१-४ त्रिष्टुप् विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
म॒यो॒भूर्वातो॑ अ॒भि वा॑तू॒स्रा ऊर्ज॑स्वती॒रोष॑धी॒रा रि॑शन्ताम् । पीव॑स्वतीर्जी॒वध॑न्याᳶ पिबन्त्वव॒साय॑ प॒द्वते॑ रुद्र मृड ।
विश्वास-प्रस्तुतिः
म॒यो॒भूर्वातो॑ अ॒भि वा॑तु + उ॒स्रा ऊर्ज॑स्वती॒र् ओष॑धी॒र् आरि॑शन्ताम् ।
पीव॑स्वतीर् जी॒वध॑न्याᳶ पिबन्त्व् अव॒साय॑ प॒द्वते॑ रुद्र मृड ।
मूलम्
म॒यो॒भूर्वातो॑ अ॒भि वा॑तु + उ॒स्रा ऊर्ज॑स्वती॒र् ओष॑धी॒र् आरि॑शन्ताम् ।
पीव॑स्वतीर् जी॒वध॑न्याᳶ पिबन्त्व् अव॒साय॑ प॒द्वते॑ रुद्र मृड ।
भट्टभास्कर-टीका
1तत्रैव दश गव्यानि जुहोति - मयोभूरित्यादिना ॥ त्रैष्टुभः सर्वोनुवाकः । इह धृतिरित्यादि यजुः । ‘महीमूषु’ ‘सुत्रामाणं'31 इति द्वयोस्त्रिष्टुभोः प्रतीकग्रहणम् । तत्र प्रथमं - मयोभूरित्यादि । हे रुद्र त्वत्प्रसादान्मयोभूः सुखस्य भावयिता । ‘बडुलमन्यत्रापिं’ इति णिलुक् । ईदृशो वातः उस्राः गाः अभिवातु आभिमुख्येन सेवताम् । ऊर्जस्वतीः रसवतीः ओषधीस्तृणादीनि आरिशन्तां आस्वादयन्तु । रिशतिरभ्यवहारे । किं च - पीवस्वतीः पीवस्वत्यः स्थौल्यवत्यः अकृशाः । पीव स्थौल्ये, असुनि ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । जीवधन्याः जीववत्साः क्षीरादिधनमर्हन्तीति धन्या वत्साः ईदृश्यस्सत्यः पिबन्तु । किं स्वादूदकमिति सामर्थ्याद्गम्यते । यद्वा - याभिः जीवधन्या भवन्ति ता अपः पिबन्तु । किञ्च - अवसाय अवितव्याय । अवतेरौणादिकोऽसच्प्रत्ययः । पद्वते पादवते सञ्जातगमनसामर्थ्याय अभीताय मृड सुखय । जातावेकवचनम्, ‘क्रियाग्रहणं कर्तव्यम्’ इति संप्रदानत्वम् । देवस्य पशूनां पतित्वात् तमेवासां रक्षणं प्रार्थयते ॥
मूलम् (संयुक्तम्)
यास्सरू॑पा॒ विरू॑पा॒ एक॑रूपा॒ यासा॑म॒ग्निरिष्ट्या॒ नामा॑नि॒ वेद॑ । या अङ्गि॑रस॒स्तप॑से॒ह च॒क्रुस्ताभ्यᳶ॑ पर्जन्य॒ महि॒ शर्म॑ यच्छ ।
विश्वास-प्रस्तुतिः
यास् सरू॑पा॒ विरू॑पा॒ एक॑रूपा॒ ,
यासा॑म् अ॒ग्निरिष्ट्या॒ नामा॑नि॒ वेद॑ ।
या अङ्गि॑रस॒स् तप॑से॒ह च॒क्रुस् ,
ताभ्य॑ᳶ पर्जन्य॒ महि॒ शर्म॑ यच्छ ।
मूलम्
यास् सरू॑पा॒ विरू॑पा॒ एक॑रूपा॒ ,
यासा॑म् अ॒ग्निरिष्ट्या॒ नामा॑नि॒ वेद॑ ।
या अङ्गि॑रस॒स् तप॑से॒ह च॒क्रुस् ,
ताभ्य॑ᳶ पर्जन्य॒ महि॒ शर्म॑ यच्छ ।
भट्टभास्कर-टीका
2अथ द्वितीया - यास्सरूपा इति ॥ सरूपाः समानसंस्थानाः विरूपाः विविधशुक्लादिवर्णाः एकरूपाः एकजात्यवच्छिन्ना यासां नामानि नमनप्रकारान् यागं प्रति साधनभावात् आज्यपयोदधिलक्षणान् अग्निरिष्ट्या यागेन वेद जानाति यद्यस्याः विहितं तत्तदेवान्या देवता जानाति अग्निस्तु सर्वाणीति । यां च अङ्गिरसः तपसा इत्थंभूताः तपस्विनश्चक्रुः (कतरव्यत्ययः) । यद्वा - तपसा चक्रुः तपसा शोधितवत्यः । इह ताभ्यः गोभ्यः हे पर्जन्य महि महत् शर्म सुखं यच्छ देहि ॥
मूलम् (संयुक्तम्)
या दे॒वेषु॑ त॒नुव॒मैर॑यन्त॒ यासाँ॒ सोमो॒ विश्वा॑ रू॒पाणि॒ वेद॑ । ता अ॒स्मभ्य॒म्पय॑सा॒ पिन्व॑मानाᳶ प्र॒जाव॑तीरिन्द्र [43]
गो॒ष्ठे रि॑रीहि ।
विश्वास-प्रस्तुतिः
या दे॒वेषु॑ त॒नुव॒म् ऐर॑यन्त॒ , यासाँ॒ सोमो॒ विश्वा॑ रू॒पाणि॒ वेद॑ ।
ता अ॒स्मभ्य॒म् पय॑सा॒ पिन्व॑मानाᳶ प्र॒जाव॑तीः + इ॒न्द्र॒ गो॒ष्ठे रि॑रीहि ।[43]
मूलम्
या दे॒वेषु॑ त॒नुव॒म् ऐर॑यन्त॒ , यासाँ॒ सोमो॒ विश्वा॑ रू॒पाणि॒ वेद॑ ।
ता अ॒स्मभ्य॒म् पय॑सा॒ पिन्व॑मानाᳶ प्र॒जाव॑तीः + इ॒न्द्र॒ गो॒ष्ठे रि॑रीहि ।[43]
भट्टभास्कर-टीका
3अथ तृतीया - या देवेष्विति ॥ या देवेषु देवनिमित्तम् । निमित्तात्सप्तमी । तनुवं आत्मशरीरं ऐरयन्त गमितवत्यः देवयागार्थमेव दत्तवत्यः । यासां रूपाणि दध्यादिलक्षणानि विश्वान्यपि सोमो वेद जानाति ताः पयसा सर्वाः प्रजाः पिन्वमानाः तर्पयन्ति । पिवि प्रीणने । प्रजावतीः शोभनपुत्रपौत्रादिमतीः हे इन्द्र गोष्ठे व्रजे अस्मभ्यं अस्मदर्थं रिरीहि समागमय । रि गतौ । व्यत्ययेन परस्मैपदम्, शपश्श्लुः ॥
मूलम् (संयुक्तम्)
प्र॒जाप॑ति॒र्मह्य॑मे॒ता ररा॑णो॒ विश्वै॑र्दे॒वैᳶ पि॒तृभि॑स्सव्ँविदा॒नः । शि॒वास्स॒तीरुप॑ नो गो॒ष्ठमाक॒स्तासाव्ँ॑व॒यम्प्र॒जया॒ सँ स॑देम ।
विश्वास-प्रस्तुतिः
प्र॒जाप॑ति॒र् मह्य॑मे॒ता ररा॑णो॒ , विश्वै॑र् दे॒वैᳶ पि॒तृभि॑स् सव्ँविदा॒नः ।
शि॒वास् स॒तीर् उप॑ नो गो॒ष्ठम् आक॒स् तासाव्ँ॑ व॒यम् प्र॒जया॒ सँ स॑देम ।
मूलम्
प्र॒जाप॑ति॒र् मह्य॑मे॒ता ररा॑णो॒ , विश्वै॑र् दे॒वैᳶ पि॒तृभि॑स् सव्ँविदा॒नः ।
शि॒वास् स॒तीर् उप॑ नो गो॒ष्ठम् आक॒स् तासाव्ँ॑ व॒यम् प्र॒जया॒ सँ स॑देम ।
भट्टभास्कर-टीका
4चतुर्थी - प्रजापतिरिति ॥ मह्यं मदर्थं प्रजापतिरेता गाः रराणः ददत् उत्पादयन् मह्यं च ददत् । रातेर्व्यत्यएनात्मनेपदम्, शपश्श्लुः, ‘अभ्यस्तानामादिः’ इत्याद्युदात्तत्वम् । विश्वैः दैवैः पितृभिश्च संविदानः ऐकमत्यं गतः । ‘समोगमृच्छि’ इत्यात्मनेपदम् । शिवाः कल्याणस्वभावाः सतीः सततं भवतीः नः अस्माकं सम्बन्धिनं गोष्ठं गवां स्थानं उपाकः उपाकरोतु उपागमयतु । करोतु वा । करोतेः छान्दसो लुङ्, ‘मन्त्रे घस’ इति च्लेर्लुक् । लिङि वा शपो लुक् । वयं च तासां गवां प्रजया पुत्रर्पोत्रादिकया संसदेम सङ्गसीमहि । सीदतेराशिषि लिङि ‘लिङ्याशिष्यङ्’ इत्यङ्, ‘छन्दस्युभयथा’ इति सार्वधातुकत्वात् सलोपः ॥
मूलम् (संयुक्तम्)
इ॒ह धृति॒स्स्वाहे॒ह विधृ॑ति॒स्स्वाहे॒ह रन्ति॒स्स्वाहे॒ह रम॑ति॒स्स्वाहा॑
विश्वास-प्रस्तुतिः
इ॒ह धृति॒स् स्वाहा॑ । इ॒ह विधृ॑ति॒स् स्वाहा॑ ।
इ॒ह रन्ति॒स् स्वाहा॑ । इ॒ह रम॑ति॒स् स्वाहा॑ ।
मूलम्
इ॒ह धृति॒स् स्वाहा॑ । इ॒ह विधृ॑ति॒स् स्वाहा॑ ।
इ॒ह रन्ति॒स् स्वाहा॑ । इ॒ह रम॑ति॒स् स्वाहा॑ ।
भट्टभास्कर-टीका
5इह धृतिस्स्वाहेत्यादयो धृतयो ‘विभूर्मात्रा’ इत्यत्र व्याख्याताः ॥
मूलम् (संयुक्तम्)
म॒हीमू॒ षु
विश्वास-प्रस्तुतिः
म॒हीम् ऊ॒ षु ।
[ म॒हीम् ऊ॒ षु मा॒तरँ॑ सुव्र॒ताना॑म्
ऋ॒तस्य॒ पत्नी॒म् अव॑से हुवेम ।
तु॒वि॒क्ष॒त्त्राम् अ॒जर॑न्तीम् उरू॒चीँ
सु॒शर्मा॑ण॒म् अदि॑तिँ सु॒प्रणी॑तिम् ॥ ]
मूलम्
म॒हीम् ऊ॒ षु ।
[ म॒हीम् ऊ॒ षु मा॒तरँ॑ सुव्र॒ताना॑म्
ऋ॒तस्य॒ पत्नी॒म् अव॑से हुवेम ।
तु॒वि॒क्ष॒त्त्राम् अ॒जर॑न्तीम् उरू॒चीँ
सु॒शर्मा॑ण॒म् अदि॑तिँ सु॒प्रणी॑तिम् ॥ ]
भट्टभास्कर-टीका
6’महीमूषु मातरं’ ‘सुत्रामाणं पृथिवीम्’ इति च ‘वेश्वानरो नः’ इत्यत्र व्याख्याते । महीमेव सुव्रतानां मातृस्थानीयां ऋतस्य यज्ञस्य सत्रस्य वा पालयित्रीः रक्षाणार्थमाह्वयामः प्रवृद्धबलामजरन्तीं उरुगमनां शोभनां सुखहेतुं अखण्डितां शोभनप्रणयामिति प्रथमा ॥
मूलम् (संयुक्तम्)
सु॒त्रामा॑णम् ॥ [44]
विश्वास-प्रस्तुतिः
सु॒त्रामा॑णम् ॥ [44]
[ सु॒त्रामा॑णम् पृथि॒वीन् द्याम् अ॑ने॒हसँ॑
सु॒शर्मा॑ण॒म् अदि॑तिँ सु॒प्रणी॑तिम् ।
दैवी॒न्नावँ॑ स्वरि॒त्राम् अना॑गस॒म्
अस्र॑वन्ती॒म् आ रु॑हेमा स्व॒स्तये॑ ॥ ]
मूलम्
सु॒त्रामा॑णम् ॥ [44]
[ सु॒त्रामा॑णम् पृथि॒वीन् द्याम् अ॑ने॒हसँ॑
सु॒शर्मा॑ण॒म् अदि॑तिँ सु॒प्रणी॑तिम् ।
दैवी॒न्नावँ॑ स्वरि॒त्राम् अना॑गस॒म्
अस्र॑वन्ती॒म् आ रु॑हेमा स्व॒स्तये॑ ॥ ]
भट्टभास्कर-टीका
7सुत्रामणं पृथिवीं विस्तीर्णां द्यामपापां सुशर्माणमदितिं दैवीं नावं नौस्थानीयां शोभनतरणामनेहसमनवद्यां ‘अच्छिद्रां अविनाशार्थं आरूढा भूयास्मेति द्वितीया ॥
इति सप्तमे चतुर्थे सप्तदशोनुवाकः ॥