विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
ब्र॒ह्म॒वा॒दिनो॑ वदन्त्यतिरा॒त्रᳶ प॑र॒मो य॑ज्ञक्रतू॒नाङ्कस्मा॒त्तम्प्र॑थ॒ममुप॑ य॒न्तीत्ये॒तद्वा अ॑ग्निष्टो॒मम्प्र॑थ॒ममुप॑ य॒न्त्यथो॒क्थ्य॑मथ॑ षोड॒शिन॒मथा॑तिरा॒त्रम॑नुपू॒र्वमे॒वैतद्य॑ज्ञक्र॒तूनु॒पेत्य॒ ताना॒लभ्य॑ परि॒गृह्य॒ सोम॑मे॒वैतत्पिब॑न्त आसते॒ ज्योति॑ष्टोमम्प्रथ॒ममुप॑ यन्ति॒ ज्योति॑ष्टोमो॒ वै स्तोमा॑ना॒म्मुख॑म्मुख॒त ए॒व स्तोमा॒न्प्र यु॑ञ्जते॒
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒वा॒दिनो॑ वदन्त्य् -
“अतिरा॒त्रᳶ प॑र॒मो य॑ज्ञक्रतू॒नाङ् कस्मा॒त् तम् प्र॑थ॒ममुप॑ य॒न्ति”+ इति॑ ।
मूलम्
ब्र॒ह्म॒वा॒दिनो॑ वदन्त्य् -
“अतिरा॒त्रᳶ प॑र॒मो य॑ज्ञक्रतू॒नाङ् कस्मा॒त् तम् प्र॑थ॒ममुप॑ य॒न्ति”+ इति॑ ।
भट्टभास्कर-टीका
1अतः परमह्नां कॢप्तिः - ब्रह्मवादिन इत्यादिः ॥ यज्ञक्रतवस्सोमयागाः । अतिरात्रस्तेषां परमः उत्तमः अन्त्यां संस्था । तत् तस्मात्कारणात् तं प्रथममुपयन्तीति ब्रह्मवादिनः पर्यनुयोगं वदन्ति ।
विश्वास-प्रस्तुतिः
ए॒तद्वा अ॑ग्निष्टो॒मम् प्र॑थ॒ममुप॑ य॒न्त्य् अथो॒क्थ्य॑म् अथ॑ षोड॒शिन॒म् अथा॑तिरा॒त्रम् ।
अ॒नु॒पू॒र्वम् ए॒वैतद् य॑ज्ञक्र॒तून् उ॒पेत्य॒ ताना॒लभ्य॑ परि॒गृह्य॒ सोम॑म् ए॒वैतत् पिब॑न्त आसते ।
मूलम्
ए॒तद्वा अ॑ग्निष्टो॒मम् प्र॑थ॒ममुप॑ य॒न्त्य् अथो॒क्थ्य॑म् अथ॑ षोड॒शिन॒म् अथा॑तिरा॒त्रम् ।
अ॒नु॒पू॒र्वम् ए॒वैतद् य॑ज्ञक्र॒तून् उ॒पेत्य॒ ताना॒लभ्य॑ परि॒गृह्य॒ सोम॑म् ए॒वैतत् पिब॑न्त आसते ।
भट्टभास्कर-टीका
अथ समाधत्ते - एतद्वा इत्यादि । यदेतदतिरात्रं प्रथमं प्रायणीयं उपयन्ति एतत्खल्वग्निष्टोमादीन् चतुरो यज्ञक्रतून् संवत्सरस्य मुखे अनुपूर्वमनुक्रमेण उपेत्य तानालभ्य पृथक्पृथगारभ्य परिगृह्य समाप्यते सोमं पिबन्तः संवत्सरायासते सत्रिणः ।
विश्वास-प्रस्तुतिः
ज्योति॑ष्टोमम् प्रथ॒मम् उप॑ यन्ति । ज्योति॑ष्टोमो॒ वै स्तोमा॑ना॒म् मुख॑म् । मु॒ख॒त ए॒व स्तोमा॒न् प्र यु॑ञ्जते ।
मूलम्
ज्योति॑ष्टोमम् प्रथ॒मम् उप॑ यन्ति । ज्योति॑ष्टोमो॒ वै स्तोमा॑ना॒म् मुख॑म् । मु॒ख॒त ए॒व स्तोमा॒न् प्र यु॑ञ्जते ।
भट्टभास्कर-टीका
ज्योतिष्टोममित्यादि । तस्मात्सर्वयज्ञक्रत्वर्थं ज्योतिष्टोममेवातिरात्रं प्रथममुपयन्ति । ज्योतिष्टोमः स्तोमानां स्तोमवतां मुखम् । तस्मान्मुखत एवारभ्य सर्वान् स्तोमान् प्रयुञ्जते ॥
मूलम् (संयुक्तम्)
ते [32]
सँस्तु॑ता वि॒राज॑म॒भि सम्प॑द्यन्ते॒ द्वे चर्चा॒वति॑ रिच्येते॒ एक॑या॒ गौरति॑रिक्त॒ एक॒यायु॑रू॒नस्…
विश्वास-प्रस्तुतिः
ते सँस्तु॑ता वि॒राज॑म् अ॒भि सम्प॑द्यन्ते ।[32]
द्वे च + ऋचा॒व् अति॑ रिच्येते ।
एक॑या॒ गौरति॑रिक्त॒ , एक॒या ऽऽयु॑र् ऊ॒नः ।
मूलम्
ते सँस्तु॑ता वि॒राज॑म् अ॒भि सम्प॑द्यन्ते ।[32]
द्वे च + ऋचा॒व् अति॑ रिच्येते ।
एक॑या॒ गौरति॑रिक्त॒ , एक॒या ऽऽयु॑र् ऊ॒नः ।
भट्टभास्कर-टीका
2अत्र ज्योतिर्गौरायुरिति त्रितयावृत्तिज्जन्मा प्रायः सकलस्संवत्सरः । तत्र केन विशेषणेन तुल्यप्रभावानां ज्योतिरेव सत्रस्य प्रथमं युज्यते न गोआयुषी प्रति पर्यनुयोगावसरे ज्योतिषो गुणविशेषवत्तां इतरयोश्च तदभावं दर्शयितुमाह - ते संस्तुतो इत्यादि ॥ ते अनन्तरोक्ता ज्योतिरादयः त्रयः संस्तुता विराजमभिसम्पद्यन्ते विराट् दशाक्षरा तत्संपत्त्या संपद्यन्ते दशकास्संपूर्णा इव भवन्ति । ज्योतिरतिरात्रस्य सप्तत्यधिकशतत्रयं स्तोत्रीया इति कृत्वा । ‘नातिरात्रे षोडशिनं गृह्णाति’ इत्यस्मिन् पक्षे इदमुच्यते । ग्रहगपक्षे तु ‘अथ षोडशिनं’ इति पूर्वोक्तं वेदितव्यम् । विराट्संपत्तिलक्षणं गुणविशेषं ज्योतिषः प्रतिपाद्य इदानीं गोआयुषोस्तदभावं प्रदर्शयति - द्वे चेति । द्वे ऋचौ अतिरिच्येते अतिक्रम्य वर्तेते । विराट्संपत्तिविघातोतिकमः । किं ज्योतिष्येव नैवं भवितुमर्हतीति न ह्येकत्र सम्भवतीति विराजमभिसम्पद्यन्ते । द्वे चर्चावितिरिच्येते इति । तस्मात्सामर्थ्यात् गोआयुषोरिति वेदितव्यम् । यद्वा - द्वे गोआयुषी ऋचावतिरिच्येते डति गोआयुषोर्व्यतिरेकः कथ्यते । तमेवातिरेकं दर्शयति - एकयेत्यादि । गौरेकयर्चा अतिरिक्तः विराजं अतिक्रम्य वर्तते । आयुरेकया विराज ऊनो वर्तते । दर्शितौ चैतयोरूनातिरेकावाचोर्येण - गौः खलु पञ्चदशो बहिष्पवमानः त्रिवृन्त्याज्यानि सप्तदश माध्यन्दिनं सवनं संर्वैकविंश तृतीयसवनं सोक्थ्यमिति । एवमेकचत्वारिंशदधिकं शतद्वयं गोः स्तोत्रीयाः । अथान्यस्त्रिवृत् बहिष्पवमानं पञ्चदशाज्यानि सर्वसप्तदशं माध्यन्दिनं सर्वैकविंशं तृतीयसवनं सोक्थ्यमिति । एवमनयोरेकोनषष्ट्यधिकं शतद्वयमिति । तस्मादनयोरप्राधान्यं विराडभिसंपत्त्या ज्योतिष एव प्राथम्यमिति ॥
संयुक्तमनत्रः
सु॑व॒र्गो वै लो॒को ज्योति॒रूर्ग्वि॒राठ्सु॑व॒र्गमे॒व तेन॑ लो॒कय्ँय॑न्ति
विश्वास-प्रस्तुतिः
सु॒व॒र्गो वै लो॒को ज्योति॒रूर्ग्वि॒राट् । सु॒व॒र्गमे॒व तेन॑ लो॒कय्ँ य॑न्ति ।
मूलम्
सु॒व॒र्गो वै लो॒को ज्योति॒रूर्ग्वि॒राट् । सु॒व॒र्गमे॒व तेन॑ लो॒कय्ँ य॑न्ति ।
भट्टभास्कर-टीका
3पुनरपि ज्योतिरेव स्तूयते - सुवर्गो वा इत्यादि ॥ गतम् । किं बहुना सुवर्ग एव लोको ज्योतिः । तत्साधनत्वात्ताच्छब्द्यम् । ऊर्गन्नं विराट् । तां चाभिसम्पद्यते ज्योतिः तस्मात्तेन ज्योतिषा स्वर्गमेव गच्छन्ति । अन्नस्य स्वर्गपर्यायत्वात्पृथगुपादानम् ॥
मूलम् (संयुक्तम्)
रथन्त॒रन्दिवा॒ भव॑ति रथन्त॒रन्नक्त॒मित्या॑हुर्ब्रह्मवा॒दिन॒ᳵ केन॒ तदजा॒मीति॑ सौभ॒रन्तृ॑तीयसव॒ने ब्र॑ह्मसा॒मम्बृ॒हत्तन्म॑ध्य॒तो द॑धति॒ विधृ॑त्यै॒ तेनाजा॑मि ॥ [33]
विश्वास-प्रस्तुतिः
र॒थ॒न्त॒र॒न्दिवा॒ भव॑ति , रथन्त॒रन्नक्त॒मित्य् आ॑हुर् ब्रह्मवा॒दिन॒ᳵ केन॒ तदजा॒मीति॑ ।
मूलम्
र॒थ॒न्त॒र॒न्दिवा॒ भव॑ति , रथन्त॒रन्नक्त॒मित्य् आ॑हुर् ब्रह्मवा॒दिन॒ᳵ केन॒ तदजा॒मीति॑ ।
भट्टभास्कर-टीका
4रथन्तरमित्यादि ॥ अतिरात्रे दिवासवनेषु रथन्तरमेव साम भवति । नक्तमपि रथन्तरमेव प्रवर्तते । त्रिवृद्रथन्तरसन्धिरिति च सन्ध्यभिप्रायम् । एवमस्य रथन्तरैकसामतां अपश्यन्तो ब्रह्मवादिन आहुः - केन तदजामित्वं आलस्याभावः केन तत्र सम्पद्यते इति ।
विश्वास-प्रस्तुतिः
सौ॒भ॒रन् तृ॑तीयसव॒ने ब्र॑ह्मसा॒मम् बृ॒हत् । तन्म॑ध्य॒तो द॑धति॒ विधृ॑त्यै । तेनाजा॑मि ॥ [33]
मूलम्
सौ॒भ॒रन् तृ॑तीयसव॒ने ब्र॑ह्मसा॒मम् बृ॒हत् । तन्म॑ध्य॒तो द॑धति॒ विधृ॑त्यै । तेनाजा॑मि ॥ [33]
भट्टभास्कर-टीका
तत्रोत्तरं ब्रूयात् - सौभरमित्यादि । तृतीयसवने उक्थ्यपर्याये सौभरो नाम ब्रह्मणस्सामास्ति । ‘अनसन्तान्नपुंसकात्’ इति अच् समासान्तः । बृहत् बृहता गेयः तन्मध्यतः मध्यमे उक्थ्ये विदधाति विधृत्यै विधारणार्थं उक्थ्यानाम् । तेनेत्यादि । तेन इत्थं क्रियमाणेन अजामि अजामित्वमपि सम्पद्यते इति ॥
इति सप्तमे चतुर्थे दशमोनुवाकः ॥