विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
वसि॑ष्ठो ह॒तपु॑त्रोऽकामयत वि॒न्देय॑ प्र॒जाम॒भि सौ॑दा॒सान्भ॑वेय॒मिति॒ स ए॒तमे॑कस्मान्नपञ्चा॒शम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै सोऽवि॑न्दत प्र॒जाम॒भि सौ॑दा॒सान॑भव॒द्य ए॒वव्ँवि॒द्वाँस॑ एकस्मान्नपञ्चा॒शमास॑ते वि॒न्दन्ते॑ प्र॒जाम॒भि भ्रातृ॑व्यान्भवन्ति॒
विश्वास-प्रस्तुतिः
वसि॑ष्ठो ह॒तपु॑त्रोऽकामयत , “वि॒न्देय॑ प्र॒जाम्, अ॒भि सौ॑दा॒सान् भ॑वेय॒म्” इति॑ ।
मूलम्
वसि॑ष्ठो ह॒तपु॑त्रोऽकामयत , “वि॒न्देय॑ प्र॒जाम्, अ॒भि सौ॑दा॒सान् भ॑वेय॒म्” इति॑ ।
भट्टभास्कर-टीका
1अथैकस्मान्नपञ्चाशद्रात्राः । तत्रायं प्रथमो विधीयते - वसिष्ठ इत्यादि ॥ वसिष्ठः सौदासैः हतपुत्रोकामयत प्रजां विन्देय लिप्सीय सौदासांश्चाभिभवेयमिति ॥ सुदासस्यापत्यानि सोदासाः, ऋष्यण् ।
विश्वास-प्रस्तुतिः
स ए॒तमे॑कस्मान्नपञ्चा॒शम् अ॑पश्यत् । तमाह॑रत् । तेना॑यजत ।
ततो॒ वै सोऽवि॑न्दत प्र॒जाम॒भि सौ॑दा॒सान॑भवद् ।
य ए॒वव्ँ वि॒द्वाँस॑ एकस्मान्नपञ्चा॒शम् आस॑ते वि॒न्दन्ते॑ प्र॒जाम् , अ॒भि भ्रातृ॑व्यान् भवन्ति ।
मूलम्
स ए॒तमे॑कस्मान्नपञ्चा॒शम् अ॑पश्यत् । तमाह॑रत् । तेना॑यजत ।
ततो॒ वै सोऽवि॑न्दत प्र॒जाम॒भि सौ॑दा॒सान॑भवद् ।
य ए॒वव्ँ वि॒द्वाँस॑ एकस्मान्नपञ्चा॒शम् आस॑ते वि॒न्दन्ते॑ प्र॒जाम् , अ॒भि भ्रातृ॑व्यान् भवन्ति ।
भट्टभास्कर-टीका
एवकस्मान्नपञ्चाशमिति । एकेन ऊनेन पंचाशन्न भवतीति एकान्नपञ्चाशत् । ‘एकादिश्चैकस्य चादुक्’ इति नञः प्रकृत्या भावः, अदुगागमश्च । (सकारमकारावुपजातौ) । अलुग्वा पञ्चम्याः छान्दसः । ‘तस्य पूरणे डट्’ इति डट् । अवयवधर्मेण समुदायो व्यपदिश्यते । परिमाणे वा छान्दसो डः । य एवं विद्वांस इत्यादि । गतम् ॥
मूलम् (संयुक्तम्)
त्रय॑स्त्रि॒वृतो॑ऽग्निष्टो॒मा भ॑वन्ति॒ वज्र॑स्यै॒व मुखँ॒ सँ श्य॑न्ति॒ दश॑ पञ्चद॒शा भ॑वन्ति पञ्चद॒शो वज्रः॑ [25]
वज्र॑मे॒व भ्रातृ॑व्येभ्य॒ᳶ प्र ह॑रन्ति
विश्वास-प्रस्तुतिः
त्रय॑स्त्रि॒वृतो॑ऽग्निष्टो॒मा भ॑वन्ति । वज्र॑स्यै॒व मुखँ॒ सँ श्य॑न्ति ।
मूलम्
त्रय॑स्त्रि॒वृतो॑ऽग्निष्टो॒मा भ॑वन्ति । वज्र॑स्यै॒व मुखँ॒ सँ श्य॑न्ति ।
भट्टभास्कर-टीका
2त्रयस्त्रिवृत इति ॥ त्रिवृत् स्तोमकास्त्रयोग्निष्टोमा भवन्ति त्रिवृतो वज्रत्वात् तत्र मुखं श्यन्ति तीक्ष्णीकुर्वन्ति पौनःपुन्येन । यद्वा - भ्रातृव्याभिभवहेतुतया वज्रस्थानीयस्यास्य सत्रस्य मुखं त्रिभिस्त्रिवृद्धिः तीक्ष्णीकुर्वन्तीति ।
विश्वास-प्रस्तुतिः
दश॑ पञ्चद॒शा भ॑वन्ति ।
प॒ञ्च॒द॒शो वज्रः॑ [25]।
वज्र॑मे॒व भ्रातृ॑व्येभ्य॒ᳶ प्र ह॑रन्ति ।
मूलम्
दश॑ पञ्चद॒शा भ॑वन्ति ।
प॒ञ्च॒द॒शो वज्रः॑ [25]।
वज्र॑मे॒व भ्रातृ॑व्येभ्य॒ᳶ प्र ह॑रन्ति ।
भट्टभास्कर-टीका
दशेति । पञ्चदशस्तोमकानि दशाहानि भवन्ति अग्निष्टोमा इत्यधिकृत्य पञ्चदश उक्थ्या इत्याचार्यः । पञ्चदश इत्यादि । वीर्यवत्त्वेन वज्रवद्भ्रातृव्याभिभवहेतुत्वात् ॥
मूलम् (संयुक्तम्)
षोडशि॒मद्द॑श॒ममह॑र्भवति॒ वज्र॑ ए॒व वी॒र्य॑न्दधति॒ द्वाद॑श सप्तद॒शा भ॑वन्त्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तैर्जा॑यन्ते॒
विश्वास-प्रस्तुतिः
षो॒ड॒शि॒मद् द॑श॒मम् अह॑र् भवति ।
वज्र॑ ए॒व वी॒र्य॑न् दधति ।
द्वाद॑श सप्तद॒शा भ॑वन्त्य् अ॒न्नाद्य॒स्याव॑रुद्ध्यै ।
अथो॒ प्रैव तैर्जा॑यन्ते ।
मूलम्
षो॒ड॒शि॒मद् द॑श॒मम् अह॑र् भवति ।
वज्र॑ ए॒व वी॒र्य॑न् दधति ।
द्वाद॑श सप्तद॒शा भ॑वन्त्य् अ॒न्नाद्य॒स्याव॑रुद्ध्यै ।
अथो॒ प्रैव तैर्जा॑यन्ते ।
भट्टभास्कर-टीका
3षोडशिमदिति ॥ एषा दशममहष्षोडशिमद्भवति, षोडशधर्मवत् । वज्रो वीर्यं ससामर्थ्यं दधति जनयति । द्वादशेति । सप्तदशस्तोमकानि द्वादशाहानि भवन्ति । अन्नाद्यस्येति । सप्तदशस्यान्नाद्यहेतुत्वात् । अथो अपि च तैस्सप्तदशैः प्रजायन्ते च प्रजासाधनत्वात् सप्तदशस्य ॥
मूलम् (संयुक्तम्)
पृष्ठ्य॑ष्षड॒हो भ॑वति॒ षड्वा ऋ॒तव॒ष्षट्पृ॒ष्ठानि॑ पृ॒ष्ठैरे॒वर्तून॒न्वारो॑हन्त्यृ॒तुभि॑स्सव्ँवत्स॒रन्ते सव्ँ॑वत्स॒र ए॒व प्रति॑ तिष्ठन्ति॒ द्वाद॑शैकविँ॒शा भ॑वन्ति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्न् [26]
द॒ध॒ते॒
विश्वास-प्रस्तुतिः
पृष्ठ्य॑ष्षड॒हो भ॑वति । षड्वा ऋ॒तवः॑ ।
षट्पृ॒ष्ठानि॑ । पृ॒ष्ठैरे॒वर्तून् अ॒न्वारो॑हन्ति ।
ऋ॒तुभि॑स् सव्ँवत्स॒रम् ।
ते सव्ँ॑वत्स॒र ए॒व प्रति॑ तिष्ठन्ति ।
द्वाद॑शैकविँ॒शा भ॑वन्ति॒ प्रति॑ष्ठित्यै ।
अथो॒ रुच॑मे॒वात्मन् दधते ।[26]
मूलम्
पृष्ठ्य॑ष्षड॒हो भ॑वति । षड्वा ऋ॒तवः॑ ।
षट्पृ॒ष्ठानि॑ । पृ॒ष्ठैरे॒वर्तून् अ॒न्वारो॑हन्ति ।
ऋ॒तुभि॑स् सव्ँवत्स॒रम् ।
ते सव्ँ॑वत्स॒र ए॒व प्रति॑ तिष्ठन्ति ।
द्वाद॑शैकविँ॒शा भ॑वन्ति॒ प्रति॑ष्ठित्यै ।
अथो॒ रुच॑मे॒वात्मन् दधते ।[26]
भट्टभास्कर-टीका
4पृष्ठ्य इत्यादि ॥ व्याख्यातम् - द्वादशेति । एकविंशस्तोमकानि द्वादशाहानि भवन्तीति । प्रतिष्ठित्या इत्यादि । एकविंशस्य प्रतिष्ठाहेतुत्वमुक्तम् । अथो अपि च रुचं दीप्तिं आत्मन्येव दधते । रुग्वा एकविंश इत्यादि । तत्सावनत्वात्तस्य ॥
मूलम् (संयुक्तम्)
ब॒हव॑ष्षोड॒शिनो॑ भवन्ति॒ विजि॑त्यै॒ षडा॑श्वि॒नानि॑ भवन्ति॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठन्त्य्
विश्वास-प्रस्तुतिः
ब॒हव॑ष् षोड॒शिनो॑ भवन्ति॒ विजि॑त्यै ।
षड् आ॑श्वि॒नानि॑ भवन्ति ।
षड्वा ऋ॒तवः॑ ।
ऋ॒तुष्वे॒व प्रति॑ तिष्ठन्ति ।
मूलम्
ब॒हव॑ष् षोड॒शिनो॑ भवन्ति॒ विजि॑त्यै ।
षड् आ॑श्वि॒नानि॑ भवन्ति ।
षड्वा ऋ॒तवः॑ ।
ऋ॒तुष्वे॒व प्रति॑ तिष्ठन्ति ।
भट्टभास्कर-टीका
5बहव इति ॥ अनन्तरोक्तेष्वेकविंशेषु अनन्तर वक्ष्यमाणेषु वा बहवप्षोडशिनो भवन्ति विजयाय । षडाश्विनानीति । अतिरात्रा अन्ते पञ्च आदावेक इत्याचार्य आह प्रथमं….. ….पञ्च [प्रथमः पञ्चमः] षोडश एकान्नत्रिंशत्, षट्त्रिंशत्, एकान्न पञ्चाशच्च षडतिरात्राः । षड्वा इत्यादि । गतम् ॥
मूलम् (संयुक्तम्)
ऊनातिरि॒क्ता वा ए॒ता रात्र॑य ऊ॒नास्तद्यदेक॑स्यै॒ न प॑ञ्चा॒शदति॑रिक्ता॒स्तद्यद्भूय॑सीर॒ष्टाच॑त्वारिँशत ऊ॒नाच्च॒ खलु॒ वा अति॑रिक्ताच्च प्र॒जाप॑ति॒ᳶ प्राजा॑यत॒ ये प्र॒जाका॑माᳶ प॒शुका॑मा॒स्स्युस्त ए॒ता आ॑सीर॒न्प्रैव जा॑यन्ते प्र॒जया॑ प॒शुभि॑र्
विश्वास-प्रस्तुतिः
ऊ॒ना॒ति॒रि॒क्ता वा ए॒ता रात्र॑यः । ऊ॒नास्तद् यदेक॑स्यै॒ न प॑ञ्चा॒शद् , अति॑रिक्ता॒स् तद् यद् भूय॑सीर् अ॒ष्टाच॑त्वारिँशतः ।
मूलम्
ऊ॒ना॒ति॒रि॒क्ता वा ए॒ता रात्र॑यः । ऊ॒नास्तद् यदेक॑स्यै॒ न प॑ञ्चा॒शद् , अति॑रिक्ता॒स् तद् यद् भूय॑सीर् अ॒ष्टाच॑त्वारिँशतः ।
भट्टभास्कर-टीका
6ऊनातिरिक्ता वा इत्यादि ॥ एता एकान्नपञ्चाशद्रात्रयः ऊनाश्चातिरिक्ताश्च । कथमूनत्वं कथमतिरिक्तत्वमित्याह - ऊनास्तदित्यादि । यत् यस्मादेताः रात्रयः एकस्यै एकया । व्यत्ययेन तृतीयार्थे चतुर्थी । न पञ्चाशत् पञ्चाशन्न भवति पञ्चाशत्संख्यां न लभन्ते । तस्मादूना, । यस्माच्च अष्टाचत्वारिंशतो भुयसीः भूयस्यः अष्टाचत्वारिंशत्संख्यामतीत्य वर्तन्ते तस्मादतिरिक्ताः । अष्टाचत्वारिंशदक्षरा जगती जागताः पशवो द्विपादश्चतुतपादश्च सर्वे विराड्दशाक्षराः पञ्च विराजः पञ्चाशद्विराट् चान्नं तच्च सर्वाः प्रजाः ।
विश्वास-प्रस्तुतिः
ऊ॒नाच्च॒ खलु॒ वा अति॑रिक्ताच्च प्र॒जाप॑ति॒ᳶ प्राजा॑यत ।
ये प्र॒जाका॑माᳶ प॒शुका॑मा॒स्स्युस् त ए॒ता आ॑सीरन् ।
प्रैव जा॑यन्ते प्र॒जया॑ प॒शुभिः॑ ।
मूलम्
ऊ॒नाच्च॒ खलु॒ वा अति॑रिक्ताच्च प्र॒जाप॑ति॒ᳶ प्राजा॑यत ।
ये प्र॒जाका॑माᳶ प॒शुका॑मा॒स्स्युस् त ए॒ता आ॑सीरन् ।
प्रैव जा॑यन्ते प्र॒जया॑ प॒शुभिः॑ ।
भट्टभास्कर-टीका
किं च ऊनाच्चातिरिक्ताच्च कारणवस्तुनः प्रजापतिः प्राजायत प्रजाः प्राजनयन् सर्वाः, तद्धि औपाधिकेन रूपेण ऊनं पारमार्थिकेन च अतिरिक्तं सर्वातिशायीति । एवमपि प्रजाकारणेन संख्याद्वयेन ऊनातिरिक्तस्वरूपतापदेन उपजायमाना एकान्नपञ्चाशत्संख्या ऊनातिरिक्तस्वभावशालि परकारणवस्तु सदृशीभवतीति । एता एकान्नपञ्चाशतं रात्रीरासित्वा प्रजया पशुभिश्च प्रजायन्ते यजमानाः कारणगतस्योनातिरिक्तस्याभावात् पञ्चाशदष्टाचत्वारिंशत्सख्ययोः अकारणत्वमेवेति भावः । अष्टौ चत्वारिंशच्च अष्टाचत्वारिंशत् । ‘अष्टनस्सङ्ख्यायाम्’ इत्यात्वम्, ‘सङ्ख्या’ इति पूर्वपदप्रकृतिस्वरत्वम् ॥
मूलम् (संयुक्तम्)
वैरा॒जो वा ए॒ष य॒ज्ञो यदे॑कस्मान्नपञ्चा॒शो य ए॒वव्ँवि॒द्वाँस॑ एकस्मान्नपञ्चा॒शमास॑ते वि॒राज॑मे॒व ग॑च्छन्त्यन्ना॒दा भ॑वन्त्यतिरा॒त्राव॒भितो॑ भवतो॒ऽन्नाद्य॑स्य॒ परि॑गृहीत्यै ॥ [27]
विश्वास-प्रस्तुतिः
वै॒रा॒जो वा ए॒ष य॒ज्ञो यदे॑कस्मान्नपञ्चा॒शः ।
य ए॒वव्ँ वि॒द्वाँस॑ एकस्मान्नपञ्चा॒शमास॑ते ,
वि॒राज॑मे॒व ग॑च्छन्त्य्, अन्ना॒दा भ॑वन्ति ।
मूलम्
वै॒रा॒जो वा ए॒ष य॒ज्ञो यदे॑कस्मान्नपञ्चा॒शः ।
य ए॒वव्ँ वि॒द्वाँस॑ एकस्मान्नपञ्चा॒शमास॑ते ,
वि॒राज॑मे॒व ग॑च्छन्त्य्, अन्ना॒दा भ॑वन्ति ।
भट्टभास्कर-टीका
7किञ्चेत्याह - वैराज इत्यादि ॥ इदानीं सप्तमस्य प्रजाकारणस्य अन्नस्य साधनभावेन ताद्रूप्यमुपचर्य स्तुतिः क्रियते विराडेव वैराजः । स्वार्थिकोऽण् । यद्वा - विराजस्साधनभावेन संबन्धी वैराजः । विराजमिति । प्रभूतमन्नं प्राप्नुवन्ति । अन्नादाश्च भवन्तीति ।
विश्वास-प्रस्तुतिः
अ॒ति॒रा॒त्राव॒भितो॑ भवतो॒ऽन्नाद्य॑स्य॒ परि॑गृहीत्यै ॥ [27]
मूलम्
अ॒ति॒रा॒त्राव॒भितो॑ भवतो॒ऽन्नाद्य॑स्य॒ परि॑गृहीत्यै ॥ [27]
भट्टभास्कर-टीका
अतिरात्राविति उक्तयोरेवानुवादः अन्नाद्यपरिग्रहाभिधानार्थः ॥
इति सप्तमे चतुर्थे सप्तमोनुवाकः ॥