विश्वेदेवा ऋषयः
विश्वास-प्रस्तुतिः
कूप्या॑भ्य॒स्स्वाहा॒ कूल्या॑भ्य॒स्स्वाहा॑ विक॒र्या॑भ्य॒स्स्वाहा॑ऽव॒ट्या॑भ्य॒स्स्वाहा॒ खन्या॑भ्य॒स्स्वाहा॒ हृद्या॑भ्य॒स्स्वाहा॒ सूद्या॑भ्य॒स्स्वाहा॑ सर॒स्या॑भ्य॒स्स्वाहा॑ वैश॒न्तीभ्य॒स्स्वाहा॑ पल्व॒ल्या॑भ्य॒स्स्वाहा॒ वर्ष्या॑भ्य॒स्स्वाहा॑ऽव॒र्ष्याभ्य॒स्स्वाहा॑ ह्रा॒दुनी॑भ्य॒स्स्वाहा॒ पृष्वा॑भ्य॒स्स्वाहा॒ स्यन्द॑मानाभ्य॒स्स्वाहा॑ स्थाव॒राभ्य॒स्स्वाहा॑ नादे॒यीभ्य॒स्स्वाहा॑ सैन्ध॒वीभ्य॒स्स्वाहा॑ समु॒द्रिया॑भ्य॒स्स्वाहा॒ सर्वा॑भ्य॒स्स्वाहा॑ ॥ [39]
मूलम्

कूप्या॑भ्य॒स् स्वाहा॑ । कूल्या॑भ्य॒स् स्वाहा॑ । वि॒क॒र्या॑भ्य॒स् स्वाहा॑ । अ॒व॒ट्या॑भ्य॒स् स्वाहा॑ ।
खन्या॑भ्य॒स् स्वाहा॑ । हृद्या॑भ्य॒स् स्वाहा॑ । सूद्या॑भ्य॒स् स्वाहा॑ । स॒र॒स्या॑भ्य॒स् स्वाहा॑ ।
वै॒श॒न्तीभ्य॒स्स्वाहा॑ । प॒ल्व॒ल्या॑भ्य॒स् स्वाहा॑ । वर्ष्या॑भ्य॒स् स्वाहा॑ । अ॒व॒र्ष्याभ्य॒स् स्वाहा॑ ।
ह्रा॒दुनी॑भ्य॒स् स्वाहा॑ । पृष्वा॑भ्य॒स् स्वाहा॑ । स्यन्द॑मानाभ्य॒स् स्वाहा॑ । स्था॒व॒राभ्य॒स् स्वाहा॑ ।
ना॒दे॒यीभ्य॒स् स्वाहा॑ । सै॒न्ध॒वीभ्य॒स् स्वाहा॑ । स॒मु॒द्रिया॑भ्य॒स् स्वाहा॑ । सर्वा॑भ्य॒स् स्वाहा॑ ॥ [39]

भट्टभास्कर-टीका
1पुनरपि तत्रैव रात्रिहोमेष्वपां होमाः - कूप्याभ्य इत्यादि ॥ कूपाः प्रसिद्धाः । सर्वत्र ‘भवे छन्दसि’ इति यत् । द्व्यचां ‘यतोऽनावः’ इत्याद्युदात्तत्वम् । अन्यत्र ‘तित्स्वरितम्’ इति स्वरितत्वम् । कुल्यासु भवाः कूल्याः छान्दसं दीर्घत्वम् । यद्वा - कूलसमीपभवाः क्षुद्रकूपाः कृऽल्याः । विकर्या भूविवराः । किरतेः ऋदोरप् । विकृतावादेशः करोतेः छान्दसो दीर्घः । अवटा गर्ताः । खन्याः खननेन निर्वृताः तटाकादयः । ह्रदाः अगाधा जलाशयाः । सूदाः कदाचिदप्यशोषितपङ्काः । सुष्ठून्नयनीयाः सूद्या इति केचित् काष्ठादियन्त्रप्रभवा उच्यन्ते । सरांसि स्वयमुत्पन्ना जलाशयाः । आर्तास्वार्तासु स्फुटं पुनःपुनर्विशन्ति उत्पद्यन्ते एष्वाप इति वेशन्ताः । विशतेरौणादिकोऽतच् । वेशन्तहिमवद्भ्यामणि आदत्तभाव [अन्तोदात्तभाव] इति केचित् । पल्वलानि । वन्या जलाशयाः । वर्ष्याः वर्षे भवाः । वर्षे न भवन्तीत्यवर्ष्याः पीडनप्रभवाः । ‘ययतोश्चातदर्थे’ इत्युत्तरपदान्तोदात्तत्वम् । ह्रादुन्यः ह्रादुशब्दवत्यः । ह्रादेरौणादिको निप्रत्ययः, छान्दसं दीर्घत्वम् । पृष्वाः अवश्यायजलानि संचितानीत्यन्ये । स्यन्दमानाः वहन्त्यो यत्र क्वापि । स्थावराभ्यः तिष्ठन्तीभ्यः यत्र क्वापि । ‘स्थेशभास’ इति वरच् । नादेय्यः नद्यां भवाः । ‘नद्यादिभ्यो ढक्’ सैन्धव्यः महानदीप्रभवाः पुन्नदास्सिन्धव इति केचिन् । औत्सर्गिकेण उदात्तनिवृत्तिस्वरेण ङीष उदात्तत्वम् । समुद्रियाभ्यः । ‘समुद्राभ्राद्धः’ सर्वाभ्य इत्यनुक्तपरिग्रहार्यम् ॥
इति सप्तमे चतुर्थे त्रयोदशोनुवाकः ॥