑जा॒ता विश्वा॑ने॒व दे॒वान्त्स्वेन॑ भाग॒धेये॒नोप॑धावति॒ त ए॒वास्मै॑ (39)
स॒जा॒तान्प्रय॑च्छन्ति ग्रा॒म्ये॑व भ॑वति बहुरू॒पो भ॑वति बहुदेव॒त्यो ३॑ ह्ये॑ष समृ॑द्ध्यै प्राजाप॒त्यन्तू॑प॒रमाल॑भेत॒ यस्याना॑ज्ञातमिव॒ ज्योगा॒मये॑त्प्राजाप॒त्यो वै पुरु॑षᳶ प्र॒जाप॑ति॒ᳵ खलु॒ वै तस्य॑ वेद॒ यस्याना॑ज्ञातमिव॒ ज्योगा॒मय॑ति प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैन॒न्तस्मा॒त्स्रामा॑न्मुञ्चति तूप॒रो भ॑वति प्राजाप॒त्यो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै ॥ (40)
व॒ष॒ट्का॒रो वै गा॑यत्रि॒यै शिरो॑ऽच्छिन॒त्तस्यै॒ रस॒ᳶ परा॑ऽपत॒त्तम्बृह॒स्पति॒रुपा॑गृह्णा॒त्सा शि॑तिपृ॒ष्ठा व॒शाऽभ॑व॒द्यो द्वि॒तीयᳶ॑ प॒राप॑त॒त्तम्मि॒त्रावरु॑णा॒वुपा॑गृह्णीताँ॒ सा द्वि॑रू॒पा व॒शाऽभ॑व॒द्यस्तृ॒तीयᳶ॑ प॒राप॑त॒त्तव्ँ विश्वे॑ दे॒वा उपा॑गृह्ण॒न्त्सा ब॑हुरू॒पा व॒शाऽभ॑व॒द्यश्च॑तु॒र्थᳶ प॒राप॑त॒त्स पृ॑थि॒वीम्प्रावि॑श॒त्तम्बृह॒स्पति॑र॒भि (41)
अ॒गृ॒ह्णा॒दस्त्वे॒वायम्भोगा॒येति॒ स उ॑क्षव॒शस्सम॑भव॒द्यल्लोहि॑तम्प॒राप॑त॒त्तद्रु॒द्र उपा॑गृह्णा॒त्सा रौ॒द्री रोहि॑णी व॒शाऽभ॑वद्बार्हस्प॒त्याँ शि॑तिपृ॒ष्ठामाल॑भेत ब्रह्मवर्च॒सका॑मो॒ बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मि॑न्ब्रह्मवर्च॒सन्द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति॒ छन्द॑साव्ँ॒वा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॑ (42)
वै ब्र॑ह्मवर्च॒सञ्छन्द॑सामे॒व रसे॑न॒ रस॑म्ब्रह्मवर्च॒समव॑रुन्धे मैत्रावरु॒णीन्द्वि॑रू॒पामाल॑भेत॒ वृष्टि॑कामो मै॒त्रव्ँ वा अह॑र्वारु॒णी रात्रि॑रहोरा॒त्राभ्या॒ङ्खलु॒ वै प॒र्जन्यो॑ वर्षति मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मा॑ अहोरा॒त्राभ्या॑म्प॒र्जन्यव्ँ॑वर्षयत॒श्छन्द॑साव्ँ॒वा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वै वृष्टि॒श्छन्द॑सामे॒व रसे॑न (43)
रसव्ँ॒वृष्टि॒मव॑रुन्धे मैत्रावरु॒णीन्द्वि॑रू॒पामाल॑भेत प्र॒जाका॑मो मै॒त्रव्ँ वा अह॑र्वारु॒णी रात्रि॑रहोरा॒त्राभ्या॒ङ्खलु॒ वै प्र॒जाᳶ प्रजा॑यन्ते मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मा॑ अहोरा॒त्राभ्या॑म्प्र॒जाम्प्रज॑नयत॒श्छन्द॑साव्ँ॒वा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वै प्र॒जा छन्द॑सामे॒व रसे॑न॒ रस॑म्प्र॒जामव॑ (44)
रु॒न्धे॒ वै॒श्व॒दे॒वीम्ब॑हुरू॒पामाल॑भे॒तान्न॑कामो वैश्वदे॒वव्ँ वा अन्नव्ँ॒विश्वा॑ने॒व दे॒वान्त्स्वेन॑ भाग॒धेये॒नोप॑धावति॒ त ए॒वास्मा॒ अन्न॒म्प्रय॑च्छन्त्यन्ना॒द ए॒व भ॑वति॒ छन्द॑साव्ँ॒वा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वा अन्न॒ञ्छन्द॑सामे॒व रसे॑न॒ रस॒मन्न॒मव॑रुन्धे वैश्वदे॒वीम्ब॑हुरू॒पामाल॑भेत॒ ग्राम॑कामो वैश्वदे॒वा वै (45)
स॒जा॒ता विश्वा॑ने॒व दे॒वान्त्स्वेन॑ भाग॒धेये॒नोप॑धावति॒ त ए॒वास्मै॑ सजा॒तान्प्रय॑च्छन्ति ग्रा॒म्ये॑व भ॑वति॒ छन्द॑साव्ँ॒वा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वै स॑जा॒ताश्छन्द॑सामे॒व रसे॑न॒ रसँ॑ सजा॒तानव॑रुन्धे बार्हस्प॒त्यमु॑क्षव॒शमाल॑भेत ब्रह्मवर्च॒सका॑मो॒ बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धाव॒ति स ए॒वास्मि॑न्ब्रह्मवर्च॒सम् (46)
द॒धा॒ति॒ ब्र॒ह्म॒व॒र्च॒स्ये॑व भ॑वति॒ वशव्ँ॒वा ए॒ष च॑रति॒ यदु॒क्षा वश॑ इव॒ खलु॒ वै ब्र॑ह्मवर्च॒सव्ँ वशे॑नै॒व वश॑म्ब्रह्मवर्च॒समव॑रुन्धे रौ॒द्रीँ रोहि॑णी॒मा ल॑भेताभि॒चर॑न्रु॒द्रमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तस्मा॑ ए॒वैन॒मावृ॑श्चति ता॒जगार्ति॒मार्च्छ॑ति॒ रोहि॑णी भवति रौ॒द्री ह्ये॑षा दे॒वत॑या॒ समृ॑द्ध्यै॒ स्फ्यो यूपो॑ भवति॒ वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्रह॑रति शर॒मय॑म्ब॒र्हिश्शृ॒णात्ये॒वैनव्ँ॒ वैभी॑दक इ॒द्ध्मो भि॒नत्त्ये॒वैन॑म् ॥ (47)
अ॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाᳶ प्राय॑श्चित्तिमैच्छ॒न्तस्मा॑ ए॒ताँ सौ॒रीँ श्वे॒ताव्ँ व॒शामाऽल॑भन्त॒ तयै॒वास्मि॒न्रुच॑मदधु॒र्यो ब्र॑ह्मवर्च॒सका॑म॒स्स्यात्तस्मा॑ ए॒ताँ सौ॒रीँ श्वे॒ताव्ँ व॒शामाल॑भेता॒मुमे॒वादि॒त्यँ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मि॑न्ब्रह्मवर्च॒सन्द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति बै॒ल्वो यूपो॑ भवत्य॒सौ (48)
वा आ॑दि॒त्यो यतोऽजा॑यत॒ ततो॑ बि॒ल्व॑ उद॑तिष्ठ॒त्सयो॑न्ये॒व ब्र॑ह्मवर्च॒समव॑रुन्धे ब्राह्मणस्प॒त्याम्ब॑भ्रुक॒र्णीमा ल॑भेताभि॒चर॑न्वारु॒णन्दश॑कपालम्पु॒रस्ता॒न्निर्व॑पे॒द्वरु॑णेनै॒व भ्रातृ॑व्यङ्ग्राहयि॒त्वा ब्रह्म॑णा स्तृणुते बभ्रुक॒र्णी भ॑वत्ये॒तद्वै ब्रह्म॑णो रू॒पँ समृ॑द्ध्यै॒ स्फ्यो यूपो॑ भवति॒ वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्रह॑रति शर॒मय॑म्ब॒र्हिश्शृ॒णाति॑ (49)
ए॒वैनव्ँ॒ वैभी॑दक इ॒द्ध्मो भि॒नत्त्ये॒वैनव्ँ॑ वैष्ण॒वव्ँ वा॑म॒नमाल॑भेत॒ यय्यँ॒ज्ञो नोप॒नमे॒द्विष्णु॒र्वै य॒ज्ञो विष्णु॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॑ य॒ज्ञम्प्रय॑च्छ॒त्युपै॑नय्यँ॒ज्ञो न॑मति वाम॒नो भ॑वति वैष्ण॒वो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै त्वा॒ष्ट्रव्ँ व॑ड॒बमाल॑भेत प॒शुका॑म॒स्त्वष्टा॒ वै प॑शू॒नाम्मि॑थु॒नाना॑म् (50)
प्र॒ज॒न॒यि॒ता त्वष्टा॑रमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॑ प॒शून्मि॑थु॒नान्प्रज॑नयति प्र॒जा हि वा ए॒तस्मि॑न्प॒शव॒ᳶ प्रवि॑ष्टा॒ अथै॒ष पुमा॒न्त्सन्व॑ड॒बस्सा॒क्षादे॒व प्र॒जाम्प॒शूनव॑रुन्धे मै॒त्रँ श्वे॒तमाल॑भेत सङ्ग्रा॒मे सय्यँ॑त्ते सम॒यका॑मो मि॒त्रमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैन॑म्मि॒त्रेण॒ सन्न॑यति (51)
वि॒शा॒लो भ॑वति॒ व्यव॑साययत्ये॒वैन॑म्प्राजाप॒त्यङ्कृ॒ष्णमाल॑भेत॒ वृष्टि॑कामᳶ प्र॒जाप॑ति॒र्वै वृष्ट्या॑ ईशे प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॑ प॒र्जन्यव्ँ॑वर्षयति कृ॒ष्णो भ॑वत्ये॒तद्वै वृष्ट्यै॑ रू॒पँ रू॒पेणै॒व वृष्टि॒मव॑रुन्धे श॒बलो॑ भवति वि॒द्युत॑मे॒वास्मै॑ जनयि॒त्वा व॑र्षयत्यवाशृ॒ङ्गो भ॑वति॒ वृष्टि॑मे॒वास्मै॒ निय॑च्छति ॥ (52)
वरु॑णँ सुषुवा॒णम॒न्नाद्य॒न्नोपा॑नम॒त्स ए॒ताव्ँ वा॑रु॒णीङ्कृ॒ष्णाव्ँ व॒शाम॑पश्य॒त्ताँ स्वायै॑ दे॒वता॑या॒ आऽल॑भत॒ ततो॒ वै तम॒न्नाद्य॒मुपा॑नम॒द्यमल॑म॒न्नाद्या॑य॒ सन्त॑म॒न्नाद्य॒न्नोप॒नमे॒त्स ए॒ताव्ँ वा॑रु॒णीङ्कृ॒ष्णाव्ँ व॒शामाल॑भेत॒ वरु॑णमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मा॒ अन्न॒म्प्रय॑च्छत्यन्ना॒दः (53)
ए॒व भ॑वति कृ॒ष्णा भ॑वति वारु॒णी ह्ये॑षा दे॒वत॑या॒ समृ॑द्ध्यै मै॒त्रँ श्वे॒तमाल॑भेत वारु॒णङ्कृ॒ष्णम॒पाञ्चौष॑धीनाञ्च स॒न्धावन्न॑कामो मै॒त्रीर्वा ओष॑धयो वारु॒णीरापो॒ऽपाञ्च॒ खलु॒ वा ओष॑धीनाञ्च॒ रस॒मुप॑जीवामो मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मा॒ अन्न॒म्प्रय॑च्छतोऽन्ना॒द ए॒व भ॑वति (54)
अ॒पाञ्चौष॑धीनाञ्च स॒न्धावाल॑भत उ॒भय॒स्याव॑रुद्ध्यै॒ विशा॑खो॒ यूपो॑ भवति॒ द्वे ह्ये॑ते दे॒वते॒ समृ॑द्ध्यै मै॒त्रँ श्वे॒तमा ल॑भेत वारु॒णङ्कृ॒ष्णञ्ज्योगा॑मयावी॒ यन्मै॒त्रो भव॑ति मि॒त्रेणै॒वास्मै॒ वरु॑णँ शमयति॒ यद्वा॑रु॒णस्सा॒क्षादे॒वैनव्ँ॑वरुणपा॒शान्मु॑ञ्चत्यु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व दे॒वा वै पुष्टि॒न्नावि॑न्दन्न् (55)
ताम्मि॑थु॒ने॑ऽपश्य॒न्तस्या॒न्न सम॑राधय॒न्ताव॒श्विना॑वब्रूतामा॒वयो॒र्वा ए॒षा मैतस्याव्ँ॑ वदद्ध्व॒मिति॒ साऽश्विनो॑रे॒वाभ॑व॒द्यᳶ पुष्टि॑काम॒स्स्यात्स ए॒तामा॑श्वि॒नीय्यँ॒मीव्ँ व॒शामाल॑भेता॒श्विना॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मि॒न्पुष्टि॑न्धत्त॒ᳶ पुष्य॑ति प्र॒जया॑ प॒शुभिः॑ ॥ (56)
आ॒श्वि॒नन्धू॒म्रल॑लाम॒माल॑भेत॒ यो दुर्ब्रा॑ह्मण॒स्सोम॒म्पिपा॑सेद॒श्विनौ॒ वै दे॒वाना॒मसो॑मपावास्ता॒न्तौ प॒श्चा सो॑मपी॒थम्प्राप्नु॑ताम॒श्विना॑वे॒तस्य॑ दे॒वता॒ यो दुर्ब्रा॑ह्मण॒स्सोम॒म्पिपा॑सत्य॒श्विना॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मै॑ सोमपी॒थम्प्रय॑च्छत॒ उपै॑नँ सोमपी॒थो न॑मति॒ यद्धू॒म्रो भव॑ति धूम्रि॒माण॑मे॒वास्मा॒दप॑हन्ति ल॒लामः॑ (57)
भ॒व॒ति॒ मु॒ख॒त ए॒वास्मि॒न्तेजो॑ दधाति वाय॒व्य॑ङ्गोमृ॒गमाल॑भेत॒ यमज॑घ्निवाँसमभि॒शँसे॑यु॒रपू॑ता॒ वा ए॒तव्ँ वागृ॑च्छति॒ यमज॑घ्निवाँसमभि॒शँस॑न्ति॒ नैष ग्रा॒म्यᳶ प॒शुर्नार॒ण्यो यद्गो॑मृ॒गो नेवै॒ष ग्रामे॒ नार॑ण्ये॒ यमज॑घ्निवाँसमभि॒शँस॑न्ति वा॒युर्वै दे॒वाना॑म्प॒वित्रव्ँ॑वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒व (58)
ए॒न॒म्प॒व॒य॒ति॒ परा॑ची॒ वा ए॒तस्मै॑ व्यु॒च्छन्ती॒ व्यु॑च्छति॒ तमᳶ॑ पा॒प्मान॒म्प्रवि॑शति॒ यस्या॑श्वि॒ने श॒स्यमा॑ने॒ सूर्यो॒ नाविर्भव॑ति सौ॒र्यम्ब॑हुरू॒पमाल॑भेता॒मुमे॒वादि॒त्यँ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मा॒त्तमᳶ॑ पा॒प्मान॒मप॑हन्ति प्र॒तीच्य॑स्मै व्यु॒च्छन्ती॒ व्यु॑च्छ॒त्यप॒ तमᳶ॑ पा॒प्मानँ॑ हते ॥ (59)
इन्द्रव्ँ॑वो वि॒श्वत॒स्परीन्द्र॒न्नरो॒ मरु॑तो॒ यद्ध॑ वो दि॒वो या व॒श्शर्म॑ । भरे॒ष्विन्द्रँ॑ सु॒हवँ॑ हवामहेऽँहो॒मुचँ॑ सु॒कृत॒न्दैव्य॒ञ्जन॑म् । अ॒ग्निम्मि॒त्रव्ँ वरु॑णँ सा॒तये॒ भग॒न्द्यावा॑पृथि॒वी म॒रुत॑स्स्व॒स्तये॑ । म॒मत्तु॑ न॒ᳶ परि॑ज्मा वस॒र्हा म॒मत्तु॒ वातो॑ अ॒पाव्ँ वृष॑ण्वान् । शि॒शी॒तमि॑न्द्रापर्वता यु॒वन्न॒स्तन्नो॒ विश्वे॑ वरिवस्यन्तु दे॒वाः । प्रि॒या वो॒ नाम॑ (60)
हु॒वे॒ तु॒राणा॑म् । आयत्तृ॒पन्म॑रुतो वावशा॒नाः । श्रि॒यसे॒ कम्भा॒नुभि॒स्सम्मि॑मिक्षिरे॒ ते र॒श्मिभि॒स्त ऋक्व॑भिस्सुखा॒दयः॑ । ते वाशी॑मन्त इ॒ष्मिणो॒ अभी॑रवो वि॒द्रे प्रि॒यस्य॒ मारु॑तस्य॒ धाम्नः॑ । अ॒ग्निᳶ प्र॑थ॒मो वसु॑भिर्नो अव्या॒त्सोमो॑ रु॒द्रेभि॑र॒भिर॑क्षतु॒ त्मना॑ । इन्द्रो॑ म॒रुद्भि॑र्ऋतु॒धा कृ॑णोत्वादि॒त्यैर्नो॒ वरु॑ण॒स्सँशि॑शातु । सन्नो॑ दे॒वो वसु॑भिर॒ग्निस्सम् (61)
सोम॑स्त॒नूभी॑ रु॒द्रिया॑भिः । समिन्द्रो॑ म॒रुद्भि॑र्य॒ज्ञियै॒स्समा॑दि॒त्यैर्नो॒ वरु॑णो अजिज्ञिपत् । यथा॑ऽऽदि॒त्या वसु॑भिस्सम्बभू॒वुर्म॒रुद्भी॑ रु॒द्रास्स॒मजा॑नता॒भि । ए॒वा त्रि॑णाम॒न्नहृ॑णीयमाना॒ विश्वे॑ दे॒वास्सम॑नसो भवन्तु । कुत्रा॑चि॒द्यस्य॒ समृ॑तौ र॒ण्वा नरो॑ नृ॒षद॑ने । अर्ह॑न्तश्चि॒द्यमि॑न्ध॒ते स॑ञ्ज॒नय॑न्ति ज॒न्तवः॑ । सय्यँदि॒षो वना॑महे॒ सँ ह॒व्या मानु॑षाणाम् । उ॒त द्यु॒म्नस्य॒ शव॑सः (62)
ऋ॒तस्य॑ र॒श्मिमाद॑दे । य॒ज्ञो दे॒वाना॒म्प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृड॒यन्तः॑ । आवो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्यादँ॒होश्चि॒द्या व॑रिवो॒वित्त॒राऽस॑त् । शुचि॑र॒पस्सू॒यव॑सा॒ अद॑ब्ध॒ उप॑क्षेति वृ॒द्धव॑यास्सु॒वीरः॑ । नकि॒ष्टङ्घ्न॒न्त्यन्ति॑तो॒ न दू॒राद्य आ॑दि॒त्याना॒म्भव॑ति॒ प्रणी॑तौ । धा॒रय॑न्त आदि॒त्यासो॒ जग॒त्स्था दे॒वा विश्व॑स्य॒ भुव॑नस्य गो॒पाः । दी॒र्घाधि॑यो॒ रक्ष॑माणाः (63)
अ॒सु॒र्य॑मृ॒तावा॑न॒श्चय॑माना ऋ॒णानि॑ । ति॒स्रो भूमी॑र्धारय॒न्त्रीँ रु॒त द्यून्त्रीणि॑ व्र॒ता वि॒दथे॑ अ॒न्तरे॑षाम् । ऋ॒तेना॑दित्या॒ महि॑ वो महि॒त्वन्तद॑र्यमन्वरुण मित्र॒ चारु॑ । त्यान्नु क्ष॒त्रियाँ॒ अव॑ आदि॒त्यान् या॑चिषामहे । सु॒मृ॒डी॒काँ अ॒भिष्ट॑ये । न द॑क्षि॒णा विचि॑किते॒ न स॒व्या न प्रा॒चीन॑मादित्या॒ नोत प॒श्चा । पा॒क्या॑चिद्वसवो धी॒र्या॑चित् (64)
यु॒ष्मानी॑तो॒ अभ॑य॒ञ्ज्योति॑रश्याम् । आ॒दि॒त्याना॒मव॑सा॒ नूत॑नेन सक्षी॒महि॒ शर्म॑णा॒ शन्त॑मेन । अ॒ना॒गा॒स्त्वे अ॑दिति॒त्वे तु॒रास॑ इ॒मय्यँ॒ज्ञन्द॑धतु॒ श्रोष॑माणाः । इ॒मम्मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय । त्वाम॑व॒स्युराच॑के । तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ । अहे॑डमानो वरुणे॒ह बो॒द्ध्युरु॑शँस॒ मा न॒ आयु॒ᳶ प्रमो॑षीः ॥ (65)