विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
सु॒व॒र्गव्ँवा ए॒ते लो॒कय्ँय॑न्ति॒ ये स॒त्त्रमु॑प॒यन्त्य॒भीन्ध॑त ए॒व दी॒क्षाभि॑रा॒त्मानँ॑ श्रपयन्त उप॒सद्भि॒र्…
विश्वास-प्रस्तुतिः
सु॒व॒र्गव्ँ वा ए॒ते लो॒कय्ँ य॑न्ति॒ , ये स॒त्रम् उ॑प॒यन्ति॑ ।
अ॒भीन्ध॑त ए॒व दी॒क्षाभि॑र् आ॒त्मानँ॑ , श्रपयन्त उप॒सद्भिः ।
मूलम्
सु॒व॒र्गव्ँ वा ए॒ते लो॒कय्ँ य॑न्ति॒ , ये स॒त्रम् उ॑प॒यन्ति॑ ।
अ॒भीन्ध॑त ए॒व दी॒क्षाभि॑र् आ॒त्मानँ॑ , श्रपयन्त उप॒सद्भिः ।
भट्टभास्कर-टीका
1अष्टमे संवत्सरसत्रस्य दीक्षाकाल उक्तः । अथ नवमे दीक्षा उपसदश्चोच्यन्ते । ता उभयीर्विधत्ते - सुवर्गं वा इति ॥ यत्रानुष्ठायिनः स्वर्गं गच्छन्ति… तायै दीक्षाभिरात्मानं स्वेदेहमभीन्धत एव सर्वतो ज्वलयत्येव । उपसद्भिस्तु श्रपयन्ते स्वदेहं पचन्ति । तस्माद्दीक्षा उपसदश्चानुष्ठेया इति विध्युन्नयः । यदि द्वादशाहविकृतित्वेन प्राप्ताः तदाऽपि विकृतिलिङ्गत्वाय स्तुतये वा तदनुवादोऽस्तु ॥
मूलम् (संयुक्तम्)
द्वाभ्याल्ँ॒लोमाव॑ द्यन्ति॒ द्वाभ्या॒न्त्वच॒न्द्वाभ्या॒मसृ॒द्द्वाभ्या॑म्माँ॒सन्द्वाभ्या॒मस्थि॒ द्वाभ्या॑म्म॒ज्जान॑मा॒त्मद॑क्षिणव्ँ॒ वै स॒त्त्रमा॒त्मान॑मे॒व दक्षि॑णान्नी॒त्वा सु॑व॒र्गल्ँ लो॒कय्ँय॑न्ति॒
विश्वास-प्रस्तुतिः
द्वाभ्याल्ँ॒लोमाव॑ - द्यन्ति॒ ,
द्वाभ्या॒न् त्वच॒न् ,
द्वाभ्या॒म् असृ॒द् ,
द्वाभ्या॑म् माँ॒सन् ,
द्वाभ्या॒म् अस्थि॒ ,
द्वाभ्या॑म् म॒ज्जान॑म् ।
आ॒त्मद॑क्षिणव्ँ॒ वै स॒त्त्रम् ।
आ॒त्मान॑मे॒व दक्षि॑णान् नी॒त्वा सु॑व॒र्गल्ँ लो॒कय्ँ य॑न्ति ।
मूलम्
द्वाभ्याल्ँ॒लोमाव॑ - द्यन्ति॒ ,
द्वाभ्या॒न् त्वच॒न् ,
द्वाभ्या॒म् असृ॒द् ,
द्वाभ्या॑म् माँ॒सन् ,
द्वाभ्या॒म् अस्थि॒ ,
द्वाभ्या॑म् म॒ज्जान॑म् ।
आ॒त्मद॑क्षिणव्ँ॒ वै स॒त्त्रम् ।
आ॒त्मान॑मे॒व दक्षि॑णान् नी॒त्वा सु॑व॒र्गल्ँ लो॒कय्ँ य॑न्ति ।
भट्टभास्कर-टीका
2अथ त…. … .र्वन् तासामुभयविधानां द्वादशत्वं प्रकटयति - द्वाभ्यामिति ॥ द्वाभ्यां दिनद्वयानुष्ठेयाभ्यां दीक्षाभ्यामुपमद्भ्यां च स्वकीयं लोम हविरर्थमवद्यन्ति अनन्तरभाविनीभ्यां द्वाभ्यां त्वचमवद्यन्ति । एवं रक्तमांसास्थिमज्जसु योजनीयम् । यदेतत्सत्रं तदेतदात्मदक्षिणं वै सशरीरमेव तत्र दक्षिणा न त्वन्या गवादिरूपा अस्ति । तस्मात् स्वशररिमेव दक्षिणारूपेण नीत्वा स्वर्गं प्राप्नुवन्ति ॥
मूलम् (संयुक्तम्)
शिखा॒मनु॒ प्र व॑पन्त॒ ऋद्ध्या॒ अथो॒ रघी॑याँसस्सुव॒र्गल्ँ लो॒कम॑या॒मेति॑ ॥ [31]
विश्वास-प्रस्तुतिः
शिखा॒मनु॒ प्र व॑पन्त॒ , ऋद्ध्यै॑ ।
अथो॒ रघी॑याँसस् सुव॒र्गल्ँ लो॒कम॑या॒मेति॑ ॥ [31]
मूलम्
शिखा॒मनु॒ प्र व॑पन्त॒ , ऋद्ध्यै॑ ।
अथो॒ रघी॑याँसस् सुव॒र्गल्ँ लो॒कम॑या॒मेति॑ ॥ [31]
भट्टभास्कर-टीका
3यदुक्तं सूत्रकारेण - सत्रं चेद्वपनकाले सशिखानि वपन्ते इति । तदेतद्विधत्ते - शिखामिति ॥ शिखामनुलक्ष्य प्रकर्षेण वपनं कुर्युः । तच्च मृतत्वग्रूपाणां केशानामुपगमात्समृद्ध्यै भवति । अपि च केशभाररहिता रधीयांसो लघुतरास्सन्तः स्वर्गं प्राप्नुवामेत्यनेनाभिप्रायेण सशिखं वपनं कुर्युः ॥
इति माधवीये वेदार्थप्रकाशे यजुस्सहितायां सप्तमकाण्डे चतुर्थप्रपाठके नवमोनुवाकः ॥