०५ त्रयस्त्रिंशरात्रः

विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

द्वे वाव दे॑वस॒त्त्रे द्वा॑दशा॒हश्चै॒व त्र॑यस्त्रिँशद॒हश्च॒ य ए॒वव्ँवि॒द्वाँस॑स्त्रयस्त्रिँशद॒हमास॑ते सा॒क्षादे॒व दे॒वता॑ अ॒भ्यारो॑हन्ति॒ यथा॒ खलु॒ वै श्रेया॑न॒भ्यारू॑ढᳵ का॒मय॑ते॒ तथा॑ करोति॒ यद्य॑व॒विध्य॑ति॒ पापी॑यान्भवति॒ यदि॒ नाव॒विध्य॑ति स॒दृङ्य ए॒वव्ँवि॒द्वाँस॑स्त्रयस्त्रिँशद॒हमास॑ते॒ वि पा॒प्मना॒ भ्रातृ॑व्ये॒णा व॑र्तन्ते

विश्वास-प्रस्तुतिः

द्वे वाव दे॑वस॒त्त्रे द्वा॑दशा॒हश्चै॒व त्र॑यस्त्रिँशद॒हश्च॑ ।
य ए॒वव्ँ वि॒द्वाँस॑स् त्रयस्त्रिँशद॒हम् आस॑ते , सा॒क्षादे॒व दे॒वता॑ अ॒भ्यारो॑हन्ति ।

मूलम्

द्वे वाव दे॑वस॒त्त्रे द्वा॑दशा॒हश्चै॒व त्र॑यस्त्रिँशद॒हश्च॑ ।
य ए॒वव्ँ वि॒द्वाँस॑स् त्रयस्त्रिँशद॒हम् आस॑ते , सा॒क्षादे॒व दे॒वता॑ अ॒भ्यारो॑हन्ति ।

भट्टभास्कर-टीका

1अथ त्रयस्त्रिंशद्रात्राः । तत्र प्रथमः प्रस्तूयते - द्वे ववेत्यादि ॥ देवसत्रे देवानां प्रधानभूते अभिमते सत्रे अत एव देवप्राप्तौ मुख्यसाधनभूते तस्मादेतेन त्रयस्त्रिंशदहेन साक्षादव्यवधानेन देवता अभ्यारोहन्ति सर्वपापनिवृत्तिहेतुत्वात् अस्य । ‘गतिर्गतौ’ इति पूर्वस्य निपातः, समासश्च ।

विश्वास-प्रस्तुतिः

यथा॒ खलु॒ वै श्रेया॑न् अ॒भ्यारू॑ढᳵ का॒मय॑ते॒ , तथा॑ करोति।
यद्य॑व॒विध्य॑ति॒ पापी॑यान् भवति । यदि॒ नाव॒विध्य॑ति स॒दृङ् ।
य ए॒वव्ँ वि॒द्वाँस॑स् त्रयस्त्रिँशद॒हम् आस॑ते॒ , वि पा॒प्मना॒ भ्रातृ॑व्ये॒णा ऽऽव॑र्तन्ते ।

तदेवाह - यथा खल्वित्यादि । यथा लोके कश्चित्छ्रेयान् पुरुषः अभ्यारूढः कामयते पुनरप्युच्छ्रितो भवितुं कामयते तथा च करोति तदनुरूपं च यागादि कर्मारभते तथा कुर्वन्नसौ यद्यवविध्यति तन्निर्वहणाशक्तौ यद्यवहीयते पापीयान् पापतरो भवति श्रेयानेव स्यात् । अथ यदि कश्चिन्नावविध्यति सदृङ् समानरूप एव स्यात् नोत्कर्षलाभः, प्रमादसम्भावनया निर्दोषत्वनिश्चयाभावात् । त्रयस्त्रिंशदहस्तु तमपि दोषं निवर्तयतीति भ्रातृव्यभूतेन सर्वेण पाप्मना व्यावर्तन्ते व्यावृत्तिं गच्छन्ति । तस्मादनेन साक्षाद्देवता अभ्यारोहत्येवेति स्तुत्या विधीयते ॥

मूलम् (संयुक्तम्)

अह॒र्भाजो॒ वा ए॒ता दे॒वा अग्र॒ आह॑रन्न् [18]
अह॒रेकोऽभ॑ज॒ताह॒रेक॒स्ताभि॒र्वै ते प्र॒बाहु॑गार्ध्नुव॒न्य ए॒वव्ँवि॒द्वाँस॑स्त्रयस्त्रिँशद॒हमास॑ते॒ सर्व॑ ए॒व प्र॒बाहु॑गृध्नुवन्ति॒ सर्वे॒ ग्राम॑णीय॒म्प्राप्नु॑वन्ति

विश्वास-प्रस्तुतिः

अह॒र्भाजो॒ वा ए॒ता दे॒वा अग्र॒ आह॑रन् [18]।
अह॒रेकोऽभ॑ज॒ताह॒रेकः॑ । ताभि॒र् वै ते प्र॒बाहु॑गार्ध्नुवन् ।

मूलम्

अह॒र्भाजो॒ वा ए॒ता दे॒वा अग्र॒ आह॑रन् [18]।
अह॒रेकोऽभ॑ज॒ताह॒रेकः॑ । ताभि॒र् वै ते प्र॒बाहु॑गार्ध्नुवन् ।

भट्टभास्कर-टीका

2अहर्भाज इत्यादि ॥ एकमहरेको भजते इतरमितर इत्येकैकमहर्भजमाना देवा एताः त्रयस्त्रिंशतं रात्रीराहरन् । अहरेको भजताहरेकः इति वीप्सा विस्पष्टं दर्शयति । अथ ताभिस्ते प्रबाहुक्समं आर्ध्रुवन् सर्वे ।

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वि॒द्वाँस॑स् त्रयस्त्रिँशद॒हमास॑ते॒ , सर्व॑ ए॒व प्र॒बाहु॑गृध्नुवन्ति ।
सर्वे॒ ग्राम॑णीय॒म् प्राप्नु॑वन्ति ।

मूलम्

य ए॒वव्ँ वि॒द्वाँस॑स् त्रयस्त्रिँशद॒हमास॑ते॒ , सर्व॑ ए॒व प्र॒बाहु॑गृध्नुवन्ति ।
सर्वे॒ ग्राम॑णीय॒म् प्राप्नु॑वन्ति ।

भट्टभास्कर-टीका

य एवमित्यादि । गतम् । ग्रामणीयं सङ्घातस्य नेतृत्वम् । ब्राह्मणादित्वात् ण्यञ् । यस्येति लोपाभावश्छान्दसः । ङित्त्वादाद्युदात्तत्वम् ॥

मूलम् (संयुक्तम्)

पञ्चा॒हा भ॑वन्ति॒ पञ्च॒ वा ऋ॒तव॑स्सव्ँवत्स॒र ऋ॒तुष्वे॒व सव्ँ॑वत्स॒रे प्रति॑ तिष्ठ॒न्त्यथो॒ पञ्चा॑क्षरा प॒ङ्क्तिᳶ पाङ्क्तो॑ य॒ज्ञ य॒ज्ञमे॒वाव॑ रुन्धते॒

विश्वास-प्रस्तुतिः

प॒ञ्चा॒हा भ॑वन्ति । पञ्च॒ वा ऋ॒तव॑स्सव्ँवत्स॒रः ।
ऋ॒तुष्वे॒व सव्ँ॑वत्स॒रे प्रति॑ तिष्ठन्ति ।
अथो॒ पञ्चा॑क्षरा प॒ङ्क्तिः । पाङ्क्तो॑ य॒ज्ञः । य॒ज्ञमे॒वाव॑ रुन्धते ।

मूलम्

प॒ञ्चा॒हा भ॑वन्ति । पञ्च॒ वा ऋ॒तव॑स्सव्ँवत्स॒रः ।
ऋ॒तुष्वे॒व सव्ँ॑वत्स॒रे प्रति॑ तिष्ठन्ति ।
अथो॒ पञ्चा॑क्षरा प॒ङ्क्तिः । पाङ्क्तो॑ य॒ज्ञः । य॒ज्ञमे॒वाव॑ रुन्धते ।

भट्टभास्कर-टीका

3पञ्चाहा इत्यादि ॥ अह्नां प्रदर्शनम् । पश्चाह उक्तः । आभिप्लाविका ज्योतिरादयः अन्त्येन विधिना गृह्यन्ते । सामर्थ्यान् चत्वारः पञ्चाहा भवन्ति, तथाभिमतसङ्ख्यापूरणात् । पञ्च वा ऋतव इत्यादि । व्याख्यातम् ॥

मूलम् (संयुक्तम्)

त्रीण्या॑श्वि॒नानि॑ भवन्ति॒ त्रय॑ इ॒मे लो॒का ए॒षु [19]
ए॒व लो॒केषु॒ प्रति॑ तिष्ठ॒न्त्यथो॒ त्रीणि॒ वै य॒ज्ञस्ये॑न्द्रि॒याणि॒ तान्ये॒वाव॑ रुन्धते विश्व॒जिद्भ॑वत्य॒न्नाद्य॒स्याव॑रुद्ध्यै॒ सर्व॑पृष्ठो भवति॒ सर्व॑स्या॒भिजि॑त्यै॒

विश्वास-प्रस्तुतिः

त्रीण्या॑श्वि॒नानि॑ भवन्ति ।
त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठ॒न्ति [19]।

मूलम्

त्रीण्या॑श्वि॒नानि॑ भवन्ति ।
त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठ॒न्ति [19]।

भट्टभास्कर-टीका

4त्रीण्याश्विनानीत्यादि ॥ आश्विनेन शस्त्रेण लक्षितानि त्रीण्यहानि अतिरात्राख्यानि । आद्यं मध्यममन्त्यं च । तैः त्रिषु लोकेषु प्रतिष्ठिता भवन्ति त्रित्वान्वयात् ।

विश्वास-प्रस्तुतिः

अथो॒ त्रीणि॒ वै य॒ज्ञस्य + इ॑न्द्रि॒याणि । तान्य् ए॒वाव॑ रुन्धते ।

मूलम्

अथो॒ त्रीणि॒ वै य॒ज्ञस्य + इ॑न्द्रि॒याणि । तान्य् ए॒वाव॑ रुन्धते ।

भट्टभास्कर-टीका

अथो अपि च यज्ञस्येन्द्रियाणि त्रीणि ऋगादीनि गायत्रादीनि वा सवनानि तान्यवरुन्धते ।

विश्वास-प्रस्तुतिः

वि॒श्व॒जिद् भ॑वत्य् अ॒न्नाद्य॒स्याव॑रुद्ध्यै ।
सर्व॑पृष्ठो भवति॒ सर्व॑स्या॒भिजि॑त्यै ।

मूलम्

वि॒श्व॒जिद् भ॑वत्य् अ॒न्नाद्य॒स्याव॑रुद्ध्यै ।
सर्व॑पृष्ठो भवति॒ सर्व॑स्या॒भिजि॑त्यै ।

भट्टभास्कर-टीका

विश्वजित् मध्यममहः सर्वपृष्ठश्च भवति । तत्र विश्वज्जिद्धर्मतया अन्नाद्यावरोधः । सर्वपृष्ठत्वगुणेन सर्वस्य जयः । ततश्चत्रिषु पञ्चाहेषु व्यतीतेषु विश्वजित् अतिरात्रः तत एकाहः पञ्चाह इति (आद्यन्तातिरात्रौ) इत्थं त्रयोविंशतिरहानि भवन्ति ॥

मूलम् (संयुक्तम्)

वाग्वै द्वा॑दशा॒हो यत्पु॒रस्ता॑द्द्वादशा॒हमु॑पे॒युरना॑प्ताव्ँ॒वाच॒मुपे॑युरुप॒दासु॑कैषाव्ँ॒वाक्स्या॑दु॒परि॑ष्टाद्द्वादशा॒हमुप॑ यन्त्या॒प्तामे॒व वाच॒मुप॑ यन्ति॒ तस्मा॑दु॒परि॑ष्टाद्वा॒चा व॑दामो

विश्वास-प्रस्तुतिः

वाग्वै द्वा॑दशा॒हः । यत्पु॒रस्ता॑द् द्वादशा॒हम् उ॑पे॒युर् , अना॑प्ताव्ँ॒ वाच॒म् उपे॑युर्, उप॒दासु॑कैषाव्ँ॒ वाक्स्या॑त् ।

उ॒परि॑ष्टाद् द्वादशा॒हमुप॑ यन्ति ।
आ॒प्तामे॒व वाच॒मुप॑ यन्ति । तस्मा॑द् उ॒परि॑ष्टाद् वा॒चा व॑दामः ।

5अथ द्वादशाहः परिशिष्यते, विधातुमाह - वाग्वा इत्यादि ॥ तद्धेतुत्वात्ताच्छब्द्यम् । विश्वजितोतिरात्रात् पुरस्ताद्यदि द्वादशाहमुपेयुः अनाप्तां अपर्याप्तां मन्त्रैः क्षीणां उपेयुः । ततश्चोपदासुका उपक्षयशीला यजमानानां वाक् स्यात् । छान्दस उकञ् । तस्मादुपरिष्टादेव द्वादशाहमुपयन्ति । आप्तामेव वाचमुपयन्ति । तस्मात् उपरिष्टात् ऊर्ध्वं नाभेर्वर्तमानतया उच्छ्रिततया सर्वेऽपि वयं वदामः ॥

मूलम् (संयुक्तम्)

ऽवान्त॒रम् [20]
वै द॑शरा॒त्रेण॑ प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत॒ यद्द॑शरा॒त्रो भव॑ति प्र॒जा ए॒व तद्यज॑मानास्सृजन्त ए॒ताँ ह॒ वा उ॑द॒ङ्कश्शौ॑ल्बाय॒नस्स॒त्त्रस्यर्द्धि॑मुवाच॒ यद्द॑शरा॒त्रो यद्द॑शरा॒त्रो भव॑ति स॒त्त्रस्यर्द्ध्या॒ अथो॒ यदे॒व पूर्वे॒ष्वह॑स्सु॒ विलो॑म क्रि॒यते॒ तस्यै॒वैषा शान्ति॑

विश्वास-प्रस्तुतिः

अ॒वा॒न्त॒रव्ँ वै द॑शरा॒त्रेण॑ प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।[20]
यद्द॑शरा॒त्रो भव॑ति प्र॒जा ए॒व तद्यज॑मानास् सृजन्ते ।
ए॒ताँ ह॒ वा उ॑द॒ङ्कश् शौ॑ल्बाय॒नस् स॒त्त्रस्य + ऋद्धि॑मुवाच॒ यद् द॑शरा॒त्रः ।
यद् द॑शरा॒त्रो भव॑ति स॒त्त्रस्यर्द्ध्यै॑ ।
अथो॒ यदे॒व पूर्वे॒ष्व् अह॑स्सु॒ विलो॑म क्रि॒यते॒ , तस्यै॒वैषा शान्तिः॑ ।

6इदानीं द्वादशाहीयं दशरात्रमुपादित्समानः स्तौति - अवान्तरमित्यादि ॥ द्वादशाहावयवभूतेन दशरात्रेणेत्यर्थः । पुनरपि स्तौति - तामित्यादि । शुल्बस्य उदङ्को नाम पुत्र एतामेव दशरात्रात्मिकां सत्रस्य द्वादशाहस्य ऋद्धिं सत्रफलस्य वाचस्स्समृद्विं समृद्धिहेतुमुवाच । यद्वा - सत्रस्य त्रयस्त्रिंशद्रात्रस्य ऋद्धिं फलसमृद्धिहेतुं एतद्दशरात्रमुवाच तस्माद्दशरात्रः सत्रस्य ऋद्ध्यै भवति । अथो अपि च यत्पूर्वेष्वहस्सु प्रमादाद्विलोम विगुणं क्रियते तस्य शान्तिरेषैवेति वेदितव्यम् ॥

मूलम् (संयुक्तम्)

र्द्व्यनी॒का वा ए॒ता रात्र॑यो॒ यज॑माना विश्व॒जित्स॒हाति॑रा॒त्रेण॒ पूर्वा॒ष्षोड॑श स॒हाति॑रा॒त्रेणोत्त॑रा॒ष्षोड॑श॒ य ए॒वव्ँवि॒द्वाँस॑स्त्रयस्त्रिँशद॒हमास॑त॒ ऐ॑षा॑न्द्व्यनी॒का प्र॒जा जा॑यतेऽतिरा॒त्राव॒भितो॑ भवत॒ᳶ परि॑गृहीत्यै ॥ [21]

विश्वास-प्रस्तुतिः

द्व्य॒नी॒का वा ए॒ता रात्र॑यो॒ यज॑माना विश्व॒जित् ।
स॒हाति॑रा॒त्रेण॒ पूर्वा॒ष् षोड॑श , स॒हाति॑रा॒त्रेणोत्त॑रा॒ष् षोड॑श ।
य ए॒वव्ँ वि॒द्वाँस॑स् त्रयस्त्रिँशद॒हमास॑त॒ , ऐ॑षा॑न् द्व्यनी॒का प्र॒जा जा॑यते ।
अ॒ति॒रा॒त्राव॒भितो॑ भवत॒ᳶ परि॑गृहीत्यै ॥ [21]

7’द्व्यनीका इत्यादि ॥ द्व्यनीकाः द्विव्यूहा । निरुदकादित्वादुतरपदान्तोदात्तत्वम् । तत्रातिरात्रादिषोडशक आद्यो व्यूहः । अतिरात्रान्त अन्यो व्यूहः । तयोरन्तर्विश्वजिदतिरात्रः यजमानात्मा । तदिदमाह - यजमाना विश्वजिदित्यादि । द्व्यनीका स्त्रीपुंसात्मकव्यूहद्वयवती प्रजा आजायते सर्वतो जायते । अभितोऽतिरात्रौ सामर्थ्यात् उक्तानां कलानां परिग्रहाय भवतः ॥

इति सप्तमे चतुर्थे पञ्चमोनुवाकः ॥