११ संवत्सरगतेषु सर्वमासेष्वहानि

विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

ज्योति॑ष्टोमम्प्रथ॒ममुप॑ यन्त्य॒स्मिन्ने॒व तेन॑ लो॒के प्रति॑ तिष्ठन्ति॒ गोष्टो॑मन्द्वि॒तीय॒मुप॑ यन्त्य॒न्तरि॑क्ष ए॒व तेन॒ प्रति॑ तिष्ठ॒न्त्यायु॑ष्टोमन्तृ॒तीय॒मुप॑ यन्त्य॒मुष्मि॑न्ने॒व तेन॑ लो॒के प्रति॑ तिष्ठन्ति

विश्वास-प्रस्तुतिः

ज्योति॑ष्टोमम् प्रथ॒मम् उप॑ यन्ति । अ॒स्मिन्न् ए॒व तेन॑ लो॒के प्रति॑ तिष्ठन्ति । गोष्टो॑मन् द्वि॒तीय॒म् उप॑ यन्ति ।
अ॒न्तरि॑क्ष ए॒व तेन॒ प्रति॑ तिष्ठ॒न्ति । आयु॑ष्टोमन् तृ॒तीय॒म् उप॑ यन्ति । अ॒मुष्मि॑न्न् ए॒व तेन॑ लो॒के प्रति॑ तिष्ठन्ति ।

मूलम्

ज्योति॑ष्टोमम् प्रथ॒मम् उप॑ यन्ति । अ॒स्मिन्न् ए॒व तेन॑ लो॒के प्रति॑ तिष्ठन्ति । गोष्टो॑मन् द्वि॒तीय॒म् उप॑ यन्ति ।
अ॒न्तरि॑क्ष ए॒व तेन॒ प्रति॑ तिष्ठ॒न्ति । आयु॑ष्टोमन् तृ॒तीय॒म् उप॑ यन्ति । अ॒मुष्मि॑न्न् ए॒व तेन॑ लो॒के प्रति॑ तिष्ठन्ति ।

भट्टभास्कर-टीका

1सम्प्रति अभिप्लवष्षडहो विधीयते - ज्योतिष्टोममित्यादि ॥ गतम् । अत्र ज्योतिष्टोम अग्निष्टोमो वेदितव्यः । अग्निष्टोमावभित इति । गवायुश्शब्दयोः स्तोमविशेषस्वभाववृत्तित्वात् बहुव्रीहिद्वयम् ॥

मूलम् (संयुक्तम्)

इ॒यव्ँ वाव ज्योति॑र॒न्तरि॑क्ष॒ङ्गौर॒सावायु॒र्यदे॒तान्त्स्तोमा॑नुप॒यन्त्ये॒ष्वे॑व तल्लो॒केषु॑ स॒त्त्रिणᳶ॑ प्रति॒तिष्ठ॑न्तो यन्ति॒ ते सँस्तु॑ता वि॒राज॑म् [34]
अ॒भि सम्प॑द्यन्ते॒ द्वे चर्चा॒वति॑ रिच्येते॒ एक॑या॒ गौरति॑रिक्त॒ एक॒यायु॑रू॒नस्सु॑व॒र्गो वै लो॒को ज्योति॒रूर्ग्वि॒राडूर्ज॑मे॒वाव॑ रुन्धते॒ ते न क्षु॒धार्ति॒मार्च्छ॒न्त्यक्षो॑धुका भवन्ति॒ क्षुत्स॑म्बाधा इव॒ हि स॒त्त्रिणो॑

विश्वास-प्रस्तुतिः

इ॒यव्ँ वाव ज्योति॑र् अ॒न्तरि॑क्ष॒ङ् गौः । अ॒साव् आयुः॑ । यदे॒तान्त्स्तोमा॑न् उप॒यन्त्य् ए॒ष्वे॑व तल् लो॒केषु॑ स॒त्त्रिणᳶ॑ प्रति॒तिष्ठ॑न्तो यन्ति ।
ते सँस्तु॑ता वि॒राज॑म् अ॒भि सम्प॑द्यन्ते [34] ।
द्वे च + ऋचा॒व् अति॑ रिच्येते । एक॑या॒ गौरति॑रिक्त॒ एक॒या ऽऽयु॑रू॒नः ।
सु॒व॒र्गो वै लो॒को ज्योति॒र् ऊर्ग्वि॒राड् ऊर्ज॑म् ए॒वाव॑ रुन्धते ।

मूलम्

इ॒यव्ँ वाव ज्योति॑र् अ॒न्तरि॑क्ष॒ङ् गौः । अ॒साव् आयुः॑ । यदे॒तान्त्स्तोमा॑न् उप॒यन्त्य् ए॒ष्वे॑व तल् लो॒केषु॑ स॒त्त्रिणᳶ॑ प्रति॒तिष्ठ॑न्तो यन्ति ।
ते सँस्तु॑ता वि॒राज॑म् अ॒भि सम्प॑द्यन्ते [34] ।
द्वे च + ऋचा॒व् अति॑ रिच्येते । एक॑या॒ गौरति॑रिक्त॒ एक॒या ऽऽयु॑रू॒नः ।
सु॒व॒र्गो वै लो॒को ज्योति॒र् ऊर्ग्वि॒राड् ऊर्ज॑म् ए॒वाव॑ रुन्धते ।

भट्टभास्कर-टीका

2इयं वावेत्यादि ॥ प्राथम्यादिना ताच्छब्द्यं स्तुतिर्वा तद्गुणप्रापणार्था । यदेतानित्यादि । विशिष्टस्तोमकानेतान् क्रतूनित्यर्थः । एष्विति । पृथिव्यादिषु । ते संस्तुता इत्यादि । अग्निष्टोमो ज्योतिश्च गौश्चायुश्चेत्येते त्रयोपि सह स्तुता विराजमभिसम्पद्यन्ते । नवाधिकं षट्छतं स्तोत्रीया इति । न ह्येषामन्यतमः कश्चित्त्रिकस्य प्रथमोस्तीत्याशङ्क्य ज्योतिष एव गुणवत्त्वात् प्राथम्यमितरयोश्च तदभावात् तदभावं च दर्शयति - द्वे इत्यादि । व्याख्यानम् । ज्योतिषश्च स्वर्गस्थानीयत्वात् विराडभिसम्पत्त्या च प्राथम्यमिति नवतिशतस्तोत्रीयोग्निष्टोम इत्युक्तम् । अत्र समुदायस्यापि विराट्सम्पत्त्या तस्य प्राधान्यमिति ‘ऊर्जमेवावरुन्धते’ इत्युक्तम् ।

विश्वास-प्रस्तुतिः

ते न क्षु॒धा ऽऽर्ति॒म् आर्छ॑न्ति ।
अक्षो॑धका भवन्ति । क्षुत्स॑म्बाधा इव॒ हि स॒त्रिणः॑ ।

मूलम्

ते न क्षु॒धा ऽऽर्ति॒म् आर्छ॑न्ति ।
अक्षो॑धका भवन्ति । क्षुत्स॑म्बाधा इव॒ हि स॒त्रिणः॑ ।

भट्टभास्कर-टीका

ततस्ते यजमानाः प्रथममेव विराड्भावेन क्षुधा आर्तिं नार्छन्ति न गच्छन्ति । ‘गोपोषं पुष्णाति’ इतिवत्सामान्यविशेषभावादपौनरुक्त्यम् । किञ्च - अक्षोधुकाः अक्षुच्छीला एव भवन्ति सत्रिणः । छान्दस उकञ् । कस्मादेवमुच्यत इत्याह - क्षुत्संबाधा इत्यादि । क्षुधा संबाध्यन्ते इति क्षुरसंबाधाः । दासीभारादिः । यद्वा - क्षुन्निमितं संबाधा एषामिति बहुव्रीहिः । एवंस्वभावा एव सत्रिणो भवन्ति ॥

मूलम् (संयुक्तम्)

ऽग्निष्टो॒माव॒भितᳶ॑ प्र॒धी तावु॒क्थ्या॑ मध्ये॒ नभ्य॒न्तत्तदे॒तत्प॑रि॒यद्दे॑वच॒क्रय्ँयदे॒तेन॑ [35]
ष॒ड॒हेन॒ यन्ति॑ देवच॒क्रमे॒व स॒मारो॑ह॒न्त्यरि॑ष्ट्यै॒ ते स्व॒स्ति सम॑श्ञुवते

विश्वास-प्रस्तुतिः

अ॒ग्नि॒ष्टो॒माव॒भितᳶ॑ प्र॒धी तौ ।

मूलम्

अ॒ग्नि॒ष्टो॒माव॒भितᳶ॑ प्र॒धी तौ ।

भट्टभास्कर-टीका

3इदानीं च क्रतुत्वेन षडहं रूपयति - अग्निष्टोमावित्यादि अग्निष्टोमौ द्वौ अभितष्षडहस्यास्य आदावन्ते च भवतः । प्रधी ताविति । प्रान्ते धीयेते इति प्रधी प्रकर्षेण धार्यते चक्रमाभ्यामिति । ‘उपसर्गे घोः किः’ । तौ च पर्यन्तफलके याभ्यां विष्कम्भार्थप्रमाणाभ्यां सर्वं चक्रं परितो व्याप्यत इति । अयमर्थः - यावेतावग्निष्टोमावभितः स्थितौ तावस्य चक्रस्य प्रधिस्थानीयौ वर्तेते इति ।

विश्वास-प्रस्तुतिः

उ॒क्थ्या॑ मध्ये॒ - नभ्य॒न् तत् ।
तदे॒तत् प॑रि॒यद् दे॑वच॒क्रम् ।

यद् ए॒तेन॑ षड् अ॒हेन॒ यन्ति॑ देवच॒क्रमे॒व स॒मारो॑हन्ति + अरि॑ष्ट्यै ।

ते स्व॒स्ति सम॑श्नुवते ।

मूलम्

उ॒क्थ्या॑ मध्ये॒ - नभ्य॒न् तत् ।
तदे॒तत् प॑रि॒यद् दे॑वच॒क्रम् ।

यद् ए॒तेन॑ षड् अ॒हेन॒ यन्ति॑ देवच॒क्रमे॒व स॒मारो॑हन्ति + अरि॑ष्ट्यै ।

ते स्व॒स्ति सम॑श्नुवते ।

भट्टभास्कर-टीका

उक्थ्या मध्य इत्यादि । ये गोआयुषी गोआयुषी इति चत्वारः उकथ्याः ते अस्य चक्रस्य मध्ये भवन्ति । कथं तेषामवस्थानमित्याह - नभ्यं तदिति । चक्रस्य मध्ये नभ्यवत् परिमण्डलाकारेण वर्तते । नाभये हितं नभ्यम् । ‘नाभिनभं च’ इति यत्प्रत्ययः, नभभावश्च, ‘यतो नावः’ इत्याद्युदात्तत्वम् । तदेतत्परियत् परितो गच्छेत् देवचक्रं देवाः क्रियन्ते इज्यन्तेऽस्मिन्निति देवचक्रं षडहात्मकम् । यदेतेन षडहेन यन्ति । देवचक्रमेव देवसेनामेव समारोहन्ति सङ्गन्ता आरोहन्ति । तच्चारिष्ट्यै अहिंसायै च भवति । ते हि देवचक्रं समारुह्य वर्तमानाः स्वस्ति अविनाशेन अभिमतफलमश्नुवते ॥

मूलम् (संयुक्तम्)

षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठन्त्युभ॒यतो॑ज्योतिषा यन्त्युभ॒यत॑ ए॒व सु॑व॒र्गे लो॒के प्र॑ति॒तिष्ठ॑न्तो यन्ति॒ द्वौ ष॑ड॒हौ भ॑वत॒स्तानि॒ द्वाद॒शाहा॑नि॒ सम्प॑द्यन्ते द्वाद॒शो वै पुरु॑षो॒ द्वे स॒क्थ्यौ॑ द्वौ बा॒हू आ॒त्मा च॒ शिर॑श्च च॒त्वार्यङ्गा॑नि॒ स्तनौ॑ द्वाद॒शौ [36]
तत्पुरु॑ष॒मनु॑ प॒र्याव॑र्तन्ते॒ त्रय॑ष्षड॒हा भ॑वन्ति॒ तान्य॒ष्टाद॒शाहा॑नि॒ सम्प॑द्यन्ते॒ नवा॒न्यानि॒ नवा॒न्यानि॒ नव॒ वै पुरु॑षे प्रा॒णास्तत्प्रा॒णाननु॑ प॒र्याव॑र्तन्ते च॒त्वार॑ष्षड॒हा भ॑वन्ति॒ तानि॒ चतु॑र्विँशति॒रहा॑नि॒ सम्प॑द्यन्ते॒ चतु॑र्विँशतिरर्धमा॒सास्सव्ँ॑वत्स॒रस्तत्सव्ँ॑वत्स॒रमनु॑ प॒र्याव॑र्त॒न्ते

विश्वास-प्रस्तुतिः

षड्वा ऋ॒तवः॑ । ऋ॒तुष्व् ए॒व प्रति॑ तिष्ठन्ति ।
उ॒भ॒यतो॑ज्योतिषा यन्ति ।
उ॒भ॒यत॑ ए॒व सु॑व॒र्गे लो॒के प्र॑ति॒तिष्ठ॑न्तो यन्ति ।

मूलम्

षड्वा ऋ॒तवः॑ । ऋ॒तुष्व् ए॒व प्रति॑ तिष्ठन्ति ।
उ॒भ॒यतो॑ज्योतिषा यन्ति ।
उ॒भ॒यत॑ ए॒व सु॑व॒र्गे लो॒के प्र॑ति॒तिष्ठ॑न्तो यन्ति ।

भट्टभास्कर-टीका

4एवं षडहं संपाद्य संप्रति मास संपादनार्थमाह - षडहेनेत्यादि ॥ मासावयवास्स्तूयन्ते - षड्वा इत्यादि । गतम् । उभयतोज्योतिषा आदावन्ते न ज्योतिष्टोमाग्निष्टोमवता ।

विश्वास-प्रस्तुतिः

द्वौ ष॑ड॒हौ भ॑वतः । तानि॒ द्वाद॒शाहा॑नि॒ सम्प॑द्यन्ते ।
द्वा॒द॒शो वै पुरु॑षो॒ , द्वे स॒क्थ्यौ॑ , द्वौ बा॒हू , आ॒त्मा च॒ शिर॑श्च च॒त्वार्यङ्गा॑नि॒ , स्तनौ॑ द्वाद॒शौ । [36]
तत्पुरु॑ष॒मनु॑ प॒र्याव॑र्तन्ते ।

मूलम्

द्वौ ष॑ड॒हौ भ॑वतः । तानि॒ द्वाद॒शाहा॑नि॒ सम्प॑द्यन्ते ।
द्वा॒द॒शो वै पुरु॑षो॒ , द्वे स॒क्थ्यौ॑ , द्वौ बा॒हू , आ॒त्मा च॒ शिर॑श्च च॒त्वार्यङ्गा॑नि॒ , स्तनौ॑ द्वाद॒शौ । [36]
तत्पुरु॑ष॒मनु॑ प॒र्याव॑र्तन्ते ।

भट्टभास्कर-टीका

द्वाविति । द्वादशत्वयोगाद्द्वादशात्मकं पुरुषमभिपर्यावर्तन्ते । पुरुषमेव लक्ष्यमाणं पुनःपुनरभ्यावर्तन्ते । द्वे सक्स्थ्यौ पादमूले । ‘ई च द्विवचने’ इतीकारः । द्वौ बाहू हस्तमूले आत्मा कुक्षिः शिरो ग्रीवाभ्यः परं चत्वार्यङ्गानि हस्तौ पादौ च स्तनौ स्तनाधारौ वा वक्षोग्रीवाभागौ द्वादशौ एकादशौ द्वादशाहश्च । सत्सु हि द्वादशसु पूर्वेऽपि द्वादशांशाः द्वादशैरवयवैः तद्वान् पुरुषो द्वादशः । डप्रत्ययान्तः मत्त्वर्थीयो लुप्यते । परिमाणप्रत्ययो वा ।

विश्वास-प्रस्तुतिः

त्रय॑ष्षड॒हा भ॑वन्ति । ता॒न्य् अ॒ष्टाद॒शाहा॑नि॒ सम्प॑द्यन्ते ।
नवा॒न्यानि॒ नवा॒न्यानि । नव॒ वै पुरु॑षे प्रा॒णाः ।
तत्प्रा॒णाननु॑ प॒र्याव॑र्तन्ते । च॒त्वार॑ष् षड॒हा भ॑वन्ति । तानि॒ चतु॑र्विँशति॒रहा॑नि॒ सम्प॑द्यन्ते ।
चतु॑र्विँशतिर् अर्धमा॒सास् सव्ँ॑वत्स॒रः ।
तत्सव्ँ॑वत्स॒रम् अनु॑ प॒र्याव॑र्त॒न्ते ।

मूलम्

त्रय॑ष्षड॒हा भ॑वन्ति । ता॒न्य् अ॒ष्टाद॒शाहा॑नि॒ सम्प॑द्यन्ते ।
नवा॒न्यानि॒ नवा॒न्यानि । नव॒ वै पुरु॑षे प्रा॒णाः ।
तत्प्रा॒णाननु॑ प॒र्याव॑र्तन्ते । च॒त्वार॑ष् षड॒हा भ॑वन्ति । तानि॒ चतु॑र्विँशति॒रहा॑नि॒ सम्प॑द्यन्ते ।
चतु॑र्विँशतिर् अर्धमा॒सास् सव्ँ॑वत्स॒रः ।
तत्सव्ँ॑वत्स॒रम् अनु॑ प॒र्याव॑र्त॒न्ते ।

भट्टभास्कर-टीका

त्रय इति । नवत्वान्वयात् नवात्मकं प्राणमभिपर्यावर्तन्ते । ननु त्रयष्षडहाः अष्टादशाहा भवन्ति कथं नवेत्याह - नवान्यानीति । नवान्यानि त्रीणि नव तावत् भवन्ति । सर्वधा नवत्ववचनमनुवर्तत इति । नव वा इत्यादि । सप्त शीर्षण्याः, द्वाववाञ्चाविति । चत्वार इति । चत्वारः चतुर्विंशतिसङ्ख्यान्वयात् । नव चतुर्विंशत्यर्धमासात्मकं संवत्सरमभिपर्यावर्तन्ते । एवमेतानि चतुर्विंशतिरहानि पृष्ठ्यषडहो वक्ष्यते । मासिमासि पृष्ठान्युपयन्तीति । तेन मासः प्रतिपादितो भवति ॥

मूलम् (संयुक्तम्)

अप्र॑तिष्ठितस्सव्ँवत्स॒र इति॒ खलु॒ वा आ॑हु॒र्वर्षी॑यान्प्रति॒ष्ठाया॒ इत्य्…

विश्वास-प्रस्तुतिः

अप्र॑तिष्ठितस् सव्ँवत्स॒र इति॒ खलु॒ वा आ॑हु॒र् वर्षी॑यान् प्रति॒ष्ठाया॒ इति॑ ।

मूलम्

अप्र॑तिष्ठितस् सव्ँवत्स॒र इति॒ खलु॒ वा आ॑हु॒र् वर्षी॑यान् प्रति॒ष्ठाया॒ इति॑ ।

भट्टभास्कर-टीका

5अधुना मासान्तरसंपादनार्थमाह - अप्रतिष्ठित इत्यादि ॥ एवं मासमात्रमनेन ब्राह्मणेन प्रतिपादितमिति मत्वा आहुरेकेऽप्रतिष्ठितस्संवत्सर इति । हेतुं चाहुर्वर्षीयान् प्रतिष्ठाया इति । प्रतितिष्ठति अभ्रंशेन तिष्ठत्यस्यामिति प्रतिष्ठा आधारः । ‘आतश्चोपसर्गे ‘इत्यधिकरणे अङ्प्रत्ययः । एकोयं मासः प्रतिष्ठा प्रतिपादितः । इतश्च वर्षीयान् वृद्धतरः संवत्सरस्स्यादप्रतिष्ठितः सुखेन स्थातुं न शक्नोति । प्रियस्थिरादिना वर्षादेशः । यद्वा वर्षीयान् खलु प्रतिष्ठायै प्रतिष्ठार्थं प्रभवति । न चायं प्रथमो मासः संवत्सराद्वर्षीयान् । न चास्मादन्यो वर्षीयानस्ति यः प्रतिष्ठायै स्यात् । तस्मादप्रतिष्ठितः संवत्सर इति । अस्मिन्पक्षे भावे अङ्प्रत्ययः । चतुर्थ्यर्थे षष्ठी ॥

मूलम् (संयुक्तम्)

ए॒ताव॒द्वै सव्ँ॑वत्स॒रस्य॒ ब्राह्म॑णय्ँ॒याव॑न्मा॒सो मा॒सिमा॑स्ये॒व प्र॑ति॒तिष्ठ॑न्तो यन्ति ॥ [37]

विश्वास-प्रस्तुतिः

ए॒ताव॒द्वै सव्ँ॑वत्स॒रस्य॒ ब्राह्म॑णय्ँ॒ याव॑न् मा॒सः ।
मा॒सिमा॑स्ये॒व प्र॑ति॒तिष्ठ॑न्तो यन्ति ॥ [37]

मूलम्

ए॒ताव॒द्वै सव्ँ॑वत्स॒रस्य॒ ब्राह्म॑णय्ँ॒ याव॑न् मा॒सः ।
मा॒सिमा॑स्ये॒व प्र॑ति॒तिष्ठ॑न्तो यन्ति ॥ [37]

भट्टभास्कर-टीका

6अत्रोत्तरमेतावद्वा इत्यादिना ब्रूमः । मासमेकं प्रतिपाद्यायमेको मासः संवत्सर इति तु एतावत्संवत्सरस्य द्वादशानां मासानां ब्राह्मणं क्रियते यावन्मासः यावन्मासमात्रस्य ब्राह्मणं मन्यसे । ‘ज्योतिष्टोमं प्रथममुपयन्ति’ इत्यारभ्य ‘चतुर्विंशतिरर्धमासास्संत्सरः’ इत्यन्तम् । पद्दन्नादिना मासशब्दस्य मासभावः । ‘ऊडिदं’ इति षष्ठ्या उदात्तत्वम् । अयमेव मासोभ्यासेन .संवत्सरं पूरयिष्यतीति ब्राह्मणस्याभिप्रायः । तस्मान्मासि मासि प्रतितिष्ठन्तः प्रतिष्ठितसंवत्सरा यन्ति । तस्मान्नितरां प्रतिष्ठितः संवत्सर इति भावः । पूर्ववद्विभक्त्युदात्तत्वम् । ‘अनुदात्तं च’ इत्याम्रेडितस्यानृदात्तत्वम् ॥

इति सप्तमे चतुर्थे एकादशोनुवाकः ॥