विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
स्वाहा॒धिमाधी॑ताय॒ स्वाहा॒ स्वाहाधी॑त॒म्मन॑से॒ स्वाहा॒ स्वाहा॒ मनᳶ॑ प्र॒जाप॑तये॒ स्वाहा॒ काय॒ स्वाहा॒ कस्मै॒ स्वाहा॑ कत॒मस्मै॒ स्वाहाऽदि॑त्यै॒ स्वाहाऽदि॑त्यै म॒ह्यै॑ स्वाहाऽदि॑त्यै सुमृडी॒कायै॒ स्वाहा॒ सर॑स्वत्यै॒ स्वाहा॒ सर॑स्वत्यै बृह॒त्यै॑ स्वाहा॒ सर॑स्वत्यै पाव॒कायै॒ स्वाहा॑ पू॒ष्णे स्वाहा॑ पू॒ष्णे प्र॑प॒थ्या॑य॒ स्वाहा॑ पू॒ष्णे न॒रन्धि॑षाय॒ स्वाहा॒ त्वष्ट्रे॒ स्वाहा॒ त्वष्ट्रे॑ तु॒रीपा॑य॒ स्वाहा॒ त्वष्ट्रे॑ पुरु॒रूपा॑य॒ स्वाहा॒ विष्ण॑वे॒ स्वाहा॒ विष्ण॑वे निखुर्य॒पाय॒ स्वाहा॒ विष्ण॑वे निभूय॒पाय॒ स्वाहा॒ सर्वस्मै॒ स्वाहा॑ ॥ [36]
विश्वास-प्रस्तुतिः
स्वाहा॒धिम् । आधी॑ताय॒ स्वाहा॑ । स्वाहाधी॑त॒म् ।
मन॑से॒ स्वाहा॑ । स्वाहा॒ मनः॑ । प्र॒जाप॑तये॒ स्वाहा॑ ।
काय॒ स्वाहा॑ । कस्मै॒ स्वाहा॑ । क॒त॒मस्मै॒ स्वाहा॑ ।
अदि॑त्यै॒ स्वाहा॑ । अदि॑त्यै म॒ह्यै॑ स्वाहा॑ । अदि॑त्यै सुमृडी॒कायै॒ स्वाहा॑ ।
सर॑स्वत्यै॒ स्वाहा॑ । सर॑स्वत्यै बृह॒त्यै॑ स्वाहा॑ । सर॑स्वत्यै पाव॒कायै॒ स्वाहा॑ ।
पू॒ष्णे स्वाहा॑ । पू॒ष्णे प्र॑प॒थ्या॑य॒ स्वाहा॑ । पू॒ष्णे न॒रन्धि॑षाय॒ स्वाहा॑ ।
त्वष्ट्रे॒ स्वाहा॑ । त्वष्ट्रे॑ तु॒रीपा॑य॒ स्वाहा॑ । त्वष्ट्रे॑ पुरु॒रूपा॑य॒ स्वाहा॑ ।
विष्ण॑वे॒ स्वाहा॑ । विष्ण॑वे निखुर्य॒पाय॒ स्वाहा॑ । विष्ण॑वे निभूय॒पाय॒ स्वाहा॑ । सर्वस्मै॒ स्वाहा॑ ॥ [36]
मूलम्

भट्टभास्कर-टीका
1अथ वैश्वदेवानि जुहोति - स्वाहाधिमित्यादि ॥ अत्र त्रीणि पूर्वाणि दीक्षायां समस्तानि रात्रिहोमेषु । आधीयतेऽनेनेत्याधिः । बुद्धिः । ‘उपसर्गे घोः किः’ व्यत्ययेन द्वितीया । आधीताय आध्यानाय पर्याप्तो भवतु । ध्यायतेः छान्दसं संप्रसारणम् । किमर्थं अस्थाने इदं स्वाहाकारं करोति! उभयतस्स्वाहाकारा मन्त्राः । यद्वा - प्रथमे स्वाहाकारे जुहोतिः आदानार्थे वर्तते सुष्ठु आददे इति । तेन कर्मण्येव द्वितीया । अयमर्थः - आधिं स्वाहा जुहोमि आधीतार्थं आधीतस्य सिद्धये । जुहोतेः शपो लुक्, मिपो ढादेशः, ‘गतिर्गतौ’ इति निघातः, गतिना च समासः । व्युत्पत्त्यनवधारणादनवग्रहः । द्वितीयस्वाहाकारः प्रदानार्थः । एवं सर्वत्र । आधीतं आध्यातं मनसे पर्याप्तं भवतु । मनश्च प्रजापतये यजमानाय वा पर्याप्तं भवतु । काय प्रजापतये । संज्ञात्वात्सर्वनामत्वाभावः । कस्मै अज्ञातस्वरूपाय । सार्वात्म्यात् सर्वनामत्वम् । कतमस्मै अनिर्धारितविशेषात्मने । अदित्यै पृथिव्यै देवमात्रे वा । मह्यै महत्यै सुमृडीकायै सुसुखायै सुष्ठु वा सुखयित्र्यै । पावकायै शोधयित्र्यै ‘पावकादीनां छन्दसि’ इतीत्वाभावः । पूष्णे । उदात्तनिवृत्तिस्वरेण विभक्तिरुदात्ता । प्रपथ्याय प्रकृष्टः पन्थाः प्रपथः तस्मै हिताय । तत्र भवाय वा । नरन्धिषाय नराणां धारयित्रे । दधातेः छान्दसः खच्, भष्भावश्च । पूर्वपदान्तोदात्तत्वं च । तुरीपाय तूर्णमाप्नुवते । पृषोदरादिः । पुरुरूपाय । ‘परादिश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । निखुर्यपाय खुरच्छेदने नियमेन पापरोगादिभिः बाध्यमानानां जनानां पात्रे । छान्दसः क्यप् । निभूयपाय न्यग्भवनीयाः कर्मभिः निभूयाः तेषां पात्रे । पूर्ववत्क्यप् । गतमन्यत् ॥
इति सप्तमे तृतीये पञ्चदशोनुवाकः ॥