विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
नमो॒ राज्ञे॒ नमो॒ वरु॑णाय॒ नमोऽश्वा॑य॒ नमᳶ॑ प्र॒जाप॑तये॒ नमोऽधि॑पत॒येऽधि॑पतिर॒स्यधि॑पतिम्मा कु॒र्वधि॑पतिर॒हम्प्र॒जाना॑म्भूयास॒म्मान्धे॑हि॒ मयि॑ धेह्य्
विश्वास-प्रस्तुतिः
नमो॒ राज्ञे॑ । नमो॒ वरु॑णाय ।
नमोऽश्वा॑य । नमᳶ॑ प्र॒जाप॑तये ।
नमोऽधि॑पतये ।
अधि॑पतिरसि । अधि॑पतिम् मा कु॒रू ।
अधि॑पतिर् अ॒हम् प्र॒जाना॑म् भूयासम् ।
मान् धे॑हि । मयि॑ धेहि ।
मूलम्
नमो॒ राज्ञे॑ । नमो॒ वरु॑णाय ।
नमोऽश्वा॑य । नमᳶ॑ प्र॒जाप॑तये ।
नमोऽधि॑पतये ।
अधि॑पतिरसि । अधि॑पतिम् मा कु॒रू ।
अधि॑पतिर् अ॒हम् प्र॒जाना॑म् भूयासम् ।
मान् धे॑हि । मयि॑ धेहि ।
भट्टभास्कर-टीका
1रात्रिहोमेषु यव्यानि जुहोति - नमो राज्ञ इत्यादि ॥ सर्वं निगदसिद्धम् । राजा सोमः । मां धेहि धारय । यत्रावस्थापितेन मया भूयोपि किंचित्कर्तव्यमस्ति तत्र मां स्थापय यद्दातव्यम् ॥
मूलम् (संयुक्तम्)
उ॒पाकृ॑ताय॒ स्वाहाऽऽल॑ब्धाय॒ स्वाहा॑ हु॒ताय॒ स्वाहा॑ ॥ [42]
विश्वास-प्रस्तुतिः
उ॒पाकृ॑ताय॒ स्वाहा॑ । आल॑ब्धाय॒ स्वाहा॑ । हु॒ताय॒ स्वाहा॑ ॥ [42]
मूलम्
उ॒पाकृ॑ताय॒ स्वाहा॑ । आल॑ब्धाय॒ स्वाहा॑ । हु॒ताय॒ स्वाहा॑ ॥ [42]
भट्टभास्कर-टीका
2उपाकृताय इत्यादौ लिङ्गादेव सिद्धो विनियोगः । आद्ययोः ‘गतिरनन्तरः’ इति प्रकृतिस्वरत्वम् ॥
इति सप्तमे चतुर्थे षोडशोनुवाकः ॥