अत्र भट्टभास्करभाष्योक्त-विशेषांशसङ्ग्रहः अस्ति ।
- पदपाठस्य अनित्यत्वविषये १-काण्डे ५ प्रपाठके इदमुच्यते । `त्वसमसीमनेमेत्यनुच्चानि’ इति त्वशब्दस्यानुदात्तत्वात् तस्याख्यातेनैकपद्यं मन्यन्ते पदकाराः । इति । तेन पदकारा इति पदेन पदपाठस्यानित्यत्वं सूचितं भवति ।
- संहिताभागे क्वचिद् यजूंषि, क्वचिद् ऋचश्च भवन्ति । तत्र ‘पुरस्ताद् उपयामा यजुषा गृह्यन्ते’ इति सामान्यनियमः । तत्रापवादः १-४प्रपाठके ३ अनुवाके भट्टभास्कराचार्येण प्रतिपादितः ।
- १-७ प्रपाठके उक्तं च प्रातिशाख्ये इति प्रातिशाख्योदाहरणं कृतम् ।
अभिप्रायान्तरोल्लेखः
- “अत्रेदमुक्तमाचार्येण” - (उक्तमाचार्येण २-१-९) इति १-७-१ आदिमभागे प्रथममन्त्रव्याख्याने प्रयुक्तम् । कोयमाचार्यः ??
- भाष्ये ५ प्रपाठकेे केचित्, अन्ये इति पक्षद्वयम् उल्लिखितम् । अस्य विवरणं न लब्धम् । केचित्कारपक्षः कः, अन्य इति कस्य वोल्लेख इत्यादि विचारणीयम् ।
- क्वचिद् अन्ये एके इति उल्लिखितम् ।यथा “अत्र वृत्तिद्वययोगात्संशये सङ्ख्यया त्रिष्टुबित्येके । ‘आद्यात्सन्देहे । देवतादिभ्यश्च’ इति जगतीत्यन्ये ॥” इति । ब्राह्मण्यां क्षत्रियेण जातस्येत्येके ।
- क्वचिद् केचित्कारपक्षे अस्वारस्यं सूचितम् । यथा - १-७प्रपाठके “केचिदाहुः - ‘आश्रावयेति चतुरक्षरमस्तु श्रौषडिति चतुरक्षरं यजेति द्व्यक्षरं ये यजामह इति पञ्चाक्षरं द्व्यक्षरो वषट्कार एष वै सप्तदशः प्रजापतिः’ इत्यस्यैकाक्षरादारभ्योच्यन्ते, इति । तेषां बहुव्रीहिस्वरो नोपपद्यते ।” इति ।
शाखान्तरपाठोदाहरणम्
- २का.-५प्र.-९ -अनु.
- “आ व॑ह दे॒वान्दे॑वय॒ते यज॑माना॒येति॑ , भ्रातृ॑व्यमस्मै जनयेत् । आ व॑ह दे॒वान्यज॑माना॒येत्या॑ह । यज॑मानमे॒वैतेन॑ वर्धयति ।”
- अत्र टीका -
6यद्ब्रूयादिति ॥ आवह देवान् यजमानाय इत्यन्ता निवित् । शाखान्तरेषु तु 'आवह देवान् देवयते यजमानाय' इति पाठः ।
- २का.-५प्र.-९ -अनु.
- सा॒धु ते॑ यजमान दे॒वतेत्या॑ह । आ॒शिष॑मे॒वैतामा शा॑स्ते । यद्ब्रू॒याद् यो॑ऽग्निँ होता॑र॒मवृ॑था॒ इति॑ ।
- अत्र टीका- स्मः स्याम वयं होतारः सर्वदा तवेति मन्त्रार्थं दर्शयति - आशिषमिति ॥ हे यजमान इज्यमाना देवता तव साधयित्री अभिमतानां इत्येतामाशिषमनेनाशास्ते । भवत्येव च तत्फलमिति । अत्र ‘साधु ते यजमान देवता योऽग्निं होतारमवृथाः’ इत्यध्वर्युप्रवरानुवाकेन शाखान्तरीयपाठः ।
शाखान्तरपाठनिराकरणम्
संहितायामिति निर्देशः (२-५-९) यद्ब्रू॒यात्सू॑पावसा॒ना च॑ स्वध्यवसा॒ना चेति॑ प्र॒मायु॑को॒ यज॑मानस्स्याद्य॒दा हि प्र॒मीय॒तेऽथे॒मामु॑पाव॒स्यति॑ सूपचर॒णा च॑ स्वधिचर॒णा चेत्ये॒व ब्रू॑या॒द्
- यदा हीत्यादि ॥ मृत्युभिः पृथिवीमुपेत्यावस्यतीति । एवमिदं शाखान्तरीयं पाठं निन्दित्वा पाठान्तरं दर्शयति ।