विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
ऋ॒क्षा वा इ॒यम॑लो॒मका॑सी॒त्साका॑मय॒तौष॑धीभि॒र्वन॒स्पति॑भि॒ᳶ प्र जा॑ये॒येति॒ सैतास्त्रिँ॒शतँ॒ रात्री॑रपश्य॒त्ततो॒ वा इ॒यमोष॑धीभि॒र्वन॒स्पति॑भि॒ᳶ प्राजा॑यत॒ ये प्र॒जाका॑माᳶ प॒शुका॑मा॒स्स्युस्त ए॒ता आ॑सीर॒न्प्रैव जा॑यन्ते प्र॒जया॑ प॒शुभि॑र्…
विश्वास-प्रस्तुतिः
ऋ॒क्षा वा इ॒यम् अ॑लो॒मका॑सीत् ।
साका॑मय॒त -
ओष॑धीभि॒र् वन॒स्पति॑भि॒ᳶ प्र जा॑ये॒येति॑ ।
सैतास् त्रिँ॒शतँ॒ रात्री॑र् अपश्यत् ।
ततो॒ वा इ॒यमोष॑धीभि॒र्वन॒स्पति॑भि॒ᳶ प्राजा॑यत ।
ये प्र॒जाका॑माᳶ प॒शुका॑मा॒स् स्युस् त ए॒ता आ॑सीरन् ।
प्रैव जा॑यन्ते प्र॒जया॑ प॒शुभिः॑ ।
मूलम्
ऋ॒क्षा वा इ॒यम् अ॑लो॒मका॑सीत् ।
साका॑मय॒त -
ओष॑धीभि॒र् वन॒स्पति॑भि॒ᳶ प्र जा॑ये॒येति॑ ।
सैतास् त्रिँ॒शतँ॒ रात्री॑र् अपश्यत् ।
ततो॒ वा इ॒यमोष॑धीभि॒र्वन॒स्पति॑भि॒ᳶ प्राजा॑यत ।
ये प्र॒जाका॑माᳶ प॒शुका॑मा॒स् स्युस् त ए॒ता आ॑सीरन् ।
प्रैव जा॑यन्ते प्र॒जया॑ प॒शुभिः॑ ।
भट्टभास्कर-टीका
1अथ त्रिंशद्रात्र आरभ्यते - ऋक्षा वा इत्यादि ॥ तृणादिरहिता स्थली ऋक्षा, इयं पृथिवी पूर्वं अलोमका आसीत् वृक्षाद्यभावात् । पावकादित्वादित्वाभावः । गतमन्यत् । आसीरन्निति । एतास्त्रिंशतं रात्रीरासीरन् ॥
मूलम् (संयुक्तम्)
इ॒यव्ँ वा अ॑क्षुध्य॒त्सैताव्ँवि॒राज॑मपश्य॒त्तामा॒त्मन्धि॒त्वान्नाद्य॒मवा॑रु॒न्द्धौष॑धीः [9]
वन॒स्पती॑न्प्र॒जाम्प॒शून्तेना॑वर्धत॒ सा जे॒मान॑म्महि॒मान॑मगच्छ॒द्य ए॒वव्ँवि॒द्वाँस॑ ए॒ता आस॑ते वि॒राज॑मे॒वात्मन्धि॒त्वाऽन्नाद्य॒मव॑ रुन्धते॒ वर्ध॑न्ते प्र॒जया॑ प॒शुभि॑र्जे॒मान॑म्महि॒मान॑ङ्गच्छन्ति॒
विश्वास-प्रस्तुतिः
इ॒यव्ँ वा अ॑क्षुध्यत् ।
सैताव्ँ वि॒राज॑मपश्यत् ।
तामा॒त्मन् धि॒त्वाऽन्नाद्य॒मवा॑रु॒न्द्धौष॑धीः [9]।
वन॒स्पती॑न् प्र॒जाम् प॒शून् तेना॑वर्धत ।
सा जे॒मान॑म् महि॒मान॑म् अगच्छत् ।
मूलम्
इ॒यव्ँ वा अ॑क्षुध्यत् ।
सैताव्ँ वि॒राज॑मपश्यत् ।
तामा॒त्मन् धि॒त्वाऽन्नाद्य॒मवा॑रु॒न्द्धौष॑धीः [9]।
वन॒स्पती॑न् प्र॒जाम् प॒शून् तेना॑वर्धत ।
सा जे॒मान॑म् महि॒मान॑म् अगच्छत् ।
भट्टभास्कर-टीका
2इयं वा इत्यादि ॥ इयं पृथिवी पूर्वमक्षुध्यत् क्षुत्पीडिताऽभवत् । सा त्रिंशद्रात्रेण एतां विराजमन्नं अपश्यत् । ततस्ता तामात्मनि स्थापयित्वा अन्नाद्यं अन्नादनसामर्थ्यं ओषध्यादींश्चावारुन्धत । ततस्तदवरोधेन अवर्धत पृथिवी । ततो जेमानं जयं महिमानं महत्त्वं चागच्छत् । जयतेर्महतेश्च औणादिको मनिन्प्रत्ययः । यद्वा - जेतृमहितृशब्दाभ्यां ‘तुश्छन्दसि, इतीमनचि, ‘तुरिष्ठेमेयस्सु’ इति टिलोपः । पूर्वत्र प्रत्ययादेर्लोपः ।
विश्वास-प्रस्तुतिः
य ए॒वव्ँ वि॒द्वाँस॑ ए॒ता आस॑ते , वि॒राज॑म् ए॒वात्मन्धि॒त्वाऽन्नाद्य॒मव॑ रुन्धते ।
वर्ध॑न्ते प्र॒जया॑ प॒शुभिः॑ ।
जे॒मान॑म् महि॒मान॑ङ् गच्छन्ति ।
मूलम्
य ए॒वव्ँ वि॒द्वाँस॑ ए॒ता आस॑ते , वि॒राज॑म् ए॒वात्मन्धि॒त्वाऽन्नाद्य॒मव॑ रुन्धते ।
वर्ध॑न्ते प्र॒जया॑ प॒शुभिः॑ ।
जे॒मान॑म् महि॒मान॑ङ् गच्छन्ति ।
भट्टभास्कर-टीका
य एवमित्यादि गतम् ॥
मूलम् (संयुक्तम्)
ज्योति॑रतिरा॒त्रो भ॑वति सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै॒
विश्वास-प्रस्तुतिः
ज्योति॑र् अतिरा॒त्रो भ॑वति , सुव॒र्गस्य॑ लो॒कस्य॑ + अनु॑ख्यात्यै ।
मूलम्
ज्योति॑र् अतिरा॒त्रो भ॑वति , सुव॒र्गस्य॑ लो॒कस्य॑ + अनु॑ख्यात्यै ।
भट्टभास्कर-टीका
3ज्योतिरतिरात्र इत्यादि ॥ व्याख्यातम् । व्यक्ताऽहःकॢप्तिः ॥
मूलम् (संयुक्तम्)
पृष्ठ्य॑ष्षड॒हो भ॑वति॒ षड्वा ऋ॒तव॒ष्षट्पृ॒ष्ठानि॑ पृ॒ष्ठैरे॒वर्तून॒न्वारो॑हन्त्यृ॒तुभि॑स्सव्ँवत्स॒रन्ते सव्ँ॑वत्स॒र ए॒व [10]
प्रति॑ तिष्ठन्ति
विश्वास-प्रस्तुतिः
पृष्ठ्य॑ष् षड॒हो भ॑वति ।
षड्वा ऋ॒तव॒ष् । षट्पृ॒ष्ठानि॑ ।
पृ॒ष्ठैरे॒व + ऋतून॒न्वारो॑हन्ति + ऋ॒र्तुभि॑स् सव्ँवत्स॒रम् ।
ते सव्ँ॑वत्स॒र ए॒व प्रति॑ तिष्ठन्ति ।[10]
मूलम्
पृष्ठ्य॑ष् षड॒हो भ॑वति ।
षड्वा ऋ॒तव॒ष् । षट्पृ॒ष्ठानि॑ ।
पृ॒ष्ठैरे॒व + ऋतून॒न्वारो॑हन्ति + ऋ॒र्तुभि॑स् सव्ँवत्स॒रम् ।
ते सव्ँ॑वत्स॒र ए॒व प्रति॑ तिष्ठन्ति ।[10]
भट्टभास्कर-टीका
4पृष्ठ्यष्षडह इत्यादि ॥ षट्त्वान्वयात् पृष्ठैः ऋतून् ऋतुभिश्च संवत्सरमारुह्य तत्र प्रतितिष्ठन्ति ॥
मूलम् (संयुक्तम्)
त्रयस्त्रिँ॒शात्त्र॑यस्त्रिँ॒शमुप॑ यन्ति य॒ज्ञस्य॒ सन्त॑त्या॒ अथो॑ प्र॒जाप॑ति॒र्वै त्र॑यस्त्रिँ॒शᳶ प्र॒जाप॑तिमे॒वा र॑भन्ते॒ प्रति॑ष्ठित्यै त्रिण॒वो भ॑वति॒ विजि॑त्या एकविँ॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्द॑धते
विश्वास-प्रस्तुतिः
त्र॒य॒स्त्रिँ॒शात्त्र॑यस्त्रिँ॒शम् उप॑ यन्ति , य॒ज्ञस्य॒ सन्त॑त्यै ।
अथो॑ प्र॒जाप॑ति॒र्वै त्र॑यस्त्रिँ॒शᳶ प्र॒जाप॑तिम् ए॒वाऽऽर॑भन्ते॒ , प्रति॑ष्ठित्यै ।
मूलम्
त्र॒य॒स्त्रिँ॒शात्त्र॑यस्त्रिँ॒शम् उप॑ यन्ति , य॒ज्ञस्य॒ सन्त॑त्यै ।
अथो॑ प्र॒जाप॑ति॒र्वै त्र॑यस्त्रिँ॒शᳶ प्र॒जाप॑तिम् ए॒वाऽऽर॑भन्ते॒ , प्रति॑ष्ठित्यै ।
भट्टभास्कर-टीका
5त्रयस्त्रिंशादिति ॥ त्रयस्त्रिंशात्पृष्ठात् परं पुनरपि त्रयस्त्रिंशमुपयन्ति यज्ञस्य सन्तत्यै अविच्छेदाय । अथो अपि च प्रजापतिस्त्रयस्त्रिंशः सर्व देवतामयत्वात् । एतासां च त्रयस्त्रिंशत्वात् तमेवारभन्ते । तत्प्रतिष्ठार्थं भवति ।
विश्वास-प्रस्तुतिः
त्रि॒ण॒वो भ॑वति॒ विजि॑त्यै ।
ए॒क॒विँ॒शो भ॑वति॒ प्रति॑ष्ठित्यै ।
अथो॒ रुच॑मे॒वात्मन् द॑धते ।
मूलम्
त्रि॒ण॒वो भ॑वति॒ विजि॑त्यै ।
ए॒क॒विँ॒शो भ॑वति॒ प्रति॑ष्ठित्यै ।
अथो॒ रुच॑मे॒वात्मन् द॑धते ।
भट्टभास्कर-टीका
त्रिणवस्तदनन्तरं भवति । विजयार्थं तद्भवति, तस्य तत्साधनत्वात् । तत एकविंशः भवति प्रतिष्ठार्थं, तत्प्रतिष्ठायास्तत्र जातत्वात् । सर्वत्र ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् । अथो अपि च रुचं दीप्तिमात्मनि दधते, एकविंशस्यादित्यत्वात् । एवमेतानि दशाहानि ॥
मूलम् (संयुक्तम्)
त्रि॒वृद॑ग्नि॒ष्टुद्भ॑वति पा॒प्मान॑मे॒व तेन॒ निर्द॑ह॒न्तेऽथो॒ तेजो॒ वै त्रि॒वृत्तेज॑ ए॒वात्मन्द॑धते पञ्चद॒श इ॑न्द्रस्तो॒मो भ॑वतीन्द्रि॒यमे॒वाव॑ [11]
रु॒न्ध॒ते॒ स॒प्त॒द॒शो भ॑वत्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायन्त एकविँ॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्द॑धते
विश्वास-प्रस्तुतिः
त्रि॒वृद् अ॑ग्नि॒ष्टुद् भ॑वति ।
पा॒प्मान॑म् ए॒व तेन॒ निर्द॑हन्ते ।
अथो॒ तेजो॒ वै त्रि॒वृत् । तेज॑ ए॒वात्मन् द॑धते ।
प॒ञ्च॒द॒श इ॑न्द्रस्तो॒मो भ॑वति ।
इ॒न्द्रि॒यमे॒व अव॑ रुन्धते ।[11]
स॒प्त॒द॒शो भ॑वत्य् अ॒न्नाद्य॒स्याव॑रुद्ध्यै ।
मूलम्
त्रि॒वृद् अ॑ग्नि॒ष्टुद् भ॑वति ।
पा॒प्मान॑म् ए॒व तेन॒ निर्द॑हन्ते ।
अथो॒ तेजो॒ वै त्रि॒वृत् । तेज॑ ए॒वात्मन् द॑धते ।
प॒ञ्च॒द॒श इ॑न्द्रस्तो॒मो भ॑वति ।
इ॒न्द्रि॒यमे॒व अव॑ रुन्धते ।[11]
स॒प्त॒द॒शो भ॑वत्य् अ॒न्नाद्य॒स्याव॑रुद्ध्यै ।
भट्टभास्कर-टीका
6अथ त्रिवृदग्निष्टुत् सर्वाग्नेयः ॥ गतमन्यन् । ततः पञ्चदश इन्द्रस्तोमः यत्र इन्द्रः स्तूयते । ततस्सप्तदशः - अन्नप्रभवत्वात् अन्नाद्याय भवति । अथो अपि च तेन प्रजायते सप्तदशस्य प्राजापत्यत्वात् ।
विश्वास-प्रस्तुतिः
अथो॒ प्रैव तेन॑ जायन्ते ।
ए॒क॒विँ॒शो भ॑वति॒ प्रति॑ष्ठित्यै ।
अथो॒ रुच॑म् ए॒वात्मन् द॑धते ।
मूलम्
अथो॒ प्रैव तेन॑ जायन्ते ।
ए॒क॒विँ॒शो भ॑वति॒ प्रति॑ष्ठित्यै ।
अथो॒ रुच॑म् ए॒वात्मन् द॑धते ।
भट्टभास्कर-टीका
अथ - एकविंशो भवतीत्यादि । गतम् । तस्य प्रतिष्ठाहेतुत्वमुक्तं रुचो हेतुत्वं च ॥
मूलम् (संयुक्तम्)
चतुर्विँ॒शो भ॑वति॒ चतु॑र्विँशतिरर्धमा॒सास्सव्ँ॑वत्स॒रस्सव्ँ॑वत्स॒रस्सु॑व॒र्गो लो॒कस्सव्ँ॑वत्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठ॒न्त्यथो॑ ए॒ष वै वि॑षू॒वान्वि॑षू॒वन्तो॑ भवन्ति॒ य ए॒वव्ँवि॒द्वाँस॑ ए॒ता आस॑ते चतुर्विँ॒शात्पृ॒ष्ठान्युप॑ यन्ति
विश्वास-प्रस्तुतिः
च॒तु॒र्विँ॒शो भ॑वति ।
चतु॑र्विँशतिरर्धमा॒सास् सव्ँ॑वत्स॒रः ।
सव्ँ॒व॒त्स॒रस् सु॑व॒र्गो लो॒कः ।
सव्ँ॒व॒त्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठ॒न्ति ।
अथो॑ ए॒ष वै वि॑षू॒वान् ।
वि॒षू॒वन्तो॑ भवन्ति॒ , य ए॒वव्ँ वि॒द्वाँस॑ ए॒ता आस॑ते ।
च॒तु॒र्विँ॒शात् पृ॒ष्ठान्य् उप॑ यन्ति ।
मूलम्
च॒तु॒र्विँ॒शो भ॑वति ।
चतु॑र्विँशतिरर्धमा॒सास् सव्ँ॑वत्स॒रः ।
सव्ँ॒व॒त्स॒रस् सु॑व॒र्गो लो॒कः ।
सव्ँ॒व॒त्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठ॒न्ति ।
अथो॑ ए॒ष वै वि॑षू॒वान् ।
वि॒षू॒वन्तो॑ भवन्ति॒ , य ए॒वव्ँ वि॒द्वाँस॑ ए॒ता आस॑ते ।
च॒तु॒र्विँ॒शात् पृ॒ष्ठान्य् उप॑ यन्ति ।
भट्टभास्कर-टीका
7अथ चतुर्विंशः ॥ चतुर्विंशतिरर्धमासा इत्यादि । गातम् । अथो अपि च एष चतुर्विंशो विषूवान् विविधस्वरूपाणामह्वां मध्यस्थः पञ्चदशत्वाद्विविधैरहोभिः तद्वान् विषूवान् । ‘ह्रस्वनुड्भ्याम्’ इति मतुप उदात्तत्वम् । एवं विदित्वा आसीना विषूवन्तः (विषुवतो) मध्यस्थाः सर्वैः सेव्याः भवन्ति ॥
मूलम् (संयुक्तम्)
सव्ँवत्स॒र ए॒व प्र॑ति॒ष्ठाय॑ [12]
दे॒वता॑ अ॒भ्यारो॑हन्ति त्रयस्त्रिँ॒शात्त्र॑यस्त्रिँ॒शमुप॑ यन्ति॒ त्रय॑स्त्रिँश॒द्वै दे॒वता॑ दे॒वता॑स्वे॒व प्रति॑ तिष्ठन्ति त्रिण॒वो भ॑वति
विश्वास-प्रस्तुतिः
सव्ँ॒व॒त्स॒र॒ ए॒व प्र॑ति॒ष्ठाय॑ दे॒वता॑ अ॒भ्यारो॑हन्ति । [12]
त्र॒य॒स्त्रिँ॒शात् त्र॑यस्त्रिँ॒शम् उप॑ यन्ति ।
मूलम्
सव्ँ॒व॒त्स॒र॒ ए॒व प्र॑ति॒ष्ठाय॑ दे॒वता॑ अ॒भ्यारो॑हन्ति । [12]
त्र॒य॒स्त्रिँ॒शात् त्र॑यस्त्रिँ॒शम् उप॑ यन्ति ।
भट्टभास्कर-टीका
8अथ चतुर्विंशानन्तरं पृष्ठान्युपयन्ति ॥ संवत्सर एवेत्यादि । चतुर्विंशतिरर्धमासा इत्यादि कृत्वा । अथ त्रयस्त्रिंशान्तात्पृष्ठात् त्रयस्त्रिंशमुपयन्ति ।
विश्वास-प्रस्तुतिः
त्रय॑स्त्रिँश॒द् वै दे॒वताः॑ । दे॒वता॑स्वे॒व प्रति॑ तिष्ठन्ति । त्रि॒ण॒वो भ॑वति ।
मूलम्
त्रय॑स्त्रिँश॒द् वै दे॒वताः॑ । दे॒वता॑स्वे॒व प्रति॑ तिष्ठन्ति । त्रि॒ण॒वो भ॑वति ।
भट्टभास्कर-टीका
त्रयस्त्रिंशद्वा इत्यादि । गतम् ॥
मूलम् (संयुक्तम्)
इ॒मे वै लो॒कास्त्रि॑ण॒व ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठन्ति॒ द्वावे॑कविँ॒शौ भ॑वत॒ᳶ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्द॑धते ब॒हव॑ष्षोड॒शिनो॑ भवन्ति॒ तस्मा॑द्ब॒हवᳶ॑ प्र॒जासु॒ वृषा॑णो॒
विश्वास-प्रस्तुतिः
इ॒मे वै लो॒कास् त्रि॑ण॒वः । ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठन्ति ।
द्वाव् ए॑कविँ॒शौ भ॑वत॒ᳶ, प्रति॑ष्ठित्यै ।
अथो॒ रुच॑मे॒वात्मन् द॑धते । ब॒हव॑ष् षोड॒शिनो॑ भवन्ति । तस्मा॑द् ब॒हवᳶ॑ प्र॒जासु॒ वृषा॑णः ।
मूलम्
इ॒मे वै लो॒कास् त्रि॑ण॒वः । ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठन्ति ।
द्वाव् ए॑कविँ॒शौ भ॑वत॒ᳶ, प्रति॑ष्ठित्यै ।
अथो॒ रुच॑मे॒वात्मन् द॑धते । ब॒हव॑ष् षोड॒शिनो॑ भवन्ति । तस्मा॑द् ब॒हवᳶ॑ प्र॒जासु॒ वृषा॑णः ।
भट्टभास्कर-टीका
9अथ त्रिणवः - इमे वा इत्यादि ॥ व्याख्यातम् । अथ द्वावेकविंशो बहव इत्यादि । एवं षोडशिन एकविंशो बहवो भवन्ति । तस्मात्प्रजासु च बहवो वृषाणः सेक्तारः ॥
मूलम् (संयुक्तम्)
यदे॒ते स्तोमा॒ व्यति॑षक्ता॒ भव॑न्ति॒ तस्मा॑दि॒यमोष॑धीभि॒र्वन॒स्पति॑भि॒र्व्यति॑षक्ता [13]
व्यति॑षज्यन्ते प्र॒जया॑ प॒शुभि॒र्य ए॒वव्ँवि॒द्वाँस॑ ए॒ता आस॒ते
विश्वास-प्रस्तुतिः
यद् ए॒ते स्तोमा॒ व्यति॑षक्ता॒ भव॑न्ति ।
तस्मा॑द् इ॒यमोष॑धीभि॒र् वन॒स्पति॑भिर् व्यति॑षक्ता [13]।
व्यति॑षज्यन्ते प्र॒जया॑ प॒शुभि॒र् , य ए॒वव्ँ वि॒द्वाँस॑ ए॒ता आस॒ते ।
मूलम्
यद् ए॒ते स्तोमा॒ व्यति॑षक्ता॒ भव॑न्ति ।
तस्मा॑द् इ॒यमोष॑धीभि॒र् वन॒स्पति॑भिर् व्यति॑षक्ता [13]।
व्यति॑षज्यन्ते प्र॒जया॑ प॒शुभि॒र् , य ए॒वव्ँ वि॒द्वाँस॑ ए॒ता आस॒ते ।
भट्टभास्कर-टीका
10यदेत इत्यादि ॥ व्यतिषक्ताः व्यत्यासेन परस्परानुषक्ताः । तस्मादियमित्यादि । गतम् ॥
मूलम् (संयुक्तम्)
ऽकॢ॑प्ता॒ वा ए॒ते सु॑व॒र्गल्ँ लो॒कय्ँय॑न्त्युच्चाव॒चान्हि स्तोमा॑नुप॒यन्ति॒ यदे॒त ऊ॒र्ध्वाᳵ कॢ॒प्तास्स्तोमा॒ भव॑न्ति कॢ॒प्ता ए॒व सु॑व॒र्गल्ँ लो॒कय्ँय॑न्त्यु॒भयो॑रेभ्यो लो॒कयोः॑ कल्पते त्रिँ॒शदे॒तास्त्रिँ॒शद॑क्षरा वि॒राडन्नव्ँ॑वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्धतेऽतिरा॒त्राव॒भितो॑ भवतो॒ऽन्नाद्य॑स्य॒ परि॑गृहीत्यै ॥ [14]
विश्वास-प्रस्तुतिः
अकॢ॑प्ता॒ वा ए॒ते सु॑व॒र्गल्ँ लो॒कय्ँ य॑न्ति ।
उ॒च्चा॒व॒चान् हि स्तोमा॑न् उप॒यन्ति॑ ।
यदे॒त ऊ॒र्ध्वाᳵ कॢ॒प्तास् स्तोमा॒ भव॑न्ति ,
कॢ॒प्ता ए॒व सु॑व॒र्गल्ँ लो॒कय्ँ य॑न्ति ।
उ॒भयो॑रेभ्यो लो॒कयोः॑ कल्पते ।
त्रिँ॒शदे॒तास् त्रिँ॒शद॑क्षरा वि॒राड् ।
अन्नव्ँ॑वि॒राट् ।
वि॒राजा + ए॒वान्नाद्य॒मव॑ रुन्धते ।
अ॒ति॒रा॒त्राव् अ॒भितो॑ भवतो॒ ,
ऽन्नाद्य॑स्य॒ परि॑गृहीत्यै ॥ [14]
मूलम्
अकॢ॑प्ता॒ वा ए॒ते सु॑व॒र्गल्ँ लो॒कय्ँ य॑न्ति ।
उ॒च्चा॒व॒चान् हि स्तोमा॑न् उप॒यन्ति॑ ।
यदे॒त ऊ॒र्ध्वाᳵ कॢ॒प्तास् स्तोमा॒ भव॑न्ति ,
कॢ॒प्ता ए॒व सु॑व॒र्गल्ँ लो॒कय्ँ य॑न्ति ।
उ॒भयो॑रेभ्यो लो॒कयोः॑ कल्पते ।
त्रिँ॒शदे॒तास् त्रिँ॒शद॑क्षरा वि॒राड् ।
अन्नव्ँ॑वि॒राट् ।
वि॒राजा + ए॒वान्नाद्य॒मव॑ रुन्धते ।
अ॒ति॒रा॒त्राव् अ॒भितो॑ भवतो॒ ,
ऽन्नाद्य॑स्य॒ परि॑गृहीत्यै ॥ [14]
भट्टभास्कर-टीका
11अकॢप्ता वा इत्यादि ॥ उच्चावचस्तोमानां अह्नां उपायनात् एते अकॢप्ताः असंपन्ना एव सुवर्गं गच्छन्ति । तस्मादित ऊर्ध्वा एते स्तोमाश्चतुष्टोमात्मकाः कॢप्ता अव्यतिषक्ता भवाति चत्वारः । तेन यजमानाः कॢप्ता एव सुवर्गं लोकं गच्छन्ति । तस्तदुभयोर्लोकयोः त्रिंशद्रात्रं कल्पते सम्पन्नो भवतीति । त्रिंशदेता इत्यादि । गतम् । अतिरात्राभ्यां अन्नाद्यस्य परिग्रहः ॥
इति सप्तमे चतुर्थे तृतीयोनुवाकः ॥