२० वनस्पतिहोममन्त्राः

विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

वन॒स्पति॑भ्य॒स्स्वाहा॒ मूले॑भ्य॒स्स्वाहा॒ तूले॑भ्य॒स्स्वाहा॒ स्कन्धो॑भ्य॒स्स्वाहा॒ शाखा॑भ्य॒स्स्वाहा॑ प॒र्णेभ्य॒स्स्वाहा॒ पुष्पे॑भ्य॒स्स्वाहा॒ फले॑भ्य॒स्स्वाहा॑ गृही॒तेभ्य॒स्स्वाहाऽगृ॑हीतेभ्य॒स्स्वाहाऽव॑पन्नेभ्य॒स्स्वाहा॒ शया॑नेभ्य॒स्स्वाहा॑ शि॒ष्टाय॒ स्वाहाति॑शिष्टाय॒ स्वाहा॒ परि॑शिष्टाय॒ स्वाहा॒ सँशि॑ष्टाय॒ स्वाहोच्छि॑ष्टाय॒ स्वाहा॑ रि॒क्ताय॒ स्वाहाऽरि॑क्ताय॒ स्वाहा॒ प्ररि॑क्ताय॒ स्वाहा॒ सँरि॑क्ताय॒ स्वाहोद्रि॑क्ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ [42]

विश्वास-प्रस्तुतिः

वन॒स्पति॑भ्य॒स् स्वाहा॑ । मूले॑भ्य॒स् स्वाहा॑ । तूले॑भ्य॒स् स्वाहा॑ ।
स्कन्धो॑भ्य॒स् स्वाहा॑ । शाखा॑भ्य॒स् स्वाहा॑ । प॒र्णेभ्य॒स् स्वाहा॑ ।
पुष्पे॑भ्य॒स् स्वाहा॑ । फले॑भ्य॒स् स्वाहा॑ । गृ॒ही॒तेभ्य॒स् स्वाहा॑ ।
अगृ॑हीतेभ्य॒स् स्वाहा॑ । अव॑पन्नेभ्य॒स् स्वाहा॑ । शया॑नेभ्य॒स् स्वाहा॑ ।
शि॒ष्टाय॒ स्वाहा॑ । अति॑शिष्टाय॒ स्वाहा॑ । परि॑शिष्टाय॒ स्वाहा॑ ।
सँशि॑ष्टाय॒ स्वाहा॑ । उच्छि॑ष्टाय॒ स्वाहा॑ ।
रि॒क्ताय॒ स्वाहा॑ । अरि॑क्ताय॒ स्वाहा॑ । प्ररि॑क्ताय॒ स्वाहा॑ ।
सँरि॑क्ताय॒ स्वाहा॑ । उद्रि॑क्ताय॒ स्वाहा॑ । सर्व॑स्मै॒ स्वाहा॑ ॥ [42]

मूलम्

भट्टभास्कर-टीका

1अथ वनस्पतिहोमाः - वनस्पतिभ्य इत्याद्याः ॥ वनस्पतयः फलिनः। उपलक्षणत्वात् सर्वेऽपि शाखिनो गृह्यन्ते, पारस्करादित्वात्सुट्, ‘उभे वनस्पत्यादिषु युगपत्’ इति पूर्वोत्तरयोर्युगपत्प्रकृतिस्वरत्वम्, । स्कन्धोभ्यः । वर्णव्यत्ययः, सकारन्त एव वा ।. गृहीतादीनि व्याख्यातानि । शिष्टाय क्रियासूपयुक्ताय । ‘अतिशिष्टाय उपयुज्य स्थापितैकदेशाय । ‘परिशिष्टाय उपयोगातिरिक्ताय । संशिष्टाय संपूर्णमुपयुज्य त्यक्ताय । रिक्ताय पुष्पफलैर्वर्जिताय । अतिरिक्ताय अन्यतर युक्ताय । प्ररिक्ताय पुष्पफलैः सर्वथा वर्जिताय । संरिक्ताय पर्णैश्च वर्जिताय । उद्रिक्ताय सर्वैस्समृद्धाय । अत्र प्रादिसमासे व्यत्ययेन अव्ययपूर्वपदप्रकृतिस्वरत्वम् । गतिसमासे ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् ॥

इति भट्टभास्करमिश्रविरचिते ज्ञानयज्ञाख्ये यजुर्वेदभाष्ये सप्तमे काण्डे तृतीयप्रश्ने विंशोनुवाकः ॥ समाप्तश्च प्रपाठकः ॥