१७ अश्वावयवरूपहोममन्त्राः

विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

अ॒ञ्ज्ये॒ताय॒ स्वाहा॑ञ्जिस॒क्थाय॒ स्वाहा॑ शिति॒पदे॒ स्वाहा॒ शिति॑ककुदे॒ स्वाहा॑ शिति॒रन्ध्रा॑य॒ स्वाहा॑ शितिपृ॒ष्ठाय॒ स्वाहा॑ शि॒त्यँसा॑य॒ स्वाहा॑ पुष्प॒कर्णा॑य॒ स्वाहा॑ शि॒त्योष्ठा॑य॒ स्वाहा॑ शिति॒भ्रवे॒ स्वाहा॒ शिति॑भसदे॒ स्वाहा॑ श्वे॒तानू॑काशाय॒ स्वाहा॒ञ्जये॒ स्वाहा॑ ल॒लामा॑य॒ स्वाहाऽसि॑तज्ञवे॒ स्वाहा॑ कृष्णै॒ताय॒ स्वाहा॑ रोहितै॒ताय॒ स्वाहा॑रुणै॒ताय॒ स्वाहे॒दृशा॑य॒ स्वाहा॑ की॒दृशा॑य॒ स्वाहा॑ ता॒दृशा॑य॒ स्वाहा॑ स॒दृशा॑य॒ स्वाहा॒ विस॑दृशाय॒ स्वाहा॒ सुस॑दृ॒शाय॒ स्वाहा॑ रू॒पाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ [39]

विश्वास-प्रस्तुतिः

अ॒ञ्ज्ये॒ताय॒ स्वाहा॑ । अ॒ञ्जि॒स॒क्थाय॒ स्वाहा॑ ।
शि॒ति॒पदे॒ स्वाहा॑ । शिति॑ककुदे॒ स्वाहा॑ ।
शि॒ति॒रन्ध्रा॑य॒ स्वाहा॑ । शि॒ति॒पृ॒ष्ठाय॒ स्वाहा॑ ।
शि॒त्य् - अँसा॑य॒ स्वाहा॑ । पु॒ष्प॒ - कर्णा॑य॒ स्वाहा॑ ।
शि॒त्य् - ओष्ठा॑य॒ स्वाहा॑ । शि॒ति॒भ्रवे॒ स्वाहा॑ ।
शिति॑भसदे॒ स्वाहा॑ । श्वे॒तानू॑काशाय॒ स्वाहा॑ ।
अ॒ञ्जये॒ स्वाहा॑ । ल॒लामा॑य॒ स्वाहा॑ ।
असि॑तज्ञवे॒ स्वाहा॑ । कृ॒ष्णै॒ताय॒ स्वाहा॑ ।
रो॒हि॒तै॒ताय॒ स्वाहा॑ । अ॒रु॒णै॒ताय॒ स्वाहा॑ ।
ई॒दृशा॑य॒ स्वाहा॑ । की॒दृशा॑य॒ स्वाहा॑ ।
ता॒दृशा॑य॒ स्वाहा॑ । स॒दृशा॑य॒ स्वाहा॑ ।
विस॑दृशाय॒ स्वाहा॑ । सुस॑दृ॒शाय॒ स्वाहा॑ ।
रू॒पाय॒ स्वाहा॑ । सर्व॑स्मै॒ स्वाहा॑ ॥ [39]

मूलम्

भट्टभास्कर-टीका

1अथाश्वरूपाणि जुहोति - अञ्ज्येतायेत्यादि ॥ अञ्ज्येताय केचिदाहुः - अञ्जिः शुक्लः एतः सन्ध्यावर्णं इति । अन्ये आहुः - अञ्जिः कृष्णः एतः शुक्लः इति । अञ्जिश्चासौ एतश्च अञ्ज्येतः । ‘वर्णो वर्णेन’ इति समासः, ‘वर्णो वर्णेषु’ इति पूर्वपदप्रकृतिस्वरत्वस्य ‘अनेतः’ इति पर्युदासात् । समासान्तोदात्तत्वमेव भवति । अञ्जिसक्थाय शुक्लसक्थाय । ऊरुमूलस्थानि अस्थीनि सक्थीनि । ‘बहुव्रीहौ सक्थ्यक्ष्णोः’ इति षच्, ‘सक्थं चाक्रान्तात्’ इत्युत्तरपदान्तोदात्तत्वम् । शितिपदे शुक्लपादाय ‘पादस्य लोपः’ इति लोपः समासान्त, ‘पादः पत्’ इति पद्भावः, ‘शितेर्नित्या बह्वच्’ इत्युतरपदप्रकृतिस्वरत्वम् । शितिककुदि शुक्लककुदाय । ककुदस्यावस्थायां लोपः । कदाचिच् बह्वच्त्वात् शितिस्वराभावात् । शितिरन्ध्रादिषु स एव च स्वरः प्रवर्तते । पुष्पकर्णाय पुष्पाकारलक्षणं कर्णयोर्यस्य । ‘कर्णो वर्णलक्षणात्’ इत्युत्तरपदाद्युदात्तत्वम् । शितिभसदे । भसत् अपानप्रदेशः, ‘अभसत्’ इति पर्युदासात् शितिस्वराभावः । श्वेतानूकाय श्वेताक्षायेति केचित् । श्वेतशरीरप्रकाशायेत्यन्ये । अञ्जये सर्वशुक्लाय । ललामाय ललामवते । असितज्ञवे, छान्दसो ज्ञुभावो जानुनः । कृष्णैताय कृष्णश्चासावेतश्च, स्वरसमासौ पूर्वावेव । एवमुत्तरयोरपि लोहितः शुक्लाधिको रक्तः । ईदृशाय इदमिव पश्यत्यात्मानमिति ‘त्यदादिषु दृशः’ इति कन्प्रत्ययः, ‘इदंकिमोरीश्की’ । एवं कीदृशाय । सदृशाय ‘समानान्ययोश्च’ इति कन् । योगविभागात् अन्यत्रापीष्यते इति समानस्य सभावः । रूपाय रूपमात्राय । सर्वस्मै अनुक्तायापि ॥

इति सप्तमे तृतीये सप्तदशोनुवाकः ॥