तैत्तिरीयसंहितायाम्प्रथमकाण्डे षष्ठप्रश्नप्रारम्भः । हरिः ओम् । सन्त्वा॑ सिञ्चामि॒ यजु॑षा प्र॒जामायु॒र्धन॑ञ्च । बृह॒स्पति॑प्रसूतो॒ यज॑मान इ॒ह मा रि॑षत् ॥ आज्य॑मसि स॒त्यम॑सि स॒त्यस्याध्य॑क्षमसि ह॒विर॑सि वैश्वान॒रव्ँ वै॑श्वदे॒वमुत्पू॑तशुष्मँ स॒त्यौजा॒स्सहो॑ऽसि॒ सह॑मानमसि॒ सह॒स्वारा॑ती॒स्सह॑स्वारातीय॒तस्सह॑स्व॒ पृत॑ना॒स्सह॑स्व पृतन्य॒तः । स॒हस्र॑वीर्यमसि॒ तन्मा॑ जि॒न्वाऽऽज्य॒स्याऽऽज्य॑मसि स॒त्यस्य॑ स॒त्यम॑सि स॒त्यायुः॑ [1]
अ॒सि॒ स॒त्यशु॑ष्ममसि स॒त्येन॑ त्वा॒ऽभि घा॑रयामि॒ तस्य॑ ते भक्षीय पञ्चा॒नान्त्वा॒ वाता॑नाय्ँय॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि पञ्चा॒नान्त्व॑र्तू॒नाय्ँय॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि पञ्चा॒नान्त्वा॑ दि॒शाय्ँय॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि पञ्चा॒नान्त्वा॑ पञ्चज॒नानाय्ँ॑य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि च॒रोस्त्वा॒ पञ्च॑बिलस्य य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि॒ ब्रह्म॑णस्त्वा॒ तेज॑से य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि क्ष॒त्रस्य॒ त्वौज॑से य॒न्त्राय॑ [2]
ध॒र्त्राय॑ गृह्णामि वि॒शे त्वा॑ य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि सु॒वीर्या॑य त्वा गृह्णामि सुप्रजा॒स्त्वाय॑ त्वा गृह्णामि रा॒यस्पोषा॑य त्वा गृह्णामि ब्रह्मवर्च॒साय॑ त्वा गृह्णामि॒ भूर॒स्माकँ॑ ह॒विर्दे॒वाना॑मा॒शिषो॒ यज॑मानस्य दे॒वाना॑न्त्वा दे॒वता॑भ्यो गृह्णामि॒ कामा॑य त्वा गृह्णामि ॥ [3]
ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहँ स॑जा॒तेषु॑ भूयास॒न्धीर॒श्चेत्ता॑ वसु॒विदु॒ग्रो॑ऽस्यु॒ग्रो॑ऽहँ स॑जा॒तेषु॑ भूयासमु॒ग्रश्चेत्ता॑ वसु॒विद॑भि॒भूर॑स्यभि॒भूर॒हँ स॑जा॒तेषु॑ भूयासमभि॒भूश्चेत्ता॑ वसु॒विद्यु॒नज्मि॑ त्वा॒ ब्रह्म॑णा॒ दैव्ये॑न ह॒व्याया॒स्मै वोढ॒वे जा॑तवेदः । इन्धा॑नास्त्वा सुप्र॒जस॑स्सु॒वीरा॒ ज्योग्जी॑वेम बलि॒हृतो॑ व॒यन्ते॑ ॥ यन्मे॑ अग्ने अ॒स्य य॒ज्ञस्य॒ रिष्या॑त् [4]
यद्वा॒ स्कन्दा॒दाज्य॑स्यो॒त वि॑ष्णो । तेन॑ हन्मि स॒पत्न॑न्दुर्मरा॒युमैन॑न्दधामि॒ निर्ऋ॑त्या उ॒पस्थे॑ । भूर्भुव॒स्सुव॒रुच्छु॑ष्मो अग्ने॒ यज॑मानायैधि॒ निशु॑ष्मो अभि॒दास॑ते । अग्ने॒ देवे॑द्ध॒ मन्वि॑द्ध॒ मन्द्र॑जि॒ह्वाम॑र्त्यस्य ते होतर्मू॒र्धन्ना जि॑घर्मि रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य॒ मनो॑ऽसि प्राजाप॒त्यम्मन॑सा मा भू॒तेनाऽऽवि॑श॒ वाग॑स्यै॒न्द्री स॑पत्न॒क्षय॑णी [5]
वा॒चा मे॑न्द्रि॒येणाऽऽवि॑श वस॒न्तमृ॑तू॒नाम्प्री॑णामि॒ स मा॑ प्री॒तᳶ प्री॑णातु ग्री॒ष्ममृ॑तू॒नाम्प्री॑णामि॒ स मा॑ प्री॒तᳶ प्री॑णातु व॒र्षा ऋ॑तू॒नाम्प्री॑णामि॒ ता मा॑ प्री॒ताᳶ प्री॑णन्तु श॒रद॑मृतू॒नाम्प्री॑णामि॒ सा मा॑ प्री॒ता प्री॑णातु हेमन्तशिशि॒रावृ॑तू॒नाम्प्री॑णामि॒ तौ मा॑ प्री॒तौ प्री॑णीताम॒ग्नीषोम॑योर॒हन्दे॑वय॒ज्यया॒ चक्षु॑ष्मान्भूयासम॒ग्नेर॒हन्दे॑वय॒ज्यया॑न्ना॒दो भू॑यासं [6]
दब्धि॑र॒स्यद॑ब्धो भूयासम॒मुन्द॑भेयम॒ग्नीषोम॑योर॒हन्दे॑वय॒ज्यया॑ वृत्र॒हा भू॑यासमिन्द्राग्नि॒योर॒हन्दे॑वय॒ज्यये॑न्द्रिया॒व्य॑न्ना॒दो भू॑यास॒मिन्द्र॑स्या॒हन्दे॑वय॒ज्यये॑न्द्रिया॒वी भू॑यासम्महे॒न्द्रस्या॒हन्दे॑वय॒ज्यया॑ जे॒मान॑म्महि॒मान॑ङ्गमेयम॒ग्नेस्स्वि॑ष्ट॒कृतो॒ऽहन्दे॑वय॒ज्ययाऽऽयु॑ष्मान् य॒ज्ञेन॑ प्रति॒ष्ठाङ्ग॑मेयम् ॥ [7]
अ॒ग्निर्मा॒ दुरि॑ष्टात्पातु सवि॒ताऽघशँ॑सा॒द्यो मेऽन्ति॑ दू॒रे॑ऽराती॒यति॒ तमे॒तेन॑ जेषँ॒ सुरू॑पवर्षवर्ण॒ एही॒मान्भ॒द्रान्दुर्याँ॑ अ॒भ्येहि॒ मामनु॑व्रता॒ न्यु॑ शी॒र्षाणि॑ मृढ्व॒मिड॒ एह्यदि॑त॒ एहि॒ सर॑स्व॒त्येहि॒ रन्ति॑रसि॒ रम॑तिरसि सू॒नर्य॑सि॒ जुष्टे॒ जुष्टि॑न्तेऽशी॒योप॑हूत उपह॒वं [8]
ते॒ऽशी॒य॒ सा मे॑ स॒त्याशीर॒स्य य॒ज्ञस्य॑ भूया॒दरे॑डता॒ मन॑सा॒ तच्छ॑केयय्ँ य॒ज्ञो दिवँ॑ रोहतु य॒ज्ञो दिव॑ङ्गच्छतु॒ यो दे॑व॒यान॒ᳶ पन्था॒स्तेन॑ य॒ज्ञो दे॒वाँ अप्ये॑त्व॒स्मास्विन्द्र॑ इन्द्रि॒यन्द॑धात्व॒स्मान्राय॑ उ॒त य॒ज्ञास्स॑चन्ताम॒स्मासु॑ सन्त्वा॒शिष॒स्सा नᳶ॑ प्रि॒या सु॒प्रतू॑र्तिर्म॒घोनी॒ जुष्टि॑रसि जु॒षस्व॑ नो॒ जुष्टा॑ नः [9]
अ॒सि॒ जुष्टि॑न्ते गमेय॒म्मनो॒ ज्योति॑र्जुषता॒माज्यव्ँ॒विच्छि॑न्नय्ँ य॒ज्ञँ समि॒मन्द॑धातु । बृह॒स्पति॑स्तनुतामि॒मन्नो॒ विश्वे॑ दे॒वा इ॒ह मा॑दयन्ताम् ॥ ब्रध्न॒ पिन्व॑स्व॒ दद॑तो मे॒ मा क्षा॑यि कुर्व॒तो मे॒ मोप॑दसत्प्र॒जाप॑तेर्भा॒गो॑ऽस्यूर्ज॑स्वा॒न्पय॑स्वान्प्राणापा॒नौ मे॑ पाहि समानव्या॒नौ मे॑ पाह्युदानव्या॒नौ मे॑ पा॒ह्यक्षि॑तो॒ऽस्यक्षि॑त्यै त्वा॒ मा मे॑ क्षेष्ठा अ॒मुत्रा॒मुष्मि॑न्लो॒के ॥ [10]
ब॒र्हिषो॒ऽहन्दे॑वय॒ज्यया॑ प्र॒जावा॑न्भूयास॒न्नरा॒शँस॑स्या॒हन्दे॑वय॒ज्यया॑ पशु॒मान्भू॑यासम॒ग्नेस्स्वि॑ष्ट॒कृतो॒ऽहन्दे॑वय॒ज्ययाऽऽयु॑ष्मान् य॒ज्ञेन॑ प्रति॒ष्ठाङ्ग॑मेयम॒ग्नेर॒हमुज्जि॑ति॒मनूज्जे॑षँ॒ सोम॑स्या॒हमुज्जि॑ति॒मनूज्जे॑षम॒ग्नेर॒हमुज्जि॑ति॒मनूज्जे॑षम॒ग्नीषोम॑योर॒हमुज्जि॑ति॒मनूज्जे॑षमिन्द्राग्नि॒योर॒हमुज्जि॑ति॒मनूज्जे॑ष॒मिन्द्र॑स्या॒हम् [11]
उज्जि॑ति॒मनूज्जे॑षम्महे॒न्द्रस्या॒हमुज्जि॑ति॒मनूज्जे॑षम॒ग्नेस्स्वि॑ष्ट॒कृतो॒ऽहमुज्जि॑ति॒मनूज्जे॑षव्ँ॒वाज॑स्य मा प्रस॒वेनो॑द्ग्रा॒भेणोद॑ग्रभीत् । अथा॑ स॒पत्नाँ॒ इन्द्रो॑ मे निग्रा॒भेणाध॑राँ अकः ॥ उ॒द्ग्रा॒भञ्च॑ निग्रा॒भञ्च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन् । अथा॑ स॒पत्ना॑निन्द्रा॒ग्नी मे॑ विषू॒चीना॒न्व्य॑स्यताम् ॥ एमा अ॑ग्मन्ना॒शिषो॒ दोह॑कामा॒ इन्द्र॑वन्तः [12]
व॒ना॒म॒हे॒ धु॒क्षी॒महि॑ प्र॒जामिष॑म् ॥ रोहि॑तेन त्वा॒ऽग्निर्दे॒वता॑ङ्गमयतु॒ हरि॑भ्या॒न्त्वेन्द्रो॑ दे॒वता॑ङ्गमय॒त्वेत॑शेन त्वा॒ सूर्यो॑ दे॒वता॑ङ्गमयतु॒ वि ते॑ मुञ्चामि रश॒ना वि र॒श्मीन् वि योक्त्रा॒ यानि॑ परि॒चर्त॑नानि ध॒त्ताद॒स्मासु॒ द्रवि॑णय्ँ॒यच्च॑ भ॒द्रम्प्र णो॑ ब्रूताद्भाग॒धान्दे॒वता॑सु ॥ विष्णोः॑ शय्ँ॒योर॒हन्दे॑वय॒ज्यया॑ य॒ज्ञेन॑ प्रति॒ष्ठाङ्ग॑मेयँ॒ सोम॑स्या॒हन्दे॑वय॒ज्यया॑ [13]
सु॒रेता॒ रेतो॑ धिषीय॒ त्वष्टु॑र॒हन्दे॑वय॒ज्यया॑ पशू॒नाँ रू॒पम्पु॑षेयन्दे॒वाना॒म्पत्नी॑र॒ग्निर्गृ॒हप॑तिर्य॒ज्ञस्य॑ मिथु॒नन्तयो॑र॒हन्दे॑वय॒ज्यया॑ मिथु॒नेन॒ प्र भू॑यासव्ँवे॒दो॑ऽसि॒ वित्ति॑रसि वि॒देय॒ कर्मा॑सि क॒रुण॑मसि क्रि॒यासँ॑ स॒निर॑सि सनि॒तासि॑ स॒नेय॑ङ्घृ॒तव॑न्तङ्कुला॒यिनँ॑ रा॒यस्पोषँ॑ सह॒स्रिणव्ँ॑वे॒दो द॑दातु वा॒जिन॑म् ॥ [14]
आ प्या॑यतान्ध्रु॒वा घृ॒तेन॑ य॒ज्ञय्ँय॑ज्ञ॒म्प्रति॑ देव॒यद्भ्यः॑ । सू॒र्याया॒ ऊधोऽदि॑त्या उ॒पस्थ॑ उ॒रुधा॑रा पृथि॒वी य॒ज्ञे अ॒स्मिन्न् ॥ प्र॒जाप॑तेर्वि॒भान्नाम॑ लो॒कस्तस्मिँ॑स्त्वा दधामि स॒ह यज॑मानेन॒ सद॑सि॒ सन्मे॑ भूया॒स्सर्व॑मसि॒ सर्व॑म्मे भूयाᳶ पू॒र्णम॑सि पू॒र्णम्मे॑ भूया॒ अक्षि॑तमसि॒ मा मे॑ क्षेष्ठा॒ᳶ प्राच्या॑न्दि॒शि दे॒वा ऋ॒त्विजो॑ मार्जयन्ता॒न्दक्षि॑णायां [15]
दि॒शि मासाः॑ पि॒तरो॑ मार्जयन्ताम्प्र॒तीच्या॑न्दि॒शि गृ॒हाᳶ प॒शवो॑ मार्जयन्ता॒मुदी॑च्यान्दि॒श्याप॒ ओष॑धयो॒ वन॒स्पत॑यो मार्जयन्तामू॒र्ध्वाया॑न्दि॒शि य॒ज्ञस्सव्ँ॑वत्स॒रो य॒ज्ञप॑तिर्मार्जयन्ताव्ँ॒विष्णो॒ᳵ क्रमो॑ऽस्यभिमाति॒हा गा॑य॒त्रेण॒ छन्द॑सा पृथि॒वीमनु॒ वि क्र॑मे॒ निर्भ॑क्त॒स्स यन्द्वि॒ष्मो विष्णो॒ᳵ क्रमो॑ऽस्यभिशस्ति॒हा त्रैष्टु॑भेन॒ छन्द॑सा॒ऽन्तरि॑क्ष॒मनु॒ वि क्र॑मे॒ निर्भ॑क्त॒स्स यन्द्वि॒ष्मो विष्णो॒ᳵ क्रमो॑ऽस्यरातीय॒तो ह॒न्ता जाग॑तेन॒ छन्द॑सा॒ दिव॒मनु॒ वि क्र॑मे॒ निर्भ॑क्त॒स्स यन्द्वि॒ष्मो विष्णो॒ᳵ क्रमो॑ऽसि शत्रूय॒तो ह॒न्ताऽऽनु॑ष्टुभेन॒ छन्द॑सा॒ दिशोऽनु॒ वि क्र॑मे॒ निर्भ॑क्त॒स्स यन्द्वि॒ष्मः ॥ [16]
अग॑न्म॒ सुव॒स्सुव॑रगन्म स॒न्दृश॑स्ते॒ मा छि॑त्सि॒ यत्ते॒ तप॒स्तस्मै॑ ते॒ माऽऽवृ॑क्षि सु॒भूर॑सि॒ श्रेष्ठो॑ रश्मी॒नामा॑यु॒र्धा अ॒स्यायु॑र्मे धेहि वर्चो॒धा अ॑सि॒ वर्चो॒ मयि॑ धेही॒दम॒हम॒मुम्भ्रातृ॑व्यमा॒भ्यो दि॒ग्भ्यो॑ऽस्यै दि॒वो॑ऽस्माद॒न्तरि॑क्षाद॒स्यै पृ॑थि॒व्या अ॒स्माद॒न्नाद्या॒न्निर्भ॑जामि॒ निर्भ॑क्त॒स्स यन्द्वि॒ष्मः । [17]
सञ्ज्योति॑षाऽभूवमै॒न्द्रीमा॒वृत॑म॒न्वाव॑र्ते॒ सम॒हम्प्र॒जया॒ सम्मया॑ प्र॒जा सम॒हँ रा॒यस्पोषे॑ण॒ सम्मया॑ रा॒यस्पोष॒स्समि॑द्धो अग्ने मे दीदिहि समे॒द्धा ते॑ अग्ने दीद्यासव्ँ॒वसु॑मान् य॒ज्ञो वसी॑यान्भूयास॒मग्न॒ आयूँ॑षि पवस॒ आ सु॒वोर्ज॒मिष॑ञ्च नः । आ॒रे बा॑धस्व दु॒च्छुना॑म् ॥ अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्च॑स्सु॒वीर्य॑म् । [18]
दध॒त्पोषँ॑ र॒यिम्मयि॑ । अग्ने॑ गृहपते सुगृहप॒तिर॒हन्त्वया॑ गृ॒हप॑तिना भूयासँ सुगृहप॒तिर्मया॒ त्वङ्गृ॒हप॑तिना भूयाश्श॒तँ हिमा॒स्तामा॒शिष॒मा शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मती॒न्तामा॒शिष॒माशा॑से॒ऽमुष्मै॒ ज्योति॑ष्मती॒ङ्कस्त्वा॑ युनक्ति॒ स त्वा॒ विमु॑ञ्च॒त्वग्ने॑ व्रतपते व्र॒तम॑चारिष॒न्तद॑शक॒न्तन्मे॑ऽराधि य॒ज्ञो ब॑भूव॒ स आ [19]
ब॒भू॒व॒ स प्र ज॑ज्ञे॒ स वा॑वृधे । स दे॒वाना॒मधि॑पतिर्बभूव॒ सो अ॒स्माँ अधि॑पतीन्करोतु व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ॥ गोमाँ॑ अ॒ग्नेऽवि॑माँ अ॒श्वी य॒ज्ञो नृ॒वत्स॑खा॒ सद॒मिद॑प्रमृ॒ष्यः । इडा॑वाँ ए॒षो अ॑सुर प्र॒जावा॑न्दी॒र्घो र॒यिᳶ पृ॑थुबु॒ध्नस्स॒भावा॑न् ॥ [20]
यथा॒ वै स॑मृतसो॒मा ए॒वव्ँवा ए॒ते स॑मृतय॒ज्ञा यद्द॑र्शपूर्णमा॒सौ कस्य॒ वाह॑ दे॒वा य॒ज्ञमा॒ गच्छ॑न्ति॒ कस्य॑ वा॒ न ब॑हू॒नाय्ँयज॑मानानाय्ँ॒यो वै दे॒वता॒ᳶ पूर्वᳶ॑ परिगृ॒ह्णाति॒ स ए॑ना॒श्श्वो भू॒ते य॑जत ए॒तद्वै दे॒वाना॑मा॒यत॑नय्ँ॒यदा॑हव॒नीयो॑ऽन्त॒राग्नी प॑शू॒नाङ्गार्ह॑पत्यो मनु॒ष्या॑णामन्वाहार्य॒पच॑नᳶ पितृ॒णाम॒ग्निङ्गृ॑ह्णाति॒ स्व ए॒वायत॑ने दे॒वता॒ᳶ परि॑ [21]
गृ॒ह्णा॒ति॒ ताश्श्वो भू॒ते य॑जते व्र॒तेन॒ वै मेध्यो॒ऽग्निर्व्र॒तप॑तिर्ब्राह्म॒णो व्र॑त॒भृद्व्र॒तमु॑पै॒ष्यन्ब्रू॑या॒दग्ने॑ व्रतपते व्र॒तञ्च॑रिष्या॒मीत्य॒ग्निर्वै दे॒वाना॑व्व्ँर॒तप॑ति॒स्तस्मा॑ ए॒व प्र॑ति॒प्रोच्य॑ व्र॒तमाल॑भते ब॒र्हिषा॑ पू॒र्णमा॑से व्र॒तमुपै॑ति व॒त्सैर॑मावा॒स्या॑यामे॒तद्ध्ये॑तयो॑रा॒यत॑नमुप॒स्तीर्य॒ᳶ पूर्व॑श्चा॒ग्निरप॑र॒श्चेत्या॑हुर्मनु॒ष्याः॑ [22]
इन्न्वा उप॑स्तीर्णमि॒च्छन्ति॒ किमु॑ दे॒वा येषा॒न्नवा॑वसान॒मुपा॑स्मि॒ञ्छ्वो य॒क्ष्यमा॑णे दे॒वता॑ वसन्ति॒ य ए॒वव्ँवि॒द्वान॒ग्निमु॑पस्तृ॒णाति॒ यज॑मानेन ग्रा॒म्याश्च॑ प॒शवो॑ऽव॒रुध्या॑ आर॒ण्याश्चेत्या॑हु॒र्यद्ग्रा॒म्यानु॑प॒वस॑ति॒ तेन॑ ग्रा॒म्यानव॑ रुन्धे॒ यदा॑र॒ण्यस्या॒श्ञाति॒ तेना॑र॒ण्यान् यदना॑श्वानुप॒वसे॑त्पितृदेव॒त्य॑स्स्यादार॒ण्यस्या॑श्ञातीन्द्रि॒यं [23]
वा आ॑र॒ण्यमि॑न्द्रि॒यमे॒वाऽऽत्मन्ध॑त्ते॒ यदना॑श्वानुप॒वसे॒त्क्षोधु॑कस्स्या॒द्यद॑श्ञी॒याद्रु॒द्रो॑ऽस्य प॒शून॒भिम॑न्येता॒पो॑ऽश्ञाति॒ तन्नेवा॑शि॒तन्नेवान॑शित॒न्न क्षोधु॑को॒ भव॑ति॒ नास्य॑ रु॒द्रᳶ प॒शून॒भि म॑न्यते॒ वज्रो॒ वै य॒ज्ञः क्षुत्खलु॒ वै म॑नु॒ष्य॑स्य॒ भ्रातृ॑व्यो॒ यदना॑श्वानुप॒वस॑ति॒ वज्रे॑णै॒व सा॒क्षात्क्षुध॒म्भ्रातृ॑व्यँ हन्ति ॥ [24]
यो वै श्र॒द्धामना॑रभ्य य॒ज्ञेन॒ यज॑ते॒ नास्ये॒ष्टाय॒ श्रद्द॑धते॒ऽपᳶ प्र ण॑यति श्र॒द्धा वा आप॑श्श्र॒द्धामे॒वाऽऽरभ्य॑ य॒ज्ञेन॑ यजत उ॒भये॑ऽस्य देवमनु॒ष्या इ॒ष्टाय॒ श्रद्द॑धते॒ तदा॑हु॒रति॒ वा ए॒ता वर्त्र॑न्नेद॒न्त्यति॒ वाच॒म्मनो॒ वावैता नाति॑ नेद॒न्तीति॒ मन॑सा॒ प्र ण॑यती॒यव्ँ वै मनः॑ [25]
अ॒नयै॒वैना॒ᳶ प्र ण॑य॒त्यस्क॑न्नहविर्भवति॒ य ए॒वव्ँ वेद॑ यज्ञायु॒धानि॒ सम्भ॑रति य॒ज्ञो वै य॑ज्ञायु॒धानि॑ य॒ज्ञमे॒व तत्सम्भ॑रति॒ यदेक॑मेकँ स॒म्भरे॑त्पितृदेव॒त्या॑नि स्यु॒र्यत् स॒ह सर्वा॑णि मानु॒षाणि॒ द्वेद्वे॒ सम्भ॑रति याज्यानुवा॒क्य॑योरे॒व रू॒पङ्क॑रो॒त्यथो॑ मिथु॒नमे॒व यो वै दश॑ यज्ञायु॒धानि॒ वेद॑ मुख॒तो॑ऽस्य य॒ज्ञᳵ क॑ल्पते॒ स्फ्यः [26]
च॒ क॒पाला॑नि चाग्निहोत्र॒हव॑णी च॒ शूर्प॑ञ्च कृष्णाजि॒नञ्च॒ शम्या॑ चो॒लूख॑लञ्च॒ मुस॑लञ्च दृ॒षच्चोप॑ला चै॒तानि॒ वै दश॑ यज्ञायु॒धानि॒ य ए॒वव्ँ वेद॑ मुख॒तो॑ऽस्य य॒ज्ञᳵ क॑ल्पते॒ यो वै दे॒वेभ्यᳶ॑ प्रति॒प्रोच्य॑ य॒ज्ञेन॒ यज॑ते जु॒षन्ते॑ऽस्य दे॒वा ह॒व्यँ ह॒विर्नि॑रु॒प्यमा॑णम॒भि म॑न्त्रयेता॒ग्निँ होता॑रमि॒ह तँ हु॑व॒ इति॑ [27]
दे॒वेभ्य॑ ए॒व प्र॑ति॒प्रोच्य॑ य॒ज्ञेन॑ यजते जु॒षन्ते॑ऽस्य दे॒वा ह॒व्यमे॒ष वै य॒ज्ञस्य॒ ग्रहो॑ गृही॒त्वैव य॒ज्ञेन॑ यजते॒ तदु॑दि॒त्वा वाचय्ँ॑यच्छति य॒ज्ञस्य॒ धृत्या॒ अथो॒ मन॑सा॒ वै प्र॒जाप॑तिर्य॒ज्ञम॑तनुत॒ मन॑सै॒व तद्य॒ज्ञन्त॑नुते॒ रक्ष॑सा॒मन॑न्ववचाराय॒ यो वै य॒ज्ञय्ँयोग॒ आग॑ते यु॒नक्ति॑ यु॒ङ्क्ते यु॑ञ्जा॒नेषु॒ कस्त्वा॑ युनक्ति॒ स त्वा॑ युन॒क्त्वित्या॑ह प्र॒जाप॑ति॒र्वै कᳶ प्र॒जाप॑तिनै॒वैनय्ँ॑युनक्ति यु॒ङ्क्ते यु॑ञ्जा॒नेषु॑ ॥ [28]
प्र॒जाप॑तिर्य॒ज्ञान॑सृजताग्निहो॒त्रञ्चा॑ग्निष्टो॒मञ्च॑ पौर्णमा॒सीञ्चो॒क्थ्य॑ञ्चामावा॒स्या॑ञ्चातिरा॒त्रञ्च॒ तानुद॑मिमीत॒ याव॑दग्निहो॒त्रमासी॒त्तावा॑नग्निष्टो॒मो याव॑ती पौर्णमा॒सी तावा॑नु॒क्थ्यो॑ याव॑त्यमावा॒स्या॑ तावा॑नतिरा॒त्रो य ए॒वव्ँवि॒द्वान॑ग्निहो॒त्रञ्जु॒होति॒ याव॑दग्निष्टो॒मेनो॑पा॒प्नोति॒ ताव॒दुपा॑ऽऽप्नोति॒ य ए॒वव्ँवि॒द्वान्पौ॑र्णमा॒सीय्ँयज॑ते॒ याव॑दु॒क्थ्ये॑नोपा॒प्नोति॑ [29]
ताव॒दुपा॑ऽऽप्नोति॒ य ए॒वव्ँवि॒द्वान॑मावा॒स्याय्ँ॑यज॑ते॒ याव॑दतिरा॒त्रेणो॑पा॒प्नोति॒ ताव॒दुपा॑ऽऽप्नोति परमे॒ष्ठिनो॒ वा ए॒ष य॒ज्ञोऽग्र॑ आसी॒त्तेन॒ स प॑र॒माङ्काष्ठा॑मगच्छ॒त्तेन॑ प्र॒जाप॑तिन्नि॒रवा॑सायय॒त्तेन॑ प्र॒जाप॑तिᳶ पर॒माङ्काष्ठा॑मगच्छ॒त्तेनेन्द्र॑न्नि॒रवा॑सायय॒त्तेनेन्द्रᳶ॑ पर॒माङ्काष्ठा॑मगच्छ॒त्तेना॒ग्नीषोमौ॑ नि॒रवा॑सायय॒त्तेना॒ग्नीषोमौ॑ पर॒माङ्काष्ठा॑मगच्छताय्ँ॒यः [30]
ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते पर॒मामे॒व काष्ठा॑ङ्गच्छति॒ यो वै प्रजा॑तेन य॒ज्ञेन॒ यज॑ते॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते॒ द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रो द्वाद॑श द्व॒न्द्वानि॑ दर्शपूर्णमा॒सयो॒स्तानि॑ स॒म्पाद्या॒नीत्या॑हुर्व॒त्सञ्चो॑पावसृ॒जत्यु॒खाञ्चाधि॑ श्रय॒त्यव॑ च॒ हन्ति॑ दृ॒षदौ॑ च स॒माह॒न्त्यधि॑ च॒ वप॑ते क॒पाला॑नि॒ चोप॑ दधाति पुरो॒डाश॑ञ्च [31]
अ॒धि॒श्रय॒त्याज्य॑ञ्च स्तम्बय॒जुश्च॒ हर॑त्य॒भि च॑ गृह्णाति॒ वेदि॑ञ्च परिगृ॒ह्णाति॒ पत्नी॑ञ्च॒ सन्न॑ह्यति॒ प्रोक्ष॑णीश्चाऽऽसा॒दय॒त्याज्य॑ञ्चै॒तानि॒ वै द्वाद॑श द्व॒न्द्वानि॑ दर्शपूर्णमा॒सयो॒स्तानि॒ य ए॒वँ स॒म्पाद्य॒ यज॑ते॒ प्रजा॑तेनै॒व य॒ज्ञेन॑ यजते॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते ॥ [32]
ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहँ स॑जा॒तेषु॑ भूयास॒मित्या॑ह ध्रु॒वाने॒वैना॑न्कुरुत उ॒ग्रो॑ऽस्यु॒ग्रो॑ऽहँ स॑जा॒तेषु॑ भूयास॒मित्या॒हाप्र॑तिवादिन ए॒वैना॑न्कुरुतेऽभि॒भूर॑स्यभि॒भूर॒हँ स॑जा॒तेषु॑ भूयास॒मित्या॑ह॒ य ए॒वैन॑म्प्रत्यु॒त्पिपी॑ते॒ तमुपा॑स्यते यु॒नज्मि॑ त्वा॒ ब्रह्म॑णा॒ दैव्ये॒नेत्या॑है॒ष वा अ॒ग्नेर्योग॒स्तेन॑ [33]
ए॒वैनय्ँ॑युनक्ति य॒ज्ञस्य॒ वै समृ॑द्धेन दे॒वास्सु॑व॒र्गल्ँ लो॒कमा॑यन् य॒ज्ञस्य॒ व्यृ॑द्धे॒नासु॑रा॒न्परा॑भावय॒न्यन्मे॑ अग्ने अ॒स्य य॒ज्ञस्य॒ रिष्या॒दित्या॑ह य॒ज्ञस्यै॒व तत्समृ॑द्धेन॒ यज॑मानस्सुव॒र्गल्ँ लो॒कमे॑ति य॒ज्ञस्य॒ व्यृ॑द्धेन॒ भ्रातृ॑व्या॒न्परा॑ भावयत्यग्निहो॒त्रमे॒ताभि॒र्व्याहृ॑तीभि॒रुप॑ सादयेद्यज्ञमु॒खव्ँ वा अ॑ग्निहो॒त्रम्ब्रह्मै॒ता व्याहृ॑तयो यज्ञमु॒ख ए॒व ब्रह्म॑ [34]
कु॒रु॒ते॒ सव्ँ॒व॒त्स॒रे प॒र्याग॑त ए॒ताभि॑रे॒वोप॑सादये॒द्ब्रह्म॑णै॒वोभ॒यत॑स्सव्ँवत्स॒रम्परि॑गृह्णाति दर्शपूर्णमा॒सौ चा॑तुर्मा॒स्यान्या॒लभ॑मान ए॒ताभि॒र्व्याहृ॑तीभिर् ह॒वीँष्यासा॑दयेद्यज्ञमु॒खव्ँ वै द॑र्शपूर्णमा॒सौ चा॑तुर्मा॒स्यानि॒ ब्रह्मै॒ता व्याहृ॑तयो यज्ञमु॒ख ए॒व ब्रह्म॑ कुरुते सव्ँवत्स॒रे प॒र्याग॑त ए॒ताभि॑रे॒वासा॑दये॒द्ब्रह्म॑णै॒वोभ॒यत॑स्सव्ँवत्स॒रम्परि॑गृह्णाति॒ यद्वै य॒ज्ञस्य॒ साम्ना॑ क्रि॒यते॑ रा॒ष्ट्रं [35]
य॒ज्ञस्या॒ऽऽशीर्ग॑च्छति॒ यदृ॒चा विशय्ँ॑ य॒ज्ञस्या॒ऽऽशीर्ग॑च्छ॒त्यथ॑ ब्राह्म॒णो॑ऽना॒शीर्के॑ण य॒ज्ञेन॑ यजते सामिधे॒नीर॑नुव॒क्ष्यन्ने॒ता व्याहृ॑तीᳶ पु॒रस्ता॑द्दध्या॒द्ब्रह्मै॒व प्र॑ति॒पद॑ङ्कुरुते॒ तथा॑ ब्राह्म॒णस्साशी॑र्केण य॒ज्ञेन॑ यजते॒ यङ्का॒मये॑त॒ यज॑मान॒म्भ्रातृ॑व्यमस्य य॒ज्ञस्या॒ऽऽशीर्ग॑च्छे॒दिति॒ तस्यै॒ता व्याहृ॑तीᳶ पुरोऽनुवा॒क्या॑यान्दध्याद्भ्रातृव्यदेव॒त्या॑ वै पु॑रोऽनुवा॒क्या॑ भ्रातृ॑व्यमे॒वास्य॑ य॒ज्ञस्य॑ [36]
आ॒शीर्ग॑च्छति॒ यान्का॒मये॑त॒ यज॑मानान्त्स॒माव॑त्येनान् य॒ज्ञस्या॒ऽऽशीर्ग॑च्छे॒दिति॒ तेषा॑मे॒ता व्याहृ॑तीᳶ पुरोऽनुवा॒क्या॑या अर्ध॒र्च एका॑न्दध्याद्या॒ज्या॑यै पु॒रस्ता॒देकाय्ँ॑या॒ज्या॑या अर्ध॒र्च एका॒न्तथै॑नान्त्स॒माव॑ती य॒ज्ञस्या॒ऽऽशीर्ग॑च्छति॒ यथा॒ वै प॒र्जन्य॒स्सुवृ॑ष्टव्ँ॒ वर्ष॑त्ये॒वय्ँ य॒ज्ञो यज॑मानाय वर्षति॒ स्थल॑योद॒कम्प॑रिगृ॒ह्णन्त्या॒शिषा॑ य॒ज्ञय्ँयज॑मान॒ᳶ परि॑गृह्णाति॒ मनो॑ऽसि प्राजाप॒त्यं [37]
मन॑सा मा भू॒तेनाऽऽवि॒शेत्या॑ह॒ मनो॒ वै प्रा॑जाप॒त्यम्प्रा॑जाप॒त्यो य॒ज्ञो मन॑ ए॒व य॒ज्ञमा॒त्मन्ध॑त्ते॒ वाग॑स्यै॒न्द्री स॑पत्न॒क्षय॑णी वा॒चा मे॑न्द्रि॒येणाऽऽवि॒शेत्या॑है॒न्द्री वै वाग्वाच॑मे॒वैन्द्रीमा॒त्मन्ध॑त्ते ॥ [38]
यो वै स॑प्तद॒शम्प्र॒जाप॑तिय्ँ य॒ज्ञम॒न्वाय॑त्तव्ँ॒वेद॒ प्रति॑ य॒ज्ञेन॑ तिष्ठति॒ न य॒ज्ञाद्भ्रँ॑शत॒ आ श्रा॑व॒येति॒ चतु॑रक्षर॒मस्तु॒ श्रौष॒डिति॒ चतु॑रक्षरय्ँ॒यजेति॒ द्व्य॑क्षरय्ँ॒ये यजा॑मह॒ इति॒ पञ्चा॑क्षरन्द्व्यक्ष॒रो व॑षट्का॒र ए॒ष वै स॑प्तद॒शᳶ प्र॒जाप॑तिर्य॒ज्ञम॒न्वाय॑त्तो॒ य ए॒वव्ँ वेद॒ प्रति॑ य॒ज्ञेन॑ तिष्ठति॒ न य॒ज्ञाद्भ्रँ॑शते॒ यो वै य॒ज्ञस्य॒ प्राय॑णम्प्रति॒ष्ठाम् [39]
उ॒दय॑नव्ँ॒वेद॒ प्रति॑ष्ठिते॒नारि॑ष्टेन य॒ज्ञेन॑ सँ॒स्थाङ्ग॑च्छ॒त्या श्रा॑व॒यास्तु॒ श्रौष॒ड्यज॒ ये यजा॑महे वषट्का॒र ए॒तद्वै य॒ज्ञस्य॒ प्राय॑णमे॒षा प्र॑ति॒ष्ठैतदु॒दय॑नय्ँ॒य ए॒वव्ँ वेद॒ प्रति॑ष्ठिते॒नारि॑ष्टेन य॒ज्ञेन॑ सँ॒स्थाङ्ग॑च्छति॒ यो वै सू॒नृता॑यै॒ दोहव्ँ॒वेद॑ दु॒ह ए॒वैनाय्ँ॑ य॒ज्ञो वै सू॒नृताऽऽश्रा॑व॒येत्यैवैना॑मह्व॒दस्तु॑ [40]
श्रौष॒डित्यु॒पावा॑स्रा॒ग्यजेत्युद॑नैषी॒द्ये यजा॑मह॒ इत्युपा॑सदद्वषट्का॒रेण॑ दोग्ध्ये॒ष वै सू॒नृता॑यै॒ दोहो॒ य ए॒वव्ँ वेद॑ दु॒ह ए॒वैना॑न्दे॒वा वै स॒त्रमा॑सत॒ तेषा॒न्दिशो॑ऽदस्य॒न्त ए॒तामा॒र्द्राम्प॒ङ्क्तिम॑पश्य॒न्ना श्रा॑व॒येति॑ पुरोवा॒तम॑जनय॒न्नस्तु॒ श्रौष॒डित्य॒ब्भ्रँ सम॑प्लावय॒न्यजेति॑ वि॒द्युत॑म् [41]
अ॒ज॒न॒य॒न्ये यजा॑मह॒ इति॒ प्राव॑र्षयन्न॒भ्य॑स्तनयन्वषट्का॒रेण॒ ततो॒ वै तेभ्यो॒ दिश॒ᳶ प्राप्या॑यन्त॒ य ए॒वव्ँ वेद॒ प्रास्मै॒ दिशᳶ॑ प्यायन्ते प्र॒जाप॑तिन्त्वो॒वेद॑ प्र॒जाप॑तिस्त्वव्ँवेद॒ यम्प्र॒जाप॑ति॒र्वेद॒ स पुण्यो॑ भवत्ये॒ष वै छ॑न्द॒स्यᳶ॑ प्र॒जाप॑ति॒रा श्रा॑व॒यास्तु॒ श्रौष॒ड्यज॒ ये यजा॑महे वषट्का॒रो य ए॒वव्ँ वेद॒ पुण्यो॑ भवति वस॒न्तम् [42]
ऋ॒तू॒नाम्प्री॑णा॒मीत्या॑ह॒र्तवो॒ वै प्र॑या॒जा ऋ॒तूने॒व प्री॑णाति॒ ते॑ऽस्मै प्री॒ता य॑थापू॒र्वङ्क॑ल्पन्ते॒ कल्प॑न्तेऽस्मा ऋ॒तवो॒ य ए॒वव्ँ वेदा॒ग्नीषोम॑योर॒हन्दे॑वय॒ज्यया॒ चक्षु॑ष्मान्भूयास॒मित्या॑हा॒ग्नीषोमा॑भ्याव्ँ॒ वै य॒ज्ञश्चक्षु॑ष्मा॒न्ताभ्या॑मे॒व चक्षु॑रा॒त्मन्ध॑त्ते॒ऽग्नेर॒हन्दे॑वय॒ज्यया॑न्ना॒दो भू॑यास॒मित्या॑हा॒ग्निर्वै दे॒वाना॑मन्ना॒दस्तेनै॒व [43]
अ॒न्नाद्य॑मा॒त्मन्ध॑त्ते॒ दब्धि॑र॒स्यद॑ब्धो भूयासम॒मुन्द॑भेय॒मित्या॑है॒तया॒ वै दब्ध्या॑ दे॒वा असु॑रानदभ्नुव॒न्तयै॒व भ्रातृ॑व्यन्दभ्नोत्य॒ग्नीषोम॑योर॒हन्दे॑वय॒ज्यया॑ वृत्र॒हा भू॑यास॒मित्या॑हा॒ग्नीषोमा॑भ्याव्ँ॒वा इन्द्रो॑ वृ॒त्रम॑ह॒न्ताभ्या॑मे॒व भ्रातृ॑व्यँ स्तृणुत इन्द्राग्नि॒योर॒हन्दे॑वय॒ज्यये॑न्द्रिया॒व्य॑न्ना॒दो भू॑यास॒मित्या॑हेन्द्रिया॒व्ये॑वान्ना॒दो भ॑व॒तीन्द्र॑स्य [44]
अ॒हन्दे॑वय॒ज्यये॑न्द्रिया॒वी भू॑यास॒मित्या॑हेन्द्रिया॒व्ये॑व भ॑वति महे॒न्द्रस्या॒हन्दे॑वय॒ज्यया॑ जे॒मान॑म्महि॒मान॑ङ्गमेय॒मित्या॑ह जे॒मान॑मे॒व म॑हि॒मान॑ङ्गच्छत्य॒ग्नेस्स्वि॑ष्ट॒कृतो॒ऽहन्दे॑वय॒ज्ययाऽऽयु॑ष्मान् य॒ज्ञेन॑ प्रति॒ष्ठाङ्ग॑मेय॒मित्या॒हायु॑रे॒वात्मन्ध॑त्ते॒ प्रति॑ य॒ज्ञेन॑ तिष्ठति ॥ 45 ॥
इन्द्रव्ँ॑वो वि॒श्वत॒स्परि॒ हवा॑महे॒ जने॑भ्यः । अ॒स्माक॑मस्तु॒ केव॑लः ॥ इन्द्र॒न्नरो॑ ने॒मधि॑ता हवन्ते॒ यत्पार्या॑ यु॒नज॑ते॒ धिय॒स्ताः । शूरो॒ नृषा॑ता॒ शव॑सश्चका॒न आ गोम॑ति व्र॒जे भ॑जा॒ त्वन्नः॑ ॥ इ॒न्द्रि॒याणि॑ शतक्रतो॒ या ते॒ जने॑षु प॒ञ्चसु॑ । इन्द्र॒ तानि॑ त॒ आ वृ॑णे ॥ अनु॑ ते दायि म॒ह इ॑न्द्रि॒याय॑ स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये॑ । अनु॑ [46]
क्ष॒त्त्रमनु॒ सहो॑ यज॒त्रेन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये॑ ॥ आ यस्मि॑न्त्स॒प्त वा॑स॒वास्तिष्ठ॑न्ति स्वा॒रुहो॑ यथा । ऋषि॑र्ह दीर्घ॒श्रुत्त॑म॒ इन्द्र॑स्य घ॒र्मो अति॑थिः ॥ आ॒मासु॑ प॒क्वमैर॑य॒ आ सूर्यँ॑ रोहयो दि॒वि । घ॒र्मन्न साम॑न्तपता सुवृ॒क्तिभि॒र्जुष्ट॒ङ्गिर्व॑णसे॒ गिरः॑ ॥ इन्द्र॒मिद्गा॒थिनो॑ बृ॒हदिन्द्र॑म॒र्केभि॑र॒र्किणः॑ । इन्द्रव्ँ॒वाणी॑रनूषत ॥ गाय॑न्ति त्वा गाय॒त्रिणः॑ [47]
अर्च॑न्त्य॒र्कम॒र्किणः॑ । ब्र॒ह्माण॑स्त्वा शतक्रत॒वुद्वँ॒शमि॑व येमिरे ॥ अँ॒हो॒मुचे॒ प्र भ॑रेमा मनी॒षामो॑षिष्ठ॒दाव्न्ने॑ सुम॒तिङ्गृ॑णा॒नाः । इ॒दमि॑न्द्र॒ प्रति॑ ह॒व्यङ्गृ॑भाय स॒त्यास्स॑न्तु॒ यज॑मानस्य॒ कामाः॑ ॥ वि॒वेष॒ यन्मा॑ धि॒षणा॑ ज॒जान॒ स्तवै॑ पु॒रा पार्या॒दिन्द्र॒मह्नः॑ । अँह॑सो॒ यत्र॑ पी॒पर॒द्यथा॑ नो ना॒वेव॒ यान्त॑मु॒भये॑ हवन्ते ॥ प्र स॒म्राज॑म्प्रथ॒मम॑ध्व॒राणा॑म् [48]
अँ॒हो॒मुचव्ँ॑वृष॒भय्ँ य॒ज्ञिया॑नाम् । अ॒पान्नपा॑तमश्विना॒ हय॑न्तम॒स्मिन्न॑र इन्द्रि॒यन्ध॑त्त॒मोजः॑ ॥ वि न॑ इन्द्र॒ मृधो॑ जहि नी॒चा य॑च्छ पृतन्य॒तः । अ॒ध॒स्प॒दन्तमी॑ङ्कृधि॒ यो अ॒स्माँ अ॑भि॒दास॑ति ॥ इन्द्र॑ क्ष॒त्त्रम॒भि वा॒ममोजोऽजा॑यथा वृषभ चर्षणी॒नाम् । अपा॑नुदो॒ जन॑ममित्र॒यन्त॑मु॒रुन्दे॒वेभ्यो॑ अकृणोरु लो॒कम् ॥ मृ॒गो न भी॒मᳵ कु॑च॒रो गि॑रि॒ष्ठाᳶ प॑रा॒वतः॑ [49]
आ ज॑गामा॒ पर॑स्याः । सृ॒कँ सँ॒शाय॑ प॒विमि॑न्द्र ति॒ग्मव्ँवि शत्रू॑न्ताढि॒ वि मृधो॑ नुदस्व ॥ वि शत्रू॒न्वि मृधो॑ नुद॒ वि वृ॒त्रस्य॒ हनू॑ रुज । वि म॒न्युमि॑न्द्र भामि॒तो॑ऽमित्र॑स्याभि॒दास॑तः ॥ त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्रँ॒ हवे॑हवे सु॒हवँ॒ शूर॒मिन्द्र॑म् । हु॒वे नु श॒क्रम्पु॑रुहू॒तमिन्द्रँ॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्रः॑ ॥ मा ते॑ अ॒स्याम् [50]
स॒ह॒सा॒व॒न्परि॑ष्टाव॒घाय॑ भूम हरिवᳶ परा॒दै । त्राय॑स्व नोऽवृ॒केभि॒र्वरू॑थै॒स्तव॑ प्रि॒यास॑स्सू॒रिषु॑ स्याम ॥ अन॑वस्ते॒ रथ॒मश्वा॑य तक्ष॒न्त्वष्टा॒ वज्र॑म्पुरुहूत द्यु॒मन्त॑म् । ब्र॒ह्माण॒ इन्द्र॑म्म॒हय॑न्तो अ॒र्कैरव॑र्धय॒न्नह॑ये॒ हन्त॒वा उ॑ ॥ वृष्णे॒ यत्ते॒ वृष॑णो अ॒र्कमर्चा॒निन्द्र॒ ग्रावा॑णो॒ अदि॑तिस्स॒जोषाः॑ । अ॒न॒श्वासो॒ ये प॒वयो॑ऽर॒था इन्द्रे॑षिता अ॒भ्यव॑र्तन्त॒ दस्यू॑न् ॥ [51]