१ द्विपदा गायत्री २ एकपदा गायत्री ३ पङ्क्तिः ४ त्रिष्टुप् विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
यो अर्व॑न्त॒ञ्जिघाँ॑सति॒ तम॒भ्य॑मीति॒ वरु॑णः ।
विश्वास-प्रस्तुतिः
यो अर्व॑न्त॒ञ् जिघाँ॑सति॒ तम॒भ्य॑मीति॒ वरु॑णः ।
मूलम्
यो अर्व॑न्त॒ञ् जिघाँ॑सति॒ तम॒भ्य॑मीति॒ वरु॑णः ।
भट्टभास्कर-टीका
1श्वानं हन्यमानमनुमन्त्रयते - यो अर्वन्तमिति द्विपदया गायत्र्या ॥ यः श्वा अर्वन्तमश्वं जिघांसति हन्तुमिच्छति तं वरुणः अभ्यमीति आभिमूख्येन नाशयतु । अमतेर्लेटि शपो लुकि ‘तुरुस्तु शम्यमः’ इतीडागमः ॥
मूलम् (संयुक्तम्)
प॒रो मर्तᳶ॑ प॒रश्श्वा ।
विश्वास-प्रस्तुतिः
प॒रो मर्तᳶ॑ प॒रश् श्वा ।
मूलम्
प॒रो मर्तᳶ॑ प॒रश् श्वा ।
भट्टभास्कर-टीका
2तं हतं अश्वस्याधस्पदमुपास्यति - पर इत्येकपदया गायत्र्या ॥ योऽश्वस्य हन्ता मर्तः मर्त्यः स परोस्तु परस्तादस्तु श्वा च परस्तादस्तु इतोन्यं हिनस्तु । परशब्दात्परस्यास्तातेश्छान्दसोसिप्रत्ययः । तेनान्तोदात्तत्वम् ॥
मूलम् (संयुक्तम्)
अ॒हञ्च॒ त्वञ्च॑ वृत्रह॒न्त्सम्ब॑भूव स॒निभ्य॒ आ । अ॒रा॒ती॒वा चि॑दद्रि॒वोऽनु॑ नौ शूर मँसतै भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ।
विश्वास-प्रस्तुतिः
अ॒हञ् च॒ त्वञ् च॑ वृत्रह॒न्त् सम्ब॑भूव , स॒निभ्य॒ आ ।
मूलम्
अ॒हञ् च॒ त्वञ् च॑ वृत्रह॒न्त् सम्ब॑भूव , स॒निभ्य॒ आ ।
भट्टभास्कर-टीका
3ब्रह्मा यजमानस्य हस्तं गृह्णाति - अहं चेति पञ्चपदया पङ्क्त्या ॥ हे वृत्रहन्! पाप्मनां हन्तः यजमानः अहं च त्वं च संबभूव, वचनव्यत्ययः संबभूविव । छान्दसो लिट् । सम्भभूव वा सर्वार्थेषु संसृज्य वर्तावहै सनिभ्यः सन्यर्थं सर्वे लाभाः संपद्यन्तामिति । आकारो मर्यादायाम् ।
विश्वास-प्रस्तुतिः
अ॒रा॒ती॒वा चि॑दद्रि॒वोऽनु॑ नौ शूर मँसतै भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ।
मूलम्
अ॒रा॒ती॒वा चि॑दद्रि॒वोऽनु॑ नौ शूर मँसतै भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ।
भट्टभास्कर-टीका
हे अद्रिवः! अद्रिमान् वज्रवानिन्द्रो हे तदात्मन्! । ‘छन्दसीरः’ इति मतुपो वत्वं ‘मतुवसोः’ इति रुत्वम् । । हे शूर! नौ त्वां च मां च अरातीवा चित् अदानवन्तावपि । अरातिरदानम् । ततः ‘छन्दसीवनिपौ’ इति मत्वर्थीयो वनिप्, ‘अन्येषामपि दृश्यते’ इति दीर्घत्वं, ततः परस्य द्विवचनस्य डाजादेशः । ईदृशावप्यावां इन्द्रस्य भद्रा गम्भीरा रातयः दानानि अनुमंसतै अनुमन्यतां अस्मद्विषये । यद्यप्यावां अल्पहविर्मात्रप्रदानेन उपक्षीणौ तथाऽप्यावाभ्यां प्रभूतानि धनानि इन्द्रो ददात्विति भावः ॥
मूलम् (संयुक्तम्)
अ॒भि क्रत्वे॑न्द्र भू॒रध॒ ज्मन्न ते॑ विव्यङ्महि॒मानँ॒ रजाँ॑सि । स्वेना॒ हि वृ॒त्रँ शव॑सा ज॒घन्थ॒ न शत्रु॒रन्तव्ँ॑विविदद्यु॒धा ते॑ ॥ [41]
विश्वास-प्रस्तुतिः
अ॒भि क्रत्वे॑न्द्र भू॒रध॒ ज्मन्न ते॑ विव्यङ्महि॒मानँ॒ रजाँ॑सि ।
स्वेना॒ हि वृ॒त्रँ शव॑सा ज॒घन्थ॒ न शत्रु॒रन्तव्ँ॑ विविदद् यु॒धा ते॑ ॥ [41]
मूलम्
अ॒भि क्रत्वे॑न्द्र भू॒रध॒ ज्मन्न ते॑ विव्यङ्महि॒मानँ॒ रजाँ॑सि ।
स्वेना॒ हि वृ॒त्रँ शव॑सा ज॒घन्थ॒ न शत्रु॒रन्तव्ँ॑ विविदद् यु॒धा ते॑ ॥ [41]
भट्टभास्कर-टीका
4अभि क्रत्वेत्यादि ॥ स्वेना हीति । सांहितिकं दीर्घत्वं छान्दसम् । शत्रुः ते तव अन्तं विनाशं युधा युद्धेनापि न विविदत् न वेत्तु न लभतां वा । वेत्तेर्विन्दतेर्वा लेटि शपः ‘लेटोडाटौ’ इत्यडागमः ‘नाभ्यस्तस्याचि’ इति गुणाभावः ॥
इति सप्तमे चतुर्थे पञ्चदशोनुवाकः ॥