आ द॑दे॒ ग्रावा॑स्यध्वर॒कृद्दे॒वेभ्यो॑ गम्भी॒रमि॒मम॑ध्व॒रङ्कृ॑ध्युत्त॒मेन॑ प॒विनेन्द्रा॑य॒ सोमँ॒ सुषु॑त॒म्मधु॑मन्त॒म्पय॑स्वन्तव्ँवृष्टि॒वनि॒मिन्द्रा॑य त्वा वृत्र॒घ्न इन्द्रा॑य त्वा वृत्र॒तुर॒ इन्द्रा॑य त्वाऽभिमाति॒घ्न इन्द्रा॑य त्वाऽऽदि॒त्यव॑त॒ इन्द्रा॑य त्वा वि॒श्वदे॑व्यावते श्वा॒त्रास्स्थ॑ वृत्र॒तुरो॒ राधो॑गूर्ता अ॒मृत॑स्य॒ पत्नी॒स्ता दे॑वीर्देव॒त्रेमय्ँ य॒ज्ञन्ध॒त्तोप॑हूता॒स्सोम॑स्य पिब॒तोप॑हूतो यु॒ष्माक॑म् [1]
सोमᳶ॑ पिबतु॒ यत्ते॑ सोम दि॒वि ज्योति॒र्यत्पृ॑थि॒व्याय्ँयदु॒राव॒न्तरि॑क्षे॒ तेना॒स्मै यज॑मानायो॒रु रा॒या कृ॒ध्यधि॑ दा॒त्रे वो॑चो॒ धिष॑णे वी॒डू स॒ती वी॑डयेथा॒मूर्ज॑न्दधाथा॒मूर्ज॑म्मे धत्त॒म्मा वाँ॑ हिँसिष॒म्मा मा॑ हिँसिष्ट॒म्प्रागपा॒गुद॑गध॒राक्तास्त्वा॒ दिश॒ आ धा॑व॒न्त्वम्ब॒ नि ष्व॑र । यत्ते॑ सो॒मादा॑भ्य॒न्नाम॒ जागृ॑वि॒ तस्मै॑ ते सोम॒ सोमा॑य॒ स्वाहा॑ ॥ [2]
वा॒चस्पत॑ये पवस्व वाजि॒न्वृषा॒ वृष्णो॑ अँ॒शुभ्या॒ङ्गभ॑स्तिपूतो दे॒वो दे॒वाना॑म्प॒वित्र॑मसि॒ येषा॑म्भा॒गोऽसि॒ तेभ्य॑स्त्वा॒ स्वाङ्कृ॑तोऽसि॒ मधु॑मतीर्न॒ इष॑स्कृधि॒ विश्वे॑भ्यस्त्वेन्द्रि॒येभ्यो॑ दि॒व्येभ्य॒ᳶ पार्थि॑वेभ्यो॒ मन॑स्त्वाष्टू॒र्व॑न्तरि॑क्ष॒मन्वि॑हि॒ स्वाहा॑ त्वा सुभव॒स्सूर्या॑य दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्य॑ ए॒ष ते॒ योनिᳶ॑ प्रा॒णाय॑ त्वा ॥ [3]
उ॒प॒या॒मगृ॑हीतोऽस्य॒न्तर्य॑च्छ मघवन्पा॒हि सोम॑मुरु॒ष्य राय॒स्समिषो॑ यजस्वा॒न्तस्ते॑ दधामि॒ द्यावा॑पृथि॒वी अ॒न्तरु॒र्व॑न्तरि॑क्षँ स॒जोषा॑ दे॒वैरव॑रै॒ᳶ परै॑श्चान्तर्या॒मे म॑घवन्मादयस्व॒ स्वाङ्कृ॑तोऽसि॒ मधु॑मतीर्न॒ इष॑स्कृधि॒ विश्वे॑भ्यस्त्वेन्द्रि॒येभ्यो॑ दि॒व्येभ्य॒ᳶ पार्थि॑वेभ्यो॒ मन॑स्त्वाष्टू॒र्व॑न्तरि॑क्ष॒मन्वि॑हि॒ स्वाहा॑ त्वा सुभव॒स्सूर्या॑य दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्य॑ ए॒ष ते॒ योनि॑रपा॒नाय॑ त्वा ॥ [4]
आ वा॑यो भूष शुचिपा॒ उप॑ नस्स॒हस्र॑न्ते नि॒युतो॑ विश्ववार । उपो॑ ते॒ अन्धो॒ मद्य॑मयामि॒ यस्य॑ देव दधि॒षे पू॑र्व॒पेय॑म् ॥ उ॒प॒या॒मगृ॑हीतोऽसि वा॒यवे॒ त्वेन्द्र॑वायू इ॒मे सु॒ताः । उप॒ प्रयो॑भि॒रा ग॑त॒मिन्द॑वो वामु॒शन्ति॒ हि ॥ उ॒प॒या॒मगृ॑हीतोऽसीन्द्रवा॒युभ्या॑न्त्वै॒ष ते॒ योनि॑स्स॒जोषा॑भ्यान्त्वा ॥ [5]
अ॒यव्ँवा॑म्मित्रावरुणा सु॒तस्सोम॑ ऋतावृधा । ममेदि॒ह श्रु॑तँ॒ हव॑म् । उ॒प॒या॒मगृ॑हीतोऽसि मि॒त्रावरु॑णाभ्यान्त्वै॒ष ते॒ योनि॑र् ऋता॒युभ्या॑न्त्वा ॥ [6]
या वा॒ङ्कशा॒ मधु॑म॒त्यश्वि॑ना सू॒नृता॑वती । तया॑ य॒ज्ञम्मि॑मिक्षतम् । उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्या॑न्त्वै॒ष ते॒ योनि॒र्माध्वी॑भ्यान्त्वा ॥ [7]
प्रा॒त॒र्युजौ॒ वि मु॑च्येथा॒मश्वि॑ना॒वेह ग॑च्छतम् । अ॒स्य सोम॑स्य पी॒तये॑ ॥ उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्या॑न्त्वै॒ष ते॒ योनि॑र॒श्विभ्या॑न्त्वा ॥ [8]
अ॒यव्ँवे॒नश्चो॑दय॒त्पृश्ञि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने॑ । इ॒मम॒पाँ स॑ङ्ग॒मे सूर्य॑स्य॒ शिशु॒न्न विप्रा॑ म॒तिभी॑ रिहन्ति ॥ उ॒प॒या॒मगृ॑हीतोऽसि॒ शण्डा॑य त्वै॒ष ते॒ योनि॑र्वी॒रता॑म्पाहि ॥ [9]
तम्प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा॑ ज्ये॒ष्ठता॑तिम्बर्हि॒षदँ॑ सुव॒र्विद॑म्प्रतीची॒नव्ँवृ॒जन॑न्दोहसे गि॒राऽऽशुञ्जय॑न्त॒मनु॒ यासु॒ वर्ध॑से । उ॒प॒या॒मगृ॑हीतोऽसि॒ मर्का॑य त्वै॒ष ते॒ योनिᳶ॑ प्र॒जाᳶ पा॑हि ॥ [10]
ये दे॑वा दि॒व्येका॑दश॒ स्थ पृ॑थि॒व्यामध्येका॑दश॒ स्थाऽप्सु॒षदो॑ महि॒नैका॑दश॒ स्थ ते दे॑वा य॒ज्ञमि॒मञ्जु॑षध्वमुपया॒मगृ॑हीतोऽस्याग्रय॒णो॑ऽसि॒ स्वा॑ग्रयणो॒ जिन्व॑ य॒ज्ञञ्जिन्व॑ य॒ज्ञप॑तिम॒भि सव॑ना पाहि॒ विष्णु॒स्त्वाम्पा॑तु॒ विश॒न्त्वम्पा॑हीन्द्रि॒येणै॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ॥ [11]
त्रिँ॒शत्त्रय॑श्च ग॒णिनो॑ रु॒जन्तो॒ दिवँ॑ रु॒द्राᳶ पृ॑थि॒वीञ्च॑ सचन्ते । ए॒का॒द॒शासो॑ अप्सु॒षद॑स्सु॒तँ सोम॑ञ्जुषन्ताँ॒ सव॑नाय॒ विश्वे॑ ॥ उ॒प॒या॒मगृ॑हीतोऽस्याग्रय॒णो॑ऽसि॒ स्वा॑ग्रयणो॒ जिन्व॑ य॒ज्ञञ्जिन्व॑ य॒ज्ञप॑तिम॒भि सव॑ना पाहि॒ विष्णु॒स्त्वाम्पा॑तु॒ विश॒न्त्वम्पा॑हीन्द्रि॒येणै॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ॥ [12]
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा बृ॒हद्व॑ते॒ वय॑स्वत उक्था॒युवे॒ यत्त॑ इन्द्र बृ॒हद्वय॒स्तस्मै॑ त्वा॒ विष्ण॑वे त्वै॒ष ते॒ योनि॒रिन्द्रा॑य त्वोक्था॒युवे॑ ॥ [13]
मू॒र्धान॑न्दि॒वो अ॑र॒तिम्पृ॑थि॒व्या वै॑श्वान॒रमृ॒ताय॑ जा॒तम॒ग्निम् । क॒विँ स॒म्राज॒मति॑थि॒ञ्जना॑नामा॒सन्ना पात्र॑ञ्जनयन्त दे॒वाः ॥ उ॒प॒या॒मगृ॑हीतोऽस्य॒ग्नये॑ त्वा वैश्वान॒राय॑ ध्रु॒वो॑ऽसि ध्रु॒वक्षि॑तिर्ध्रु॒वाणा॑न्ध्रु॒वत॒मोऽच्यु॑तानामच्युत॒क्षित्त॑म ए॒ष ते॒ योनि॑र॒ग्नये॑ त्वा वैश्वान॒राय॑ ॥ [14]
मधु॑श्च॒ माध॑वश्च शु॒क्रश्च॒ शुचि॑श्च॒ नभ॑श्च नभ॒स्य॑श्चे॒षश्चो॒र्जश्च॒ सह॑श्च सह॒स्य॑श्च॒ तप॑श्च तप॒स्य॑श्चोपया॒मगृ॑हीतोऽसि सँ॒सर्पो॑ऽस्यँहस्प॒त्याय॑ त्वा ॥ [15]
इन्द्रा॑ग्नी॒ आ ग॑तँ सु॒तङ्गी॒र्भिर्नभो॒ वरे॑ण्यम् । अ॒स्य पा॑तन्धि॒येषि॒ता ॥ उ॒प॒या॒मगृ॑हीतोऽसीन्द्रा॒ग्निभ्या॑न्त्वै॒ष ते॒ योनि॑रिन्द्रा॒ग्निभ्या॑न्त्वा ॥ [16]
ओमा॑सश्चर्षणीधृतो॒ विश्वे॑ देवास॒ आ ग॑त । दा॒श्वाँसो॑ दा॒शुष॑स्सु॒तम् ॥ उ॒प॒या॒मगृ॑हीतोऽसि॒ विश्वे॑भ्यस्त्वा दे॒वेभ्य॑ ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ॥ [17]
म॒रुत्व॑न्तव्ँवृष॒भव्ँवा॑वृधा॒नमक॑वारिन्दि॒व्यँ शा॒समिन्द्र॑म् । वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रँ स॑हो॒दामि॒ह तँ हु॑वेम ॥ उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ॥ [18]
इन्द्र॑ मरुत्व इ॒ह पा॑हि॒ सोमय्ँ॒यथा॑ शार्या॒ते अपि॑बस्सु॒तस्य॑ । तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॒न्ना वि॑वासन्ति क॒वय॑स्सुय॒ज्ञाः ॥ उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ॥ [19]
म॒रुत्वाँ॑ इन्द्र वृष॒भो रणा॑य॒ पिबा॒ सोम॑मनुष्व॒धम्मदा॑य । आ सि॑ञ्चस्व ज॒ठरे॒ मध्व॑ ऊ॒र्मिन्त्वँ राजा॑सि प्र॒दिव॑स्सु॒ताना॑म् ॥ उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ॥ [20]
म॒हाँ इन्द्रो॒ य ओज॑सा प॒र्जन्यो॑ वृष्टि॒माँ इ॑व । स्तोमै॑र्व॒त्सस्य॑ वावृधे ॥ उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा ॥ [21]
म॒हाँ इन्द्रो॑ नृ॒वदा च॑र्षणि॒प्रा उ॒त द्वि॒बर्हा॑ अमि॒नस्सहो॑भिः । अ॒स्म॒द्रिय॑ग्वावृधे वी॒र्या॑यो॒रुᳶ पृ॒थुस्सुकृ॑तᳵ क॒र्तृभि॑र्भूत् ॥ उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा ॥ [22]
अ॒र्वाची॑ सुम॒तिर्व॑वृत्यादँ॒होश्चि॒द्या व॑रिवो॒वित्त॒रास॑त् ॥ विव॑स्व आदित्यै॒ष ते॑ सोमपी॒थस्तेन॑ मन्दस्व॒ तेन॑ तृप्य तृ॒प्यास्म॑ ते व॒यं त॑र्पयि॒तारो॒ या दि॒व्या वृष्टि॒स्तया॑ त्वा श्रीणामि ॥ क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे॑ । उपो॒पेन्नु म॑घव॒न्भूय॒ इन्नु ते॒ दान॑न्दे॒वस्य॑ पृच्यते ॥ उ॒प॒या॒मगृ॑हीतोऽस्यादि॒त्येभ्य॑स्त्वा ॥ क॒दा च॒न प्र यु॑च्छस्यु॒भे नि पा॑सि॒ जन्म॑नी । तुरी॑यादित्य॒ सव॑नन्त इन्द्रि॒यमा त॑स्थाव॒मृत॑न्दि॒वि ॥ य॒ज्ञो दे॒वाना॒म्प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृड॒यन्तः॑ । आ वः॑
वा॒मम॒द्य स॑वितर्वा॒ममु॒ श्वो दि॒वेदि॑वे वा॒मम॒स्मभ्यँ॑ सावीः । वा॒मस्य॒ हि क्षय॑स्य देव॒ भूरे॑र॒या धि॒या वा॑म॒भाज॑स्स्याम ॥ उ॒प॒या॒मगृ॑हीतोऽसि दे॒वाय॑ त्वा सवि॒त्रे ॥ [24]
अद॑ब्धेभिस्सवितᳶ पा॒युभि॒ष्ट्वँ शि॒वेभि॑र॒द्य परि॑ पाहि नो॒ गय॑म् । हिर॑ण्यजिह्वस्सुवि॒ताय॒ नव्य॑से॒ रक्षा॒ माकि॑र्नो अ॒घशँ॑स ईशत ॥ उ॒प॒या॒मगृ॑हीतोऽसि दे॒वाय॑ त्वा सवि॒त्रे ॥ [25]
हिर॑ण्यपाणिमू॒तये॑ सवि॒तार॒मुप॑ ह्वये । स चेत्ता॑ दे॒वता॑ प॒दम् ॥ उ॒प॒या॒मगृ॑हीतोऽसि दे॒वाय॑ त्वा सवि॒त्रे ॥ [26]
सु॒शर्मा॑ऽसि सुप्रतिष्ठा॒नो बृ॒हदु॒क्षे नम॑ ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ॥ [27]
बृह॒स्पति॑सुतस्य त इन्दो इन्द्रि॒याव॑त॒ᳶ पत्नी॑वन्त॒ङ्ग्रह॑ङ्गृह्णा॒म्यग्ना ३ इ पत्नी॒वा ३ स्स॒जूर्दे॒वेन॒ त्वष्ट्रा॒ सोम॑म्पिब॒ स्वाहा॑ ॥ [28]
हरि॑रसि हारियोज॒नो हर्योः॑ स्था॒ता वज्र॑स्य भ॒र्ता पृश्ञेः॑ प्रे॒ता तस्य॑ ते देव सोमे॒ष्टय॑जुषस्स्तु॒तस्तो॑मस्य श॒स्तोक्थ॑स्य॒ हरि॑वन्त॒ङ्ग्रह॑ङ्गृह्णामि ह॒रीस्स्थ॒ हर्यो॑र्धा॒नास्स॒हसो॑मा॒ इन्द्रा॑य॒ स्वाहा॑ ॥ [29]
अग्न॒ आयूँ॑षि पवस॒ आ सु॒वोर्ज॒मिष॑ञ्च नः । आ॒रे बा॑धस्व दु॒च्छुना॑म् ॥ उ॒प॒या॒मगृ॑हीतोऽस्य॒ग्नये॑ त्वा॒ तेज॑स्वत ए॒ष ते॒ योनि॑र॒ग्नये॑ त्वा॒ तेज॑स्वते ॥ [30]
उ॒त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वा शिप्रे॑ अवेपयः । सोम॑मिन्द्र च॒मू सु॒तम् ॥ उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य॒ त्वौज॑स्वत ए॒ष ते॒ योनि॒रिन्द्रा॑य॒ त्वौज॑स्वते ॥ [31]
त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य । विश्व॒मा भा॑सि रोच॒नम् ॥ उ॒प॒या॒मगृ॑हीतोऽसि॒ सूर्या॑य त्वा॒ भ्राज॑स्वत ए॒ष ते॒ योनि॒स्सूर्या॑य त्वा॒ भ्राज॑स्वते ॥ [32]
आ प्या॑यस्व मदिन्तम॒ सोम॒ विश्वा॑भिरू॒तिभिः॑ । भवा॑ नस्स॒प्रथ॑स्तमः ॥ [33]
ई॒युष्टे ये पूर्व॑तरा॒मप॑श्यन्व्यु॒च्छन्ती॑मु॒षस॒म्मर्त्या॑सः । अ॒स्माभि॑रू॒ नु प्र॑ति॒चक्ष्या॑ऽभू॒दो ते य॑न्ति॒ ये अ॑प॒रीषु॒ पश्या॑न् ॥ [34]
ज्योति॑ष्मतीन्त्वा सादयामि ज्योति॒ष्कृत॑न्त्वा सादयामि ज्योति॒र्विद॑न्त्वा सादयामि॒ भास्व॑तीन्त्वा सादयामि॒ ज्वल॑न्तीन्त्वा सादयामि मल्मला॒भव॑न्तीन्त्वा सादयामि॒ दीप्य॑मानान्त्वा सादयामि॒ रोच॑मानान्त्वा सादया॒म्यज॑स्रान्त्वा सादयामि बृ॒हज्ज्यो॑तिषन्त्वा सादयामि बो॒धय॑न्तीन्त्वा सादयामि॒ जाग्र॑तीन्त्वा सादयामि ॥ [35]
प्र॒या॒साय॒ स्वाहा॑ऽऽया॒साय॒ स्वाहा॑ विया॒साय॒ स्वाहा॑ सय्ँया॒साय॒ स्वाहो॑द्या॒साय॒ स्वाहा॑ऽवया॒साय॒ स्वाहा॑ शु॒चे स्वाहा॒ शोका॑य॒ स्वाहा॑ तप्य॒त्वै स्वाहा॒ तप॑ते॒ स्वाहा॑ ब्रह्मह॒त्यायै॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ [36]
चि॒त्तँ स॑न्ता॒नेन॑ भ॒वय्ँय॒क्ना रु॒द्रन्तनि॑म्ना पशु॒पतिँ॑ स्थूलहृद॒येना॒ग्निँ हृद॑येन रु॒द्रल्ँलोहि॑तेन श॒र्वम्मत॑स्नाभ्याम्महादे॒वम॒न्तᳶपा॑र्श्वेनौषिष्ठ॒हनँ॑ शिङ्गीनिको॒श्या॑भ्याम् ॥ [37]
आ ति॑ष्ठ वृत्रह॒न्रथय्ँ॑यु॒क्ता ते॒ ब्रह्म॑णा॒ हरी॑ । अ॒र्वा॒चीनँ॒ सु ते॒ मनो॒ ग्रावा॑ कृणोतु व॒ग्नुना॑ ॥ उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑ ॥ [38]
इन्द्र॒मिद्धरी॑ वह॒तोऽप्र॑तिधृष्टशवस॒मृषी॑णाञ्च स्तु॒तीरुप॑ य॒ज्ञञ्च॒ मानु॑षाणाम् ॥ उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑ ॥ [39]
असा॑वि॒ सोम॑ इन्द्र ते॒ शवि॑ष्ठ धृष्ण॒वा ग॑हि । आ त्वा॑ पृणक्त्विन्द्रि॒यँ रज॒स्सूर्य॒न्न र॒श्मिभिः॑ ॥ उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑ ॥ [40]
सर्व॑स्य प्रति॒शीव॑री॒ भूमि॑स्त्वो॒पस्थ॒ आऽधि॑त । स्यो॒नास्मै॑ सु॒षदा॑ भव॒ यच्छा॑स्मै॒ शर्म॑ स॒प्रथाः॑ ॥ उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑ ॥ [41]
म॒हाँ इन्द्रो॒ वज्र॑बाहुष्षोड॒शी शर्म॑ यच्छतु । स्व॒स्ति नो॑ म॒घवा॑ करोतु॒ हन्तु॑ पा॒प्मानय्ँ॒यो॑ऽस्मान्द्वेष्टि॑ ॥ उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑ ॥ [42]
स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भि॒स्सोम॑म्पिब वृत्रहञ्छूर वि॒द्वान् । ज॒हि शत्रूँ॒ रप॒ मृधो॑ नुद॒स्वाऽथाभ॑यङ्कृणुहि वि॒श्वतो॑ नः ॥ उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑ ॥ [43]
उदु॒ त्यञ्जा॒तवे॑दसन्दे॒वव्ँव॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्य॑म् ॥ चि॒त्रन्दे॒वाना॒मुद॑गा॒दनी॑क॒ञ्चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आऽप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षँ॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥ अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । यु॒यो॒ध्य॑स्मज्जुहुरा॒णमेनो॒ भूयि॑ष्ठान्ते॒ नम॑उक्तिव्ँविधेम ॥ दिव॑ङ्गच्छ॒ सुवᳶ॑ पत रू॒पेण॑ [44]
वो॒ रू॒पम॒भ्यैमि॒ वय॑सा॒ वयः॑ । तु॒थो वो॑ वि॒श्ववे॑दा॒ वि भ॑जतु॒ वर्षि॑ष्ठे॒ अधि॒ नाके॑ ॥ ए॒तत्ते॑ अग्ने॒ राध॒ ऐति॒ सोम॑च्युत॒न्तन्मि॒त्रस्य॑ प॒था न॑य॒र्तस्य॑ प॒था प्रेत॑ च॒न्द्रद॑क्षिणा य॒ज्ञस्य॑ प॒था सु॑वि॒ता नय॑न्तीर्ब्राह्म॒णम॒द्य रा॑ध्यास॒मृषि॑मार्षे॒यम्पि॑तृ॒मन्त॑म्पैतृम॒त्यँ सु॒धातु॑दक्षिणव्ँ॒वि सुव॒ᳶ पश्य॒ व्य॑न्तरि॑क्षय्ँ॒यत॑स्व सद॒स्यै॑र॒स्मद्दा॑त्रा देव॒त्रा ग॑च्छत॒ मधु॑मतीᳶ प्रदा॒तार॒मा वि॑श॒तान॑वहाया॒स्मान्दे॑व॒याने॑न प॒थेत॑ सु॒कृताल्ँ॑ लो॒के सी॑दत॒ तन्न॑स्सँस्कृ॒तम् ॥ [45]
धा॒ता रा॒तिस्स॑वि॒तेदञ्जु॑षन्ताम्प्र॒जाप॑तिर्निधि॒पति॑र्नो अ॒ग्निः । त्वष्टा॒ विष्णुᳶ॑ प्र॒जया॑ सँररा॒णो यज॑मानाय॒ द्रवि॑णन्दधातु ॥ समि॑न्द्र णो॒ मन॑सा नेषि॒ गोभि॒स्सँ सू॒रिभि॑र्मघव॒न्त्सँ स्व॒स्त्या । सम्ब्रह्म॑णा दे॒वकृ॑तय्ँ॒यदस्ति॒ सन्दे॒वानाँ॑ सुम॒त्या य॒ज्ञिया॑नाम् ॥ सव्ँवर्च॑सा॒ पय॑सा॒ सन्त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सँ शि॒वेन॑ । त्वष्टा॑ नो॒ अत्र॒ वरि॑वᳵ कृणोतु [46]
अनु॑ मार्ष्टु त॒नुवो॒ यद्विलि॑ष्टम् ॥ यद॒द्य त्वा॑ प्रय॒ति य॒ज्ञे अ॒स्मिन्नग्ने॒ होता॑र॒मवृ॑णीमही॒ह । ऋध॑गया॒डृध॑गु॒ताश॑मिष्ठाᳶ प्रजा॒नन् य॒ज्ञमुप॑याहि वि॒द्वान् ॥ स्व॒गा वो॑ देवा॒स्सद॑नमकर्म॒ य आ॑ज॒ग्म सव॑ने॒दञ्जु॑षा॒णाः । ज॒क्षि॒वाँसᳶ॑ पपि॒वाँस॑श्च॒ विश्वे॒ऽस्मे ध॑त्त वसवो॒ वसू॑नि ॥ यानाऽव॑ह उश॒तो दे॑व दे॒वान्तान् [47]
प्रेर॑य॒ स्वे अ॑ग्ने स॒धस्थे॑ । वह॑माना॒ भर॑माणा ह॒वीँषि॒ वसु॑ङ्घ॒र्मन्दिव॒मा ति॑ष्ठ॒ताऽनु॑ ॥ यज्ञ॑ य॒ज्ञङ्ग॑च्छ य॒ज्ञप॑तिङ्गच्छ॒ स्वाय्ँयोनि॑ङ्गच्छ॒ स्वाहै॒ष ते॑ य॒ज्ञो य॑ज्ञपते स॒हसू॑क्तवाकस्सु॒वीर॒स्स्वाहा॒ देवा॑ गातुविदो गा॒तुव्ँवि॒त्वा गा॒तुमि॑त॒ मन॑सस्पत इ॒मन्नो॑ देव दे॒वेषु॑ य॒ज्ञँ स्वाहा॑ वा॒चि स्वाहा॒ वाते॑ धाः ॥ [48]
उ॒रुँ हि राजा॒ वरु॑णश्च॒कार॒ सूर्या॑य॒ पन्था॒मन्वे॑त॒वा उ॑ । अ॒पदे॒ पादा॒ प्रति॑धातवेऽकरु॒ताप॑व॒क्ता हृ॑दया॒विध॑श्चित् ॥ श॒तन्ते॑ राजन्भि॒षज॑स्स॒हस्र॑मु॒र्वी ग॑म्भी॒रा सु॑म॒तिष्टे॑ अस्तु । बाध॑स्व॒ द्वेषो॒ निर्ऋ॑तिम्परा॒चैᳵ कृ॒तञ्चि॒देन॒ᳶ प्र मु॑मुग्ध्य॒स्मत् ॥ अ॒भिष्ठि॑तो॒ वरु॑णस्य॒ पाशो॒ऽग्नेरनी॑कम॒प आ वि॑वेश । अपा॑न्नपात्प्रति॒रक्ष॑न्नसु॒र्य॑न्दमे॑दमे [49]
स॒मिधय्ँ॑यक्ष्यग्ने ॥ प्रति॑ ते जि॒ह्वा घृ॒तमुच्च॑रण्येत् समु॒द्रे ते॒ हृद॑यम॒प्स्व॑न्तः । सन्त्वा॑ विश॒न्त्वोष॑धीरु॒ताऽऽपो॑ य॒ज्ञस्य॑ त्वा यज्ञपते ह॒विर्भिः॑ ॥ सू॒क्त॒वा॒के न॑मोवा॒के वि॑धे॒माव॑भृथ निचङ्कुण निचे॒रुर॑सि निचङ्कु॒णाव॑ दे॒वैर्दे॒वकृ॑त॒मेनो॑ऽया॒डव॒ मर्त्यै॒र्मर्त्य॑कृतमु॒रोरा नो॑ देव रि॒षस्पा॑हि सुमि॒त्रा न॒ आप॒ ओष॑धयः [50]
सन्तु दुर्मि॒त्रास्तस्मै॑ भूयासु॒र्यो॑ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्मो देवी॑राप ए॒ष वो॒ गर्भ॒स्तव्ँव॒स्सुप्री॑तँ॒ सुभृ॑तमकर्म दे॒वेषु॑ नस्सु॒कृतो॑ ब्रूता॒त्प्रति॑युतो॒ वरु॑णस्य॒ पाश॒ᳶ प्रत्य॑स्तो॒ वरु॑णस्य॒ पाश॒ एधो॑ऽस्येधिषी॒महि॑ स॒मिद॑सि॒ तेजो॑ऽसि॒ तेजो॒ मयि॑ धेह्य॒पो अन्व॑चारिषँ॒ रसे॑न॒ सम॑सृक्ष्महि । पय॑स्वाँ अग्न॒ आऽग॑म॒न्तम्मा॒ सँ सृ॑ज॒ वर्च॑सा ॥ [51]
यस्त्वा॑ हृ॒दा की॒रिणा॒ मन्य॑मा॒नोऽम॑र्त्य॒म्मर्त्यो॒ जोह॑वीमि । जात॑वेदो॒ यशो॑ अ॒स्मासु॑ धेहि प्र॒जाभि॑रग्ने अमृत॒त्वम॑श्याम् ॥ यस्मै॒ त्वँ सु॒कृते॑ जातवेद॒ उ लो॒कम॑ग्ने कृ॒णव॑स्स्यो॒नम् । अ॒श्विनँ॒ स पु॒त्रिणव्ँ॑वी॒रव॑न्त॒ङ्गोम॑न्तँ र॒यिन्न॑शते स्व॒स्ति ॥ त्वे सु पु॑त्त्र शव॒सोऽवृ॑त्र॒न्काम॑कातयः । न त्वामि॒न्द्राति॑ रिच्यते ॥ उ॒क्थउ॑क्थे॒ सोम॒ इन्द्र॑म्ममाद नी॒थेनी॑थे म॒घवा॑नँ [52]
सु॒तासः॑ । यदीँ॑ स॒बाधᳶ॑ पि॒तर॒न्न पु॒त्रास्स॑मा॒नद॑क्षा॒ अव॑से॒ हव॑न्ते ॥ अग्ने॒ रसे॑न॒ तेज॑सा॒ जात॑वेदो॒ वि रो॑चसे । र॒क्षो॒हाऽमी॑व॒चात॑नः ॥ अ॒पो अन्व॑चारिषँ॒ रसे॑न॒ सम॑सृक्ष्महि । पय॑स्वाँ अग्न॒ आऽग॑म॒न्तम्मा॒ सँ सृ॑ज॒ वर्च॑सा ॥ वसु॒र्वसु॑पति॒र्हिक॒मस्य॑ग्ने वि॒भाव॑सुः । स्याम॑ ते सुम॒तावपि॑ ॥ त्वाम॑ग्ने॒ वसु॑पतिव्ँ॒वसू॑नाम॒भि प्र म॑न्दे [53]
अ॒ध्व॒रेषु॑ राजन् । त्वया॒ वाजव्ँ॑वाज॒यन्तो॑ जयेमा॒भि ष्या॑म पृत्सु॒तीर्मर्त्या॑नाम् । त्वाम॑ग्ने वाज॒सात॑मव्ँ॒विप्रा॑ वर्धन्ति॒ सुष्टु॑तम् । स नो॑ रास्व सु॒वीर्य॑म् ॥ अ॒यन्नो॑ अ॒ग्निर्वरि॑वᳵ कृणोत्व॒यम्मृधᳶ॑ पु॒र ए॑तु प्रभि॒न्दन् । अ॒यँ शत्रू॑ञ्जयतु॒ जर्हृ॑षाणो॒ऽयव्ँवाज॑ञ्जयतु॒ वाज॑सातौ ॥ अ॒ग्निना॒ग्निस्समि॑ध्यते क॒विर्गृ॒हप॑ति॒र्युवा॑ । ह॒व्य॒वाड्जु॒ह्वा॑स्यः ॥ त्वँ ह्य॑ग्ने अ॒ग्निना॒ विप्रो॒ विप्रे॑ण॒ सन्त्स॒ता । सखा॒ सख्या॑ समि॒ध्यसे॑ ॥ उद॑ग्ने॒ शुच॑य॒स्तव॒ वि ज्योति॑षा ॥ [54]