आप॑ उन्दन्तु जी॒वसे॑ दीर्घायु॒त्वाय॒ वर्च॑स॒ ओष॑धे॒ त्राय॑स्वैनँ॒ स्वधि॑ते॒ मैनँ॑ हिँसीर्देव॒श्रूरे॒तानि॒ प्र व॑पे स्व॒स्त्युत्त॑राण्यशी॒याऽऽपो॑ अ॒स्मान्मा॒तर॑श्शुन्धन्तु घृ॒तेन॑ नो घृत॒पुवᳶ॑ पुनन्तु॒ विश्व॑म॒स्मत्प्र व॑हन्तु रि॒प्रमुदा॑भ्य॒श्शुचि॒रा पू॒त ए॑मि॒ सोम॑स्य त॒नूर॑सि त॒नुव॑म्मे पाहि मही॒नाम्पयो॑ऽसि वर्चो॒धा अ॑सि॒ वर्चः॑ [1]
मयि॑ धेहि वृ॒त्रस्य॑ क॒नीनि॑काऽसि चक्षु॒ष्पा अ॑सि॒ चक्षु॑र्मे पाहि चि॒त्पति॑स्त्वा पुनातु वा॒क्पति॑स्त्वा पुनातु दे॒वस्त्वा॑ सवि॒ता पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒स्सूर्य॑स्य र॒श्मिभि॒स्तस्य॑ ते पवित्रपते प॒वित्रे॑ण॒ यस्मै॒ कम्पु॒ने तच्छ॑केय॒मा वो॑ देवास ईमहे॒ सत्य॑धर्माणो अध्व॒रे यद्वो॑ देवास आगु॒रे यज्ञि॑यासो॒ हवा॑मह॒ इन्द्रा॑ग्नी॒ द्यावा॑पृथिवी॒ आप॑ ओषधी॒ स्त्वन्दी॒क्षाणा॒मधि॑पतिरसी॒ह मा॒ सन्त॑म्पाहि ॥ [2]
आकू॑त्यै प्र॒युजे॒ऽग्नये॒ स्वाहा॑ मे॒धायै॒ मन॑से॒ऽग्नये॒ स्वाहा॑ दी॒क्षायै॒ तप॑से॒ऽग्नये॒ स्वाहा॒ सर॑स्वत्यै पू॒ष्णे॑ऽग्नये॒ स्वाहाऽऽपो॑ देवीर्बृहतीर्विश्वशम्भुवो॒ द्यावा॑पृथि॒वी उ॒र्व॑न्तरि॑क्षम्बृह॒स्पति॑र्नो ह॒विषा॑ वृधातु॒ स्वाहा॒ विश्वे॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ऽवृणीत स॒ख्यव्ँविश्वे॑ रा॒य इ॑षुध्यसि द्यु॒म्नव्ँवृ॑णीत पु॒ष्यसे॒ स्वाह॑र्क्सा॒मयो॒श्शिल्पे॑ स्थ॒स्ते वा॒मा र॑भे ते मा॑ [3]
पा॒त॒माऽस्य य॒ज्ञस्यो॒दृच॑ इ॒मान्धियँ॒ शिक्ष॑माणस्य देव॒ क्रतु॒न्दक्षव्ँ॑वरुण॒ सँशि॑शाधि॒ ययाऽति॒ विश्वा॑ दुरि॒ता तरे॑म सु॒तर्मा॑ण॒मधि॒ नावँ॑ रुहे॒मोर्ग॑स्याङ्गिर॒स्यूर्ण॑म्रदा॒ ऊर्ज॑म्मे यच्छ पा॒हि मा॒ मा मा॑ हिँसी॒र्विष्णो॒श्शर्मा॑सि॒ शर्म॒ यज॑मानस्य॒ शर्म॑ मे यच्छ॒ नक्ष॑त्राणाम्माऽतीका॒शात्पा॒हीन्द्र॑स्य॒ योनि॑रसि [4]
मा मा॑ हिँसीᳵ कृ॒ष्यै त्वा॑ सुस॒स्यायै॑ सुपिप्प॒लाभ्य॒स्त्वौष॑धीभ्यस्सूप॒स्था दे॒वो वन॒स्पति॑रू॒र्ध्वो मा॑ पा॒ह्योदृच॒स्स्वाहा॑ य॒ज्ञम्मन॑सा॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्याँ॒ स्वाहो॒रोर॒न्तरि॑क्षा॒त्स्वाहा॑ य॒ज्ञव्ँ वाता॒दा र॑भे ॥ [5]
दैवी॒न्धिय॑म्मनामहे सुमृडी॒काम॒भिष्ट॑ये वर्चो॒धाय्ँ य॒ज्ञवा॑हसँ सुपा॒रा नो॑ अस॒द्वशे॑ । ये दे॒वा मनो॑जाता मनो॒युज॑स्सु॒दक्षा॒ दक्ष॑पितार॒स्ते नᳶ॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॒ नम॒स्तेभ्य॒स्स्वाहाऽग्ने॒ त्वँ सु जा॑गृहि व॒यँ सु म॑न्दिषीमहि गोपा॒य न॑स्स्व॒स्तये॑ प्र॒बुधे॑ न॒ᳶ पुन॑र्ददः । त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा । त्वम् [6]
य॒ज्ञेष्वीड्यः॑ ॥ विश्वे॑ दे॒वा अ॒भि मा माऽव॑वृत्रन्पू॒षा स॒न्या सोमो॒ राध॑सा दे॒वस्स॑वि॒ता वसो॑र्वसु॒दावा॒ रास्वेय॑त्सो॒माऽऽभूयो॑ भर॒ मा पृ॒णन्पू॒र्त्या वि रा॑धि॒ माऽहमायु॑षा च॒न्द्रम॑सि॒ मम॒ भोगा॑य भव॒ वस्त्र॑मसि॒ मम॒ भोगा॑य भवो॒स्राऽसि॒ मम॒ भोगा॑य भव॒ हयो॑ऽसि॒ मम॒ भोगा॑य भव [7]
छागो॑ऽसि॒ मम॒ भोगा॑य भव मे॒षो॑ऽसि॒ मम॒ भोगा॑य भव वा॒यवे॑ त्वा॒ वरु॑णाय त्वा॒ निर्ऋ॑त्यै त्वा रु॒द्राय॑ त्वा॒ देवी॑रापो अपान्नपा॒द्य ऊ॒र्मिर्ह॑वि॒ष्य॑ इन्द्रि॒यावा॑न्म॒दिन्त॑म॒स्तव्ँवो॒ माऽव॑क्रमिष॒मच्छि॑न्न॒न्तन्तु॑म्पृथि॒व्या अनु॑ गेषम्भ॒द्राद॒भि श्रेय॒ᳶ प्रेहि॒ बृह॒स्पतिᳶ॑ पुरए॒ता ते॑ अ॒स्त्वथे॒मव॑ स्य॒ वर॒ आ पृ॑थि॒व्या आ॒रे शत्रू॑न्कृणुहि॒ सर्व॑वीर॒ एदम॑गन्म देव॒यज॑नम्पृथि॒व्या विश्वे॑ दे॒वा यदजु॑षन्त॒ पूर्व॑ ऋक्सा॒माभ्याय्ँ॒यजु॑षा स॒न्तर॑न्तो रा॒यस्पोषे॑ण॒ समि॒षा म॑देम ॥ [8]
इ॒यन्ते॑ शुक्र त॒नूरि॒दव्ँवर्च॒स्तया॒ सम्भ॑व॒ भ्राज॑ङ्गच्छ॒ जूर॑सि धृ॒ता मन॑सा॒ जुष्टा॒ विष्ण॑वे॒ तस्या॑स्ते स॒त्यस॑वसᳶ प्रस॒वे वा॒चो य॒न्त्रम॑शीय॒ स्वाहा॑ शु॒क्रम॑स्य॒मृत॑मसि वैश्वदे॒वँ ह॒विस्सूर्य॑स्य॒ चक्षु॒राऽरु॑हम॒ग्नेर॒क्ष्णᳵ क॒नीनि॑काय्ँ॒यदेत॑शेभि॒रीय॑से॒ भ्राज॑मानो विप॒श्चिता॒ चिद॑सि म॒नाऽसि॒ धीर॑सि॒ दक्षि॑णा [9]
अ॒सि॒ य॒ज्ञिया॑ऽसि क्ष॒त्रिया॒ऽस्यदि॑तिरस्युभ॒यत॑श्शीर्ष्णी॒ सा न॒स्सुप्रा॑ची॒ सुप्र॑तीची॒ सम्भ॑व मि॒त्रस्त्वा॑ प॒दि ब॑ध्नातु पू॒षाऽध्व॑नᳶ पा॒त्विन्द्रा॒याध्य॑क्षा॒यानु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒ताऽनु॒ भ्राता॒ सग॒र्भ्योऽनु॒ सखा॒ सयू॑थ्य॒स्सा दे॑वि दे॒वमच्छे॒हीन्द्रा॑य॒ सोमँ॑ रु॒द्रस्त्वाऽऽव॑र्तयतु मि॒त्रस्य॑ प॒था स्व॒स्ति सोम॑सखा॒ पुन॒रेहि॑ स॒ह र॒य्या ॥ [10]
वस्व्य॑सि रु॒द्राऽस्यदि॑तिरस्यादि॒त्याऽसि॑ शु॒क्राऽसि॑ च॒न्द्राऽसि॒ बृह॒स्पति॑स्त्वा सु॒म्ने र॑ण्वतु रु॒द्रो वसु॑भि॒रा चि॑केतु पृथि॒व्यास्त्वा॑ मू॒र्धन्ना जि॑घर्मि देव॒यज॑न॒ इडा॑याᳶ प॒दे घृ॒तव॑ति॒ स्वाहा॒ परि॑लिखितँ॒ रक्ष॒ᳶ परि॑लिखिता॒ अरा॑तय इ॒दम॒हँ रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ यो॑ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्म इ॒दम॑स्य ग्री॒वाः [11]
अपि॑ कृन्ताम्य॒स्मे राय॒स्त्वे राय॒स्तोते॒ राय॒स्सन्दे॑वि दे॒व्योर्वश्या॑ पश्यस्व॒ त्वष्टी॑मती ते सपेय सु॒रेता॒ रेतो॒ दधा॑ना वी॒रव्ँवि॑देय॒ तव॑ स॒न्दृशि॒ माऽहँ रा॒यस्पोषे॑ण॒ वि यो॑षम् ॥ [12]
अँ॒शुना॑ ते अँ॒शुᳶ पृ॑च्यता॒म्परु॑षा॒ परु॑र्ग॒न्धस्ते॒ काम॑मवतु॒ मदा॑य॒ रसो॒ अच्यु॑तो॒ऽमात्यो॑ऽसि शु॒क्रस्ते॒ ग्रहो॒ऽभि त्यन्दे॒वँ स॑वि॒तार॑मू॒ण्योः॑ क॒विक्र॑तु॒मर्चा॑मि स॒त्यस॑वसँ रत्न॒धाम॒भि प्रि॒यम्म॒तिमू॒र्ध्वा यस्या॒मति॒र्भा अदि॑द्युत॒त्सवी॑मनि॒ हिर॑ण्यपाणिरमिमीत सु॒क्रतु॑ᳵ कृ॒पा सुवः॑ । प्र॒जाभ्य॑स्त्वा प्रा॒णाय॑ त्वा व्या॒नाय॑ त्वा प्र॒जास्त्वमनु॒ प्राणि॑हि प्र॒जास्त्वामनु॒ प्राण॑न्तु ॥ [13]
सोम॑न्ते क्रीणा॒म्यूर्ज॑स्वन्त॒म्पय॑स्वन्तव्ँवी॒र्या॑वन्तमभिमाति॒षाहँ॑ शु॒क्रन्ते॑ शु॒क्रेण॑ क्रीणामि च॒न्द्रञ्च॒न्द्रेणा॒मृत॑म॒मृते॑न स॒म्यत्ते॒ गोर॒स्मे च॒न्द्राणि॒ तप॑सस्त॒नूर॑सि प्र॒जाप॑ते॒र्वर्ण॒स्तस्या॑स्ते सहस्रपो॒षम्पुष्य॑न्त्याश्चर॒मेण॑ प॒शुना॑ क्रीणाम्य॒स्मे ते॒ बन्धु॒र्मयि॑ ते॒ राय॑श्श्रयन्ताम॒स्मे ज्योति॑स्सोमविक्र॒यिणि॒ तमो॑ मि॒त्रो न॒ एहि॒ सुमि॑त्रधा॒ इन्द्र॑स्यो॒रु मा वि॑श॒ दक्षि॑णमु॒शन्नु॒शन्तँ॑ स्यो॒नस्स्यो॒नँ स्वान॒ भ्राजाङ्घा॑रे॒ बम्भा॑रे॒ हस्त॒ सुह॑स्त॒ कृशा॑नवे॒ते व॑स्सोम॒क्रय॑णा॒स्तान्र॑क्षध्व॒म्मा वो॑ दभन्न् ॥ [14]
उदायु॑षा स्वा॒युषोदोष॑धीनाँ॒ रसे॒नोत्प॒र्जन्य॑स्य॒ शुष्मे॒णोद॑स्थाम॒मृताँ॒ अनु॑ । उ॒र्व॑न्तरि॑क्ष॒मन्वि॒ह्यदि॑त्या॒स्सदो॒ऽस्यदि॑त्या॒स्सद॒ आसी॒दास्त॑भ्ना॒द्द्यामृ॑ष॒भो अ॒न्तरि॑क्ष॒ममि॑मीत वरि॒माण॑म्पृथि॒व्या आसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॒ वने॑षु॒ व्य॑न्तरि॑क्षन्ततान॒ वाज॒मर्व॑त्सु॒ पयो॑ अघ्नि॒यासु॑ हृ॒त्सु [15]
क्रतुव्ँ॒वरु॑णो वि॒क्ष्व॑ग्निन्दि॒वि सूर्य॑मदधा॒त्सोम॒मद्रा॒वुदु॒त्यञ्जा॒तवे॑दसन्दे॒वव्ँव॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्य॑म् ॥ उस्रा॒वेत॑न्धूर्षाहावन॒श्रू अवी॑रहणौ ब्रह्म॒चोद॑नौ॒ वरु॑णस्य॒ स्कम्भ॑नमसि॒ वरु॑णस्य स्कम्भ॒सर्ज॑नमसि॒ प्रत्य॑स्तो॒ वरु॑णस्य॒ पाशः॑ ॥ [16]
प्रच्य॑वस्व भुवस्पते॒ विश्वा॑न्य॒भि धामा॑नि॒ मा त्वा॑ परिप॒री वि॑द॒न्मा त्वा॑ परिप॒न्थिनो॑ विद॒न्मा त्वा॒ वृका॑ अघा॒यवो॒ मा ग॑न्ध॒र्वो वि॒श्वाव॑सु॒रा द॑घच्छ्ये॒नो भू॒त्वा परा॑ पत॒ यज॑मानस्य नो गृ॒हे दे॒वैस्सँ॑स्कृ॒तय्ँयज॑मानस्य स्व॒स्त्यय॑न्य॒स्यपि॒ पन्था॑मगस्महि स्वस्ति॒गाम॑ने॒हसय्ँ॒येन॒ विश्वा॒ᳶ परि॒ द्विषो॑ वृ॒णक्ति॑ वि॒न्दते॒ वसु॒ नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒तँ स॑पर्यत दूरे॒दृशे॑ दे॒वजा॑ताय के॒तवे॑ दि॒वस्पु॒त्राय॒ सूर्या॑य शँसत॒ वरु॑णस्य॒ स्कम्भ॑नमसि॒ वरु॑णस्य स्कम्भ॒सर्ज॑नम॒स्युन्मु॑क्तो॒ वरु॑णस्य॒ पाशः॑ ॥ [17]
अ॒ग्नेरा॑ति॒थ्यम॑सि॒ विष्ण॑वे त्वा॒ सोम॑स्याऽऽति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वाऽति॑थेराति॒थ्यम॑सि॒ विष्ण॑वे त्वा॒ऽग्नये॑ त्वा रायस्पोष॒दाव्न्ने॒ विष्ण॑वे त्वा श्ये॒नाय॑ त्वा सोम॒भृते॒ विष्ण॑वे त्वा॒ या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति॒ ता ते॒ विश्वा॑ परि॒भूर॑स्तु य॒ज्ञङ्ग॑य॒स्फानᳶ॑ प्र॒तर॑णस्सु॒वीरोऽवी॑रहा॒ प्र च॑रा सोम॒ दुर्या॒नदि॑त्या॒स्सदो॒ऽस्यदि॑त्या॒स्सद॒ आ [18]
सी॒द॒ वरु॑णोऽसि धृ॒तव्र॑तो वारु॒णम॑सि शय्ँ॒योर्दे॒वानाँ॑ स॒ख्यान्मा दे॒वाना॑म॒पस॑श्छित्स्म॒ह्याप॑तये त्वा गृह्णामि॒ परि॑पतये त्वा गृह्णामि॒ तनू॒नप्त्रे॑ त्वा गृह्णामि शाक्व॒राय॑ त्वा गृह्णामि॒ शक्म॒न्नोजि॑ष्ठाय त्वा गृह्णा॒म्यना॑धृष्टमस्यनाधृ॒ष्यन्दे॒वाना॒मोजो॑ऽभिशस्ति॒पा अ॑नभिशस्ते॒ऽन्यमनु॑ मे दी॒क्षान्दी॒क्षाप॑तिर्मन्यता॒मनु॒ तप॒स्तप॑स्पति॒रञ्ज॑सा स॒त्यमुप॑ गेषँ सुवि॒ते मा॑ धाः ॥ [19]
अँ॒शुरँ॑शुस्ते देव सो॒माऽऽप्या॑यता॒मिन्द्रा॑यैकधन॒विद॒ आ तुभ्य॒मिन्द्रᳶ॑ प्यायता॒मा त्वमिन्द्रा॑य प्याय॒स्वाऽऽप्या॑यय॒ सखी॑न्त्स॒न्या मे॒धया॑ स्व॒स्ति ते॑ देव सोम सु॒त्याम॑शी॒येष्टा॒ राय॒ᳶ प्रेषे भगा॑य॒र्तमृ॑तवा॒दिभ्यो॒ नमो॑ दि॒वे नमᳶ॑ पृथि॒व्या अग्ने॑ व्रतपते॒ त्वव्व्ँर॒ताना॑व्व्ँर॒तप॑तिरसि॒ या मम॑ त॒नूरे॒षा सा त्वयि॑ [20]
या तव॑ त॒नूरि॒यँ सा मयि॑ स॒ह नौ॑ व्रतपते व्र॒तिनो॑र्व्र॒तानि॒ या ते॑ अग्ने॒ रुद्रि॑या त॒नूस्तया॑ नᳶ पाहि॒ तस्या॑स्ते॒ स्वाहा॒ या ते॑ अग्नेऽयाश॒या र॑जाश॒या ह॑राश॒या त॒नूर्वर्षि॑ष्ठा गह्वरे॒ष्ठोग्रव्ँवचो॒ अपा॑वधीन्त्वे॒षव्ँवचो॒ अपा॑वधीँ॒ स्वाहा॑ ॥ [21]
वि॒त्ताय॑नी मेऽसि ति॒क्ताय॑नी मे॒ऽस्यव॑तान्मा नाथि॒तमव॑तान्मा व्यथि॒तव्ँवि॒देर॒ग्निर्नभो॒ नामाग्ने॑ अङ्गिरो॒ यो॑ऽस्याम्पृ॑थि॒व्यामस्यायु॑षा॒ नाम्नेहि॒ यत्तेऽना॑धृष्ट॒न्नाम॑ य॒ज्ञिय॒न्तेन॒ त्वाऽऽद॒धेऽग्ने॑ अङ्गिरो॒ यो द्वि॒तीय॑स्यान्तृ॒तीय॑स्याम्पृथि॒व्यामस्यायु॑षा॒ नाम्नेहि॒ यत्तेऽना॑धृष्ट॒न्नाम॑ [22]
य॒ज्ञिय॒न्तेन॒ त्वाऽऽद॑धे सिँ॒हीर॑सि महि॒षीर॑स्यु॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिᳶ प्रथतान्ध्रु॒वाऽसि॑ दे॒वेभ्य॑श्शुन्धस्व दे॒वेभ्य॑श्शुम्भस्वेन्द्रघो॒षस्त्वा॒ वसु॑भिᳶ पु॒रस्ता॑त्पातु॒ मनो॑जवास्त्वा पि॒तृभि॑र्दक्षिण॒तᳶ पा॑तु॒ प्रचे॑तास्त्वा रु॒द्रैᳶ प॒श्वात्पा॑तु वि॒श्वक॑र्मा त्वाऽऽदि॒त्यैरु॑त्तर॒तᳶ पा॑तु सिँ॒हीर॑सि सपत्नसा॒ही स्वाहा॑ सिँ॒हीर॑सि सुप्रजा॒वनि॒स्स्वाहा॑ सिँ॒हीः [23]
अ॒सि॒ रा॒य॒स्पो॒ष॒वनि॒स्स्वाहा॑ सिँ॒हीर॑स्यादित्य॒वनि॒स्स्वाहा॑ सिँ॒हीर॒स्या व॑ह दे॒वान्दे॑वय॒ते यज॑मानाय॒ स्वाहा॑ भू॒तेभ्य॑स्त्वा वि॒श्वायु॑रसि पृथि॒वीन्दृँ॑ह ध्रुव॒क्षिद॑स्य॒न्तरि॑क्षन्दृँहाच्युत॒क्षिद॑सि॒ दिव॑न्दृँहा॒ग्नेर्भस्मा॑स्य॒ग्नेᳶ पुरी॑षमसि ॥ [24]
यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ । वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुᳶ परि॑ष्टुतिः ॥ सु॒वाग्दे॑व॒ दुर्याँ॒ आ व॑द देव॒श्रुतौ॑ दे॒वेष्वा घो॑षेथा॒मा नो॑ वी॒रो जा॑यताङ्कर्म॒ण्यो॑ यँ सर्वे॑ऽनु॒जीवा॑म॒ यो ब॑हू॒नामस॑द्व॒शी । इ॒दव्ँविष्णु॒र्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दम् । समू॑ढमस्य [25]
पाँ॒सु॒र इरा॑वती धेनु॒मती॒ हि भू॒तँ सू॑यव॒सिनी॒ मन॑वे यश॒स्ये॑ । व्य॑स्कभ्ना॒द्रोद॑सी॒ विष्णु॑रे॒ते दा॒धार॑ पृथि॒वीम॒भितो॑ म॒यूखैः॑ ॥ प्राची॒ प्रेत॑मध्व॒रङ्क॒ल्पय॑न्ती ऊ॒र्ध्वय्ँ य॒ज्ञन्न॑यत॒म्मा जी॑ह्वरत॒मत्र॑ रमेथाव्ँ॒वर्ष्म॑न्पृथि॒व्या दि॒वो वा॑ विष्णवु॒त वा॑ पृथि॒व्या म॒हो वा॑ विष्णवु॒त वा॒ऽन्तरि॑क्षा॒द्धस्तौ॑ पृणस्व ब॒हुभि॑र्वस॒व्यै॑रा प्र य॑च्छ [26]
दक्षि॑णा॒दोत स॒व्यात् । विष्णो॒र्नुकव्ँ॑वी॒र्या॑णि॒ प्र वो॑चय्ँ॒यᳶ पार्थि॑वानि विम॒मे रजाँ॑सि॒ यो अस्क॑भाय॒दुत्त॑रँ स॒धस्थव्ँ॑विचकमा॒णस्त्रे॒धोरु॑गा॒यो विष्णो॑ र॒राट॑मसि॒ विष्णोः॑ पृ॒ष्ठम॑सि॒ विष्णो॒श्श्ञप्त्रे॑ स्थो॒ विष्णो॒स्स्यूर॑सि॒ विष्णो॑र्ध्रु॒वम॑सि वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा ॥ [27]
कृ॒णु॒ष्व पाज॒ᳶ प्रसि॑ति॒न्न पृ॒थ्वीय्ँया॒हि राजे॒वाम॑वाँ॒ इभे॑न । तृ॒ष्वीमनु॒ प्रसि॑तिन्द्रूणा॒नोऽस्ता॑सि॒ विध्य॑ र॒क्षस॒स्तपि॑ष्ठैः ॥ तव॑ भ्र॒मास॑ आशु॒या प॑त॒न्त्यनु॑ स्पृश धृष॒ता शोशु॑चानः । तपूँ॑ष्यग्ने जु॒ह्वा॑ पत॒ङ्गानस॑न्दितो॒ वि सृ॑ज॒ विष्व॑गु॒ल्काः ॥ प्रति॒ स्पशो॒ वि सृ॑ज॒ तूर्णि॑तमो॒ भवा॑ पा॒युर्वि॒शो अ॒स्या अद॑ब्धः । यो नो॑ दू॒रे अ॒घशँ॑सः [28]
यो अन्त्यग्ने॒ माकि॑ष्टे॒ व्यथि॒रा द॑धर्षीत् । उद॑ग्ने तिष्ठ॒ प्रत्याऽऽत॑नुष्व॒ न्य॑मित्राँ॑ ओषतात्तिग्महेते । यो नो॒ अरा॑तिँ समिधान च॒क्रे नी॒चा तन्ध॑क्ष्यत॒सन्न शुष्क॑म् ॥ ऊ॒र्ध्वो भ॑व॒ प्रति॑ वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्या॑न्यग्ने । अव॑ स्थि॒रा त॑नुहि यातु॒जूना॑ञ्जा॒मिमजा॑मि॒म्प्र मृ॑णीहि॒ शत्रू॑न् ॥ स ते॑ [29]
जा॒ना॒ति॒ सु॒म॒तिय्ँय॑विष्ठ॒ य ईव॑ते॒ ब्रह्म॑णे गा॒तुमैर॑त् । विश्वा॑न्यस्मै सु॒दिना॑नि रा॒यो द्यु॒म्नान्य॒र्यो वि दुरो॑ अ॒भि द्यौ॑त् ॥ सेद॑ग्ने अस्तु सु॒भग॑स्सु॒दानु॒र्यस्त्वा॒ नित्ये॑न ह॒विषा॒ य उ॒क्थैः । पिप्री॑षति॒ स्व आयु॑षि दुरो॒णे विश्वेद॑स्मै सु॒दिना॒ साऽस॑दि॒ष्टिः ॥ अर्चा॑मि ते सुम॒तिङ्घोष्य॒र्वाक्सन्ते॑ वा॒वाता॑ जरताम् [30]
इ॒यङ्गीः । स्वश्वा॑स्त्वा सु॒रथा॑ मर्जयेमा॒स्मे क्ष॒त्राणि॑ धारये॒रनु॒ द्यून् ॥ इ॒ह त्वा॒ भूर्या च॑रे॒दुप॒ त्मन्दोषा॑वस्तर्दीदि॒वाँस॒मनु॒ द्यून् । कीड॑न्तस्त्वा सु॒मन॑सस्सपेमा॒भि द्यु॒म्ना त॑स्थि॒वाँसो॒ जना॑नाम् ॥ यस्त्वा॒ स्वश्व॑स्सुहिर॒ण्यो अ॑ग्न उप॒याति॒ वसु॑मता॒ रथे॑न । तस्य॑ त्रा॒ता भ॑वसि॒ तस्य॒ सखा॒ यस्त॑ आति॒थ्यमा॑नु॒षग्जुजो॑षत् ॥ म॒हो रु॑जामि [31]
ब॒न्धुता॒ वचो॑भि॒स्तन्मा॑ पि॒तुर्गोत॑मा॒दन्वि॑याय ॥ त्वन्नो॑ अ॒स्य वच॑सश्चिकिद्धि॒ होत॑र्यविष्ठ सुक्रतो॒ दमू॑नाः ॥ अस्व॑प्नजस्त॒रण॑यस्सु॒शेवा॒ अत॑न्द्रासोऽवृ॒का अश्र॑मिष्ठाः । ते पा॒यव॑स्स॒ध्रिय॑ञ्चो निष॒द्याऽग्ने॒ तव॑ नᳶ पान्त्वमूर ॥ ये पा॒यवो॑ मामते॒यन्ते॑ अग्ने॒ पश्य॑न्तो अ॒न्धन्दु॑रि॒तादर॑क्षन् । र॒रक्ष॒ तान्त्सु॒कृतो॑ वि॒श्ववे॑दा॒ दिप्स॑न्त॒ इद्रि॒पवो॒ ना ह॑ [32]
दे॒भुः॒ ॥ त्वया॑ व॒यँ स॑ध॒न्य॑स्त्वोता॒स्तव॒ प्रणी॑त्यश्याम॒ वाजा॑न् । उ॒भा शँसा॑ सूदय सत्यतातेऽनुष्ठु॒या कृ॑णुह्यह्रयाण ॥ अ॒या ते॑ अग्ने स॒मिधा॑ विधेम॒ प्रति॒ स्तोमँ॑ श॒स्यमा॑नङ्गृभाय । दहा॒शसो॑ र॒क्षसᳶ॑ पा॒ह्य॑स्मान्द्रु॒हो नि॒दो मि॑त्रमहो अव॒द्यात् ॥ र॒क्षो॒हणव्ँ॑वा॒जिन॒माऽऽजि॑घर्मि मि॒त्रम्प्रथि॑ष्ठ॒मुप॑ यामि॒ शर्म॑ । शिशा॑नो अ॒ग्निᳵ क्रतु॑भि॒स्समि॑द्ध॒स्स नो॒ दिवा॑ [33]
स रि॒षᳶ पा॑तु॒ नक्त॑म् ॥ वि ज्योति॑षा बृह॒ता भा॑त्य॒ग्निरा॒विर्विश्वा॑नि कृणुते महि॒त्वा । प्रादे॑वीर्मा॒यास्स॑हते दु॒रेवा॒श्शिशी॑ते॒ शृङ्गे॒ रक्ष॑से वि॒निक्षे॑ ॥ उ॒त स्वा॒नासो॑ दि॒विष॑न्त्व॒ग्नेस्ति॒ग्मायु॑धा॒ रक्ष॑से॒ हन्त॒वा उ॑ । मदे॑ चिदस्य॒ प्ररु॑जन्ति॒ भामा॒ न व॑रन्ते परि॒बाधो॒ अदे॑वीः ॥ [34]