विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
अ॒ग्निना॒ तपोऽन्व॑भवद्वा॒चा ब्रह्म॑ म॒णिना॑ रू॒पाणीन्द्रे॑ण दे॒वान्वाते॑न प्रा॒णान्त्सूर्ये॑ण॒ द्याञ्च॒न्द्रम॑सा॒ नक्ष॑त्राणि य॒मेन॑ पितॄन्राज्ञा॑ मनु॒ष्या॑न्फ॒लेन॑ नादे॒यान॑जग॒रेण॑ स॒र्पान्व्या॒घ्रेणा॑र॒ण्यान्प॒शूञ्छ्ये॒नेन॑ पत॒त्रिणो॒ वृष्णाश्वा॑नृष॒भेण॒ गा ब॒स्तेना॒जा वृ॒ष्णिनावी॑र्व्री॒हिणान्ना॑नि॒ यवे॒नौष॑धीर्न्य॒ग्रोधे॑न॒ वन॒स्पती॑नुदु॒म्बरे॒णोर्ज॑ङ्गायत्रि॒या छन्दाँ॑सि त्रि॒वृता॒ स्तोमा॑न्ब्राह्म॒णेन॒ वाच॑म् ॥ [35]
विश्वास-प्रस्तुतिः
अ॒ग्निना॒ तपोऽन्व॑भवद् ।
वा॒चा ब्रह्म॑ । म॒णिना॑ रू॒पाणि॑ । इन्द्रे॑ण दे॒वान् ।
वाते॑न प्रा॒णान् । सूर्ये॑ण॒ द्याम् । च॒न्द्रम॑सा॒ नक्ष॑त्राणि ।
य॒मेन॑ पि॒तॄन् । राज्ञा॑ मनु॒ष्या॑न् । फ॒लेन॑ नादे॒यान् ।
अ॒ज॒ग॒रेण॑ स॒र्पान् । व्या॒घ्रेणा॑र॒ण्यान् प॒शून् ।
श्ये॒नेन॑ पत॒त्रिणः॑ । वृष्णाश्वा॑न् । ऋ॒ष॒भेण॒ गाः ।
ब॒स्तेन + अ॒जाः । वृ॒ष्णिनाऽवीः॑ ।
व्री॒हिणा ऽन्ना॑नि॒ ।
यवे॒नौष॑धीः । न्य॒ग्रोधे॑न॒ वन॒स्पती॑न् । उ॒दु॒म्बरे॒णोर्ज॑म् ।
गा॒य॒त्रि॒या छन्दाँ॑सि । त्रि॒वृता॒ स्तोमा॑न् । ब्रा॒ह्म॒णेन॒ वाच॑म् ॥ +++(अन्वभवत्)+++ [35]
मूलम्

भट्टभास्कर-टीका
1अथानुभूतीर्जुहोति - अग्निनेत्यादि ॥ अग्निना तपः ऊष्म अन्वभवत् अनुभवतु स्वीकरोतु यजमानः अग्न्यात्मा भूत्वा स्वसामर्थ्येन सर्वं तपो व्याप्नोतु । वाग्रूपो भूत्वा सर्वं ब्रह्म मन्त्रजातं अन्वभवदित्येव । एवं सर्वत्र । छान्दसो लङ् । मणिना रूपाणि रूपवन्ति । फलेन नादेयान् रसवतोऽर्थान् । नद्यादिभ्यो ढक् । उदुम्बवरेण ऊर्जं क्षीरवन्ति वस्तूति । ब्राह्मणेन वाचं वेदात्मिकाम् ॥
इति सप्तमे तृतीये चतुर्दशोनुवाकः ॥