विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
प्र॒जाप॑तिस्सुव॒र्गल्ँ लो॒कमै॒त्तन्दे॒वा येन॑येन॒ छन्द॒सानु॒ प्रायु॑ञ्जत॒ तेन॒ नाप्नु॑व॒न्त ए॒ता द्वात्रिँ॑शतँ॒ रात्री॑रपश्य॒न्द्वात्रिँ॑शदक्षरानु॒ष्टुगानु॑ष्टुभᳶ प्र॒जाप॑ति॒स्स्वेनै॒व छन्द॑सा प्र॒जाप॑तिमा॒प्त्वाभ्या॒रुह्य॑ सुव॒र्गल्ँ लो॒कमा॑य॒न्य ए॒वव्ँवि॒द्वाँस॑ ए॒ता आस॑ते॒ द्वात्रिँ॑शदे॒ता द्वात्रिँ॑शदक्षरानु॒ष्टुगानु॑ष्टुभᳶ प्र॒जाप॑ति॒स्स्वेनै॒व छन्द॑सा प्र॒जाप॑तिमा॒प्त्वा श्रिय॑ङ्गच्छन्ति [15]
श्रीर्हि म॑नु॒ष्य॑स्य सुव॒र्गो लो॒को द्वात्रिँ॑शदे॒ता द्वात्रिँ॑शदक्षरानु॒ष्टुग्वाग॑नु॒ष्टुप्सर्वा॑मे॒व वाच॑माप्नुवन्ति॒ सर्वे॑ वा॒चो व॑दि॒तारो॑ भवन्ति॒ सर्वे॒ हि श्रिय॒ङ्गच्छ॑न्ति॒ ज्योति॒र्गौरायु॒रिति॑
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिस् सुव॒र्गल्ँ लो॒कमै॑त् ।
तन्दे॒वा येन॑येन॒ छन्द॒सानु॒ प्रायु॑ञ्जत॒ ,
तेन॒ नाप्नु॑वन् ।
त ए॒ता द्वात्रिँ॑शतँ॒ रात्री॑रपश्यन् ।
द्वात्रिँ॑शदक्षरानु॒ष्टुक् ।
आनु॑ष्टुभᳶ प्र॒जाप॑तिः ।
स्वेनै॒व छन्द॑सा प्र॒जाप॑तिम् आ॒प्त्वाऽभ्या॒रुह्य॑ सुव॒र्गल्ँ लो॒कम् आ॑यन् ।
य ए॒वव्ँ वि॒द्वाँस॑ ए॒ता आस॑ते॒ द्वात्रिँ॑शदे॒ताः ।
द्वात्रिँ॑शदक्षराऽनु॒ष्टुक् ।
आनु॑ष्टुभᳶ प्र॒जाप॑तिः ।
स्वेनै॒व छन्द॑सा प्र॒जाप॑तिमा॒प्त्वा श्रिय॑ङ्गच्छन्ति [15]।
श्रीर्हि म॑नु॒ष्य॑स्य सुव॒र्गो लो॒कः ।
द्वात्रिँ॑शदे॒ताः ।
द्वात्रिँ॑शदक्षराऽनु॒ष्टुक् ।
वाग् अ॑नु॒ष्टुप् ।
सर्वा॑म् ए॒व वाच॑म् आप्नुवन्ति ।
सर्वे॑ वा॒चो व॑दि॒तारो॑ भवन्ति ।
सर्वे॒ हि श्रिय॒ङ्गच्छ॑न्ति ।
मूलम्
प्र॒जाप॑तिस् सुव॒र्गल्ँ लो॒कमै॑त् ।
तन्दे॒वा येन॑येन॒ छन्द॒सानु॒ प्रायु॑ञ्जत॒ ,
तेन॒ नाप्नु॑वन् ।
त ए॒ता द्वात्रिँ॑शतँ॒ रात्री॑रपश्यन् ।
द्वात्रिँ॑शदक्षरानु॒ष्टुक् ।
आनु॑ष्टुभᳶ प्र॒जाप॑तिः ।
स्वेनै॒व छन्द॑सा प्र॒जाप॑तिम् आ॒प्त्वाऽभ्या॒रुह्य॑ सुव॒र्गल्ँ लो॒कम् आ॑यन् ।
य ए॒वव्ँ वि॒द्वाँस॑ ए॒ता आस॑ते॒ द्वात्रिँ॑शदे॒ताः ।
द्वात्रिँ॑शदक्षराऽनु॒ष्टुक् ।
आनु॑ष्टुभᳶ प्र॒जाप॑तिः ।
स्वेनै॒व छन्द॑सा प्र॒जाप॑तिमा॒प्त्वा श्रिय॑ङ्गच्छन्ति [15]।
श्रीर्हि म॑नु॒ष्य॑स्य सुव॒र्गो लो॒कः ।
द्वात्रिँ॑शदे॒ताः ।
द्वात्रिँ॑शदक्षराऽनु॒ष्टुक् ।
वाग् अ॑नु॒ष्टुप् ।
सर्वा॑म् ए॒व वाच॑म् आप्नुवन्ति ।
सर्वे॑ वा॒चो व॑दि॒तारो॑ भवन्ति ।
सर्वे॒ हि श्रिय॒ङ्गच्छ॑न्ति ।
भट्टभास्कर-टीका
1अथ द्वात्रिंशद्रात्रो विधीयते - प्रजापतिरित्यादि ॥ स्वर्गं गतवन्तः प्रजापतिं नाप्नुवन् । ते देवा येनयेन छन्दसा गायत्र्यादिना प्रजापतिमनुप्रायुञ्जत प्रयुज्यमानेन येन प्रजापतिमुपासीदन् तेन सर्वेणापि न प्रजापतिमाप्नुवन् स्वर्गं च नागच्छन् । त एता इत्यादि । गतम् । आनुष्टुभः प्रजापतिरिति । सर्वविकल्पात्मकत्वात् तस्य । अनुष्टुप्छब्द उत्सादिः । स्वेनैवेति । प्राजापत्येनाभ्यारुह्य उपरि गत्वा । एता आसत इति । द्वात्रिंशतं रात्रीः । द्वात्रिंशदेता इत्यादि । गतम् । सर्वेऽपि यजमानाः वाचो वदितारो वाग्मिनो भवन्ति । यस्मात्सर्वेऽपि श्रीमन्तो भवन्ति अनेन द्वात्रिंशद्रात्रेण ॥
मूलम् (संयुक्तम्)
ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हा भ॑वन्ती॒यव्ँ वाव ज्योति॑र॒न्तरि॑क्ष॒ङ्गौर॒सावायु॑रि॒माने॒व लो॒कान॒भ्यारो॑हन्त्यभिपू॒र्वन्त्र्य॒हा भ॑वन्त्यभिपू॒र्वमे॒व सु॑व॒र्गल्ँ लो॒कम॒भ्यारो॑हन्ति
विश्वास-प्रस्तुतिः
ज्योति॒र् गौरायु॒रिति॑ त्र्य॒हा भ॑वन्ति ।
इ॒यव्ँ वाव ज्योति॑र् अ॒न्तरि॑क्ष॒ङ् गौर॒सावायु॑र् इ॒माने॒व लो॒कान् अ॒भ्यारो॑हन्ति ।
अ॒भि॒पू॒र्वन् त्र्य॒हा भ॑वन्ति ।
अ॒भि॒पू॒र्वमे॒व सु॑व॒र्गल्ँ लो॒कम् अ॒भ्यारो॑हन्ति ।
मूलम्
ज्योति॒र् गौरायु॒रिति॑ त्र्य॒हा भ॑वन्ति ।
इ॒यव्ँ वाव ज्योति॑र् अ॒न्तरि॑क्ष॒ङ् गौर॒सावायु॑र् इ॒माने॒व लो॒कान् अ॒भ्यारो॑हन्ति ।
अ॒भि॒पू॒र्वन् त्र्य॒हा भ॑वन्ति ।
अ॒भि॒पू॒र्वमे॒व सु॑व॒र्गल्ँ लो॒कम् अ॒भ्यारो॑हन्ति ।
भट्टभास्कर-टीका
2ज्योतिरित्यादिना अह्नां कॢप्तिं दर्शयति । ज्योतिरादय उक्ताः । त्र्यहा इति । एतस्य प्रतीचस्त्र्यहस्य त्रिरात्रयोश्च पृथग्वचनान्नवत्र्यहा इति गम्यते । इयमित्यादि । व्याख्यातम् ।
मूलम् (संयुक्तम्)
बृहद्रथन्त॒राभ्याय्ँ॑यन्ति [16]
इ॒यव्ँ वाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गल्ँ लो॒कय्ँय॑न्ति॒
विश्वास-प्रस्तुतिः
बृ॒ह॒द्र॒थ॒न्त॒राभ्याय्ँ॑ यन्ति [16]।
इ॒यव्ँ वाव र॑थन्त॒रम् अ॒सौ बृ॒हत् ।
आ॒भ्यामे॒व य॑न्ति ।
अथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्ति ।
ए॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती ।
ताभ्या॑मे॒व सु॑व॒र्गल्ँ लो॒कय्ँय॑न्ति ।
मूलम्
बृ॒ह॒द्र॒थ॒न्त॒राभ्याय्ँ॑ यन्ति [16]।
इ॒यव्ँ वाव र॑थन्त॒रम् अ॒सौ बृ॒हत् ।
आ॒भ्यामे॒व य॑न्ति ।
अथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्ति ।
ए॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती ।
ताभ्या॑मे॒व सु॑व॒र्गल्ँ लो॒कय्ँय॑न्ति ।
भट्टभास्कर-टीका
3बृहद्रथन्तराभ्यामित्यादि । । गतम् ॥ +++( सम्पादकटिप्पनी - विस्तृतं व्याख्यानमन्यत्र मृग्यम्। )+++
मूलम् (संयुक्तम्)
परा॑ञ्चो॒ वा ए॒ते सु॑व॒र्गल्ँ लो॒कम॒भ्यारो॑हन्ति॒ ये परा॑चस्त्र्य॒हानु॑प॒यन्ति॑ प्र॒त्यङ्त्र्य॒हो भ॑वति॒ प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयो॑र्लो॒कयो॑र्ऋ॒द्ध्वोत्ति॑ष्ठन्ति॒
विश्वास-प्रस्तुतिः
परा॑ञ्चो॒ वा ए॒ते सु॑व॒र्गल्ँ लो॒कम॒भ्यारो॑हन्ति॒ ,
ये परा॑चस् त्र्य॒हान् उ॑प॒यन्ति॑ ।
प्र॒त्यङ्त्र्य॒हो भ॑वति॒ प्र॒त्यव॑रूढ्या॒ , अथो॒ प्रति॑ष्ठित्यै ।
उ॒भयो॑र् लो॒कयो॑र् ऋ॒द्ध्वा + उत्ति॑ष्ठन्ति ।
मूलम्
परा॑ञ्चो॒ वा ए॒ते सु॑व॒र्गल्ँ लो॒कम॒भ्यारो॑हन्ति॒ ,
ये परा॑चस् त्र्य॒हान् उ॑प॒यन्ति॑ ।
प्र॒त्यङ्त्र्य॒हो भ॑वति॒ प्र॒त्यव॑रूढ्या॒ , अथो॒ प्रति॑ष्ठित्यै ।
उ॒भयो॑र् लो॒कयो॑र् ऋ॒द्ध्वा + उत्ति॑ष्ठन्ति ।
भट्टभास्कर-टीका
4पराञ्च इत्यादि ॥ ऊर्ध्वानेव ये सर्वान् त्र्यहानुपयन्ति ते पराञ्च एव स्वर्गमभ्यारोहेयुः । तस्मादन्त्यः त्र्यहः प्रत्यङ् प्रत्यावृत्तो भवति । तत्प्रत्यवरूढ्यै प्रतिष्ठित्यै च भवति । उभयोरिति । नवभिरमुत्र एकेनात्र ऋद्धिं प्राप्य उत्तिष्ठन्ति यज्ञादुछ्रिता भवन्ति ॥
मूलम् (संयुक्तम्)
द्वात्रिँ॑शदे॒तास्तासाय्ँ॒यास्त्रिँ॒शत्त्रिँ॒शद॑क्षरा वि॒राडन्नव्ँ॑वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्धते॒ ये द्वे अ॑होरा॒त्रे ए॒व ते उ॒भाभ्याँ॑ रू॒पाभ्याँ॑ सुव॒र्गल्ँ लो॒कय्ँय॑न्त्यतिरा॒त्राव॒भितो॑ भवत॒ᳶ परि॑गृहीत्यै ॥ [17]
विश्वास-प्रस्तुतिः
द्वात्रिँ॑शदे॒ताः ।
तासाय्ँ॒ यास् त्रिँ॒शत् - त्रिँ॒शद् अ॑क्षरा वि॒राड् , अन्नव्ँ॑ वि॒राट् ।
वि॒राजा + ए॒वान्नाद्य॒मव॑ रुन्धते ।
ये द्वे - अ॑होरा॒त्रे ए॒व ते । उ॒भाभ्याँ॑ रू॒पाभ्याँ॑ सुव॒र्गल्ँ लो॒कय्ँ य॑न्ति ।
अ॒ति॒रा॒त्राव॒भितो॑ भवत॒ᳶ परि॑गृहीत्यै ॥ [17]
मूलम्
द्वात्रिँ॑शदे॒ताः ।
तासाय्ँ॒ यास् त्रिँ॒शत् - त्रिँ॒शद् अ॑क्षरा वि॒राड् , अन्नव्ँ॑ वि॒राट् ।
वि॒राजा + ए॒वान्नाद्य॒मव॑ रुन्धते ।
ये द्वे - अ॑होरा॒त्रे ए॒व ते । उ॒भाभ्याँ॑ रू॒पाभ्याँ॑ सुव॒र्गल्ँ लो॒कय्ँ य॑न्ति ।
अ॒ति॒रा॒त्राव॒भितो॑ भवत॒ᳶ परि॑गृहीत्यै ॥ [17]
भट्टभास्कर-टीका
5द्वात्रिंशदेता इत्यादि ॥ द्वात्रिंशत्संख्यानां रात्रीणां मध्ये त्रिंशतां विराड्रूपत्वादन्नावरोधः । अथेतरे द्वे अहोरात्ररूपे तस्मादस्य द्वात्रिंशद्रात्रस्य स्वे रूपे विराट् अहोरात्रलक्षणं च । तेन अहोरात्राभ्यां स्वर्गं गच्छन्ति । अतिरात्रावभितो भवतः परिग्रहाय । कस्य? विशेषावचनात् स्वर्गस्य । ‘हेमन्तशिशिरावहोरात्रे च’ इति नपुंसकत्वम् ॥
इति सप्तमे चतर्थे चतुर्थोनुवाकः ॥