२० मरणप्राक्कालीनाश्वोपचारः

७ बृहती ८ उपरिष्ठाद् बृहती, अनुष्टुप् वा ९-११ गायत्री विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

भूर्भुव॒स्सुव॒र्वस॑वस्त्वाञ्जन्तु गाय॒त्रेण॒ छन्द॑सा रु॒द्रास्त्वा॑ञ्जन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सादि॒त्यास्त्वा॑ञ्जन्तु॒ जाग॑तेन॒ छन्द॑सा॒

विश्वास-प्रस्तुतिः

भूर् भुव॒स् सुवः॑ । वस॑वस् त्वाञ् जन्तु गाय॒त्रेण॒ छन्द॑सा , रु॒द्रास् त्वा॑ञ् जन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सा,
ऽऽदि॒त्यास् त्वा॑ञ् जन्तु॒ जाग॑तेन॒ छन्द॑सा॒ ।

मूलम्

भूर् भुव॒स् सुवः॑ । वस॑वस् त्वाञ् जन्तु गाय॒त्रेण॒ छन्द॑सा , रु॒द्रास् त्वा॑ञ् जन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सा,
ऽऽदि॒त्यास् त्वा॑ञ् जन्तु॒ जाग॑तेन॒ छन्द॑सा॒ ।

भट्टभास्कर-टीका

1पत्न्योश्वमञ्जन्ति । प्राक्क्रोडात् महिषी ‘वसवस्त्वाञ्जन्तु गायत्रेण छन्दसा’ इति भूरिति च । अथ क्रोडादारभ्या नाभेर्वावाता ‘रुद्रास्त्वाञ्जन्तु त्रैष्टुभेन छन्दसा’ इति भुव इति च । तथा नाभेरारभ्य आपुच्छात् परिवृक्तिः ‘आदित्यास्त्वाऽञ्जन्तु जागतेन छन्दसा’ इति सुवरिति च । गता मन्त्राः ॥

मूलम् (संयुक्तम्)

यद्वातो॑ अ॒पो अग॑म॒दिन्द्र॑स्य त॒नुव॑म्प्रि॒याम् । ए॒तँ स्तो॑तरे॒तेन॑ प॒था पुन॒रश्व॒मा व॑र्तयासि नः ।

विश्वास-प्रस्तुतिः

यद् वातो॑ अ॒पो अग॑म॒द् इन्द्र॑स्य त॒नुव॑म् प्रि॒याम् ।
ए॒तँ स्तो॑तर् ए॒तेन॑ प॒था पुन॒रश्व॒म् आव॑र्तयासि नः ।

मूलम्

यद् वातो॑ अ॒पो अग॑म॒द् इन्द्र॑स्य त॒नुव॑म् प्रि॒याम् ।
ए॒तँ स्तो॑तर् ए॒तेन॑ प॒था पुन॒रश्व॒म् आव॑र्तयासि नः ।

भट्टभास्कर-टीका

2अथ शालां नयन्ति - यद्वात इति ॥ पथ्या बृहतीयं, तृतीयस्य पादस्य द्वादशाक्षरत्वात् । पुनरिति तस्यान्तः । हे स्तोतः शव्दयितः वायो यत् येन पथा । ’ सुपां सुलुक् ’ इति लुक् । वातः प्राणाख्या तव वृत्तिः अपः अगमत् अगमयत् । ’ बहुलमन्यत्रापि’ इति णिलुक् । ’ छन्दस्युभयथा ’ इत्यार्धधातुकत्वात् शपः । इन्द्रस्य प्रियां तनुवं तनुम् । ’ तन्वादीनां छन्दसि ’ इत्युवङ् । एतेन पथा एतं अश्वे पुनरस्मान् प्रत्यावर्तयासि । आवर्तयतेर्लेट्याडागमः । (अस्माकं वा) ॥

मूलम् (संयुक्तम्)

लाजी (३) ञ्छाची (३) न्यशो॑ म॒मा (4)म् । य॒व्यायै॑ ग॒व्याया॑ ए॒तद्दे॑वा॒ अन्न॑मत्तै॒तदन्न॑मद्धि प्रजापते ।

विश्वास-प्रस्तुतिः

लाजीञ् (३), छाचीन् (३) , यशो॑ म॒माम् (4)।
य॒व्यायै॑ ग॒व्याया॑ ए॒तद् दे॑वा॒ अन्न॑म् अत्त + ऐ॒तद् अन्न॑म् अद्धि प्रजापते ।

मूलम्

लाजीञ् (३), छाचीन् (३) , यशो॑ म॒माम् (4)।
य॒व्यायै॑ ग॒व्याया॑ ए॒तद् दे॑वा॒ अन्न॑म् अत्त + ऐ॒तद् अन्न॑म् अद्धि प्रजापते ।

भट्टभास्कर-टीका

3अश्वाय मधुमिश्रात् लाजान् प्रकिरति - लाजीनित्यनुष्टुभा ॥ हे लाजवन् लाजिन् हे शाचदन् शाचिन् । यशो ममामित्यस्य मम यशोहेतोः । ‘परमपि छन्दसि’ इति षष्ठ्यन्तस्य पूर्वाङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्य स्वरः । त्रयाणामपि पूर्वपूर्वाविद्यमानवद्भावेन भावितं आमन्त्रिताद्युदात्तत्वम् । ‘दूराद्धूते च’ इत्युदात्तः प्लुतः, तस्यासिद्धत्वादुत्तरस्य वर्जमानस्वराभावः । अन्त्यस्य ‘यणोऽप्रतिगृह्यस्य’ इति सानुनासिकः प्लुतः । यव्यायै गव्यायै च यूयं नो भवत हे लाजा हे सक्तवः । यवानां समूहो यव्या । ‘पाशादिभ्यो यः’ । गवां समूहो गव्या ‘खलगोरथात्’ इति यः । यदन्तश्च स्वभावतः स्त्रियां वर्तते । एतच्चान्नमिव इममश्वं अनुप्रविश्य हे देवाः अत्त । प्रजापते त्वमपि एतदन्नमद्धि । प्राधान्यात् पुनरुपादानं प्रजापतेः । यथा - ब्राह्मणा आयाताः वसिष्ठोप्यायात इति ॥

मूलम् (संयुक्तम्)

यु॒ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षञ्चर॑न्त॒म्परि॑ त॒स्थुषः॑ । रोच॑न्ते रोच॒ना दि॒वि ।

विश्वास-प्रस्तुतिः

यु॒ञ्जन्ति॑ ब्र॒ध्नम् अ॑रु॒षञ् चर॑न्त॒म् परि॑ त॒स्थुषः॑ । रोच॑न्ते रोच॒ना दि॒वि ।

मूलम्

यु॒ञ्जन्ति॑ ब्र॒ध्नम् अ॑रु॒षञ् चर॑न्त॒म् परि॑ त॒स्थुषः॑ । रोच॑न्ते रोच॒ना दि॒वि ।

भट्टभास्कर-टीका

4अश्वं रथे युनक्ति - युऽञ्जन्ति ब्रध्रमिति ॥ एतास्तिस्रो गायत्र्यः । युञ्जन्ति युञ्जन्तु ब्रध्नं परिबृढमश्वं अरुषं अरोषणं च - रन्तं साधुचरणं परितस्थुषः परितस्थिवांसः । विभक्तिव्यत्ययः । (व्यष्टिं चिते) रोचन्ते अस्य पृष्ठे रोचनानि रोचमानानि रश्मयः दिवि । ‘अनुदात्तेतश्च हलादेः’ इति रोचतेर्युच् । ‘शेश्छन्दसि’ इति शेर्लोपः ॥

मूलम् (संयुक्तम्)

यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे॑ । शोणा॑ धृ॒ष्णू नृ॒वाह॑सा ।

विश्वास-प्रस्तुतिः

यु॒ञ्जन्त्य् अ॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे॑ । शोणा॑ धृ॒ष्णू नृ॒वाह॑सा ।

मूलम्

यु॒ञ्जन्त्य् अ॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे॑ । शोणा॑ धृ॒ष्णू नृ॒वाह॑सा ।

भट्टभास्कर-टीका

5इतरयोः पृष्ठे संमृज्येते - युञ्जन्ति युञ्जन्तु अस्य काम्या काम्यौ इष्टौ । कामयतेरचो यत्, ‘सुपां सुलुक्’ इत्याकारः । हरी अश्वौ विपक्षसा विपक्षसौ उभयोः पक्षयोः स्थितौ । पूर्ववदाकारः । रथे शोणा शोणवर्णौ आलोहितौ धृष्णू धर्षणसमर्थौ शत्रूणां नृवाहसा नॄन् वहन्तीति नृवाहसौ मनुष्यवाहौ । ‘वहिहाधाञ्भ्यश्छन्दसि’ इत्यसुन् । ‘कारकपूर्वात्’ इति, णिदिति च तत्रानुवर्तते । पूर्ववदाकारः ॥

मूलम् (संयुक्तम्)

के॒तुङ्कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑ । समु॒षद्भि॑रजायथाः ॥ [51]

विश्वास-प्रस्तुतिः

के॒तुङ् कृ॒ण्वन्न् अ॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑ । समु॒षद्भि॑र् अजायथाः ॥ [51]

मूलम्

के॒तुङ् कृ॒ण्वन्न् अ॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑ । समु॒षद्भि॑र् अजायथाः ॥ [51]

भट्टभास्कर-टीका

6ध्वजं प्रतिमुञ्चति - केतुं ध्वजं कृण्वन् कुर्वन्तु । कृवि हिंसाकरणयोः, लेटि ‘धिन्विकृण्व्योरच्’ इत्युप्रत्ययः, छान्दसो निघाताभावः । अकेतवे असत्यस्मिन्नज्ञापकाय पेशः रूपं रूपवृन्दं हे मर्याः मनुष्याः । ‘छन्दसि निष्टर्क्य’ इत्यत्र निपात्यते । अपेशसे असत्यस्मिन् रूपरहिताय । ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । तथा हि सति त्वं उषद्भिः ज्वलद्भिरिव समजायथाः ज्वालावानिव संजायस्व । जानातेर्वा छान्दसो जभावः । ज्ञापकेन हेतुना ज्वालावानिव सर्वत्र ज्ञायस्व । ‘दृक् स्ववस्स्वतवसाम्’ इत्यादिना उषसः तत्वम् ॥

इति सप्तमे चतुर्थे विंशोनुवाकः ॥