१६ (पशु)अश्वाङ्गहोममन्त्राः

विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

द॒द्भ्यस्स्वाहा॒ हनू॑भ्याँ॒ स्वाहोष्ठा॑भ्याँ॒ स्वाहा॒ मुखा॑य॒ स्वाहा॒ नासि॑काभ्याँ॒ स्वाहा॒ऽक्षीभ्याँ॒ स्वाहा॒ कर्णा॑भ्याँ॒ स्वाहा॑ पा॒र इ॒क्षवो॑ऽवा॒र्ये॑भ्य॒ᳶ पक्ष्म॑भ्य॒स्स्वाहा॑ऽवा॒र इ॒क्षवᳶ॑ पा॒र्ये॑भ्य॒ᳶ पक्ष्म॑भ्य॒स्स्वाहा॑ शी॒र्ष्णे स्वाहा॑ भ्रू॒भ्याँ स्वाहा॑ ल॒लाटा॑य॒ स्वाहा॑ मू॒र्ध्ने स्वाहा॑ म॒स्तिष्का॑य॒ स्वाहा॒ केशे॑भ्य॒स्स्वाहा॒ वहा॑य॒ स्वाहा॑ ग्री॒वाभ्य॒स्स्वाहा॑ स्क॒न्धेभ्य॒स्स्वाहा॒ कीक॑साभ्य॒स्स्वाहा॑ पृ॒ष्टीभ्य॒स्स्वाहा॑ पाज॒स्या॑य॒ स्वाहा॑ पा॒र्श्वाभ्याँ॒ स्वाहा॑ [37]
अँसा॑भ्याँ॒ स्वाहा॑ दो॒षभ्याँ॒ स्वाहा॑ बा॒हुभ्याँ॒ स्वाहा॒ जङ्घा॑भ्याँ॒ स्वाहा॒ श्रोणी॑भ्याँ॒ स्वाहो॒रुभ्याँ॒ स्वाहाऽ॑ष्ठी॒वद्भ्याँ॒ स्वाहा॒ जङ्घा॑भ्याँ॒ स्वाहा॑ भ॒सदे॒ स्वाहा॑ शिख॒ण्डेभ्य॒स्स्वाहा॑ वाल॒धाना॑य॒ स्वाहा॒ण्डाभ्याँ॒ स्वाहा॒ शेपा॑य॒ स्वाहा॒ रेत॑से॒ स्वाहा॑ प्र॒जाभ्य॒स्स्वाहा॑ प्र॒जन॑नाय॒ स्वाहा॑ प॒द्भ्यस्स्वाहा॑ श॒फेभ्य॒स्स्वाहा॒ लोम॑भ्य॒स्स्वाहा॑ त्व॒चे स्वाहा॒ लोहि॑ताय॒ स्वाहा॑ माँ॒साय॒ स्वाहा॒ स्नाव॑भ्य॒स्स्वाहा॒ऽस्थभ्य॒स्स्वाहा॑ म॒ज्जभ्य॒स्स्वाहाऽङ्गे॑भ्य॒स्स्वाहा॒त्मने॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ [38]

विश्वास-प्रस्तुतिः

द॒द्भ्यस् स्वाहा॑ । हनू॑भ्याँ॒ स्वाहा॑ ।
ओष्ठा॑भ्याँ॒ स्वाहा॑ । मुखा॑य॒ स्वाहा॑ ।
नासि॑काभ्याँ॒ स्वाहा॑ । अ॒क्षीभ्याँ॒ स्वाहा॑ ।
कर्णा॑भ्याँ॒ स्वाहा॑ ।
पा॒र इ॒क्षवो॑ ऽवा॒र्ये॑भ्य॒ᳶ पक्ष्म॑भ्य॒स् स्वाहा॑ ।
अ॒वा॒र इ॒क्षवᳶ॑ पा॒र्ये॑भ्य॒ᳶ पक्ष्म॑भ्य॒स्स्वाहा॑ ।
शी॒र्ष्णे स्वाहा॑ । भ्रू॒भ्याँ स्वाहा॑ । ल॒लाटा॑य॒ स्वाहा॑ ।
मू॒र्ध्ने स्वाहा॑ । म॒स्तिष्का॑य॒ स्वाहा॑ । केशे॑भ्य॒स् स्वाहा॑ । वहा॑य॒ स्वाहा॑ ।
ग्री॒वाभ्य॒स् स्वाहा॑ । स्क॒न्धेभ्य॒स्स्वाहा॑ । कीक॑साभ्य॒स्स्वाहा॑ । पृ॒ष्टीभ्य॒स् स्वाहा॑ ।
पा॒ज॒स्या॑य॒ स्वाहा॑ । पा॒र्श्वाभ्याँ॒ स्वाहा॑ ।[37]

अँसा॑भ्याँ॒ स्वाहा॑ । दो॒षभ्याँ॒ स्वाहा॑ । बा॒हुभ्याँ॒ स्वाहा॑ ।
जङ्घा॑भ्याँ॒ स्वाहा॑ । श्रोणी॑भ्याँ॒ स्वाहा॑ । ऊ॒रुभ्याँ॒ स्वाहा॑ ।
अ॒ष्ठी॒वद्भ्याँ॒ स्वाहा॑ । जङ्घा॑भ्याँ॒ स्वाहा॑ ।
भ॒सदे॒ स्वाहा॑ । शि॒ख॒ण्डेभ्य॒स्स्वाहा॑ ।
वा॒ल॒धाना॑य॒ स्वाहा॑ । आ॒ण्डाभ्याँ॒ स्वाहा॑ ।
शेपा॑य॒ स्वाहा॑ । रेत॑से॒ स्वाहा॑ ।
प्र॒जाभ्य॒स् स्वाहा॑ । प्र॒जन॑नाय॒ स्वाहा॑ ।
प॒द्भ्यस् स्वाहा॑ । श॒फेभ्य॒स् स्वाहा॑ ।
लोम॑भ्य॒स् स्वाहा॑ । त्व॒चे स्वाहा॑ । लोहि॑ताय॒ स्वाहा॑ ।
माँ॒साय॒ स्वाहा॑ । स्नाव॑भ्य॒स्स्वाहा॑ । अ॒स्थभ्य॒स्स्वाहा॑ ।
म॒ज्जभ्य॒स्स्वाहा॑ । अङ्गे॑भ्य॒स्स्वाहा॑। आ॒त्मने॒ स्वाहा॑ । सर्व॑स्मै॒ स्वाहा॑ ॥ [38]

मूलम्

भट्टभास्कर-टीका

1अथाश्वस्याङ्गानि जुहोति - दद्भ्यः स्वाहेत्यादि ॥ ‘पद्दन्’ इत्यादिना दद्भावः, ‘ऊडिदम्’ इत्यादिना विभक्तेरुदात्तत्वम् । हनूभ्यां, स्वाङ्गदीर्घत्वम् । अक्षीभ्याम् । ‘ईध द्विवचने’ इतीकारः स चोदात्तः । पार इक्षव इत्यादि । इक्षवः अक्षिरोमाणि पारे अक्ष्युपरिपुटे ये इक्षवः ते अवार्येऽभ्यः अधराक्षिपुटस्थेभ्यः पक्ष्मरोमभ्यः प्रवर्तन्ते तदर्थं तानि वा अपेक्ष्येत्यर्थ्यः । तेभ्यः स्वाहेति । एवं अधरे अधरपुटे ये इक्षवः ते पार्येभ्यः उत्तराक्षिपुटस्थेभ्यः पक्ष्मरोमभ्यः प्रवर्तन्ते तदर्थं तानि वा अपेक्ष्य तेभ्यः स्वाहेति । एवं परस्परोपकारित्वमुभयेषां पक्ष्मणामुक्तम्, पक्ष्मनिमित्तत्वादक्ष्णोरीक्षणसामर्थ्यस्य । उभयत्रापि दिगादित्वाद्यत् । द्वितीये व्यत्ययेन ‘यतोऽनावः’ इत्याद्युदात्तत्वाभावः । शीर्ष्णे उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । भ्रूभ्याम् । उक्तं विभक्त्युदात्तत्वं ‘सावेकाचः’ इति । मूर्ध्ने । पूर्ववदुदात्तनिवृत्तिस्वरत्वम् । मस्तिष्काय शिरोमांसाय । वहाय वहनदेशाय । ग्रीवाभ्यः धमनीभ्यः । कीकसाभ्यः ग्रीवाया आरम्य पृष्ठवंशास्थिगुळिकाभ्यः । पृष्टीभ्यः हस्तयोरुपरि पृष्ठवंशस्योभयतः स्थितानि अस्थीनि पृष्टयः । सांहितिकं दीर्घत्वं छान्दसम् । पाजस्याय पाजो बलं तत्र भवाय हृदयाय । दोषाभ्याम् । ‘पद्दन्’ इत्यादिना दोषन्भावः । जङ्घाभ्यां श्रोणीभ्यां छान्दसं संहितायां दीर्घत्वम् । जङ्घाभ्यामपराभ्याम् । भसदे अपानप्रदेशाय । शिखण्डेम्यः चूडेभ्यः । वालधानाय पुच्छाय । अण्डाभ्याम् । प्रजननाय शफस्यैवैकदेशाय । पद्भ्यः पूर्ववत् पद्भावस्स्वरश्च ॥

इति सप्तमे तृतीये षोडशोनुवाकः ॥