०६ षट्त्रिंशद्रात्रः

विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

आ॒दि॒त्या अ॑कामयन्त सुव॒र्गल्ँ लो॒कमि॑या॒मेति॒ ते सु॑व॒र्गल्ँ लो॒कन्न प्राजा॑न॒न्न सु॑व॒र्गल्ँ लो॒कमा॑य॒न्त ए॒तँ ष॑ट्त्रिँशद्रा॒त्रम॑पश्य॒न्तमाह॑र॒न्तेना॑यजन्त॒ ततो॒ वै ते सु॑व॒र्गल्ँ लो॒कम्प्राजा॑नन्त्सुव॒र्गल्ँ लो॒कमा॑य॒न्य ए॒वव्ँवि॒द्वाँस॑ष्षट्त्रिँशद्रा॒त्रमास॑ते सुव॒र्गमे॒व लो॒कम्प्र जा॑नन्ति सुव॒र्गल्ँ लो॒कय्ँय॑न्ति॒ ज्योति॑रतिरा॒त्रः [22]
भ॒व॒ति॒ ज्योति॑रे॒व पु॒रस्ता॑द्दधते सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै

विश्वास-प्रस्तुतिः

आ॒दि॒त्या अ॑कामयन्त - सुव॒र्गल्ँ लो॒कमि॑या॒मेति । ते सु॑व॒र्गल्ँ लो॒कन् न प्राजा॑न॒न्न सु॑व॒र्गल्ँ लो॒कमा॑यन् ।
त ए॒तँ ष॑ट्त्रिँशद् रा॒त्रम् अ॑पश्यन् । तमाह॑रन् । तेना॑यजन्त ।
ततो॒ वै ते सु॑व॒र्गल्ँ लो॒कम् प्राजा॑नन्त्सुव॒र्गल्ँ लो॒कमा॑यन् ।
य ए॒वव्ँ वि॒द्वाँस॑ष् षट्त्रिँशद्रा॒त्रमास॑ते सुव॒र्गमे॒व लो॒कम् प्र जा॑नन्ति , सुव॒र्गल्ँ लो॒कय्ँ य॑न्ति ।

ज्योति॑रतिरा॒त्रो भ॑वति ।[22]
ज्योति॑रे॒व पु॒रस्ता॑द् दधते सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै ।

मूलम्

भट्टभास्कर-टीका

1अथ षट्त्रिंशद्रात्रो विधीयते - आदित्या इत्यादि ॥ गतम् । ते सुवर्गं लोकं न प्रजानन् न चागच्छन् । ज्योतिरित्यादि । व्याख्यातम् ॥

मूलम् (संयुक्तम्)

षड॒हा भ॑वन्ति॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठन्ति च॒त्वारो॑ भवन्ति॒ चत॑स्रो॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठ॒न्त्य्

विश्वास-प्रस्तुतिः

षड॒हा भ॑वन्ति । षड्वा ऋ॒तवः॑ । ऋ॒तुष्वे॒व प्रति॑ तिष्ठन्ति ।
च॒त्वारो॑ भवन्ति । चत॑स्रो॒ दिशः॑ । दि॒क्ष्वे॑व प्रति॑ तिष्ठ॒न्ति ।

मूलम्

षड॒हा भ॑वन्ति । षड्वा ऋ॒तवः॑ । ऋ॒तुष्वे॒व प्रति॑ तिष्ठन्ति ।
च॒त्वारो॑ भवन्ति । चत॑स्रो॒ दिशः॑ । दि॒क्ष्वे॑व प्रति॑ तिष्ठ॒न्ति ।

भट्टभास्कर-टीका

2षडहा इति ॥ अभिप्लवाः । ते चोक्ताः । चत्वार इति । तेनातिरात्रेण सह पञ्चविंशतिः ॥

मूलम् (संयुक्तम्)

अस॑त्त्रव्ँ॒वा ए॒तद्यद॑छन्दो॒मय्ँयच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रन्दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्य॑म्पृ॒ष्ठानि॑ प॒शव॑श्छन्दो॒मा ओज॑स्ये॒व [23]
वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति

विश्वास-प्रस्तुतिः

अस॑त्त्रव्ँ॒ वा ए॒तद् यद॑छन्दो॒मम् ।
यच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रम् ।
दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ् छ॑न्दो॒मैः ।
ओजो॒ वै वी॒र्य॑म् पृ॒ष्ठानि॑ प॒शव॑श् छन्दो॒माः ।
ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति ।[23]

3असत्रं वा इत्यादि ॥ द्वादशाहीयस्य दशरात्रस्य विधिर्गतः ॥

मूलम् (संयुक्तम्)

षट्त्रिँशद्रा॒त्रो भ॑वति॒ षट्त्रिँ॑शदक्षरा बृह॒ती बार्ह॑ताᳶ प॒शवो॑ बृह॒त्यैव प॒शूनव॑ रुन्धते बृह॒ती छन्द॑साँ॒ स्वारा॑ज्यमाश्ञुताश्ञु॒वते॒ स्वारा॑ज्यय्ँ॒य ए॒वव्ँवि॒द्वाँस॑ष्षट्त्रिँशद्रा॒त्रमास॑ते सुव॒र्गमे॒व लो॒कय्ँय॑न्त्यतिरा॒त्राव॒भितो॑ भवतस्सुव॒र्गस्य॑ लो॒कस्य॒ परि॑गृहीत्यै ॥ [24]

विश्वास-प्रस्तुतिः

ष॒ट्त्रिँ॒श॒द्रा॒त्रो भ॑वति । षट्त्रिँ॑शदक्षरा बृह॒ती । बार्ह॑ताᳶ प॒शवः॑ ।

मूलम्

ष॒ट्त्रिँ॒श॒द्रा॒त्रो भ॑वति । षट्त्रिँ॑शदक्षरा बृह॒ती । बार्ह॑ताᳶ प॒शवः॑ ।

भट्टभास्कर-टीका

4षत्रिंदशद्रात्र इति ॥ वक्ष्यमाणेन अतिरात्रेण सह । बार्हताः पशव इति तस्याः पशुसिद्धिहेतुत्वात् । तेन च षट्त्रिंशत्सङ्ख्यान्वयेन बार्हतान् पशून् अवरुन्धते । बृहतीशब्द उत्सादिरित्युक्तम् ।

विश्वास-प्रस्तुतिः

बृ॒ह॒त्यैव प॒शूनव॑ रुन्धते । बृ॒ह॒ती छन्द॑साँ॒ स्वारा॑ज्यमाश्नुत । अ॒श्नु॒वते॒ स्वारा॑ज्यम् ।
य ए॒वव्ँ वि॒द्वाँस॑ष् षट्त्रिँशद् रा॒त्रमास॑ते सुव॒र्गमे॒व लो॒कय्ँ य॑न्ति ।

मूलम्

बृ॒ह॒त्यैव प॒शूनव॑ रुन्धते । बृ॒ह॒ती छन्द॑साँ॒ स्वारा॑ज्यमाश्नुत । अ॒श्नु॒वते॒ स्वारा॑ज्यम् ।
य ए॒वव्ँ वि॒द्वाँस॑ष् षट्त्रिँशद् रा॒त्रमास॑ते सुव॒र्गमे॒व लो॒कय्ँ य॑न्ति ।

भट्टभास्कर-टीका

बृहती छन्दसामित्यादि । यस्माद्बृहती छन्दसां स्वाराज्यमाश्नुत आधिपत्यं प्राप्तवती तस्मादेवं विद्वांसो यजमाना राज्यमश्नुवते स्वर्गं च गच्छन्ति ।

विश्वास-प्रस्तुतिः

अ॒ति॒रा॒त्राव् अ॒भितो॑ भवतस् सुव॒र्गस्य॑ लो॒कस्य॒ परि॑गृहीत्यै ॥ [24]

मूलम्

अ॒ति॒रा॒त्राव् अ॒भितो॑ भवतस् सुव॒र्गस्य॑ लो॒कस्य॒ परि॑गृहीत्यै ॥ [24]

भट्टभास्कर-टीका

अतिरात्रौ चाभितो भवतः स्वर्गस्यैव परिग्रहाय । समानवाक्ये पदात्परत्वाभावात्तिङ्परत्वाद्वा अश्नुवत इति न निहन्यते । स्वाराज्यं स्वराट्छब्दात् ‘गुणवचनब्राह्मणादिभ्यः’ इतिष्यञ् ॥

इति सप्तमे चतुर्थे षष्ठोनुवाकः ॥