०८ संवत्सरसत्रदीक्षाकालः

विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

सव्ँ॒व॒त्स॒राय॑ दीक्षि॒ष्यमा॑णा एकाष्ट॒काया॑न्दीक्षेरन्ने॒षा वै सव्ँ॑वत्स॒रस्य॒ पत्नी॒ यदे॑काष्ट॒कैतस्याव्ँ॒वा ए॒ष ए॒ताँ रात्रिव्ँ॑वसति सा॒क्षादे॒व सव्ँ॑वत्स॒रमा॒रभ्य॑ दीक्षन्त॒

विश्वास-प्रस्तुतिः

सव्ँ॒व॒त्स॒राय॑ दीक्षि॒ष्यमा॑णा एकाष्ट॒काया॑न् दीक्षेरन् ।

मूलम्

सव्ँ॒व॒त्स॒राय॑ दीक्षि॒ष्यमा॑णा एकाष्ट॒काया॑न् दीक्षेरन् ।

भट्टभास्कर-टीका

1इत उत्तरं गवामयनम् - ‘गावो वा एतत्सत्रमासत’ इत्यादि च वक्ष्यति । तत्र दीक्षारम्भकालं विदधाति - संवत्सरायेत्यादि ॥ संवत्सरकालसाध्यं गवामयनं संवत्सरशब्देनोच्यते । प्रकृतिश्चेयं सांवत्सरिकाणां आदित्यानामयनादीनां संवत्सरार्थं दीक्षिष्यमाणा दीक्षितुकामा एकाष्टकायां दीक्षेरन् । माघकृष्णाष्टमी एकाष्टका । यदाहुः - ‘या माध्याः पौर्णमास्या उपरिष्टाद्द्व्यष्टका तस्यामष्टमी ज्येष्ठया संपद्यते तामेकाष्टकेत्याचक्षते’ इति । एकाष्टका प्रधानाष्टका । ‘पूर्वकालैक’ इति समासः । ‘अष्टका पितृदैवत्ये’ इतीत्वाभावः । तत्कालसाध्यं च कर्म दर्शादिवदुपचारेणोच्यते । तत्र कालवृत्तेः कर्मण्युपचारः, अत्र तु कर्मवृत्तेरुपचार इति ।

विश्वास-प्रस्तुतिः

ए॒षा वै सव्ँ॑वत्स॒रस्य॒ पत्नी॒ यदे॑काष्ट॒का ।
ए॒तस्याव्ँ॒ वा ए॒ष ए॒ताँ रात्रिव्ँ॑ वसति ।
सा॒क्षादे॒व सव्ँ॑वत्स॒रम् आ॒रभ्य॑ दीक्षन्ते ।

मूलम्

ए॒षा वै सव्ँ॑वत्स॒रस्य॒ पत्नी॒ यदे॑काष्ट॒का ।
ए॒तस्याव्ँ॒ वा ए॒ष ए॒ताँ रात्रिव्ँ॑ वसति ।
सा॒क्षादे॒व सव्ँ॑वत्स॒रम् आ॒रभ्य॑ दीक्षन्ते ।

भट्टभास्कर-टीका

एषा वा इति । एषा एकाष्टका कर्मात्मिकेति संवत्सरस्य कर्मात्मनः पत्नी पत्नीस्थानीया संवत्सरभाविनां कर्मणां पालयित्री एषेत्युक्तम् । केत्याह - यदेकाष्टकेति । कः पुनरस्या विशेष इत्याह - एतस्यामित्यादि । एतस्यामेकाष्टकायां कर्मात्मिकायां एष संवत्सरो वसति एतां रात्रिं कालात्मिकामेकाष्टकाम् । ‘अत्यन्तसंयोगे द्वितीया’ । एतस्यां रात्रावित्यर्थः । तस्मात् साक्षात् समस्तमेव संवत्सरमारभ्य परिगृह्य दीक्षन्ते ॥

मूलम् (संयुक्तम्)

आर्तव्ँ॒वा ए॒ते सव्ँ॑वत्स॒रस्या॒भि दी॑क्षन्ते॒ य ए॑काष्ट॒काया॒न्दीक्ष॒न्तेऽन्त॑नामानावृ॒तू भ॑वतो॒

विश्वास-प्रस्तुतिः

आर्तव्ँ॒ वा ए॒ते सव्ँ॑वत्स॒रस्या॒भि दी॑क्षन्ते॒ , य ए॑काष्ट॒काया॒न् दीक्ष॒न्ते ।
अन्त॑नामानाव् ऋ॒तू भ॑वतः ।

मूलम्

आर्तव्ँ॒ वा ए॒ते सव्ँ॑वत्स॒रस्या॒भि दी॑क्षन्ते॒ , य ए॑काष्ट॒काया॒न् दीक्ष॒न्ते ।
अन्त॑नामानाव् ऋ॒तू भ॑वतः ।

भट्टभास्कर-टीका

2एतद्दूषयति - अर्तं वा इत्यादि ॥ संवत्सरसंबद्धं यदिदं आर्तियुक्तं स्थानं तदभिलक्ष्य दीक्षन्ते एते । ‘अभिरभागे’ हति लक्षणे अभेः कर्मप्रवचनीयत्वम् । कस्मादित्याह - यस्मादेकाष्टकायां दक्षिण्त इति । हेतुगर्भमिदम् । तदपि कुत इत्याह - अन्तनामानाविति । ऋत्ववयवे मासे ऋतुशब्दः, यथा ‘मधुश्च माधवश्च वासन्तिकावृतू’ इति । एतौ हि तैषमाघौ मासौ संवत्सरस्यान्तनामानौ अन्तिमाख्यौ यत्र सर्वेऽपि स्थावरजङ्गमाः शीतेन पीड्यन्ते । तस्मादेतावार्तिस्थानमिति । अन्य आहुः - अन्तो विनाशः तत्कारिणावेतौ मासौ हिमेन प्रजानामिति । नैरुक्ता आहुः - अन्तशब्देन प्राणा उच्यन्ते ‘यदेदन्ता अददृंहन्त पूर्वे’ इति । अननदन्ताः प्राणिनः । औणादिकस्तः । तेषां नामयितारो नाशयितारौ शीतपीडयेति अन्तनामानाविति । ‘नामन्’ इति निहन्यते । अनयोः पक्षयोः दासीभारादिर्द्रष्टव्यः । एवं प्राणिस्वभावाद्यजमाना अपि पीड्येरन्निति ॥

मूलम् (संयुक्तम्)

व्य॑स्तव्ँ॒ वा ए॒ते सव्ँ॑वत्स॒रस्या॒भि दी॑क्षन्ते॒ , य ए॑काष्ट॒काया॒न्दीक्ष॒न्तेऽन्त॑नामानावृ॒तू भ॑वतᳶ

विश्वास-प्रस्तुतिः

व्य॑स्तव्ँ॒ वा ए॒ते सव्ँ॑वत्स॒रस्या॒भि दी॑क्षन्ते॒ , य ए॑काष्ट॒काया॒न् दीक्ष॒न्ते ।
अन्त॑नामानाव् ऋ॒तू भ॑वतः ।

मूलम्

व्य॑स्तव्ँ॒ वा ए॒ते सव्ँ॑वत्स॒रस्या॒भि दी॑क्षन्ते॒ , य ए॑काष्ट॒काया॒न् दीक्ष॒न्ते ।
अन्त॑नामानाव् ऋ॒तू भ॑वतः ।

भट्टभास्कर-टीका

3अथ दोषान्तरमप्याह - व्यस्तमित्यादि ॥ व्यस्तं विक्षिप्तं प्रदेशमपि एते दीक्षन्ते । कस्मादित्याह - यस्मादेकाष्टकायां दीक्षन्ते इति हेतुत्वेन योज्यम् । तदपि कुत इत्याह - अन्तनामानाविति । अन्तावेतौ संवत्सरस्य मासौ तत्र दीक्षन्ते । स च संवत्सरस्समाप्तः संवत्सरान्ते यज्ञ इति विक्षिप्तमेतत् भवति संवत्सराख्यं कर्म, संवत्सरस्य विक्षिप्तत्वात् । व्यस्तमिति । गतिस्वरे कृते ‘उदात्तस्वरितयोर्यणः स्वरितः’ इति धात्वकारस्स्वर्यते ॥

मूलम् (संयुक्तम्)

फल्गुनीपूर्णमा॒से दी॑क्षेर॒न्मुखव्ँ॒वा ए॒तत् [28]
सव्ँ॒व॒त्स॒रस्य॒ यत्फ॑ल्गुनीपूर्णमा॒सो मु॑ख॒त ए॒व सव्ँ॑वत्स॒रमा॒रभ्य॑ दीक्षन्ते॒

विश्वास-प्रस्तुतिः

फ॒ल्गु॒नी॒-पू॒र्ण॒-मा॒से दी॑क्षेरन् । मुखव्ँ॒ वा ए॒तत् , सव्ँ॑वत्स॒रस्य॒ यत् फ॑ल्गुनीपूर्णमा॒सः ।[28]
मु॒ख॒त ए॒व सव्ँ॑वत्स॒रम् आ॒रभ्य॑ दीक्षन्ते ।

मूलम्

फ॒ल्गु॒नी॒-पू॒र्ण॒-मा॒से दी॑क्षेरन् । मुखव्ँ॒ वा ए॒तत् , सव्ँ॑वत्स॒रस्य॒ यत् फ॑ल्गुनीपूर्णमा॒सः ।[28]
मु॒ख॒त ए॒व सव्ँ॑वत्स॒रम् आ॒रभ्य॑ दीक्षन्ते ।

भट्टभास्कर-टीका

4एवं दूषयित्वा पक्षान्तरं परिगृह्णाति - फल्गुनीपूर्णमास इत्यादि ॥ फल्गुन्या युक्तः पूर्णमासः फल्गुनीपूर्णमासः । मुखं वा इति । अत्र केचिदाहुः - फाल्गुनादिः संवत्सर इति । तन्मतं मुखत एव संवत्सरं परिगृह्य दीक्षा कृता भवति । आद्यादिभ्यस्तसिः ॥

मूलम् (संयुक्तम्)

तस्यैकै॒व नि॒र्या यत्साम्मे॑घ्ये विषू॒वान्त्स॒म्पद्य॑ते चित्रापूर्णमा॒से दी॑क्षेर॒न्मुखव्ँ॒वा ए॒तत्सव्ँ॑वत्स॒रस्य॒ यच्चि॑त्रापूर्णमा॒सो मु॑ख॒त ए॒व सव्ँ॑वत्स॒रमा॒रभ्य॑ दीक्षन्ते॒ तस्य॒ न का च॒न नि॒र्या भ॑वति

विश्वास-प्रस्तुतिः

तस्यैकै॒व नि॒र्या यत्साम्मे॑घ्ये विषू॒वान्त्स॒म्पद्य॑ते । चि॒त्रा॒पू॒र्ण॒मा॒से दी॑क्षेरन् ।
मुखव्ँ॒ वा ए॒तत्सव्ँ॑वत्स॒रस्य॒ यच् चि॑त्रापूर्णमा॒सः ।
मु॒ख॒त ए॒व सव्ँ॑वत्स॒रम् आ॒रभ्य॑ दीक्षन्ते ।
तस्य॒ न का च॒न नि॒र्या भ॑वति ।

मूलम्

तस्यैकै॒व नि॒र्या यत्साम्मे॑घ्ये विषू॒वान्त्स॒म्पद्य॑ते । चि॒त्रा॒पू॒र्ण॒मा॒से दी॑क्षेरन् ।
मुखव्ँ॒ वा ए॒तत्सव्ँ॑वत्स॒रस्य॒ यच् चि॑त्रापूर्णमा॒सः ।
मु॒ख॒त ए॒व सव्ँ॑वत्स॒रम् आ॒रभ्य॑ दीक्षन्ते ।
तस्य॒ न का च॒न नि॒र्या भ॑वति ।

भट्टभास्कर-टीका

5अथैनमपि पक्षं दूषयितुमाह - तस्यैकैवेत्यादि ॥ तस्य एक पक्षस्य । यद्वा - तस्य फल्गुनीपूर्णमासे दीक्षित्वा क्रियमाणस्य संवत्सरयज्ञस्य एकैव निर्या निकृष्टा प्राप्तिः दोष इति यावत् । ‘आतश्चोपसर्गे’ इत्यङ् । का पुनस्सेत्याह - यदिति । संगता मेघाः अस्मिन्निति संमेघो वर्षाः संमेघा एव सांमेध्यम् । चतुर्वर्णादित्वात् ष्यञ् स्वार्थे । तत्र विषूवान् संपद्यते अहःक्रमेण संपतेत् । तत्र एकाशीतितममहरेकविंशोग्निष्टोमो विषूवान् । विष्वञ्चि नाना गच्छतीति अहानि पुरस्ताच्चास्येति विषूवान् । ‘अन्येषामपि दृश्यते’ इति दीर्घत्वम् । ‘ह्रस्वनुड्भ्याम्’ इति मतुऽप उदात्तत्वम् । अस्मिन्पक्षे एष दोषः, तथा हि - तत्रादित्यं दृष्ट्वा यत्कर्तव्यं तन्न भवेत् । अतः पक्षान्तरं परिगृह्णाति - चित्रापूर्णर्णमास इत्यादि । गतम् । चैत्रादिस्संवत्सर इति येषां मतं तदिदानीमुच्यते न काचन निर्या न कश्चित् दोषः ॥

मूलम् (संयुक्तम्)

चतुर॒हे पु॒रस्ता॑त्पौर्णमा॒स्यै दी॑क्षेर॒न्तेषा॑मेकाष्ट॒काया॑ङ्क्र॒यस्सम्प॑द्यते॒ तेनै॑काष्ट॒कान्न छ॒म्बट्कु॑र्वन्ति॒ तेषा॑म् [29]
पू॒र्व॒प॒क्षे सु॒त्या सम्प॑द्यते पूर्वप॒क्षम्मासा॑ अ॒भि सम्प॑द्यन्ते॒ ते पू॑र्वप॒क्ष उत्ति॑ष्ठन्ति॒ तानु॒त्तिष्ठ॑त॒ ओष॑धयो॒ वन॒स्पत॒योऽनूत्ति॑ष्ठन्ति॒ तान्क॑ल्या॒णी की॒र्तिरनूत्ति॑ष्ठ॒त्यरा॑त्सुरि॒मे यज॑माना॒ इति॒ तदनु॒ सर्वे॑ राध्नुवन्ति ॥ [30]

विश्वास-प्रस्तुतिः

च॒तु॒र॒हे पु॒रस्ता॑त् पौर्णमा॒स्यै दी॑क्षेरन् ।
तेषा॑मेकाष्ट॒काया॑ङ् क्र॒यस् सम्प॑द्यते ।

तेनै॑काष्ट॒कान्न छ॒म्बट्कु॑र्वन्ति । तेषा॑म् पूर्वप॒क्षे सु॒त्या सम्प॑द्यते । [29]

पू॒र्व॒प॒क्षम् मासा॑ अ॒भि सम्प॑द्यन्ते । ते पू॑र्वप॒क्ष उत्ति॑ष्ठन्ति ।

तान् उ॒त्तिष्ठ॑त॒ ओष॑धयो॒ वन॒स्पत॒योऽनूत्ति॑ष्ठन्ति ।
तान् क॑ल्या॒णी की॒र्तिरनु उत्ति॑ष्ठति + “अरा॑त्सुरि॒मे यज॑माना॒” इति॑ । तदनु॒ सर्वे॑ राध्नुवन्ति ॥ [30]

मूलम्

च॒तु॒र॒हे पु॒रस्ता॑त् पौर्णमा॒स्यै दी॑क्षेरन् ।
तेषा॑मेकाष्ट॒काया॑ङ् क्र॒यस् सम्प॑द्यते ।

तेनै॑काष्ट॒कान्न छ॒म्बट्कु॑र्वन्ति । तेषा॑म् पूर्वप॒क्षे सु॒त्या सम्प॑द्यते । [29]

पू॒र्व॒प॒क्षम् मासा॑ अ॒भि सम्प॑द्यन्ते । ते पू॑र्वप॒क्ष उत्ति॑ष्ठन्ति ।

तान् उ॒त्तिष्ठ॑त॒ ओष॑धयो॒ वन॒स्पत॒योऽनूत्ति॑ष्ठन्ति ।
तान् क॑ल्या॒णी की॒र्तिरनु उत्ति॑ष्ठति + “अरा॑त्सुरि॒मे यज॑माना॒” इति॑ । तदनु॒ सर्वे॑ राध्नुवन्ति ॥ [30]

भट्टभास्कर-टीका

6अधुना प्रथममेव पक्षं परिगृह्याह - चतुरह इत्याद ॥ माघ्याः पौर्णमास्याः पुरस्ताच्चतुरहे दीक्षमाणानामेकस्तावदयं गुणः । एकाष्टकायां त्वछम्बट्कारः । किंच तेषां पूर्वपक्षे सुत्या संपद्यते । ‘संज्ञायां समज’ इति क्विपि उदात्त इति हि तत्रानुवर्तयन्ति । सर्वेऽपि मासाः पर्वूपक्षमभिसंपद्यन्ते । पूर्वपक्ष एवारभ्यन्ते । पूर्वपक्षे एव च संतिष्ठन्ते । ते च यजमानाः पूर्वपक्ष एवोत्तिष्ठन्ति । तांश्चोत्तिष्ठतः सत्रिण ओषधयो वनस्पतय अनूत्तिष्ठन्ति समृद्धा जायन्ते । ततस्तान् सत्रिणः कल्याणी कीर्तिः पुण्या समृद्धिरनूत्तिष्ठति । अधुना तस्याः कीर्तेः स्वरूपं दर्शयति - अरात्सुरिति । अहो बुद्धिमन्तः सम्पन्ना इमे यजमाना इति । तदनु च तत्समृद्ध्या सर्वेऽपि स्थावरजङ्गमा राध्नुवन्ति पुष्ट्यादिद्वारेण समृद्धा भवन्तीति ॥

इति सप्तमे चतुर्थे अष्टमोनुवाकः ॥