दे॒वा॒सु॒रास्सय्ँय॑त्ता आस॒न्ते दे॒वा वि॑ज॒यमु॑प॒यन्तो॒ऽग्नौ वा॒मव्ँवसु॒ सन्न्य॑दधते॒दमु॑ नो भविष्यति॒ यदि॑ नो जे॒ष्यन्तीति॒ तद॒ग्निर्न्य॑कामयत॒ तेनापा॑क्राम॒त्तद्दे॒वा वि॒जित्या॑व॒रुरु॑त्समाना॒ अन्वा॑य॒न्तद॑स्य॒ सह॒साऽदि॑त्सन्त॒ सो॑ऽरोदी॒द्यदरो॑दी॒त्तद्रु॒द्रस्य॑ रुद्र॒त्वय्ँयदश्र्वशी॑यत॒ तद् [1]
र॒ज॒तँ हिर॑ण्यमभव॒त्तस्मा॑द्रज॒तँ हिर॑ण्यमदक्षि॒ण्यम॑श्रु॒जँ हि यो ब॒र्हिषि॒ ददा॑ति पु॒राऽस्य॑ सव्ँवत्स॒राद्गृ॒हे रु॑दन्ति॒ तस्मा॑द्ब॒र्हिषि॒ न देयँ॒ सो॑ऽग्निर॑ब्रवीद्भा॒ग्य॑सा॒न्यथ॑ व इ॒दमिति॑ पुनरा॒धेय॑न्ते॒ केव॑ल॒मित्य॑ब्रुवन्नृ॒ध्नव॒त्खलु॒ स इत्य॑ब्रवी॒द्यो म॑द्देव॒त्य॑म॒ग्निमा॒दधा॑ता॒ इति॒ तम्पू॒षाऽऽध॑त्त॒ तेन॑ [2]
पू॒षाऽऽर्ध्नो॒त्तस्मा॑त्पौ॒ष्णाᳶ प॒शव॑ उच्यन्ते॒ तन्त्वष्टाऽऽध॑त्त॒ तेन॒ त्वष्टा॑ऽऽर्ध्नो॒त्तस्मा॑त्त्वा॒ष्ट्राᳶ प॒शव॑ उच्यन्ते॒ तम्मनु॒राऽध॑त्त॒ तेन॒ मनु॑रार्ध्नो॒त्तस्मा॑न्मान॒व्यᳶ॑ प्र॒जा उ॑च्यन्ते॒ तन्धा॒ताऽऽध॑त्त॒ तेन॑ धा॒ताऽऽर्ध्नो॑त् सव्ँवत्स॒रो वै धा॒ता तस्मा॑त् सव्ँवत्स॒रम्प्र॒जाᳶ प॒शवोऽनु॒ प्र जा॑यन्ते॒ य ए॒वम्पु॑नरा॒धेय॒स्यर्द्धिव्ँ॒वेद॑ [3]
ऋ॒ध्नोत्ये॒व यो॑ऽस्यै॒वम्ब॒न्धुताव्ँ॒वेद॒ बन्धु॑मान्भवति भाग॒धेयव्ँ॒ वा अ॒ग्निराहि॑त इ॒च्छमा॑नᳶ प्र॒जाम्प॒शून् यज॑मान॒स्योप॑ दोद्रावो॒द्वास्य॒ पुन॒रा द॑धीत भाग॒धेये॑नै॒वैनँ॒ सम॑र्धय॒त्यथो॒ शान्ति॑रे॒वास्यै॒षा पुन॑र्वस्वो॒रा द॑धीतै॒तद्वै पु॑नरा॒धेय॑स्य॒ नक्ष॑त्रय्ँ॒यत्पुन॑र्वसू॒ स्वाया॑मे॒वैन॑न्दे॒वता॑यामा॒धाय॑ ब्रह्मवर्च॒सी भ॑वति द॒र्भैरा द॑धा॒त्यया॑तयामत्वाय द॒र्भैरा द॑धात्य॒द्भ्य ए॒वैन॒मोष॑धीभ्योऽव॒रुध्याऽऽध॑त्ते॒ पञ्च॑कपालᳶ पुरो॒डाशो॑ भवति॒ पञ्च॒ वा ऋ॒तव॑ ऋ॒तुभ्य॑ ए॒वैन॑मव॒रुध्याऽऽध॑त्ते ॥ [4]
परा॒ वा ए॒ष य॒ज्ञम्प॒शून्व॑पति॒ यो॑ऽग्निमु॑द्वा॒सय॑ते॒ पञ्च॑कपालᳶ पुरो॒डाशो॑ भवति॒ पाङ्क्तो॑ य॒ज्ञᳶ पाङ्क्ताः॑ प॒शवो॑ य॒ज्ञमे॒व प॒शूनव॑ रुन्धे वीर॒हा वा ए॒ष दे॒वानाय्ँ॒यो॑ऽग्निमु॑द्वा॒सय॑ते॒ न वा ए॒तस्य॑ ब्राह्म॒णा ऋ॑ता॒यवᳶ॑ पु॒राऽन्न॑मक्षन्प॒ङ्क्त्यो॑ याज्यानुवा॒क्या॑ भवन्ति॒ पाङ्क्तो॑ य॒ज्ञᳶ पाङ्क्त॒ᳶ पुरु॑षो दे॒वाने॒व वी॒रन्नि॑रव॒दाया॒ग्निम्पुन॒रा [5]
ध॒त्ते॒ श॒ताक्ष॑रा भवन्ति श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति॒ यद्वा अ॒ग्निराहि॑तो॒ नर्ध्यते॒ ज्यायो॑ भाग॒धेय॑न्निका॒मय॑मानो॒ यदा॑ग्ने॒यँ सर्व॒म्भव॑ति॒ सैवास्यर्धि॒स्सव्ँवा ए॒तस्य॑ गृ॒हे वाक्सृ॑ज्यते॒ यो॑ऽग्निमु॑द्वा॒सय॑ते॒ स वाचँ॒ सँसृ॑ष्टाय्ँ॒यज॑मान ईश्व॒रोऽनु॒ परा॑भवितो॒र्विभ॑क्तयो भवन्ति वा॒चो विधृ॑त्यै॒ यज॑मान॒स्याप॑राभावाय [6]
विभ॑क्तिङ्करोति॒ ब्रह्मै॒व तद॑करुपाँ॒शु य॑जति॒ यथा॑ वा॒मव्ँवसु॑ विविदा॒नो गूह॑ति ता॒दृगे॒व तद॒ग्निम्प्रति॑ स्विष्ट॒कृत॒न्निरा॑ह॒ यथा॑ वा॒मव्ँवसु॑ विविदा॒नᳶ प्र॑का॒शञ्जिग॑मिषति ता॒दृगे॒व तद्विभ॑क्तिमु॒क्त्वा प्र॑या॒जेन॒ वष॑ट्करोत्या॒यत॑नादे॒व नैति॒ यज॑मानो॒ वै पु॑रो॒डाशᳶ॑ प॒शव॑ ए॒ते आहु॑ती॒ यद॒भितᳶ॑ पुरो॒डाश॑मे॒ते आहु॑ती [7]
जु॒होति॒ यज॑मानमे॒वोभ॒यतᳶ॑ प॒शुभि॒ᳶ परि॑ गृह्णाति कृ॒तय॑जु॒स्सम्भृ॑तसम्भार॒ इत्या॑हु॒र्न स॒म्भृत्याः॑ सम्भा॒रा न यजु॑ᳵ कर्त॒व्य॑मित्यथो॒ खलु॑ स॒म्भृत्या॑ ए॒व स॑म्भा॒राᳵ क॑र्त॒व्यय्ँ॑यजु॑र्य॒ज्ञस्य॒ समृ॑द्ध्यै पुनर्निष्कृ॒तो रथो॒ दक्षि॑णा पुनरुत्स्यू॒तव्ँवासᳶ॑ पुनरुत्सृ॒ष्टो॑ऽन॒ड्वान्पु॑नरा॒धेय॑स्य॒ समृ॑द्ध्यै स॒प्त ते॑ अग्ने स॒मिध॑स्स॒प्त जि॒ह्वा इत्य॑ग्निहो॒त्रञ्जु॑होति॒ यत्र॑यत्रै॒वास्य॒ न्य॑क्त॒न्ततः॑ [8]
ए॒वैन॒मव॑ रुन्धे वीर॒हा वा ए॒ष दे॒वानाय्ँ॒ यो॑ऽग्निमु॑द्वा॒सय॑ते॒ तस्य॒ वरु॑ण ए॒वर्ण॒यादा॑ग्निवारु॒णमेका॑दशकपाल॒मनु॒ निर्व॑पे॒द्यञ्चै॒व हन्ति॒ यश्चा॑स्यर्ण॒यात्तौ भा॑ग॒धेये॑न प्रीणाति॒ नाऽऽर्ति॒मार्च्छ॑ति॒ यज॑मानः ॥ [9]
भूमि॑र्भू॒म्ना द्यौर्व॑रि॒णाऽन्तरि॑क्षम्महि॒त्वा । उ॒पस्थे॑ ते देव्यदिते॒ऽग्निम॑न्ना॒दम॒न्नाद्या॒याऽऽद॑धे ॥ आऽयङ्गौᳶ पृश्ञि॑रक्रमी॒दस॑नन्मा॒तर॒म्पुनः॑ । पि॒तर॑ञ्च प्र॒यन्त्सुवः॑ ॥ त्रिँ॒शद्धाम॒ वि रा॑जति॒ वाक्प॑त॒ङ्गाय॑ शिश्रिये । प्रत्य॑स्य वह॒ द्युभिः॑ ॥ अ॒स्य प्रा॒णाद॑पान॒त्य॑न्तश्च॑रति रोच॒ना । व्य॑ख्यन्महि॒षस्सुवः॑ ॥ यत्त्वा॑ [10]
क्रु॒द्धᳶ प॑रो॒वप॑ म॒न्युना॒ यदव॑र्त्या । सु॒कल्प॑मग्ने॒ तत्तव॒ पुन॒स्त्वोद्दी॑पयामसि ॥ यत्ते॑ म॒न्युप॑रोप्तस्य पृथि॒वीमनु॑ दध्व॒से । आ॒दि॒त्या विश्वे॒ तद्दे॒वा वस॑वश्च स॒माभ॑रन्न् ॥ मनो॒ ज्योति॑र्जुषता॒माज्यव्ँ॒विच्छि॑न्नय्ँ य॒ज्ञँ समि॒मन्द॑धातु । बृह॒स्पति॑स्तनुतामि॒मन्नो॒ विश्वे॑ दे॒वा इ॒ह मा॑दयन्ताम् ॥ स॒प्त ते॑ अग्ने स॒मिध॑स्स॒प्त जि॒ह्वास्स॒प्त [11]
ऋष॑यस्स॒प्त धाम॑ प्रि॒याणि॑ । स॒प्त होत्राः॑ सप्त॒धा त्वा॑ यजन्ति स॒प्त योनी॒रा पृ॑णस्वा घृ॒तेन॑ ॥ पुन॑रू॒र्जा नि व॑र्तस्व॒ पुन॑रग्न इ॒षाऽऽयु॑षा । पुन॑र्नᳶ पाहि वि॒श्वतः॑ ॥ स॒ह र॒य्या नि व॑र्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या । वि॒श्वप्स्नि॑या वि॒श्वत॒स्परि॑ ॥ लेक॒स्सले॑कस्सु॒लेक॒स्ते न॑ आदि॒त्या आज्य॑ञ्जुषा॒णा वि॑यन्तु॒ केत॒स्सके॑तस्सु॒केत॒स्ते न॑ आदि॒त्या आज्य॑ञ्जुषा॒णा वि॑यन्तु॒ विव॑स्वाँ॒ अदि॑ति॒र्देव॑जूति॒स्ते न॑ आदि॒त्या आज्य॑ञ्जुषा॒णा वि॑यन्तु ॥ [12]
भूमि॑र्भू॒म्ना द्यौर्व॑रि॒णेत्या॑हा॒ऽऽशिषै॒वैन॒मा ध॑त्ते स॒र्पा वै जीर्य॑न्तोऽमन्यन्त॒ स ए॒तङ्क॑स॒र्णीर॑ᳵ काद्रवे॒यो मन्त्र॑मपश्य॒त्ततो॒ वै ते जी॒र्णास्त॒नूरपा॑घ्नत सर्परा॒ज्ञिया॑ ऋ॒ग्भिर्गार्ह॑पत्य॒मा द॑धाति पुनर्न॒वमे॒वैन॑म॒जर॑ङ्कृ॒त्वाऽऽध॒त्तेऽथो॑ पू॒तमे॒व पृ॑थि॒वीम॒न्नाद्य॒न्नोपा॑नम॒त्सैतं [13]
मन्त्र॑मपश्य॒त्ततो॒ वै ताम॒न्नाद्य॒मुपा॑नम॒द्यत्स॑र्परा॒ज्ञिया॑ ऋ॒ग्भिर्गार्ह॑पत्यमा॒दधा॑त्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॑ अ॒स्यामे॒वैन॒म्प्रति॑ष्ठित॒मा ध॑त्ते॒ यत्त्वा॑ क्रु॒द्धᳶ प॑रो॒वपेत्या॒हाप॑ह्नुत ए॒वास्मै॒ तत्पुन॒स्त्वोद्दी॑पयाम॒सीत्या॑ह॒ समि॑न्ध ए॒वैनय्ँ॒यत्ते॑ म॒न्युप॑रोप्त॒स्येत्या॑ह दे॒वता॑भिरे॒व [14]
ए॒नँ॒ सम्भ॑रति॒ वि वा ए॒तस्य॑ य॒ज्ञश्छि॑द्यते॒ यो॑ऽग्निमु॑द्वा॒सय॑ते॒ बृह॒स्पति॑वत्य॒र्चोप॑ तिष्ठते॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र्ब्रह्म॑णै॒व य॒ज्ञँ सन्द॑धाति॒ विच्छि॑न्नय्ँ य॒ज्ञँ समि॒मन्द॑धा॒त्वित्या॑ह॒ सन्त॑त्यै॒ विश्वे॑ दे॒वा इ॒ह मा॑दयन्ता॒मित्या॑ह स॒न्तत्यै॒व य॒ज्ञन्दे॒वेभ्योऽनु॑ दिशति स॒प्त ते॑ अग्ने स॒मिध॑स्स॒प्त जि॒ह्वाः [15]
इत्या॑ह स॒प्तस॑प्त॒ वै स॑प्त॒धाऽग्नेᳶ प्रि॒यास्त॒नुव॒स्ता ए॒वाव॑ रुन्धे॒ पुन॑रू॒र्जा स॒ह र॒य्येत्य॒भितᳶ॑ पुरो॒डाश॒माहु॑ती जुहोति॒ यज॑मानमे॒वोर्जा च॑ र॒य्या चो॑भ॒यत॒ᳶ परि॑ गृह्णात्यादि॒त्या वा अ॒स्माल्लो॒काद॒मुल्ँ लो॒कमा॑य॒न्ते॑ऽमुष्मिल्ँ॑ लो॒के व्य॑तृष्य॒न्त इ॒मल्ँ लो॒कम्पुन॑रभ्य॒वेत्या॒ग्निमा॒धायै॒तान् होमा॑नजुहवु॒स्त आ॑र्ध्नुव॒न्ते सु॑व॒र्गल्ल्ँ लो॒कमा॑य॒न्यᳶ प॑रा॒चीन॑म्पुनरा॒धेया॑द॒ग्निमा॒दधी॑त॒ स ए॒तान् होमा॑ञ्जुहुया॒द्यामे॒वाऽऽदि॒त्या ऋद्धि॒मार्ध्नु॑व॒न्तामे॒वर्ध्नो॑ति ॥ [16]
उ॒प॒प्र॒यन्तो॑ अध्व॒रम्मन्त्रव्ँ॑वोचेमा॒ग्नये॑ । आ॒रे अ॒स्मे च॑ शृण्व॒ते ॥ अ॒स्य प्र॒त्नामनु॒ द्युतँ॑ शु॒क्रन्दु॑दुह्रे॒ अह्र॑यः । पय॑स्सहस्र॒सामृषि॑म् ॥ अ॒ग्निर्मू॒र्धा दि॒वᳵ क॒कुत्पतिᳶ॑ पृथि॒व्या अ॒यम् । अ॒पाँ रेताँ॑सि जिन्वति ॥ अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठो अध्व॒रेष्वीड्यः॑ । यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रव्ँवि॒भुवव्ँ॑वि॒शेवि॑शे ॥ उ॒भा वा॑मिन्द्राग्नी आहु॒वध्यै॑ [17]
उ॒भा राध॑सस्स॒ह मा॑द॒यध्यै॑ । उ॒भा दा॒तारा॑वि॒षाँ र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम् ॥ अ॒यन्ते॒ योनि॑र्ऋ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः । तञ्जा॒नन्न॑ग्न॒ आ रो॒हाथा॑ नो वर्धया र॒यिम् ॥ अग्न॒ आयूँ॑षि पवस॒ आ सु॒वोर्ज॒मिष॑ञ्च नः । आ॒रे बा॑धस्व दु॒च्छुना॑म् ॥ अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्च॑स्सु॒वीर्य॑म् । दध॒त्पोषँ॑ र॒यिं [18]
मयि॑ ॥ अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया॑ । आ दे॒वान् व॑क्षि॒ यक्षि॑ च ॥ स नᳶ॑ पावक दीदि॒वोऽग्ने॑ दे॒वाँ इ॒हाऽऽव॑ह । उप॑ य॒ज्ञँ ह॒विश्च॑ नः ॥ अ॒ग्निश्शुचि॑व्रततम॒श्शुचि॒र्विप्र॒श्शुचि॑ᳵ क॒विः । शुची॑ रोचत॒ आहु॑तः ॥ उद॑ग्ने॒ शुच॑य॒स्तव॑ शु॒क्रा भ्राज॑न्त ईरते । तव॒ ज्योतीँ॑ष्य॒र्चयः॑ ॥ आ॒यु॒र्दा अ॑ग्ने॒ऽस्यायु॑र्मे [19]
दे॒हि॒ व॒र्चो॒दा अ॑ग्नेऽसि॒ वर्चो॑ मे देहि तनू॒पा अ॑ग्नेऽसि त॒नुव॑म्मे पा॒ह्यग्ने॒ यन्मे॑ त॒नुवा॑ ऊ॒नन्तन्म॒ आ पृ॑ण॒ चित्रा॑वसो स्व॒स्ति ते॑ पा॒रम॑शी॒येन्धा॑नास्त्वा श॒तँ हिमा॑ द्यु॒मन्त॒स्समि॑धीमहि॒ वय॑स्वन्तो वय॒स्कृतय्ँ॒यश॑स्वन्तो यश॒स्कृतँ॑ सु॒वीरा॑सो॒ अदा॑भ्यम् । अग्ने॑ सपत्न॒दम्भ॑नव्ँ॒वर्षि॑ष्ठे॒ अधि॒ नाके॑ ॥ सन्त्वम॑ग्ने॒ सूर्य॑स्य॒ वर्च॑साऽगथा॒स्समृषी॑णाँ स्तु॒तेन॒ सम्प्रि॒येण॒ धाम्ना॑ । त्वम॑ग्ने॒ सूर्य॑वर्चा असि॒ सम्मामायु॑षा॒ वर्च॑सा प्र॒जया॑ सृज ॥ [20]
सम्प॑श्यामि प्र॒जा अ॒हमिड॑प्रजसो मान॒वीः । सर्वा॑ भवन्तु नो गृ॒हे ॥ अम्भ॒स्स्थाम्भो॑ वो भक्षीय॒ मह॑स्स्थ॒ महो॑ वो भक्षीय॒ सह॑स्स्थ॒ सहो॑ वो भक्षी॒योर्ज॒स्स्थोर्जव्ँ॑वो भक्षीय॒ रेव॑ती॒ रम॑ध्वम॒स्मिल्लोँ॒के॑ऽस्मिन्गो॒ष्ठे॑ऽस्मिन्क्षये॒ऽस्मिन् योना॑वि॒हैव स्ते॒तो माऽप॑ गात ब॒ह्वीर्मे॑ भूयास्त [21]
सँ॒हि॒तासि॑ विश्वरू॒पीरा मो॒र्जा वि॒शाऽऽगौ॑प॒त्येनाऽऽरा॒यस्पोषे॑ण सहस्रपो॒षव्ँवᳶ॑ पुष्यास॒म्मयि॑ वो॒ राय॑श्श्रयन्ताम् ॥ उप॑ त्वाऽग्ने दि॒वेदि॑वे॒ दोषा॑वस्तर्धि॒या व॒यम् । नमो॒ भर॑न्त॒ एम॑सि । राज॑न्तमध्व॒राणा॑ङ्गो॒पामृ॒तस्य॒ दीदि॑विम् । वर्ध॑मानँ॒ स्वे दमे॑ ॥ स नᳶ॑ पि॒तेव॑ सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व । सच॑स्वा नस्स्व॒स्तये॑ ॥ अग्ने॑ [22]
त्वन्नो॒ अन्त॑मः । उ॒त त्रा॒ता शि॒वो भ॑व वरू॒थ्यः॑ ॥ तन्त्वा॑ शोचिष्ठ दीदिवः । सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः ॥ वसु॑र॒ग्निर्वसु॑श्रवाः । अच्छा॑ नक्षि द्यु॒मत्त॑मो र॒यिन्दाः॑ ॥ ऊ॒र्जा वᳶ॑ पश्याम्यू॒र्जा मा॑ पश्यत रा॒यस्पोषे॑ण वᳶ पश्यामि रा॒यस्पोषे॑ण मा पश्य॒तेडाः॑ स्थ मधु॒कृत॑स्स्यो॒ना माऽऽवि॑श॒तेरा॒ मदः॑ । स॒ह॒स्र॒पो॒षव्ँवᳶ॑ पुष्यासं [23]
मयि॑ वो॒ राय॑श्श्रयन्ताम् ॥ तत्स॑वि॒तुर्वरे॑ण्य॒म्भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नᳶ॑ प्रचो॒दया॑त् ॥ सो॒मानँ॒ स्वर॑णङ्कृणु॒हि ब्र॑ह्मणस्पते । क॒क्षीव॑न्तय्ँ॒य औ॑शि॒जम् ॥ क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे॑ । उपो॒पेन्नु म॑घव॒न्भूय॒ इन्नु ते॒ दान॑न्दे॒वस्य॑ पृच्यते ॥ परि॑ त्वाग्ने॒ पुरव्ँ॑व॒यव्ँविप्रँ॑ सहस्य धीमहि । धृ॒षद्व॑र्णन्दि॒वेदि॑वे भे॒त्तार॑म्भङ्गु॒राव॑तः ॥ अग्ने॑ गृहपते सुगृहप॒तिर॒हन्त्वया॑ गृ॒हप॑तिना भूयासँ सुगृहप॒तिर्मया॒ त्वङ्गृ॒हप॑तिना भूयाश्श॒तँ हिमा॒स्तामा॒शिष॒मा शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मती॒न्तामा॒शिष॒मा शा॑से॒ऽमुष्मै॒ ज्योति॑ष्मतीम् ॥ [24]
अय॑ज्ञो॒ वा ए॒ष यो॑ऽसा॒मोप॑प्र॒यन्तो॑ अध्व॒रमित्या॑ह॒ स्तोम॑मे॒वास्मै॑ युन॒क्त्युपेत्या॑ह प्र॒जा वै प॒शव॒ उपे॒मल्ँ लो॒कम्प्र॒जामे॒व प॒शूनि॒मल्ँ लो॒कमुपै॑त्य॒स्य प्र॒त्नामनु॒द्युत॒मित्या॑ह सुव॒र्गो वै लो॒कᳶ प्र॒त्नस्सु॑व॒र्गमे॒व लो॒कँ स॒मारो॑हत्य॒ग्निर्मू॒र्धा दि॒वᳵ क॒कुदित्या॑ह मू॒र्धान॑म् [25]
ए॒वैनँ॑ समा॒नाना॑ङ्करो॒त्यथो॑ देवलो॒कादे॒व म॑नुष्यलो॒के प्रति॑ तिष्ठत्य॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒रित्या॑ह॒ मुख्य॑मे॒वैन॑ङ्करोत्यु॒भा वा॑मिन्द्राग्नी आहु॒वध्या॒ इत्या॒हौजो॒ बल॑मे॒वाव॑ रुन्धे॒ऽयन्ते॒ योनि॑र्ऋ॒त्विय॒ इत्या॑ह प॒शवो॒ वै र॒यिᳶ प॒शूने॒वाव॑ रुन्धे ष॒ड्भिरुप॑ तिष्ठते॒ षड्वै [26]
ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठति ष॒ड्भिरुत्त॑राभि॒रुप॑ तिष्ठते॒ द्वाद॑श॒ सम्प॑द्यन्ते॒ द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रस्सव्ँ॑वत्स॒र ए॒व प्रति॑ तिष्ठति॒ यथा॒ वै पुरु॒षोऽश्वो॒ गौर्जीर्य॑त्ये॒वम॒ग्निराहि॑तो जीर्यति सव्ँवत्स॒रस्य॑ प॒रस्ता॑दाग्निपावमा॒नीभि॒रुप॑ तिष्ठते पुनर्न॒वमे॒वैन॑म॒जर॑ङ्करो॒त्यथो॑ पु॒नात्ये॒वोप॑ तिष्ठते॒ योग॑ ए॒वास्यै॒ष उप॑ तिष्ठते [27]
दम॑ ए॒वास्यै॒ष उप॑ तिष्ठते या॒च्ञैवास्यै॒षोप॑ तिष्ठते॒ यथा॒ पापी॑या॒ञ्छ्रेय॑स आ॒हृत्य॑ नम॒स्यति॑ ता॒दृगे॒व तदा॑यु॒र्दा अ॑ग्ने॒ऽस्यायु॑र्मे दे॒हीत्या॑हाऽऽयु॒र्दा ह्ये॑ष व॑र्चो॒दा अ॑ग्नेऽसि॒ वर्चो॑ मे दे॒हीत्या॑ह वर्चो॒दा ह्ये॑ष त॑नू॒पा अ॑ग्नेऽसि त॒नुव॑म्मे पा॒हीत्या॑ह [28]
तनू॒पा ह्ये॑षोऽग्ने॒ यन्मे॑ त॒नुवा॑ ऊ॒नन्तन्म॒ आ पृ॒णेत्या॑ह॒ यन्मे॑ प्र॒जायै॑ पशू॒नामू॒नन्तन्म॒ आ पू॑र॒येति॒ वावैतदा॑ह॒ चित्रा॑वसो स्व॒स्ति ते॑ पा॒रम॑शी॒येत्या॑ह॒ रात्रि॒र्वै चि॒त्राव॑सु॒रव्यु॑ष्ट्यै॒ वा ए॒तस्यै॑ पु॒रा ब्रा॑ह्म॒णा अ॑भैषु॒र्व्यु॑ष्टिमे॒वाव॑ रुन्ध॒ इन्धा॑नास्त्वा श॒तम् [29]
हिमा॒ इत्या॑ह श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठत्ये॒षा वै सू॒र्मी कर्ण॑कावत्ये॒तया॑ ह स्म॒ वै दे॒वा असु॑राणाँ शतत॒र्हाँ स्तृँ॑हन्ति॒ यदे॒तया॑ स॒मिध॑मा॒दधा॑ति॒ वज्र॑मे॒वैतच्छ॑त॒घ्नीय्ँयज॑मानो॒ भ्रातृ॑व्याय॒ प्रह॑रति॒ स्तृत्या॒ अछ॑म्बट्कारँ॒ सन्त्वम॑ग्ने॒ सूर्य॑स्य॒ वर्च॑सा गथा॒ इत्या॑है॒तत्त्वमसी॒दम॒हम्भू॑यास॒मिति॒ वावैतदा॑ह॒ त्वम॑ग्ने॒ सूर्य॑वर्चा अ॒सीत्या॑हा॒ऽऽशिष॑मे॒वैतामा शा॑स्ते ॥ [30]
सम्प॑श्यामि प्र॒जा अ॒हमित्या॑ह॒ याव॑न्त ए॒व ग्रा॒म्याᳶ प॒शव॒स्ताने॒वाव॑ रु॒न्धेऽम्भ॒स्स्थाम्भो॑ वो भक्षी॒येत्या॒हाम्भो॒ ह्ये॑ता मह॑स्स्थ॒ महो॑ वो भक्षी॒येत्या॑ह॒ महो॒ ह्ये॑तास्सह॑स्स्थ॒ सहो॑ वो भक्षी॒येत्या॑ह॒ सहो॒ ह्ये॑ता ऊर्ज॒स्थोर्जव्ँ॑वो भक्षी॒येति॑ [31]
आ॒होर्जो॒ ह्ये॑ता रेव॑ती॒ रम॑ध्व॒मित्या॑ह प॒शवो॒ वै रे॒वतीः॑ प॒शूने॒वात्मन् र॑मयत इ॒हैव स्ते॒तो माऽप॑ गा॒तेत्या॑ह ध्रु॒वा ए॒वैना॒ अन॑पगाᳵ कुरुत इष्टक॒चिद्वा अ॒न्यो॑ऽग्निᳶ प॑शु॒चिद॒न्यस्सँ॑हि॒तासि॑ विश्वरू॒पीरिति॑ व॒त्सम॒भि मृ॑श॒त्युपै॒वैन॑न्धत्ते पशु॒चित॑मेनङ्कुरुते॒ प्र [32]
वा ए॒षो॑ऽस्माल्लो॒काच्च्य॑वते॒ य आ॑हव॒नीय॑मुप॒तिष्ठ॑ते॒ गार्ह॑पत्य॒मुप॑ तिष्ठते॒ऽस्मिन्ने॒व लो॒के प्रति॑ तिष्ठ॒त्यथो॒ गार्ह॑पत्यायै॒व नि ह्नु॑ते गाय॒त्रीभि॒रुप॑ तिष्ठते॒ तेजो॒ वै गा॑य॒त्री तेज॑ ए॒वात्मन्ध॒त्तेऽथो॒ यदे॒तन्तृ॒चम॒न्वाह॒ सन्त॑त्यै॒ गार्ह॑पत्यव्ँ॒ वा अनु॑ द्वि॒पादो॑ वी॒राᳶ प्र जा॑यन्ते॒ य ए॒वव्ँवि॒द्वान्द्वि॒पदा॑भि॒र्गार्ह॑पत्यमुप॒तिष्ठ॑ते [33]
आऽस्य॑ वी॒रो जा॑यत ऊ॒र्जा वᳶ॑ पश्याम्यू॒र्जा मा॑ पश्य॒तेत्या॑हा॒ऽऽशिष॑मे॒वैतामा शा॑स्ते॒ तत्स॑वि॒तुर्वरे॑ण्य॒मित्या॑ह॒ प्रसू॑त्यै सो॒मानँ॒ स्वर॑ण॒मित्या॑ह सोमपी॒थमे॒वाव॑ रुन्धे कृणु॒हि ब्र॑ह्मणस्पत॒ इत्या॑ह ब्रह्मवर्च॒समे॒वाव॑ रुन्धे क॒दा च॒न स्त॒रीर॒सीत्या॑ह॒ न स्त॒रीँ रात्रिव्ँ॑वसति [34]
य ए॒वव्ँवि॒द्वान॒ग्निमु॑प॒तिष्ठ॑ते॒ परि॑ त्वाग्ने॒ पुरव्ँ॑व॒यमित्या॑ह परि॒धिमे॒वैतम्परि॑ दधा॒त्यस्क॑न्दा॒याग्ने॑ गृहपत॒ इत्या॑ह यथाय॒जुरे॒वैतच्छ॒तँ हिमा॒ इत्या॑ह श॒तन्त्वा॑ हेम॒न्तानि॑न्धिषी॒येति॒ वावैतदा॑ह पु॒त्रस्य॒ नाम॑ गृह्णात्यन्ना॒दमे॒वैन॑ङ्करोति॒ तामा॒शिष॒मा शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒द्यस्य॑ पु॒त्त्रोऽजा॑त॒स्स्यात्ते॑ज॒स्व्ये॑वास्य॑ ब्रह्मवर्च॒सी पु॒त्त्रो जा॑यते॒ तामा॒शिष॒मा शा॑से॒ऽमुष्मै॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒द्यस्य॑ पु॒त्त्रो जा॒तस्स्यात्तेज॑ ए॒वास्मि॑न्ब्रह्मवर्च॒सन्द॑धाति ॥ [35]
अ॒ग्नि॒हो॒त्रञ्जु॑होति॒ यदे॒व किञ्च॒ यज॑मानस्य॒ स्वन्तस्यै॒व तद्रेत॑स्सिञ्चति प्र॒जन॑ने प्र॒जन॑नँ॒ हि वा अ॒ग्निरथौष॑धी॒रन्त॑गता दहति॒ तास्ततो॒ भूय॑सी॒ᳶ प्रजा॑यन्ते॒ यत्सा॒यञ्जु॒होति॒ रेत॑ ए॒व तत्सि॑ञ्चति॒ प्रैव प्रा॑त॒स्तने॑न जनयति॒ तद्रेत॑स्सि॒क्तन्न त्वष्ट्राऽवि॑कृत॒म्प्रजा॑यते याव॒च्छो वै रेत॑सस्सि॒क्तस्य॑ [36]
त्वष्टा॑ रू॒पाणि॑ विक॒रोति॑ ताव॒च्छो वै तत्प्रजा॑यत ए॒ष वै दैव्य॒स्त्वष्टा॒ यो यज॑ते ब॒ह्वीभि॒रुप॑ तिष्ठते॒ रेत॑स ए॒व सि॒क्तस्य॑ बहु॒शो रू॒पाणि॒ वि क॑रोति॒ स प्रैव जा॑यते॒ श्वश्श्वो॒ भूया॑न्भवति॒ य ए॒वव्ँवि॒द्वान॒ग्निमु॑प॒तिष्ठ॒तेऽह॑र्दे॒वाना॒मासी॒द्रात्रि॒रसु॑राणा॒न्तेऽसु॑रा॒ यद्दे॒वानाव्ँ॑वि॒त्तव्ँवेद्य॒मासी॒त्तेन॑ स॒ह [37]
रात्रि॒म्प्रावि॑श॒न्ते दे॒वा ही॒ना अ॑मन्यन्त॒ ते॑ऽपश्यन्नाग्ने॒यी रात्रि॑राग्ने॒याᳶ प॒शव॑ इ॒ममे॒वाग्निँ स्त॑वाम॒ स न॑स्स्तु॒तᳶ प॒शून्पुन॑र्दास्य॒तीति॒ ते॑ऽग्निम॑स्तुव॒न्त्स ए॑भ्यस्स्तु॒तो रात्रि॑या॒ अध्यह॑र॒भि प॒शून्निरा॑र्ज॒त्ते दे॒वाᳶ प॒शून् वि॒त्वा कामाँ॑ अकुर्वत॒ य ए॒वव्ँवि॒द्वान॒ग्निमु॑प॒तिष्ठ॑ते पशु॒मान्भ॑वति [38]
आ॒दि॒त्यो वा अ॒स्माल्लो॒काद॒मुल्ँ लो॒कमै॒त् सो॑ऽमुल्ँ लो॒कङ्ग॒त्वा पुन॑रि॒मल्ँ लो॒कम॒भ्य॑ध्याय॒त् स इ॒मल्ँ लो॒कमा॒गत्य॑ मृ॒त्योर॑बिभेन्मृ॒त्युसय्ँ॑युत इव॒ ह्य॑यल्ँ लो॒कस्सो॑ऽमन्यते॒ममे॒वाग्निँ स्त॑वानि॒ स मा॑ स्तु॒तस्सु॑व॒र्गल्ँ लो॒कङ्ग॑मयिष्य॒तीति॒ सो॑ऽग्निम॑स्तौ॒त् स ए॑नँ स्तु॒तस्सु॑व॒र्गल्ँ लो॒कम॑गमय॒द्यः [39]
ए॒वव्ँवि॒द्वान॒ग्निमु॑प॒तिष्ठ॑ते सुव॒र्गमे॒व लो॒कमे॑ति॒ सर्व॒मायु॑रेत्य॒भि वा ए॒षो॑ऽग्नी आ रो॑हति॒ य ए॑नावुप॒तिष्ठ॑ते॒ यथा॒ खलु॒ वै श्रेया॑न॒भ्यारू॑ढᳵ का॒मय॑ते॒ तथा॑ करोति॒ नक्त॒मुप॑ तिष्ठते॒ न प्रा॒तस्सँ हि नक्तव्ँ॑व्र॒तानि॑ सृ॒ज्यन्ते॑ स॒ह श्रेयाँ॑श्च॒ पापी॑याँश्चासाते॒ ज्योति॒र्वा अ॒ग्निस्तमो॒ रात्रि॒र्यत् [40]
नक्त॑मुप॒तिष्ठ॑ते॒ ज्योति॑षै॒व तम॑स्तरत्युप॒स्थेयो॒ऽग्नी ३ र्नोप॒स्थेया ३ इत्या॑हुर्मनु॒ष्या॑येन्न्वै योऽह॑रहरा॒हृत्याथै॑नय्ँ॒याच॑ति॒ स इन्न्वै तमुपा॑र्च्छ॒त्यथ॒ को दे॒वानह॑रहर्याचिष्य॒तीति॒ तस्मा॒न्नोप॒स्थेयोऽथो॒ खल्वा॑हुरा॒शिषे॒ वै कय्ँयज॑मानो यजत॒ इत्ये॒षा खलु॒ वै [41]
आहि॑ताग्नेरा॒शीर्यद॒ग्निमु॑प॒तिष्ठ॑ते॒ तस्मा॑दुप॒स्थेयᳶ॑ प्र॒जाप॑तिᳶ प॒शून॑सृजत॒ ते सृ॒ष्टा अ॑होरा॒त्रे प्रावि॑श॒न्ताञ्छन्दो॑भि॒रन्व॑विन्द॒द्यच्छन्दो॑भिरुप॒तिष्ठ॑ते॒ स्वमे॒व तदन्वि॑च्छति॒ न तत्र॑ जा॒म्य॑स्तीत्या॑हु॒र्योऽह॑रहरुप॒तिष्ठ॑त॒ इति॒ यो वा अ॒ग्निम्प्र॒त्यङ्ङु॑प॒तिष्ठ॑ते॒ प्रत्ये॑नमोषति॒ यᳶ परा॒ङ्विष्व॑ङ्प्र॒जया॑ प॒शुभि॑रेति॒ कवा॑तिर्यङ्ङि॒वोप॑ तिष्ठेत॒ नैन॑म्प्र॒त्योष॑ति॒ न विष्व॑ङ्प्र॒जया॑ प॒शुभि॑रेति ॥ [42]
मम॒ नाम॑ प्रथ॒मञ्जा॑तवेदᳶ पि॒ता मा॒ता च॑ दधतु॒र्यदग्रे॑ । तत्त्वम्बि॑भृहि॒ पुन॒रा मदैतो॒स्तवा॒हन्नाम॑ बिभराण्यग्ने ॥ मम॒ नाम॒ तव॑ च जातवेदो॒ वास॑सी इव वि॒वसा॑नौ॒ ये चरा॑वः । आयु॑षे॒ त्वञ्जी॒वसे॑ व॒यय्ँय॑थाय॒थव्ँवि परि॑ दधावहै॒ पुन॒स्ते ॥ नमो॒ऽग्नयेऽप्र॑तिविद्धाय॒ नमोऽना॑धृष्टाय॒ नम॑स्स॒म्राजे॑ । अषा॑ढः [43]
अ॒ग्निर्बृ॒हद्व॑या विश्व॒जित्सह॑न्त्य॒श्श्रेष्ठो॑ गन्ध॒र्वः ॥ त्वत्पि॑तारो अग्ने दे॒वास्त्वामा॑हुतय॒स्त्वद्वि॑वाचनाः । सम्मामायु॑षा॒ सङ्गौ॑प॒त्येन॒ सुहि॑ते मा धाः ॥ अ॒यम॒ग्निश्श्रेष्ठ॑तमो॒ऽयम्भग॑वत्तमो॒ऽयँ स॑हस्र॒सात॑मः । अ॒स्मा अ॑स्तु सु॒वीर्य॑म् ॥ मनो॒ ज्योति॑र्जुषता॒माज्यव्ँ॒विच्छि॑न्नय्ँ य॒ज्ञँ समि॒मन्द॑धातु । या इ॒ष्टा उ॒षसो॑ नि॒म्रुच॑श्च॒ तास्सन्द॑धामि ह॒विषा॑ घृ॒तेन॑ ॥ पय॑स्वती॒रोष॑धयः [44]
पय॑स्वद्वी॒रुधा॒म्पयः॑ । अ॒पाम्पय॑सो॒ यत्पय॒स्तेन॒ मामि॑न्द्र॒ सँ सृ॑ज ॥ अग्ने॑ व्रतपते व्र॒तञ्च॑रिष्यामि॒ तच्छ॑केय॒न्तन्मे॑ राध्यताम् ॥ अ॒ग्निँ होता॑रमि॒ह तँ हु॑वे दे॒वान् य॒ज्ञिया॑नि॒ह यान् हवा॑महे ॥ आ य॑न्तु दे॒वास्सु॑मन॒स्यमा॑ना वि॒यन्तु॑ दे॒वा ह॒विषो॑ मे अ॒स्य ॥ कस्त्वा॑ युनक्ति॒ स त्वा॑ युनक्तु॒ यानि॑ घ॒र्मे क॒पाला॑न्युपचि॒न्वन्ति॑ [45]
वे॒धसः॑ । पू॒ष्णस्तान्यपि॑ व्र॒त इ॑न्द्रवा॒यू विमु॑ञ्चताम् ॥ अभि॑न्नो घ॒र्मो जी॒रदा॑नु॒र्यत॒ आत्त॒स्तद॑ग॒न्पुनः॑ । इ॒ध्मो वेदिᳶ॑ परि॒धय॑श्च॒ सर्वे॑ य॒ज्ञस्याऽऽयु॒रनु॒ सञ्च॑रन्ति ॥ त्रय॑स्त्रिँश॒त्तन्त॑वो॒ ये वि॑तत्नि॒रे य इ॒मय्ँ य॒ज्ञँ स्व॒धया॒ दद॑न्ते॒ तेषा॑ञ्छि॒न्नम्प्रत्ये॒तद्द॑धामि॒ स्वाहा॑ घ॒र्मो दे॒वाँ अप्ये॑तु ॥ [46]
वै॒श्वा॒न॒रो न॑ ऊ॒त्याऽऽप्र या॑तु परा॒वतः॑ । अ॒ग्निरु॒क्थेन॒ वाह॑सा ॥ ऋ॒तावा॑नव्ँ वैश्वान॒रमृ॒तस्य॒ ज्योति॑ष॒स्पति॑म् । अज॑स्रङ्घ॒र्ममी॑महे ॥ वै॒श्वा॒न॒रस्य॑ दँ॒सना॑भ्यो बृ॒हदरि॑णा॒देक॑स्स्वप॒स्य॑या क॒विः । उ॒भा पि॒तरा॑ म॒हय॑न्नजायता॒ग्निर्द्यावा॑पृथि॒वी भूरि॑रेतसा ॥ पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निᳶ पृ॑थि॒व्याम्पृ॒ष्टो विश्वा॒ ओष॑धी॒रा वि॑वेश । वै॒श्वा॒न॒रस्सह॑सा पृ॒ष्टो अ॒ग्निस्स नो॒ दिवा॒ सः [47]
रि॒षᳶ पा॑तु॒ नक्त॑म् ॥ जा॒तो यद॑ग्ने॒ भुव॑ना॒ व्यख्यᳶ॑ प॒शुन्न गो॒पा इर्य॒ᳶ परि॑ज्मा । वैश्वा॑नर॒ ब्रह्म॑णे विन्द गा॒तुय्ँयू॒यम्पा॑त स्व॒स्तिभि॒स्सदा॑ नः ॥ त्वम॑ग्ने शो॒चिषा॒ शोशु॑चान॒ आ रोद॑सी अपृणा॒ जाय॑मानः । त्वन्दे॒वाँ अ॒भिश॑स्तेरमुञ्चो॒ वैश्वा॑नर जातवेदो महि॒त्वा ॥ अ॒स्माक॑मग्ने म॒घव॑त्सु धार॒याना॑मि क्ष॒त्त्रम॒जरँ॑ सु॒वीर्य॑म् । व॒यञ्ज॑येम श॒तिनँ॑ सह॒स्रिणव्ँ॒ वैश्वा॑नर [48]
वाज॑मग्ने॒ तवो॒तिभिः॑ ॥ वै॒श्वा॒न॒रस्य॑ सुम॒तौ स्या॑म॒ राजा॒ हिक॒म्भुव॑नानामभि॒श्रीः । इ॒तो जा॒तो विश्व॑मि॒दव्ँवि च॑ष्टे वैश्वान॒रो य॑तते॒ सूर्ये॑ण ॥ अव॑ ते॒ हेडो॑ वरुण॒ नमो॑भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भिः॑ । क्षय॑न्न॒स्मभ्य॑मसुर प्रचेतो॒ राज॒न्नेनाँ॑सि शिश्रथᳵ कृ॒तानि॑ ॥ उदु॑त्त॒मव्ँव॑रुण॒ पाश॑म॒स्मदवा॑ध॒मव्ँवि म॑ध्य॒मँ श्र॑थाय । अथा॑ व॒यमा॑दित्य [49]
व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम ॥ द॒धि॒क्राव्ण्णो॑ अकारिषञ्जि॒ष्णोरश्व॑स्य वा॒जिनः॑ ॥ सु॒र॒भि नो॒ मुखा॑ कर॒त्प्र ण॒ आयूँ॑षि तारिषत् ॥ आ द॑धि॒क्राश्शव॑सा॒ पञ्च॑ कृ॒ष्टीस्सूर्य॑ इव॒ ज्योति॑षा॒ऽपस्त॑तान । स॒ह॒स्र॒साश्श॑त॒सा वा॒ज्यर्वा॑ पृ॒णक्तु॒ मध्वा॒ समि॒मा वचाँ॑सि ॥ अ॒ग्निर्मू॒र्धा भुवः॑ । मरु॑तो॒ यद्ध॑ वो दि॒वस्सु॑म्ना॒यन्तो॒ हवा॑महे । आ तू नः॑ [50]
उप॑ गन्तन ॥ या व॒श्शर्म॑ शशमा॒नाय॒ सन्ति॑ त्रि॒धातू॑नि दा॒शुषे॑ यच्छ॒ताधि॑ । अ॒स्मभ्य॒न्तानि॑ मरुतो॒ वि य॑न्त र॒यिन्नो॑ धत्त वृषणस्सु॒वीर॑म् ॥ अदि॑तिर्न उरुष्य॒त्वदि॑ति॒श्शर्म॑ यच्छतु । अदि॑तिᳶ पा॒त्वँह॑सः ॥ म॒हीमू॒ षु मा॒तरँ॑ सुव्र॒ताना॑मृ॒तस्य॒ पत्नी॒मव॑से हुवेम । तु॒वि॒क्ष॒त्त्राम॒जर॑न्तीमुरू॒चीँ सु॒शर्मा॑ण॒मदि॑तिँ सु॒प्रणी॑तिम् ॥ सु॒त्रामा॑णम्पृथि॒वीन्द्याम॑ने॒हसँ॑ सु॒शर्मा॑ण॒मदि॑तिँ सु॒प्रणी॑तिम् । दैवी॒न्नावँ॑ स्वरि॒त्रामना॑गस॒मस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये॑ ॥ इ॒माँ सु नाव॒माऽरु॑हँ श॒तारि॑त्राँ श॒तस्फ्या॑म् । अच्छि॑द्राम्पारयि॒ष्णुम् ॥ [51]