१२ अश्वमेधाङ्गापाव्यहोममन्त्राः ,परियानमन्त्राश्च

विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

मे॒षस्त्वा॑ पच॒तैर॑वतु॒ लोहि॑तग्रीव॒श्छागैः॑ शल्म॒लिर्वृद्ध्या॑ प॒र्णो ब्रह्म॑णा प्ल॒क्षो मेधे॑न न्य॒ग्रोध॑श्चम॒सैरु॑दु॒म्बर॑ ऊ॒र्जा गा॑य॒त्री छन्दो॑भिस्त्रि॒वृत्स्तोमै॒रव॑न्ती॒स्स्थाव॑न्तीस्त्वावन्तु प्रि॒यन्त्वा॑ प्रि॒याणाव्ँ॒वर्षि॑ष्ठ॒माप्या॑नान्निधी॒नान्त्वा॑ निधि॒पतिँ॑ हवामहे वसो मम ॥ [38]

विश्वास-प्रस्तुतिः

मे॒षस्त्वा॑ पच॒तैर॑वतु॒ , लोहि॑तग्रीव॒श्छागैः॑ , शल्म॒लिर्वृद्ध्या॑,
प॒र्णो ब्रह्म॑णा , प्ल॒क्षो मेधे॑न , न्य॒ग्रोध॑श् चम॒सैर्, उ॑दु॒म्बर॑ ऊ॒र्जा गा॑य॒त्री छन्दो॑भिस् त्रि॒वृत्स्तोमैः ।

अव॑न्ती॒स् स्थ ।
अव॑न्तीस् त्वाऽवन्तु ।
प्रि॒यन् त्वा॑ प्रि॒याणाव्ँ॒, वर्षि॑ष्ठ॒म् आप्या॑नान्,
निधी॒नान् त्वा॑ निधि॒पतिँ॑ हवामहे, वसो मम ! [38]

मूलम्

मे॒षस्त्वा॑ पच॒तैर॑वतु॒ , लोहि॑तग्रीव॒श्छागैः॑ , शल्म॒लिर्वृद्ध्या॑,
प॒र्णो ब्रह्म॑णा , प्ल॒क्षो मेधे॑न , न्य॒ग्रोध॑श् चम॒सैर्, उ॑दु॒म्बर॑ ऊ॒र्जा गा॑य॒त्री छन्दो॑भिस् त्रि॒वृत्स्तोमैः ।

अव॑न्ती॒स् स्थ ।
अव॑न्तीस् त्वाऽवन्तु ।
प्रि॒यन् त्वा॑ प्रि॒याणाव्ँ॒, वर्षि॑ष्ठ॒म् आप्या॑नान्,
निधी॒नान् त्वा॑ निधि॒पतिँ॑ हवामहे, वसो मम ! [38]

भट्टभास्कर-टीका

1अतः परमश्वमेधमन्त्राः । तत्र अपाव्यानि जुहोति - मेषस्त्वेति ॥ रात्रिहोमेष्वग्निपर्यग्निकरणे चाश्वस्य । हे अश्व पचतैः पचनीयैः अन्नैस्सह मेषः पचनीयानां मुख्यस्त्वामवतु अनुप्रविशतु । अवतिरनेकार्थः । पचतेरौणादिकोतच्, । लोहितग्रीवोऽजानां मुख्यः छागैस्सह त्वामवत्वित्येव । अत्र सहाभिगमनेऽवतिर्वर्तते । यथोक्तम् - ‘पर्यग्निकृतानारण्यानुत्सृजन्ति’ ‘वाडवे पुरुषवाजः पुरो नीयते अश्वस्य’ इति । शल्मलिः पादपो वर्षिष्ठः वृद्ध्या सह त्वामवतु अनुप्रविश्य वर्धयतु । पर्णः पलाशः प्रशस्तानां प्रथमः स ब्रह्मणा मन्त्रैर्ब्राह्मणैर्वा त्वामनु रक्षतु । जातावेकवचनम् । प्लक्षो यज्ञियानां मुख्यः स मेधेन यज्ञेन यज्ञबलेन वा त्वामवतु प्राप्नोतु । न्यग्रोधश्चमसैः पात्रैः सह त्वामवतु धारयतु । यथोक्तम् - ‘नैयग्रोधश्चमसः’ इति । उदुम्बरः ऊर्जा रसानां मुख्यः ऊर्जा सह त्वामवतु रसेन वर्धयतु । गायत्री छन्दसामाद्या छन्दोभरुष्णिगादिभिः सह त्वामवतु रक्षतु । त्रिवृत्स्तोमानां प्रथमः त्वां स्तोमैः पञ्चदशादिभिः सह अवतु । अवन्तीस्स्थेति । पङ्क्तिप्रकारश्चतुष्पदः एकादशाक्षरः प्रथमः द्वितीयतृतीयौ षडक्षरौ षोडशाक्षरश्चतुर्थः । अवन्तीः अवन्त्यः । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । या अन्या अपि प्रजा उवन्त्यो भवन्ति आप ओषधयो वा । यद्वा - पूर्वोक्तानां मेषादीना अवतां सम्बन्धिन्यो याः पत्न्या भवन्ति ताः सर्वाः त्वमेवासि । सर्वथा पुरुषव्यत्ययात् वचनव्यत्ययाद्वा न मुच्यामहे । ता अवन्त्यः त्वामवन्तु । तं त्वा प्रियाणां प्रियं आप्यानां वृद्धानामपि वर्षिष्ठं वृद्धतमम् । पूर्ववद्वर्षादेशः । आङ्पूर्वाद्व्यायतेः छान्दसो ङः, अप्छब्दाद्वा ण्यः’ । वृषादिर्द्रष्टव्यः । अनवधारणादनवग्रहः । निधीनामपि निधिपतिं महानिधिं महान्तं निधिम् । यद्वा - सर्वेषां निधीनां संबन्धिनं निधिपतिं स्वामिनम् । अथवा - निधयो निधातारस्तेषामपि निधिपतिं अतिशयेन निधातारम् । सर्वथा ‘परादिश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । ईदृशं त्वां हवामहे जुहुमः । व्यत्ययेन शप् आत्मनेपदं च । यद्वा - होतुमाह्वयामः । ‘बहुलं छन्दसि’ इति संप्रसारणम् । हे वसो धनस्थानीय मम । यद्वा - मम वासयितः पुण्येषु लोकेषु । ‘परमपि छन्दसि’ इति परस्य षष्ठ्यन्तस्य पूर्वामन्त्रितानुप्रवेशात् षष्ठ्यन्तामन्त्रितसमुदायो निहन्यते ॥

इति सप्तमे चतुर्थे द्वादशोनुवाकः ॥