०२ अपरश्चतुर्विंशतिरात्रः

विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

यथा॒ वै म॑नु॒ष्या॑ ए॒वन्दे॒वा अग्र॑ आस॒न्ते॑ऽकामय॒न्ताव॑र्तिम्पा॒प्मान॑म्मृ॒त्युम॑प॒हत्य॒ दैवीँ॑ सँ॒सद॑ङ्गच्छे॒मेति॒ त ए॒तञ्च॑तुर्विँशतिरा॒त्रम॑पश्य॒न्तमाह॑र॒न्तेना॑यजन्त॒ ततो॒ वै तेऽव॑र्तिम्पा॒प्मान॑म्मृ॒त्युम॑प॒हत्य॒ दैवीँ॑ सँ॒सद॑मगच्छ॒न्य ए॒वव्ँवि॒द्वाँ॑सश्चतुर्विँशतिरा॒त्रमास॒तेऽव॑र्तिमे॒व पा॒प्मान॑मप॒हत्य॒ श्रिय॑ङ्गच्छन्ति॒ श्रीर्हि म॑नु॒ष्य॑स्य [4]
दैवी॑ सँ॒सज्…

विश्वास-प्रस्तुतिः

यथा॒ वै म॑नु॒ष्या॑ ए॒वन् दे॒वा अग्र॑ आसन् । ते॑ऽकामय॒न्त - “अव॑र्तिम् पा॒प्मान॑म् मृ॒त्युम॑प॒हत्य॒ दैवीँ॑ सँ॒सद॑ङ्गच्छे॒म”+ इति॑ ।
त ए॒तञ् च॑तुर्विँशतिरा॒त्रम् अ॑पश्यन् । तमाह॑र॒न् । तेना॑यजन्त ।
ततो॒ वै तेऽव॑र्तिम्पा॒प्मान॑म्मृ॒त्युम॑प॒हत्य॒ दैवीँ॑ सँ॒सद॑मगच्छन् ।

य ए॒वव्ँ वि॒द्वाँ॑सश् चतुर्विँशतिरा॒त्रमास॒ते , ऽव॑र्तिमे॒व पा॒प्मान॑म् अप॒हत्य॒ श्रिय॑ङ् गच्छन्ति ।
श्री॒र्हि म॑नु॒ष्य॑स्य॒ दैवी॑ सँ॒सत् ।[4]

मूलम्

भट्टभास्कर-टीका

1अथ संसदाख्यो द्वितीयश्चतुर्विंशतिरात्रो विधीयते - यथा वा इत्यादि ॥ यथा मनुष्या जरामृत्युदारिद्र्यपापयुक्ताः एवं धर्माणः पूर्वमेव देवा अप्यासन् । ते देवा अकामयन्त अवर्तिं दारिद्र्यं पाप्मानं मृत्युं चापहत्य दैवीं देवसम्बन्धिनीं संसदं संसीदन्ति देवा यत्र तत्स्थानं गच्छेमेति । ‘देवाद्यञञौ’ इत्यञ् । त एतमित्यादि । गतम् । श्रीर्हि दैवसंसत् दैवसंसदा सदृशत्वात् ॥

मूलम् (संयुक्तम्)

ज्योति॑रतिरा॒त्रो भ॑वति सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै॒ पृष्ठ्य॑ष्षड॒हो भ॑वति॒ षड्वा ऋ॒तव॑स्सव्ँवत्स॒रस्तम्मासा॑ अर्धमा॒सा ऋ॒तवᳶ॑ प्र॒विश्य॒ दैवीँ॑ सँ॒सद॑मगच्छ॒न्य ए॒वव्ँवि॒द्वाँ॑सश्चतुर्विँशतिरा॒त्रमास॑ते सव्ँवत्स॒रमे॒व प्र॒विश्य॒ वस्य॑सीँ सँ॒सद॑ङ्गच्छन्ति॒

विश्वास-प्रस्तुतिः

ज्योति॑र् अतिरा॒त्रो भ॑वति , सु॒व॒र्गस्य॑ लो॒कस्य॑ + अनु॑ख्यात्यै ।
पृष्ठ्य॑ष्षड॒हो भ॑वति ।

मूलम्

ज्योति॑र् अतिरा॒त्रो भ॑वति , सु॒व॒र्गस्य॑ लो॒कस्य॑ + अनु॑ख्यात्यै ।
पृष्ठ्य॑ष्षड॒हो भ॑वति ।

भट्टभास्कर-टीका

2ज्योतिरतिरात्र इत्यादि ॥ अत्रेयमहःकॢप्तिः - अतिरात्रश्चतुर्विंशः उक्थ्य आरम्भणीयः त्रिवृद्वा पृष्ठ्यस्तोमः षडहः त्रयस्त्रिंशमहरनिरुक्तं त्रयस्त्रिंशं निरुक्तं त्रिणवं द्वे एकविंशे त्रिणवं त्रयस्त्रिंशमहः निरुक्तं त्रयस्त्रिंशमनिरुक्तं पृष्ठ्यस्तोमष्षडहः प्रत्यङ् त्रिवृदहरनिरुक्तं ज्योतिष्टोमो वैश्नानरोति रात्रः इति । इयमिह प्रतिपाद्यते । ज्योतिरतिरात्रः प्रथममहर्भवति स्वर्गस्यानुक्रमेण ख्यात्यै प्रकाशाय तद्भवति । पृष्ठ्य इत्यादि । षडहविधिः ।

विश्वास-प्रस्तुतिः

षड्वा ऋ॒तव॑स् सव्ँवत्स॒रः । तम् मासा॑ अर्धमा॒सा ऋ॒तवᳶ॑ प्र॒विश्य॒ दैवीँ॑ सँ॒सद॑मगच्छ॒न् ।
य ए॒वव्ँ वि॒द्वाँ॑सश् चतुर्विँशतिरा॒त्रम् आस॑ते , सव्ँवत्स॒रमे॒व प्र॒विश्य॒ वस्य॑सीँ सँ॒सद॑ङ् गच्छन्ति ।

षडृत्वात्मकसंवत्सरं प्रविश्य मासा अर्धमासा ऋतवश्च दैवीं संसदमगच्छन् तस्मादेवं विदित्वा चतुर्विंशतिरात्रमासीनाः संवत्सरमेव प्रविश्य वस्यसीं वरिष्ठां संसदं श्लाघ्यां श्रियं गच्छन्ति । वसुमच्छब्दादीसयसुनि ‘विन्मतोर्लुक्’ इति मतुब्लोपे कृते प्रत्ययाद्यक्षरलोपश्छान्दसः ॥

मूलम् (संयुक्तम्)

त्रय॑स्त्रयस्त्रिँ॒शा अ॒वस्ता॑द्भवन्ति॒ त्रय॑स्त्रयस्त्रिँ॒शाᳶ प॒रस्ता॑त्त्रयस्त्रिँ॒शैरे॒वोभ॒यतोऽव॑र्तिम्पा॒प्मान॑मप॒हत्य॒ दैवीँ॑ सँ॒सद॑म्मध्य॒तः [5]
ग॒च्छ॒न्ति॒ पृ॒ष्ठानि॒ हि दैवी॑ सँ॒सज्…

विश्वास-प्रस्तुतिः

त्रय॑स्त्रयस्त्रिँ॒शा अ॒वस्ता॑द्भवन्ति॒, त्रय॑स् त्रयस्त्रिँ॒शाᳶ प॒रस्ता॑त् ।
त्र॒य॒स्त्रिँ॒शैर् ए॒वोभ॒यतोऽव॑र्तिम् पा॒प्मान॑म् अप॒हत्य॒ दैवीँ॑ सँ॒सद॑म् मध्य॒तः ग॑च्छन्ति । [5]
पृ॒ष्ठानि॒ हि दैवी॑ सँ॒सत् ।

2त्रयस्त्रयस्त्रिंशा अवस्तादिति ॥ मध्यमषडहारम्भे त्रयस्त्रिंशा भवन्ति । कथं? प्रथमस्य षडहस्य षष्ठमहः एकस्त्रयस्त्रिंशः, त्रिवृदादित्र- यस्त्रिंशान्तत्वात् पृष्ठानाम् । ततष्षडहयोर्मध्ये निरुक्तो द्वितीय- स्त्रयस्त्रिंशः । ततो द्वितीयस्य षडहस्य आद्यस्त्रयस्त्रिंशः तृतीयः । त्रयस्त्रिंशत्रिणवैकविंशानां षडहावरार्ध्यानां क्रमात् व्युत्क्रमजन्यत्वात् मध्यमषडहस्यैव त्रयस्त्रिंशाः परस्तान्मध्यमषडहावसानेऽपि भवन्ति । कथं? उक्तेन न्यायेन मध्यमस्य षडहस्य षष्ठमहरेकस्त्रयस्त्रिंशः; ततष्षडहयोर्मध्ये अनिरुक्तो द्वितीयस्त्रयस्त्रिंशः; तत उत्तरस्य षडहस्य प्रतीचीनस्य आद्यमहस्र्तृतीयः त्रयस्त्रिंश इति । एवमवस्तात् परस्ताच्च त्रयस्त्रिंशैरेव स्थितैः तद्दिव्यसङ्ख्यानैः अवर्तिं च पाप्मानं चापहत्य दैवीं संसदं मध्यतोवस्थितां गच्छन्ति । का पुनस्सेत्याह- पृष्ठानि हीत्यादि ॥

मूलम् (संयुक्तम्)

जा॒मि वा ए॒तत्कु॑र्वन्ति॒ यत्त्रय॑स्त्रयस्त्रिँ॒शा अ॒न्वञ्चो॒ मध्येऽनि॑रुक्तो भवति॒ तेनाजा॑म्यू॒र्ध्वानि॑ पृ॒ष्ठानि॑ भवन्त्य्…

विश्वास-प्रस्तुतिः

जा॒मि वा ए॒तत् कु॑र्वन्ति॒ यत् त्रय॑स्त्रयस्त्रिँ॒शा अ॒न्वञ्चः॑ ।
मध्येऽनि॑रुक्तो भवति॒ , तेन अजा॑मि ।
ऊ॒र्ध्वानि॑ पृ॒ष्ठानि॑ भवन्ति ।

मूलम्

जा॒मि वा ए॒तत् कु॑र्वन्ति॒ यत् त्रय॑स्त्रयस्त्रिँ॒शा अ॒न्वञ्चः॑ ।
मध्येऽनि॑रुक्तो भवति॒ , तेन अजा॑मि ।
ऊ॒र्ध्वानि॑ पृ॒ष्ठानि॑ भवन्ति ।

भट्टभास्कर-टीका

4जामि वा इत्यादि ॥ आलस्यजननमिदं क्रियते । तस्मान्मध्ये त्रयाणां मध्यमस्त्रिंशोऽनिरुक्तो भवति अव्यक्तनामा भवति । तेनाजामि भवति । मध्यमष्षडहो निरुक्त इत्येके । ऊर्ध्वानि रथन्तरादिक्रमेण वर्तन्ते ॥

मूलम् (संयुक्तम्)

ऊ॒र्ध्वाश्छ॑न्दो॒मा उ॒भाभ्याँ॑ रू॒पाभ्याँ॑ सुव॒र्गल्ँ लो॒कय्ँय॒न्त्य्…

विश्वास-प्रस्तुतिः

ऊ॒र्ध्वाश् छ॑न्दो॒माः ।
उ॒भाभ्याँ॑ रू॒पाभ्याँ॑ सुव॒र्गल्ँ लो॒कय्ँ य॑न्ति ।

मूलम्

ऊ॒र्ध्वाश् छ॑न्दो॒माः ।
उ॒भाभ्याँ॑ रू॒पाभ्याँ॑ सुव॒र्गल्ँ लो॒कय्ँ य॑न्ति ।

भट्टभास्कर-टीका

5ऊर्ध्वाश्छन्दोमा इति ॥ तान्येवाहानि चतुर्विंशतिक्रमेण वर्तन्ते । उभाभ्यां रूपाभ्यामिति । एतस्य षडहस्य पृष्ठ्यच्छन्दोमात्मके द्वे रूपे संपाद्ये इति दर्शितम् । तद्धर्मानुगमात् भाक्तो व्यपदेश इत्युक्तं भवति । यथोक्तं आचार्येण - ‘अथेदं संसदामयनं छन्दोमं भवति विज्ञायन्ते खल्वस्य छन्दोसभक्तयश्चतुर्विंशं चतुश्चत्वारिंशं अष्टाचत्वारिशम्’ इति । अत्रैव जानीयात् आद्ये त्रिवृत आयतने त्रयस्त्रिंशोग्रिष्टोमश्चतुर्विंशाः पवमानः, द्वितीये पञ्चदशस्यायतने त्रिणवः अष्टाविंशाः पवमानाः, तृतीये सप्तदशस्यायतने एकविंशः द्वाविंशाः पवमानाः, चतुर्थेऽस्मिन् आयतने एकविंशः षट्त्रिंशाः पवमानाः, पञ्चमेऽस्मिन्नायतने त्रिणवश्चत्वारिंशाः पवमानाः, पष्ठे स्व आयतने त्रयस्त्रिंशः चतुश्चत्वारिंशाः पवमानाः, ततः त्रयस्त्रिंशः अष्टाचत्वारिशाः पवमानाः इति ॥

मूलम् (संयुक्तम्)

अस॑त्त्रव्ँ॒वा ए॒तद्यद॑छन्दो॒मय्ँयच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रन्दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्य॑म्पृ॒ष्ठानि॑ प॒शवः॑ [6]
छ॒न्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति॒

विश्वास-प्रस्तुतिः

अस॑त्त्रव्ँ॒ वा ए॒तद् यद् अ॑छन्दो॒मम् । यच् छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रम् ।
दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैः । ओजो॒ वै वी॒र्य॑म्पृ॒ष्ठानि॑ प॒शव॑श् छ॒न्दो॒माः ।[6]
ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति ।

6अथैवं संपाद्यते हेतुमाह - असत्रमित्यादि ॥ गतम् । पृष्ठैरिति । पृष्ठरूपेण ॥

मूलम् (संयुक्तम्)

त्रय॑स्त्रयस्त्रिँ॒शा अ॒वस्ता॑द्भवन्ति॒ त्रय॑स्त्रयस्त्रिँ॒शाᳶ प॒रस्ता॒न्मध्ये॑ पृ॒ष्ठान्युरो॒ वै त्र॑यस्त्रिँ॒शा आ॒त्मा पृ॒ष्ठान्या॒त्मन॑ ए॒व तद्यज॑माना॒श्शर्म॑ नह्य॒न्तेऽना॑र्त्यै बृहद्रथन्त॒राभ्याय्ँ॑यन्ती॒यव्ँ वाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व [7]
सु॒व॒र्गल्ँ लो॒कय्ँय॑न्ति॒ परा॑ञ्चो॒ वा ए॒ते सु॑व॒र्गल्ँ लो॒कम॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्यङ्क्ष॑ड॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयो॑र्लो॒कयो॑र्ऋ॒द्ध्वोत्ति॑ष्ठन्ति त्रि॒वृतोऽधि॑ त्रि॒वृत॒मुप॑ यन्ति॒ स्तोमा॑नाँ॒ सम्प॑त्त्यै प्रभ॒वाय॒ ज्योति॑रग्निष्टो॒मो भ॑वत्य॒यव्ँ वाव स क्षयो॒ऽस्मादे॒व तेन॒ क्षया॒न्न य॑न्ति

विश्वास-प्रस्तुतिः

त्रय॑स् त्रयस्त्रिँ॒शा अ॒वस्ता॑द् भवन्ति॒,
त्रय॑स् त्रयस्त्रिँ॒शाᳶ प॒रस्ता॒न् , मध्ये॑ पृ॒ष्ठानि ।

उरो॒ वै त्र॑यस्त्रिँ॒शा आ॒त्मा पृ॒ष्ठानि ।
आ॒त्मन॑ ए॒व तद् यज॑माना॒श् शर्म॑ नह्य॒न्तेऽना॑र्त्यै ।

बृ॒ह॒द्र॒थ॒न्त॒राभ्याय्ँ॑ यन्ति ।
इ॒यव्ँ वाव र॑थन्त॒रम् , अ॒सौ बृ॒हत् । आ॒भ्यामे॒व य॒न्ति ।
अथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्ति ।

ए॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती । ताभ्या॑मे॒व सु॑व॒र्गल्ँ लो॒कय्ँ य॑न्ति ।
परा॑ञ्चो॒ वा ए॒ते सु॑व॒र्गल्ँ लो॒कम् अ॒भ्यारो॑हन्ति॒ , ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ ।

प्र॒त्यङ्क्ष॑ड॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्यै । उ॒भयो॑र्लो॒कयो॑र्ऋ॒द्ध्वोत्ति॑ष्ठन्ति ।

त्रि॒वृतोऽधि॑ त्रि॒वृत॒म् उप॑ यन्ति॒ स्तोमा॑नाँ॒ सम्प॑त्त्यै प्रभ॒वाय॒ , ज्योति॑र् अग्निष्टो॒मो भ॑वति ।

7त्रयस्त्रयस्त्रिंशा इत्यादि ॥ +++(सम्पादकटिप्पनी - विस्तृतं व्याख्यानमन्यत्र मृग्यम् )+++

विश्वास-प्रस्तुतिः

अ॒यव्ँ वाव स क्षयो॒ऽस्माद् ए॒व तेन॒ क्षया॒न् न य॑न्ति ।

मूलम्

अ॒यव्ँ वाव स क्षयो॒ऽस्माद् ए॒व तेन॒ क्षया॒न् न य॑न्ति ।

भट्टभास्कर-टीका

8अयं मनुष्यलोकः खलु स क्षयः तदग्निष्टोमाख्यमायतनम् । तस्मात्तेनाग्निष्टोमेन अस्मात् क्षयात् लाकान्न यन्ति न गच्छन्ति न नश्यन्तीत्यर्थः । ‘क्षयो निवासे’ इत्याद्युतात्तत्वम् ॥

मूलम् (संयुक्तम्)

चतुर्विँशतिरा॒त्रो भ॑वति॒ चतु॑र्विँशतिरर्धमा॒सास्सव्ँ॑वत्स॒रस्सव्ँ॑वत्स॒रस्सु॑व॒र्गो लो॒कस्सव्ँ॑वत्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठ॒न्त्यथो॒ चतु॑र्विँशत्यक्षरा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सङ्गा॑यत्रि॒यैव ब्र॑ह्मवर्च॒समव॑ रुन्धतेऽतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ॥ [8]

विश्वास-प्रस्तुतिः

च॒तु॒र्विँ॒श॒ति॒रा॒त्रो भ॑वति । चतु॑र्विँशतिरर्धमा॒सास् सव्ँ॑वत्स॒रः ।
सव्ँ॒व॒त्स॒रस्सु॑वर्गो लो॒कः । सव्ँ॒व॒त्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठ॒न्ति ।
अथो॒ चतु॑र्विँशत्य् अक्षरा गाय॒त्री । गा॒य॒त्री ब्र॑ह्मवर्च॒सम् ।
गा॑यत्रि॒यैव ब्र॑ह्मवर्च॒समव॑ रुन्धते । अ॒ति॒रा॒त्राव् अ॒भितो॑ भवतो, ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ॥ [8]

9चतुर्विंशतिरात्र इत्यादित ॥ गतम् । अतिरात्राभ्यामभितो ब्रह्मवर्चसस्य परिग्रहः ॥

इति सप्तमे चतुर्थे द्वितीयोनुवाकः ॥