तैत्तिरीयसंहितायाम्प्रथमकाण्डे सप्तमप्रश्नप्रारम्भः । हरिः ओम् । पा॒क॒य॒ज्ञव्ँ वा अन्वाहि॑ताग्नेᳶ प॒शव॒ उप॑ तिष्ठन्त॒ इडा॒ खलु॒ वै पा॑कय॒ज्ञस्सैषान्त॒रा प्र॑याजानूया॒जान् यज॑मानस्य लो॒केऽव॑हिता॒ तामा॑ह्रि॒यमा॑णाम॒भि म॑न्त्रयेत॒ सुरू॑पवर्षवर्ण॒ एहीति॑ प॒शवो॒ वा इडा॑ प॒शूने॒वोप॑ ह्वयते य॒ज्ञव्ँ वै दे॒वा अदु॑ह्रन् य॒ज्ञोऽसु॑राँ अदुह॒त्तेऽसु॑रा य॒ज्ञदु॑ग्धा॒ᳶ परा॑ऽभव॒न्यो वै य॒ज्ञस्य॒ दोहव्ँ॑वि॒द्वान् [1]
यज॒तेऽप्य॒न्यय्ँयज॑मानन्दुहे॒ सा मे॑ स॒त्याऽऽशीर॒स्य य॒ज्ञस्य॑ भूया॒दित्या॑है॒ष वै य॒ज्ञस्य॒ दोह॒स्तेनै॒वैन॑न्दुहे॒ प्रत्ता॒ वै गौर्दु॑हे॒ प्रत्तेडा॒ यज॑मानाय दुह ए॒ते वा इडा॑यै॒ स्तना॒ इडोप॑हू॒तेति॑ वा॒युर्व॒त्सो यर्हि॒ होतेडा॑मुप॒ह्वये॑त॒ तर्हि॒ यज॑मानो॒ होता॑र॒मीक्ष॑माणो वा॒युम्मन॑सा ध्यायेत् [2]
मा॒त्रे व॒त्समु॒पाव॑सृजति॒ सर्वे॑ण॒ वै य॒ज्ञेन॑ दे॒वास्सु॑व॒र्गल्ँ लो॒कमा॑यन्पाकय॒ज्ञेन॒ मनु॑रश्राम्य॒त्सेडा॒ मनु॑मु॒पाव॑र्तत॒ तान्दे॑वासु॒रा व्य॑ह्वयन्त प्र॒तीची॑न्दे॒वाᳶ परा॑ची॒मसु॑रा॒स्सा दे॒वानु॒पाव॑र्तत प॒शवो॒ वै तद्दे॒वान॑वृणत प॒शवोऽसु॑रानजहु॒र्यङ्का॒मये॑ताप॒शुस्स्या॒दिति॒ परा॑ची॒न्तस्येडा॒मुप॑ह्वयेताप॒शुरे॒व भ॑वति॒ यं [3]
का॒मये॑त पशु॒मान्त्स्या॒दिति॑ प्र॒तीची॒न्तस्येडा॒मुप॑ह्वयेत पशु॒माने॒व भ॑वति ब्रह्मवा॒दिनो॑ वदन्ति॒ स त्वा इडा॒मुप॑ह्वयेत॒ य इडा॑मुप॒हूया॒त्मान॒मिडा॑यामुप॒ह्वये॒तेति॒ सा नᳶ॑ प्रि॒या सु॒प्रतू॑र्तिर्म॒घोनीत्या॒हेडा॑मे॒वोप॒हूया॒ऽऽत्मान॒मिडा॑या॒मुप॑ ह्वयते॒ व्य॑स्तमिव॒ वा ए॒तद्य॒ज्ञस्य॒ यदिडा॑ सा॒मि प्रा॒श्ञन्ति॑ [4]
सा॒मि मा॑र्जयन्त ए॒तत्प्रति॒ वा असु॑राणाय्ँ य॒ज्ञो व्य॑च्छिद्यत॒ ब्रह्म॑णा दे॒वास्सम॑दधु॒र्बृह॒स्पति॑स्तनुतामि॒मन्न॒ इत्या॑ह॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र्ब्रह्म॑णै॒व य॒ज्ञँ सन्द॑धाति॒ विच्छि॑न्नय्ँ य॒ज्ञँ समि॒मन्द॑धा॒त्वित्या॑ह॒ सन्त॑त्यै॒ विश्वे॑ दे॒वा इ॒ह मा॑दयन्ता॒मित्या॑ह स॒न्तत्यै॒व य॒ज्ञन्दे॒वेभ्योऽनु॑ दिशति॒ याव्ँ वै [5]
य॒ज्ञे दक्षि॑णा॒न्ददा॑ति॒ ताम॑स्य प॒शवोऽनु॒ सङ्क्रा॑मन्ति॒ स ए॒ष ई॑जा॒नो॑ऽप॒शुर्भावु॑को॒ यज॑मानेन॒ खलु॒ वै तत्का॒र्य॑मित्या॑हु॒र्यथा॑ देव॒त्रा द॒त्तङ्कु॑र्वी॒तात्मन्प॒शून्र॒मये॒तेति॒ ब्रध्न॒ पिन्व॒स्वेत्या॑ह य॒ज्ञो वै ब्र॒ध्नो य॒ज्ञमे॒व तन्म॑हय॒त्यथो॑ देव॒त्रैव द॒त्तङ्कु॑रुत आ॒त्मन्प॒शून्र॑मयते॒ दद॑तो मे॒ मा क्षा॒यीत्या॒हाक्षि॑तिमे॒वोपै॑ति कुर्व॒तो मे॒ मोप॑ दस॒दित्या॑ह भू॒मान॑मे॒वोपै॑ति ॥ [6]
सँश्र॑वा ह सौवर्चन॒सस्तुमि॑ञ्ज॒मौपो॑दितिमुवाच॒ यत्स॒त्रिणाँ॒ होताऽभू॒ᳵ कामिडा॒मुपा॑ह्वथा॒ इति॒ तामुपा॑ह्व॒ इति॑ होवाच॒ या प्रा॒णेन॑ दे॒वान्दा॒धार॑ व्या॒नेन॑ मनु॒ष्या॑नपा॒नेन॑ पि॒तॄनिति॑ छि॒नत्ति॒ सा न छि॑न॒त्ती (३) इति॑ छि॒नत्तीति॑ होवाच॒ शरी॑रव्ँ॒ वा अ॑स्यै॒ तदुपा॑ह्वथा॒ इति॑ होवाच॒ गौर्वै [7]
अ॒स्यै॒ शरी॑र॒ङ्गाव्ँ वाव तौ तत्पर्य॑वदताय्ँ॒या य॒ज्ञे दी॒यते॒ सा प्रा॒णेन॑ दे॒वान्दा॑धार॒ यया॑ मनु॒ष्या॑ जीव॑न्ति॒ सा व्या॒नेन॑ मनु॒ष्या॑न्याम्पि॒तृभ्यो॒ घ्नन्ति॒ साऽपा॒नेन॑ पि॒तॄन् य ए॒वव्ँ वेद॑ पशु॒मान्भ॑व॒त्यथ॒ वै तामुपा॑ह्व॒ इति॑ होवाच॒ या प्र॒जाᳶ प्र॒भव॑न्ती॒ᳶ प्रत्या॒भव॒तीत्यन्नव्ँ॒ वा अ॑स्यै॒ तत् [8]
उपा॑ह्वथा॒ इति॑ होवा॒चौष॑धयो॒ वा अ॑स्या॒ अन्न॒मोष॑धयो॒ वै प्र॒जाᳶ प्र॒भव॑न्ती॒ᳶ प्रत्या भ॑वन्ति॒ य ए॒वव्ँ वेदा॑न्ना॒दो भ॑व॒त्यथ॒ वै तामुपा॑ह्व॒ इति॑ होवाच॒ या प्र॒जाᳶ प॑रा॒भव॑न्तीरनुगृ॒ह्णाति॒ प्रत्या॒भव॑न्तीर्गृ॒ह्णातीति॑ प्रति॒ष्ठाव्ँ वा अ॑स्यै॒ तदुपा॑ह्वथा॒ इति॑ होवाचे॒यव्ँ वा अ॑स्यै प्रति॒ष्ठा [9]
इ॒यव्ँ वै प्र॒जाᳶ प॑रा॒भव॑न्ती॒रनु॑गृह्णाति॒ प्रत्या॒भव॑न्तीर्गृह्णाति॒ य ए॒वव्ँ वेद॒ प्रत्ये॒व ति॑ष्ठ॒त्यथ॒ वै तामुपा॑ह्व॒ इति॑ होवाच॒ यस्यै॑ नि॒क्रम॑णे घृ॒तम्प्र॒जास्स॒ञ्जीव॑न्ती॒ᳶ पिब॒न्तीति॑ छि॒नत्ति॒ सा न छि॑न॒त्ती (३) इति॒ न छि॑न॒त्तीति॑ होवाच॒ प्र तु ज॑नय॒तीत्ये॒ष वा इडा॒मुपा॑ह्वथा॒ इति॑ होवाच॒ वृष्टि॒र्वा इडा॒ वृष्ट्यै॒ वै नि॒क्रम॑णे घृ॒तम्प्र॒जास्स॒ञ्जीव॑न्तीᳶ पिबन्ति॒ य ए॒वव्ँ वेद॒ प्रैव जा॑यतेऽन्ना॒दो भ॑वति ॥ [10]
प॒रोक्षव्ँ॒ वा अ॒न्ये दे॒वा इ॒ज्यन्ते॑ प्र॒त्यक्ष॑म॒न्ये यद्यज॑ते॒ य ए॒व दे॒वाᳶ प॒रोक्ष॑मि॒ज्यन्ते॒ ताने॒व तद्य॑जति॒ यद॑न्वाहा॒र्य॑मा॒हर॑त्ये॒ते वै दे॒वाᳶ प्र॒त्यक्षय्ँ॒यद्ब्रा॑ह्म॒णास्ताने॒व तेन॑ प्रीणा॒त्यथो॒ दक्षि॑णै॒वास्यै॒षाऽथो॑ य॒ज्ञस्यै॒व छि॒द्रमपि॑ दधाति॒ यद्वै य॒ज्ञस्य॑ क्रू॒रय्ँयद्विलि॑ष्ट॒न्तद॑न्वाहा॒र्ये॑ण [11]
अ॒न्वाह॑रति॒ तद॑न्वाहा॒र्य॑स्यान्वाहार्य॒त्वन्दे॑वदू॒ता वा ए॒ते यदृ॒त्विजो॒ यद॑न्वाहा॒र्य॑मा॒हर॑ति देवदू॒ताने॒व प्री॑णाति प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान्व्यादि॑श॒त् स रि॑रिचा॒नो॑ऽमन्यत॒ स ए॒तम॑न्वाहा॒र्य॑मभ॑क्तमपश्य॒त्तमा॒त्मन्न॑धत्त॒ स वा ए॒ष प्रा॑जाप॒त्यो यद॑न्वाहा॒र्यो॑ यस्यै॒वव्ँवि॒दुषो॑ऽन्वाहा॒र्य॑ आह्रि॒यते॑ सा॒क्षादे॒व प्र॒जाप॑तिमृध्नो॒त्यप॑रिमितो नि॒रुप्योऽप॑रिमितᳶ प्र॒जाप॑तिᳶ प्र॒जाप॑तेः [12]
आप्त्यै॑ दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒तम्प्रा॑जाप॒त्यम॑न्वाहा॒र्य॑मपश्य॒न्तम॒न्वाह॑रन्त॒ ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यस्यै॒वव्ँवि॒दुषो॑ऽन्वाहा॒र्य॑ आह्रि॒यते॒ भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति य॒ज्ञेन॒ वा इ॒ष्टी प॒क्वेन॑ पू॒र्ती यस्यै॒वव्ँवि॒दुषो॑ऽन्वाहा॒र्य॑ आह्रि॒यते॒ स त्वे॑वेष्टा॑पू॒र्ती प्र॒जाप॑तेर्भा॒गो॑ऽसि [13]
इत्या॑ह प्र॒जाप॑तिमे॒व भा॑ग॒धेये॑न॒ सम॑र्धय॒त्यूर्ज॑स्वा॒न्पय॑स्वा॒नित्या॒होर्ज॑मे॒वास्मि॒न्पयो॑ दधाति प्राणापा॒नौ मे॑ पाहि समानव्या॒नौ मे॑ पा॒हीत्या॑हा॒ऽऽशिष॑मे॒वैतामा शा॒स्तेऽक्षि॑तो॒ऽस्यक्षि॑त्यै त्वा॒ मा मे॑ क्षेष्ठा अ॒मुत्रा॒मुष्मिल्ँ॑ लो॒क इत्या॑ह॒ क्षीय॑ते॒ वा अ॒मुष्मिल्ँ॑ लो॒केऽन्न॑मि॒तᳶ प्र॑दानँ॒ ह्य॑मुष्मिल्ँ॑ लो॒के प्र॒जा उ॑प॒जीव॑न्ति॒ यदे॒वम॑भिमृ॒शत्यक्षि॑तिमे॒वैन॑द्गमयति॒ नास्या॒मुष्मिल्ँ॑ लो॒केऽन्न॑ङ्क्षीयते ॥ [14]
ब॒र्हिषो॒ऽहन्दे॑वय॒ज्यया॑ प्र॒जावा॑न्भूयास॒मित्या॑ह ब॒र्हिषा॒ वै प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत॒ तेनै॒व प्र॒जास्सृ॑जते॒ नरा॒शँस॑स्या॒हन्दे॑वय॒ज्यया॑ पशु॒मान्भू॑यास॒मित्या॑ह॒ नरा॒शँसे॑न॒ वै प्र॒जाप॑तिᳶ प॒शून॑सृजत॒ तेनै॒व प॒शून्त्सृ॑जते॒ऽग्नेस्स्वि॑ष्ट॒कृतो॒ऽहन्दे॑वय॒ज्ययाऽऽयु॑ष्मान् य॒ज्ञेन॑ प्रति॒ष्ठाङ्ग॑मेय॒मित्या॒हाऽऽयु॑रे॒वात्मन्ध॑त्ते॒ प्रति॑ य॒ज्ञेन॑ तिष्ठति दर्शपूर्णमा॒सयोः॑ [15]
र्वै दे॒वा उज्जि॑ति॒मनूद॑जयन्दर्शपूर्णमा॒साभ्या॒मसु॑रा॒नपा॑नुदन्ता॒ग्नेर॒हमुज्जि॑ति॒मनूज्जे॑ष॒मित्याह दर्शपूर्णमा॒सयो॑रे॒व दे॒वता॑नाय्ँ॒यज॑मान॒ उज्जि॑ति॒मनूज्ज॑यति दर्शपूर्णमा॒साभ्या॒म्भ्रातृ॑व्या॒नप॑ नुदते॒ वाज॑वतीभ्या॒व्व्ँयू॑ह॒त्यन्नव्ँ॒ वै वाजोऽन्न॑मे॒वाव॑रुन्धे॒ द्वाभ्या॒म्प्रति॑ष्ठित्यै॒ यो वै य॒ज्ञस्य॒ द्वौ दोहौ॑ वि॒द्वान् यज॑त उभ॒यतः॑ [16]
ए॒व य॒ज्ञन्दु॑हे पु॒रस्ता॑च्चो॒परि॑ष्टाच्चै॒ष वा अ॒न्यो य॒ज्ञस्य॒ दोह॒ इडा॑याम॒न्यो यर्हि॒ होता॒ यज॑मानस्य॒ नाम॑ गृह्णी॒यात्तर्हि॑ ब्रूया॒देमा अ॑ग्मन्ना॒शिषो॒ दोह॑कामा॒ इति॒ सँस्तु॑ता ए॒व दे॒वता॑ दु॒हेऽथो॑ उभ॒यत॑ ए॒व य॒ज्ञन्दु॑हे पु॒रस्ता॑च्चो॒परि॑ष्टाच्च॒ रोहि॑तेन त्वा॒ऽग्निर्दे॒वता॑ङ्गमय॒त्वित्या॑है॒ते वै दे॑वा॒श्वाः [17]
यज॑मानᳶ प्रस्त॒रो यदे॒तैᳶ प्र॑स्त॒रम्प्र॒हर॑ति देवा॒श्वैरे॒व यज॑मानँ सुव॒र्गल्ँ लो॒कङ्ग॑मयति॒ वि ते॑ मुञ्चामि रश॒ना वि र॒श्मीनित्या॑है॒ष वा अ॒ग्नेर्वि॑मो॒कस्तेनै॒वैनव्ँ॒वि मु॑ञ्चति॒ विष्णोः॑ शय्ँ॒योर॒हन्दे॑वय॒ज्यया॑ य॒ज्ञेन॑ प्रति॒ष्ठाङ्ग॑मेय॒मित्या॑ह य॒ज्ञो वै विष्णु॑र्य॒ज्ञ ए॒वान्त॒तᳶ प्रति॑ तिष्ठति॒ सोम॑स्या॒हन्दे॑वय॒ज्यया॑ सु॒रेताः॑ [18]
रेतो॑ धिषी॒येत्या॑ह॒ सोमो॒ वै रे॑तो॒धास्तेनै॒व रेत॑ आ॒त्मन्ध॑त्ते॒ त्वष्टु॑र॒हन्दे॑वय॒ज्यया॑ पशू॒नाँ रू॒पम्पु॑षेय॒मित्या॑ह॒ त्वष्टा॒ वै प॑शू॒नाम्मि॑थु॒नानाँ॑ रूप॒कृत्तेनै॒व प॑शू॒नाँ रू॒पमा॒त्मन्ध॑त्ते दे॒वाना॒म्पत्नी॑र॒ग्निर्गृ॒हप॑तिर्य॒ज्ञस्य॑ मिथु॒नन्तयो॑र॒हन्दे॑वय॒ज्यया॑ मिथु॒नेन॒ प्र भू॑यास॒मित्या॑है॒तस्मा॒द्वै मि॑थु॒नात्प्र॒जाप॑तिर्मिथु॒नेन॑ [19]
प्राजा॑यत॒ तस्मा॑दे॒व यज॑मानो मिथु॒नेन॒ प्र जा॑यते वे॒दो॑ऽसि॒ वित्ति॑रसि वि॒देयेत्या॑ह वे॒देन॒ वै दे॒वा असु॑राणाव्ँवि॒त्तव्ँवेद्य॑मविन्दन्त॒ तद्वे॒दस्य॑ वेद॒त्वय्ँयद्य॒द्भ्रातृ॑व्यस्याभि॒ध्याये॒त्तस्य॒ नाम॑ गृह्णीया॒त्तदे॒वास्य॒ सर्वव्ँ॑वृङ्क्ते घृ॒तव॑न्तङ्कुला॒यिनँ॑ रा॒यस्पोषँ॑ सह॒स्रिणव्ँ॑वे॒दो द॑दातु वा॒जिन॒मित्या॑ह॒ प्र स॒हस्र॑म्प॒शूना॑प्नो॒त्याऽस्य॑ प्र॒जायाव्ँ॑वा॒जी जा॑यते॒ य ए॒वव्ँ वेद॑ ॥ [20]
ध्रु॒वाव्ँ वै रिच्य॑मानाय्ँ य॒ज्ञोऽनु॑ रिच्यते य॒ज्ञय्ँयज॑मानो॒ यज॑मानम्प्र॒जा ध्रु॒वामा॒प्याय॑मानाय्ँ य॒ज्ञोऽन्वा प्या॑यते य॒ज्ञय्ँयज॑मानो॒ यज॑मानम्प्र॒जा आ प्या॑यतान्ध्रु॒वा घृ॒तेनेत्या॑ह ध्रु॒वामे॒वाऽऽप्या॑ययति॒ तामा॒प्याय॑मानाय्ँ य॒ज्ञोऽन्वा प्या॑यते य॒ज्ञय्ँयज॑मानो॒ यज॑मानम्प्र॒जाᳶ प्र॒जाप॑तेर्वि॒भान्नाम॑ लो॒कस्तस्मिँ॑ स्त्वा दधामि स॒ह यज॑माने॒नेति॑ [21]
आ॒हा॒यव्ँ वै प्र॒जाप॑तेर्वि॒भान्नाम॑ लो॒कस्तस्मि॑न्ने॒वैन॑न्दधाति स॒ह यज॑मानेन॒ रिच्य॑त इव॒ वा ए॒तद्यद्यज॑ते॒ यद्य॑जमानभा॒गम्प्रा॒श्ञात्या॒त्मान॑मे॒व प्री॑णात्ये॒तावा॒न्वै य॒ज्ञो यावा॑न्यजमानभा॒गो य॒ज्ञो यज॑मानो॒ यद्य॑जमानभा॒गम्प्रा॒श्ञाति॑ य॒ज्ञ ए॒व य॒ज्ञम्प्रति॑ष्ठापयत्ये॒तद्वै सू॒यव॑सँ॒ सोद॑कय्ँ॒यद्ब॒र्हिश्चाऽऽप॑श्चै॒तत् [22]
यज॑मानस्या॒ऽऽयत॑नय्ँ॒यद्वेदि॒र्यत्पू॑र्णपा॒त्रम॑न्तर्वे॒दि नि॒नय॑ति॒ स्व ए॒वाऽऽयत॑ने सू॒यव॑सँ॒ सोद॑कङ्कुरुते॒ सद॑सि॒ सन्मे॑ भूया॒ इत्या॒हाऽऽपो॒ वै य॒ज्ञ आपो॒ऽमृतय्ँ॑ य॒ज्ञमे॒वामृत॑मा॒त्मन्ध॑त्ते॒ सर्वा॑णि॒ वै भू॒तानि॑ व्र॒तमु॑प॒यन्त॒मनूप॑ यन्ति॒ प्राच्या॑न्दि॒शि दे॒वा ऋ॒त्विजो॑ मार्जयन्ता॒मित्या॑है॒ष वै द॑र्शपूर्णमा॒सयो॑रवभृ॒थः [23]
यान्ये॒वैन॑म्भू॒तानि॑ व्र॒तमु॑प॒यन्त॑मनूप॒यन्ति॒ तैरे॒व स॒हाव॑भृ॒थमवै॑ति॒ विष्णु॑मुखा॒ वै दे॒वाश्छन्दो॑भिरि॒माल्लोँ॒कान॑नपज॒य्यम॒भ्य॑जय॒न् यद्वि॑ष्णुक्र॒मान्क्रम॑ते॒ विष्णु॑रे॒व भू॒त्वा यज॑मान॒श्छन्दो॑भिरि॒माल्लोँ॒कान॑नपज॒य्यम॒भि ज॑यति॒ विष्णो॒ᳵ क्रमो॑ऽस्यभिमाति॒हेत्या॑ह गाय॒त्री वै पृ॑थि॒वी त्रैष्टु॑भम॒न्तरि॑क्ष॒ञ्जाग॑ती॒ द्यौरानु॑ष्टुभी॒र्दिश॒श्छन्दो॑भिरे॒वेमाल्लोँ॒कान् य॑थापू॒र्वम॒भि ज॑यति ॥ [24]
अग॑न्म॒ सुव॒स्सुव॑रग॒न्मेत्या॑ह सुव॒र्गमे॒व लो॒कमे॑ति स॒न्दृश॑स्ते॒ मा छि॑त्सि॒ यत्ते॒ तप॒स्तस्मै॑ ते॒ मा वृ॒क्षीत्या॑ह यथाय॒जुरे॒वैतत्सु॒भूर॑सि॒ श्रेष्ठो॑ रश्मी॒नामा॑यु॒र्धा अ॒स्यायु॑र्मे धे॒हीत्या॑हा॒ऽऽशिष॑मे॒वैतामा शा॑स्ते॒ प्र वा ए॒षो॑ऽस्माल्लो॒काच्च्य॑वते॒ यः [25]
वि॒ष्णु॒क्र॒मान्क्रम॑ते सुव॒र्गाय॒ हि लो॒काय॑ विष्णुक्र॒माᳵ क्र॒म्यन्ते॑ ब्रह्मवा॒दिनो॑ वदन्ति॒ स त्वै वि॑ष्णुक्र॒मान्क्र॑मेत॒ य इ॒माल्लोँ॒कान्भ्रातृ॑व्यस्य सव्ँ॒विद्य॒ पुन॑रि॒मल्ँ लो॒कम्प्र॑त्यव॒रोहे॒दित्ये॒ष वा अ॒स्य लो॒कस्य॑ प्रत्यवरो॒हो यदाहे॒दम॒हम॒मुम्भ्रातृ॑व्यमा॒भ्यो दि॒ग्भ्यो॑ऽस्यै दि॒व इती॒माने॒व लो॒कान्भ्रातृ॑व्यस्य सव्ँ॒विद्य॒ पुन॑रि॒मल्ँ लो॒कम्प्र॒त्यव॑रोहति॒ सं [26]
ज्योति॑षाऽभूव॒मित्या॑हा॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठत्यै॒न्द्रीमा॒वृत॑म॒न्वाव॑र्त॒ इत्या॑हा॒सौ वा आ॑दि॒त्य इन्द्र॒स्तस्यै॒वाऽऽवृत॒मनु॑ प॒र्याव॑र्तते दक्षि॒णा प॒र्याव॑र्तते॒ स्वमे॒व वी॒र्य॑मनु॑ प॒र्याव॑र्तते॒ तस्मा॒द्दक्षि॒णोऽर्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्त॒रोऽथो॑ आदि॒त्यस्यै॒वाऽऽवृत॒मनु॑ प॒र्याव॑र्तते॒ सम॒हम्प्र॒जया॒ सम्मया॑ प्र॒जेत्या॑हा॒ऽऽशिष॑म् [27]
ए॒वैतामा शा॑स्ते॒ समि॑द्धो अग्ने मे दीदिहि समे॒द्धा ते॑ अग्ने दीद्यास॒मित्या॑ह यथाय॒जुरे॒वैतद्वसु॑मान् य॒ज्ञो वसी॑यान्भूयास॒मित्या॑हा॒ऽऽशिष॑मे॒वैतामा शा॑स्ते ब॒हु वै गार्ह॑पत्य॒स्यान्ते॑ मि॒श्रमि॑व चर्यत आग्निपावमा॒नीभ्या॒ङ्गार्ह॑पत्य॒मुप॑ तिष्ठते पु॒नात्ये॒वाग्निम्पु॑नी॒त आ॒त्मान॒न्द्वाभ्या॒म्प्रति॑ष्ठित्या॒ अग्ने॑ गृहपत॒ इत्या॑ह [28]
य॒था॒य॒जुरे॒वैतच्छ॒तँ हिमा॒ इत्या॑ह श॒तन्त्वा॑ हेम॒न्तानि॑न्धिषी॒येति॒ वावैतदा॑ह पु॒त्रस्य॒ नाम॑ गृह्णात्यन्ना॒दमे॒वैन॑ङ्करोति॒ तामा॒शिष॒मा शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒द्यस्य॑ पु॒त्त्रोऽजा॑त॒स्स्यात्ते॑ज॒स्व्ये॑वास्य॑ ब्रह्मवर्च॒सी पु॒त्त्रो जा॑यते॒ तामा॒शिष॒मा शा॑से॒ऽमुष्मै॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒द्यस्य॑ पु॒त्त्रः [29]
जा॒तस्स्यात्तेज॑ ए॒वास्मि॑न्ब्रह्मवर्च॒सन्द॑धाति॒ यो वै य॒ज्ञम्प्र॒युज्य॒ न वि॑मु॒ञ्चत्य॑प्रतिष्ठा॒नो वै स भ॑वति॒ कस्त्वा॑ युनक्ति॒ स त्वा॒ वि मु॑ञ्च॒त्वित्या॑ह प्र॒जाप॑ति॒र्वै कᳶ प्र॒जाप॑तिनै॒वैनय्ँ॑यु॒नक्ति॑ प्र॒जाप॑तिना॒ वि मु॑ञ्चति॒ प्रति॑ष्ठित्या ईश्व॒रव्ँ वै व्र॒तमवि॑सृष्टम्प्र॒दहोऽग्ने॑ व्रतपते व्र॒तम॑चारिष॒मित्या॑ह व्र॒तमे॒व [30]
वि सृ॑जते॒ शान्त्या॒ अप्र॑दाहाय॒ परा॒ङ्वाव य॒ज्ञ ए॑ति॒ न नि व॑र्तते॒ पुन॒र्यो वै य॒ज्ञस्य॑ पुनराल॒म्भव्ँवि॒द्वान् यज॑ते॒ तम॒भि नि व॑र्तते य॒ज्ञो ब॑भूव॒ स आ ब॑भू॒वेत्या॑है॒ष वै य॒ज्ञस्य॑ पुनराल॒म्भस्तेनै॒वैन॒म्पुन॒राल॑भ॒तेऽन॑वरुद्धा॒ वा ए॒तस्य॑ वि॒राड्य आहि॑ताग्नि॒स्सन्न॑स॒भᳶ प॒शव॒ᳵ खलु॒ वै ब्रा॑ह्म॒णस्य॑ स॒भेष्ट्वा प्राङु॒त्क्रम्य॑ ब्रूया॒द्गोमाँ॑ अ॒ग्नेऽवि॑माँ अ॒श्वी य॒ज्ञ इत्यव॑ स॒भाँ रु॒न्धे प्र स॒हस्र॑म्प॒शूना॑प्नो॒त्यास्य॑ प्र॒जायाव्ँ॑वा॒जी जा॑यते ॥ [31]
देव॑ सवित॒ᳶ प्रसु॑व य॒ज्ञम्प्रसु॑व य॒ज्ञप॑ति॒म्भगा॑य दि॒व्यो ग॑न्ध॒र्वः । के॒त॒पूᳵ केत॑न्नᳶ पुनातु वा॒चस्पति॒र्वाच॑म॒द्य स्व॑दाति नः ॥ इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒स्त्वया॒ऽयव्ँवृ॒त्रव्ँव॑ध्यात् ॥ वाज॑स्य॒ नु प्र॑स॒वे मा॒तर॑म्म॒हीमदि॑ति॒न्नाम॒ वच॑सा करामहे । यस्या॑मि॒दव्ँविश्व॒म्भुव॑नमावि॒वेश॒ तस्या॑न्नो दे॒वस्स॑वि॒ता धर्म॑ साविषत् ॥ अ॒प्सु [32]
अ॒न्तर॒मृत॑म॒प्सु भे॑ष॒जम॒पामु॒त प्रश॑स्ति॒ष्वश्वा॑ भवथ वाजिनः ॥ वा॒युर्वा॑ त्वा॒ मनु॑र्वा त्वा गन्ध॒र्वास्स॒प्तविँ॑शतिः । ते अग्रे॒ अश्व॑मायुञ्ज॒न्ते अ॑स्मिञ्ज॒वमाद॑धुः ॥ अपा॑न्नपादाशुहेम॒न्य ऊ॒र्मिᳵ क॒कुद्मा॒न्प्रतू॑र्तिर्वाज॒सात॑म॒स्तेना॒यव्ँवाजँ॑ सेत् ॥ विष्णो॒ᳵ क्रमो॑ऽसि॒ विष्णोः॑ क्रा॒न्तम॑सि॒ विष्णो॒र्विक्रा॑न्तमस्य॒ङ्कौ न्य॒ङ्काव॒भितो॒ रथय्ँ॒यौ ध्वा॒न्तव्ँवा॑ता॒ग्रमनु॑ स॒ञ्चर॑न्तौ दू॒रेहे॑तिरिन्द्रि॒यावा॑न्पत॒त्री ते नो॒ऽग्नय॒ᳶ पप्र॑यᳶ पारयन्तु ॥ [33]
दे॒वस्या॒हँ स॑वि॒तुᳶ प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वाज॑ञ्जेषन्दे॒वस्या॒हँ स॑वि॒तुᳶ प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वर्षि॑ष्ठ॒न्नाकँ॑ रुहेय॒मिन्द्रा॑य॒ वाचव्ँ॑वद॒तेन्द्रव्ँ॒वाज॑ञ्जापय॒तेन्द्रो॒ वाज॑मजयित् । अश्वा॑जनि वाजिनि॒ वाजे॑षु वाजिनीव॒त्यश्वा॑न्त्स॒मत्सु॑ वाजय ॥ अर्वा॑सि॒ सप्ति॑रसि वा॒ज्य॑सि॒ वाजि॑नो॒ वाज॑न्धावत म॒रुता॑म्प्रस॒वे ज॑यत॒ वि योज॑ना मिमीध्व॒मध्व॑नस्स्कभ्नीत [34]
काष्ठा॑ङ्गच्छत॒ वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋतज्ञाः ॥ अ॒स्य मध्वᳶ॑ पिबत मा॒दय॑ध्वन्तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः॑ ॥ ते नो॒ अर्व॑न्तो हवन॒श्रुतो॒ हवव्ँ॒विश्वे॑ शृण्वन्तु वा॒जिनः॑ ॥ मि॒तद्र॑वस्सहस्र॒सा मे॒धसा॑ता सनि॒ष्यवः॑ । म॒हो ये रत्नँ॑ समि॒थेषु॑ जभ्रि॒रे शन्नो॑ भवन्तु वा॒जिनो॒ हवे॑षु ॥ दे॒वता॑ता मि॒तद्र॑वस्स्व॒र्काः । ज॒म्भय॒न्तोऽहिव्ँ॒वृकँ॒ रक्षाँ॑सि॒ सने॑म्य॒स्मद्यु॑यवन्न् [35]
अमी॑वाः ॥ ए॒ष स्य वा॒जी क्षि॑प॒णिन्तु॑रण्यति ग्री॒वाया॑म्ब॒द्धो अ॑पिक॒क्ष आ॒सनि॑ । क्रतु॑न्दधि॒क्रा अनु॑ स॒न्तवी॑त्वत्प॒थामङ्काँ॒स्यन्वा॒पनी॑फणत् ॥ उ॒त स्मा॑स्य॒ द्रव॑तस्तुरण्य॒तᳶ प॒र्णन्न वेरनु॑ वाति प्रग॒र्धिनः॑ । श्ये॒नस्ये॑व॒ ध्रज॑तो अङ्क॒सम्परि॑ दधि॒क्राव्ण्ण॑स्स॒होर्जा तरि॑त्रतः ॥ आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒दा द्यावा॑पृथि॒वी वि॒श्वश॑म्भू । आ मा॑ गन्ताम्पि॒तरा॑ [36]
मा॒तरा॒ चाऽऽमा॒ सोमो॑ अमृत॒त्वाय॑ गम्यात् ॥ वाजि॑नो वाजजितो॒ वाजँ॑ सरि॒ष्यन्तो॒ वाज॑ञ्जे॒ष्यन्तो॒ बृह॒स्पते॑र्भा॒गमव॑ जिघ्रत॒ वाजि॑नो वाजजितो॒ वाजँ॑ ससृ॒वाँसो॒ वाज॑ञ्जिगि॒वाँसो॒ बृह॒स्पते॑र्भा॒गे नि मृ॑ढ्वमि॒यव्ँव॒स्सा स॒त्या स॒न्धाऽभू॒द्यामिन्द्रे॑ण स॒मध॑ध्व॒मजी॑जिपत वनस्पतय॒ इन्द्रव्ँ॒वाजव्ँ॒विमु॑च्यध्वम् ॥ [37]
क्ष॒त्रस्योल्ब॑मसि क्ष॒त्रस्य॒ योनि॑रसि॒ जाय॒ एहि॒ सुवो॒ रोहा॑व॒ रोहा॑व॒ हि सुव॑र॒हन्ना॑वु॒भयो॒स्सुवो॑ रोक्ष्यामि॒ वाज॑श्च प्रस॒वश्चा॑पि॒जश्च॒ क्रतु॑श्च॒ सुव॑श्च मू॒र्धा च॒ व्यश्ञि॑यश्चाऽऽन्त्याय॒नश्चान्त्य॑श्च भौव॒नश्च॒ भुव॑न॒श्चाधि॑पतिश्च । आयु॑र्य॒ज्ञेन॑ कल्पताम्प्रा॒णो य॒ज्ञेन॑ कल्पतामपा॒नः [38]
य॒ज्ञेन॑ कल्पताव्व्ँया॒नो य॒ज्ञेन॑ कल्पता॒ञ्चक्षु॑र्य॒ज्ञेन॑ कल्पताँ॒ श्रोत्रय्ँ॑ य॒ज्ञेन॑ कल्पता॒म्मनो॑ य॒ज्ञेन॑ कल्पताव्ँ॒वाग्य॒ज्ञेन॑ कल्पतामा॒त्मा य॒ज्ञेन॑ कल्पताय्ँ य॒ज्ञो य॒ज्ञेन॑ कल्पताँ॒ सुव॑र्दे॒वाँ अ॑गन्मा॒मृता॑ अभूम प्र॒जाप॑तेᳶ प्र॒जा अ॑भूम॒ सम॒हम्प्र॒जया॒ सम्मया॑ प्र॒जा सम॒हँ रा॒यस्पोषे॑ण॒ सम्मया॑ रा॒यस्पोषोऽन्ना॑य त्वा॒ऽन्नाद्या॑य त्वा॒ वाजा॑य त्वा वाजजि॒त्यायै॑ त्वा॒ऽमृत॑मसि॒ पुष्टि॑रसि प्र॒जन॑नमसि ॥ [39]
वाज॑स्ये॒मम्प्र॑स॒वस्सु॑षुवे॒ अग्रे॒ सोमँ॒ राजा॑न॒मोष॑धीष्व॒प्सु । ता अ॒स्मभ्य॒म्मधु॑मतीर्भवन्तु व॒यँ रा॒ष्ट्रे जा॑ग्रियाम पु॒रोहि॑ताः ॥ वाज॑स्ये॒दम्प्र॑स॒व आ ब॑भूवे॒मा च॒ विश्वा॒ भुव॑नानि स॒र्वतः॑ । स वि॒राज॒म्पर्ये॑ति प्रजा॒नन्प्र॒जाम्पुष्टिव्ँ॑व॒र्धय॑मानो अ॒स्मे ॥ वाज॑स्ये॒माम्प्र॑स॒वश्शि॑श्रिये॒ दिव॑मि॒मा च॒ विश्वा॒ भुव॑नानि स॒म्राट् । अदि॑त्सन्तन्दापयतु प्रजा॒नन्र॒यिं [40]
च॒ न॒स्सर्व॑वीरा॒न्नि य॑च्छतु ॥ अग्ने॒ अच्छा॑ वदे॒ह न॒ᳶ प्रति॑ नस्सु॒मना॑ भव । प्र णो॑ यच्छ भुवस्पते धन॒दा अ॑सि न॒स्त्वम् ॥ प्र णो॑ यच्छत्वर्य॒मा प्र भग॒ᳶ प्र बृह॒स्पतिः॑ । प्र दे॒वाᳶ प्रोत सू॒नृता॒ प्र वाग्दे॒वी द॑दातु नः ॥ अ॒र्य॒मण॒म्बृह॒स्पति॒मिन्द्र॒न्दाना॑य चोदय । वाचव्ँ॒विष्णुँ॒ सर॑स्वतीँ सवि॒तार॑म् [41]
च॒ वा॒जिन॑म् ॥ सोमँ॒ राजा॑नव्ँ॒वरु॑णम॒ग्निम॒न्वार॑भामहे । आ॒दि॒त्यान् विष्णुँ॒ सूर्य॑म्ब्र॒ह्माण॑ञ्च॒ बृह॒स्पति॑म् ॥ दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॑ऽश्विनो॑र्बा॒हुभ्या॑म्पू॒ष्णो हस्ता॑भ्याँ॒ सर॑स्वत्यै वा॒चो य॒न्तुर्य॒न्त्रेणा॒ग्नेस्त्वा॒ साम्रा॑ज्येना॒भिषि॑ञ्चा॒मीन्द्र॑स्य॒ बृह॒स्पते॑स्त्वा॒ साम्रा॑ज्येना॒भिषि॑ञ्चामि ॥ [42]
अ॒ग्निरेका॑क्षरेण॒ वाच॒मुद॑जयद॒श्विनौ॒ द्व्य॑क्षरेण प्राणापा॒नावुद॑जयताव्ँ॒विष्णु॒स्त्र्य॑क्षरेण॒ त्रील्लोँ॒कानुद॑जय॒त् सोम॒श्चतु॑रक्षरेण॒ चतु॑ष्पदᳶ प॒शूनुद॑जयत्पू॒षा पञ्चा॑क्षरेण प॒ङ्क्तिमुद॑जयद्धा॒ता षड॑क्षरेण॒ षडृ॒तूनुद॑जयन्म॒रुत॑स्स॒प्ताक्ष॑रेण स॒प्तप॑दाँ॒ शक्व॑री॒मुद॑जय॒न्बृह॒स्पति॑र॒ष्टाक्ष॑रेण गाय॒त्रीमुद॑जयन्मि॒त्रो नवा॑क्षरेण त्रि॒वृतँ॒ स्तोम॒मुद॑जयत् [43]
वरु॑णो॒ दशा॑क्षरेण वि॒राज॒मुद॑जय॒दिन्द्र॒ एका॑दशाक्षरेण त्रि॒ष्टुभ॒मुद॑जय॒द्विश्वे॑ दे॒वा द्वाद॑शाक्षरेण॒ जग॑ती॒मुद॑जय॒न्वस॑व॒स्त्रयो॑दशाक्षरेण त्रयोद॒शँ स्तोम॒मुद॑जयन् रु॒द्राश्चतु॑र्दशाक्षरेण चतुर्द॒शँ स्तोम॒मुद॑जयन्नादि॒त्याᳶ पञ्च॑दशाक्षरेण पञ्चद॒शँ स्तोम॒मुद॑जय॒न्नदि॑ति॒ष्षोड॑शाक्षरेण षोड॒शँ स्तोम॒मुद॑जयत्प्र॒जाप॑तिस्स॒प्तद॑शाक्षरेण सप्तद॒शँ स्तोम॒मुद॑जयत् ॥ [44]
उ॒प॒या॒मगृ॑हीतोऽसि नृ॒षद॑न्त्वा द्रु॒षद॑म्भुवन॒सद॒मिन्द्रा॑य॒ जुष्ट॑ङ्गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वोपया॒मगृ॑हीतोऽस्यप्सु॒षद॑न्त्वा घृत॒सदव्ँ॑व्योम॒सद॒मिन्द्रा॑य॒ जुष्ट॑ङ्गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वोपया॒मगृ॑हीतोऽसि पृथिवि॒षद॑न्त्वाऽन्तरिक्ष॒सद॑न्नाक॒सद॒मिन्द्रा॑य॒ जुष्ट॑ङ्गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा ॥ ये ग्रहाः॑ पञ्चज॒नीना॒ येषा॑न्ति॒स्रᳶ प॑रम॒जाः । दैव्य॒ᳵ कोशः॑ [45]
समु॑ब्जितः । तेषाव्ँ॒विशि॑प्रियाणा॒मिष॒मूर्जँ॒ सम॑ग्रभीमे॒ष ते॒ योनि॒रिन्द्रा॑य त्वा ॥ अ॒पाँ रस॒मुद्व॑यसँ॒ सूर्य॑रश्मिँ स॒माभृ॑तम् । अ॒पाँ रस॑स्य॒ यो रस॒स्तव्ँवो॑ गृह्णाम्युत्त॒ममे॒ष ते॒ योनि॒रिन्द्रा॑य त्वा ॥ अ॒या वि॒ष्ठा ज॒नय॒न्कर्व॑राणि॒ स हि घृणि॑रु॒रुर्वरा॑य गा॒तुः । स प्रत्युदै॑द्ध॒रुणो॒ मध्वो॒ अग्रँ॒ स्वायाय्ँ॒यत्त॒नुवा॑न्त॒नूमैर॑यत । उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्ट॑ङ्गृह्णाम्ये॒ष ते॒ योनिᳶ॑ प्र॒जाप॑तये त्वा ॥ [46]
अन्वह॒ मासा॒ अन्विद्वना॒न्यन्वोष॑धी॒रनु॒ पर्व॑तासः । अन्विन्द्रँ॒ रोद॑सी वावशा॒ने अन्वापो॑ अजिहत॒ जाय॑मानम् ॥ अनु॑ ते दायि म॒ह इ॑न्द्रि॒याय॑ स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये॑ । अनु॒ क्ष॒त्रमनु॒ सहो॑ यज॒त्रेन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये॑ ॥ इ॒न्द्रा॒णीमा॒सु नारि॑षु सु॒पत्नी॑म॒हम॑श्रवम् । न ह्य॒स्या अप॒रञ्च॒न ज॒रसा॑ [47]
मर॑ते॒ पतिः॑ ॥ नाहमि॑न्द्राणि रारण॒ सख्यु॑र्वृ॒षाक॑पेर् ऋ॒ते । यस्ये॒दमप्यँ॑ ह॒विᳶ प्रि॒यन्दे॒वेषु॒ गच्छ॑ति ॥ यो जा॒त ए॒व प्र॑थ॒मो मन॑स्वान्दे॒वो दे॒वान्क्रतु॑ना प॒र्यभू॑षत् । यस्य॒ शुष्मा॒द्रोद॑सी॒ अभ्य॑सेतान्नृ॒म्णस्य॑ म॒ह्ना स ज॑नास॒ इन्द्रः॑ ॥ आ ते॑ म॒ह इ॑न्द्रो॒त्यु॑ग्र॒ सम॑न्यवो॒ यत् स॒मर॑न्त॒ सेनाः॑ । पता॑ति दि॒द्युन्नर्य॑स्य बाहु॒वोर्मा ते॑ [48]
मनो॑ विष्व॒द्रिय॒ग्विचा॑रीत् ॥ मा नो॑ मर्धी॒रा भ॑रा द॒द्धि तन्न॒ᳶ प्र दा॒शुषे॒ दात॑वे॒ भूरि॒ यत्ते॑ । नव्ये॑ दे॒ष्णे श॒स्ते अ॒स्मिन्त॑ उ॒क्थे प्र ब्र॑वाम व॒यमि॑न्द्र स्तु॒वन्तः॑ ॥ आ तू भ॑र॒ माकि॑रे॒तत्परि॑ष्ठाद्वि॒द्मा हि त्वा॒ वसु॑पतिव्ँ॒वसू॑नाम् । इन्द्र॒ यत्ते॒ माहि॑न॒न्दत्र॒मस्त्य॒स्मभ्य॒न्तद्ध॑र्यश्व [49]
प्र य॑न्धि ॥ प्र॒दा॒तारँ॑ हवामह॒ इन्द्र॒मा ह॒विषा॑ व॒यम् । उ॒भा हि हस्ता॒ वसु॑ना पृ॒णस्वाऽऽप्र य॑च्छ॒ दक्षि॑णा॒दोत स॒व्यात् ॥ प्र॒दा॒ता व॒ज्री वृ॑ष॒भस्तु॑रा॒षाट्छु॒ष्मी राजा॑ वृत्र॒हा सो॑म॒पावा॑ । अ॒स्मिन् य॒ज्ञे ब॒र्हिष्या नि॒षद्याथा॑ भव॒ यज॑मानाय॒ शय्ँयोः ॥ इन्द्र॑स्सु॒त्रामा॒ स्ववाँ॒ अवो॑भिस्सुमृडी॒को भ॑वतु वि॒श्ववे॑दाः । बाध॑ता॒न्द्वेषो॒ अभ॑यङ्कृणोतु सु॒वीर्य॑स्य [50]
पत॑यस्स्याम ॥ तस्य॑ व॒यँ सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म । स सु॒त्रामा॒ स्ववाँ॒ इन्द्रो॑ अ॒स्मे आ॒राच्चि॒द्द्वेष॑स्सनु॒तर्यु॑योतु ॥ रे॒वती॑र्नस्सध॒माद॒ इन्द्रे॑ सन्तु तु॒विवा॑जाः । क्षु॒मन्तो॒ याभि॒र्मदे॑म ॥ प्रो ष्व॑स्मै पुरोर॒थमिन्द्रा॑य शू॒षम॑र्चत । अ॒भीके॑ चिदु लोक॒कृत्स॒ङ्गे स॒मत्सु॑ वृत्र॒हा । अ॒स्माक॑म्बोधि चोदि॒ता नभ॑न्तामन्य॒केषा॑म् । ज्या॒का अधि॒ धन्व॑सु ॥ [51]