मूलम् (संयुक्तम्)
अ॒द्भ्यस्स्वाहा॒ वह॑न्तीभ्य॒स्स्वाहा॑ परि॒वह॑न्तीभ्य॒स्स्वाहा॑ सम॒न्तव्ँवह॑न्तीभ्य॒स्स्वाहा॒ शीघ्रव्ँ॒वह॑न्तीभ्य॒स्स्वाहा॒ शीभव्ँ॒वह॑न्तीभ्य॒स्स्वाहो॒ग्रव्ँवह॑न्तीभ्य॒स्स्वाहा॑ भी॒मव्ँवह॑न्तीभ्य॒स्स्वाहाऽम्भो॑भ्य॒स्स्वाहा॒ नभो॑भ्य॒स्स्वाहा॒ महो॑भ्य॒स्स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ [40]
विश्वास-प्रस्तुतिः
अ॒द्भ्यस् स्वाहा॑ । वह॑न्तीभ्य॒स् स्वाहा॑ ।
प॒रि॒ वह॑न्तीभ्य॒स् स्वाहा॑ ।
स॒म॒न्तव्ँ वह॑न्तीभ्य॒स् स्वाहा॑ । शीघ्रव्ँ॒ वह॑न्तीभ्य॒स्स्वाहा॑ ।
शीभव्ँ॒ वह॑न्तीभ्य॒स् स्वाहा॑ । उ॒ग्रव्ँ वह॑न्तीभ्य॒स् स्वाहा॑ ।
भी॒मव्ँ वह॑न्तीभ्य॒स् स्वाहा॑ ।
अम्भो॑भ्य॒स् स्वाहा॑ । नभो॑भ्य॒स् स्वाहा॑ ।
महो॑भ्य॒स् स्वाहा॑ । सर्व॑स्मै॒ स्वाहा॑ ॥ [40]
मूलम्

भट्टभास्कर-टीका
1पुनरपि तत्रैवापां हौमाः - अद्भ्यस्स्वाहेत्यादि ॥ अद्भ्यः सामान्याभिधानं विशेषान्वक्ष्यामीति । ‘ऊडिदम्’ इति विभक्तेरुदात्तत्वम् । वहन्त्यः । परिवहन्त्यः मण्डलं भ्रमयन्त्यः । कूलं भित्वाऽतिनिष्पतन्त्य इत्यन्ये । समन्तं वहन्त्यः कूले अतिलङ्घ्य पर्वतो गच्छन्त्यः । शीघ्रं द्रुतं यथा कूले निपतिते भवतः तथा । शीभं शोभनं कूलाबाधेन । उग्रं उद्गूर्णं मेघपटलसंछन्नम् । भीमं भीतिहेतुजननं कृष्यमाणकूलपादपं महासत्त्वम् । अम्भांसि अस्मिन् लोके भवाः आपः ‘अयं वै लोकोम्भांसि’ इति ब्राह्मणम् । नभांसि आन्तरिक्ष्याः । महांसि अमुष्मिन्लोके भवाः । सर्वस्मै जलमात्राय ॥
इति सप्तमे चतुर्थे चतुर्दशोनुवाकः